मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 91–100
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 91–100
पृष्ठ 91
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता
आद्याद्यस्य गुणं त्वेषामवाप्नोति परः परः ।
यो यो यावतिथश्चैषां स स तावद्गुणः स्मृतः ॥ २० ॥
२१ भाष्य - पूर्वश्लोके केचिदन्यथा सप्तसंख्यां परिकल्पयन्ति । पञ्चेन्द्रियाणि चक्षु-रादीनि वर्गीकृतान्येकीभवन्ति बोधहेतुतयैकेन धर्मेण योगादेकत्वेन निर्दिश्यन्ते । एवं कर्मेन्द्रियाणि । तौ च वर्गद्वित्वाद्वौ पुरुषौ भवतः । पञ्चभूतानि भेदेनैव निर्दिष्टानि कार्यवैलक्षण्यात् । तदेवं सप्तपुरुषास्तेषां या मूर्त्यर्थाः सूक्ष्मा मात्राः निर्माणकार्याणि तन्मात्राण्यहङ्कारश्च । अन्यत्समानम् । अतश्च भूतानां पूर्वश्लोके सन्निधानादेषामिति तेषां प्रतिनिर्देशः । यद्यपि च व्यवहिते बहूनि वचनानि सन्निहितानि तथापि य इहार्थः प्रतिपाद्यते विशिष्टसंख्या-कर्तृगुणवत्त्वं तद्भूतानामेव सम्भवति नान्येषां, प्रकृतत्वे सत्यपि । अतोऽयं श्लोकार्थः । एषां भूतानां यद्यत आद्यं तस्य यद्रूपं ततोऽनन्तरं पठितं तत्तत्पूर्वस्य सम्बन्धेन गुणं गृह्णाति । गुणशब्देन शब्दादयः पञ्चोच्यन्ते । आद्यत्वं चात्र वक्ष्यमाणया व्यवस्थयाऽऽकाशं जायत इति । गुणत्वं च शब्दादीनां तत्रैव वक्ष्यति । यो य आकाशादिलक्षणोऽर्थो यावतिथः यावतां पूरण: । ' वतोरिथुक् ' । द्वितीये तृतीयेऽवस्थाने स्थितः स तावद्गुणः । तावन्तो गुणास्तस्य भवन्ति । द्वितीयस्थाने स्थितो द्विगुण इत्यादि । परस्पराद्याद्यगुणसम्बन्धित्वं प्रथमोऽर्धश्लोक उक्तम् । तत्र यः स्वशब्देन यस्यैव यो गुणोऽभिहित: ' तस्य शब्दगुणं विदुः ’ ( श्लो ० १।७५ ) ‘ तद्रूपगुणमुच्यते ' ( श्लो ० १।७७ ) इत्यादि, ततश्च पूर्वगुणावाप्तौ द्वैगुण्यम् आकाशं वर्जयित्वा भूतानां प्राप्तम् । अत उक्तं यो यो यावतिथ इति । तेन द्विगुणो वायुस्त्रिगुणं तेजश्चतुर्गुणा आपः पञ्चगुणा भूमिरिति । आद्याद्यस्येति कथम्? आद्यस्याद्यस्येह भवितव्यम् नित्यवीप्सयोरिति द्विर्वचनेन ।
यथा परः पर इति ।
छन्दोभिरविशेषात् स्मृतीनां लुग्वृत्तानुरोधाच्चैवं पठितम् ॥२० ॥
-हिन्दी – उन पञ्चमहाभूतों के गुणों को आगे - आगेवाले तत्त्व प्राप्त करते हैं, जो तत्त्व जितनी संख्या का पूरक है, उसके उतने गुण होते हैं ॥ २० ॥
प्रत्येक जाति के नाम - कर्म की पृथक् पृथक् सृष्टि-सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् । वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे ॥ २१ ॥
भाष्य — स प्रजापतिः सर्वेषामर्थानां नामानि चक्रे । यथा कश्चित् पुत्राणां जाता-नामन्येषां वा सम्व्यवहारार्थं करोति, ' वृद्धिरादैच् ' ' धीश्रीस्त्री'मिति । शब्दार्थसम्बन्धं मनु I- 6
पृष्ठ 92
पाठ पढ़ें पाठ छिपाएँ
२२ मनुस्मृति: [ प्रथम: कृतवान्, ‘ गौरश्व: पुरुष: ' इति । कर्माणि च निर्ममे, धर्माधर्माख्यान्यदृष्टार्थान्यग्निहोत्रादीनि च । सृष्ट्वा च कर्माणि तत्र संस्था व्यवस्थाश्चकार, ' इदं कर्म ब्राह्मणेनैव कर्तव्यं, कालेऽमुष्मै च फलाय ' । अथवा दृष्टार्था मर्यादा संस्था । ' गोप्रचार इह च प्रदेशे न कर्तव्य: ’, ‘ इदं उदकं सस्यसेकार्थममुष्मिन् ग्रामे न देयं यावत्तस्माद्ग्रामादस्माभिरयमुपकारो न लब्ध: ' । दृष्टार्थानि च कर्माणि निर्ममे । तत्र यान्यदृष्टार्थानि तानि वेदशब्देभ्यो वैदिकेभ्यो वाक्येभ्यः । ननु सर्वस्य तेनैव सृष्टत्वात्तस्यैव स्वातन्त्र्याद्वेदं ससर्ज कर्मानुष्ठानपरिपालनार्थ-मित्येवं वक्तव्यम् । वेदसृष्टिश्च वक्ष्यते ' अग्निवायुरविभ्यश्चे’त्यत्रान्तरे ( श्लो ० १।२३ ) उच्यते । भिन्नमत्र दर्शनम् । केचिदाहुरन्यस्मिन्कल्पे वेदास्तेनाधीतास्ते च महा-प्रलयेन प्रलीनाः पुनरन्यस्मिन् कल्पे सुप्तप्रतिबुद्धवत्सर्वं प्रथमं प्रतिभाति, स्वप्नपठितो यथा कस्यचिच्छ्लोकः प्रतिभाति । भाति च वेदे ' गौरनुबन्ध्यो'ऽ'श्वस्तूपरोगोमृग ’ ( यजुर्वेद २४।१ ) इत्यादिवाक्येभ्यः शब्दानुस्मृतिपूर्वकं झटिति तानर्थान् स्मृत्वोत्पद्य-मानांश्च पदार्थान् दृष्ट्वा तस्यार्थस्यायं शब्दः कल्पान्तरे नामासीत्सम्प्रत्यस्यैव क्रियता-मित्युभयं वेदशब्देभ्य एव नामानि कर्माणि च सृष्टवान् । अथवा नैव वेदाः प्रलीयन्ते महाप्रलयेऽपि । योऽसौ पुरुषः केषाञ्चिदिष्टस्तथा वेदा आसते । स एवान्तरण्डं ब्रह्माख्यं पुरुषं निर्माय वेदानध्यापयामास । एवं स ब्रह्मा वेदशब्देभ्यः सर्वं निर्मितवान् । यदत्र तत्त्वं तदस्माभिरुक्तमेव । अथ पौराणिकी प्रक्रिया प्रयुज्यते साऽस्माभिः प्रदर्श्यत एव । आदौ जगत्सर्गे इत्यर्थः । अथवाऽऽदौ यानि नामान्यनपभ्रष्टानि न पुनरिदानीन्त-नान्यशक्तिजानि गाव्यादीनि । पृथक् । न यथाशरीरं तत्त्वसमुदायरूपमेवं निर्ममे-किं तर्हि – पृथक् ॥२१ ॥
हिन्दी — हिरण्यगर्भ उसी ब्रह्मा ने सबों के नाम ( यथा- ' गो ' जाति का ' गौ ' और ' अश्व ' जाति का ' अश्व,..... ) और कर्म ( यथा- ' ब्राह्मण ' का वेदाध्ययनादि, क्षत्रियों का वेदाध्ययन तथा रक्षणादि, देखें श्लो ० ८८-८९ ) तथा लौकिक व्यवस्था ( यथा - कुम्हार का घटादि बनाना, बुनकर का कपड़ा बुनना, नापित का क्षौर करना आदि ) को पहले वेद - शब्दों से ही जानकर पृथक् - पृथक् बनाये ॥२१ ॥
देवगणादि की सृष्टि-कर्मात्मनां च देवानां सोऽसृजत्प्राणिनां प्रभुः ।
साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम् ॥ २२ ॥
भाष्य - कर्मात्मनः शरीरिणः प्राणिनः कर्मसु तत्परा मनुष्या उच्यन्ते । तेषा-मर्थसिद्धये यज्ञमसृजत् । ये ब्रह्मोपासनास्वनभिरताः पुत्रपश्वादिफलार्थिनो द्वैतपक्षाश्रि-
पृष्ठ 93
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २३ तास्ते कर्मानुष्ठानपरत्वात्कर्मात्मान उच्यन्ते । षष्ठ्यपि तादर्थ्यं ब्रूत इति तदर्थं यज्ञ-मसृजदिति गम्यते । देवानां च गणं तदर्थमेवासृजत् । कर्मात्मनां च इत्ययमदेशे चः पठितः । तस्य देशो देवानामित्यतोऽनन्तरम् । यज्ञं ससर्ज । अग्निरग्नीषोभाविन्द्राग्नी इत्यादि यज्ञसिद्ध्यर्थं देवानां गणमसृजत् । तथा साध्यानां देवानां गणमित्यनुषज्यते । भेदेनोपादानमहविर्भाक्त्वात्तेषाम्, स्तुति-भाज एव ते केवलम् । ‘ यत्र पूर्वे साध्याः सन्ति देवाः ' इति - ' साध्या वै नाम देवा ' इति- ' साध्या वै नाम देवा आसन् ' इति । अथवा ब्राह्मणपरिव्राजकवत् । सूक्ष्मम् मरुतो रुद्राङ्गिरस इत्येतदपेक्षया साध्यगणः सूक्ष्मः । साध्यग्रहणं चान्यासामप्यहविः सम्बन्धिनीनां देवतानां वेनोस्तुनीतिरित्यादीनां प्रदर्शनार्थम् । अन्ये तु कर्मात्मनां देवानां प्राणिनामिति समानाधिकरणानि मन्यन्ते । कर्माणि आत्मा स्वभावप्रतिमो येषां ते कर्मात्मानः । यागादिकर्मनिर्वर्तनपरत्वात् प्रधानतया वा कर्मात्मानः । काश्चिद्देवता यागादिकर्मण्येव स्वरूपत इतिहासे श्रूयन्ते । यथेन्द्रो रुद्रो विष्णुरिति । अन्यासां तु याग एव देवतात्वं न स्वरूपतः । अक्षा ग्रावाणो रथाङ्गानि । न हि यथा भारते इन्द्रादीनां वृत्रादिभिरसुरैर्युद्धादि कर्म श्रूयते तथाऽऽक्षादीनां वर्ण्यते । अस्ति च सूक्ते हविःसम्बन्धे तेषामपि देवतात्वम् । अक्षाणाम्- ' प्रावेपामा ' इति ( ऋग्वेद १०।३४।१ ) । ग्राव्णाम् —– ' प्रेते वदन्त्विति ' ( ऋग्वेद १०।९ ४।१ ) । ' वनस्पते वीड्वङ्ग ' इति ( ऋग्वेद ६।४७।२६ ) रथाङ्गानाम् । अत एव प्राणिनामिति । द्विविधा हि देवता: -प्राणवत्यस्तद्रहिताश्च । यथेन्द्रादयः पुरुषविग्रहाः प्राणवन्तः पुराणे वर्ण्यन्ते नाक्षादयः । इतिहासदर्शनाश्रयश्चायं सर्वः सर्गादिप्रपञ्चः । चशब्दश्चात्र द्रष्टव्यः, प्राणिनामप्राणिनामपि । निरुक्तदर्शनेऽपि द्विविधा देवता । अश्वाः - ‘ मानोमित्र ’ इति ( ऋग्वेद १।१६२।१ ), शकुनि: - ' कनिक्रदरिति ' ( ऋग्वेद ५।८३।१ ), गावः-‘ आगावो अग्मन्निति ' ( ऋग्वेद ६।२८।१ ) । एताः प्राणवत्यः । अप्राणा उक्ताः । सनातनग्रहणं यज्ञविशेषणम् । पूर्वकल्पेऽपि यज्ञस्य भावात्प्रवाहनित्यतया नित्य-त्वम् ॥२२ ॥
हिन्दी- -उस ब्रह्मा ने देव ( इन्द्रादि ), कर्मस्वभाव, प्राणी, अप्राणी ( पत्थर आदि ), साध्यगण और सनातन यज्ञ ( अग्निष्टोमादि ) की सृष्टि की ॥। २२ ॥
वेदत्रय की सृष्टि-अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् ।
दुदोह यज्ञसिद्ध्यर्थमृग्यजुःसामलक्षणम् ॥ २३ ॥
पृष्ठ 94
पाठ पढ़ें पाठ छिपाएँ
२४ मनुस्मृतिः [ प्रथम: भाष्य — तिस्र एव देवता अग्निप्रभृतय इति नैरुक्ताः; सम्यप्यभिधाननानात्वे । अतस्तेन दर्शनेनोच्यते । एताभ्यस्तिसृभ्यो यज्ञसिद्ध्यर्थम् यागसम्प्रदानत्वात्तासां चतुर्थी । त्रयमृग्यजुः सामलक्षणं ब्रह्म वेदाख्यं दुदोह । द्विकर्मकोऽयं धातुः । प्रधानं कर्म त्रयम् ' । अप्रधानेन द्वितीयेन कर्मणा भवितव्यम् । न च तदस्ति । अतः पञ्चम्येवेयमिति मन्यामहे । अग्न्यादिभ्यो दुदोहाक्षारयदभावयत् । “ कथं पुनरगन्यादिभ्यो वर्णात्मा शब्दो मन्त्रवाक्यानि ब्राह्मणवाक्यानि च भवेयुः ” । किं नोपपद्यते? किं शक्तीरदृष्टा असतीर्वक्तुमर्हति । “ नाख्यातार्थो विकल्पयितुं युक्तः । पञ्चमी तर्हि किमर्थं? ‘ दुहि याचीति ’ द्वितीया भवितव्यम् । किञ्च दृष्टप्रमाणविरोधी प्राग्वृत्तोऽर्थ उच्यमानो न मनः परितोषमाधते प्रामाणिकानाम् । ’ परिहृतो विरोधः स्वरूपपरत्वाश्रयणेनैषामागमानाम् ऋग्वेद एवाग्नेरजायत, यजुर्वेदो वायो:, सामवेद आदित्यादिति । अग्न्यादयोऽपि देवता ऐश्वर्यभाजो निरति-शयशक्तिश्च प्रजापतिस्तत्र का नामानुपपत्तिः? अस्मिन् दर्शने पञ्चम्यपि विवक्ष्या । अतः कारकाणि कथितान्यत्रापादानसंज्ञेत्यपादानविवक्षायां भाष्ये समर्थितानि । “ अन्यदर्शने कथम् । ” चतुर्थी तावद्युक्तैव । अर्थवादाश्चैते । तत्र द्वितीयं कर्मात्मैव - प्रजापतिरात्मानं दुदोह । दोहनं चाध्यापनं परसङ्क्रान्तिसामान्येन । अथापि पञ्चमी, तत्राप्याग्नेया मन्त्रा आदावृग्वेदे –'अतोऽग्नेरजायते’त्युच्यते । यजुर्वेदेऽपि ‘ “ इषेत्वोर्जेत्वेति ’ ” – ‘ ' इट् ’ अन्नं तत् म व्यस्थानत्वाद्वायुना वर्षदानेन क्रियते । ‘ उर्क् ’ प्राणः, स वायुरेव । अत आदितो वायुकार्यसम्बन्धाद्वायोरित्युपमा । अथवाऽऽ-ध्वर्यवमार्त्विज्यं बहुप्रकाराश्चेष्टाश्च सर्वा वायोरित्यनेन सामान्येन वायोर्जन्म यजुर्वेदस्य । अनधिकारस्य सामगीत्ययोग्यत्वादुत्तमाध्ययनानि समान्युत्तमस्थानश्चादित्य इति ॥२३ ॥
हिन्दी — उस ब्रह्मा ने यज्ञों की सिद्धि के लिए अग्नि, वायु और सूर्य से नित्य ऋग्वेद, यजुर्वेद और सामवेद को क्रमशः प्रकट किया ' ॥२३ ॥
समयादि की सृष्टि -कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा ।
सरितः सागराञ्छैलान् समानि विषमाणि च ॥ २४ ॥
१. तथा च श्रुतिः– “ अग्नेर्ऋग्वेदो वायोर्यजुर्वेद आदित्यात्सामवेद ” इति ।
पृष्ठ 95
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २५ भाष्य — धर्मसामान्यादाह । द्रव्यात्मा कालो वैशेषिककाणां, क्रियारूपोऽन्येषाम् । आदित्यादिगतिप्रतान आवृत्तिमान् । कालविभक्तयो विभागा मासर्त्वयनसम्वत्सराद्याः । नक्षत्राणि कृत्तिकारोहिण्यादीनि । ग्रहा आदित्यादयः । सरितो नद्यः । सागराः समुद्राः । शैलाः पर्वताः । समानि स्थलान्येकरूपा भूभागाः खातप्रदरवर्जिताः विषमाणि आरोहावरोहवन्ति ॥ २४ ॥
हिन्दी —– फिर उस ब्रह्मा ने समय ( निमेष, काष्ठ, दिन, रात, पक्ष, मास, वर्ष आदि ), उनके विभाग, नक्षत्र ( अश्विनी, भरणी २७ या २८ ) ग्रह ( सूर्य - चन्द्रादि नव ), नदी ( यमुना, गङ्गा, गोदावरी आदि ), समुद्र ( क्षीरसमुद्र, दधिसमुद्र आदि सात ), पर्वत, सम ( समतल = बराबर ), विषय ( ऊँचा - नीचा ) ॥२४ ॥
तपो वाचं रतिं चैव कामं च क्रोधमेव च ।
सृष्टिं ससर्ज चैवेमां स्रष्टुमिच्छन्निमाः प्रजाः ॥ २५ ॥
भाष्य – रतिर्मनसः परितोषः । कामोऽभिलाषो मन्मथो वा । अन्यत्प्रसिद्धम् । एवमादिकां सृष्टिं ससर्ज इमाम् । अत्रश्लोके पूर्वा च या सृष्टिरुक्ता । इमाः प्रजाः स्त्रष्टुमिच्छन् । देवासुरा यक्षराक्षसगन्धर्वाद्यास्तदुपकरणं तदात्मधर्मवच्छरीरं धर्मं चादावसृजदित्यर्थः । “ अथ केयं वाचोयुक्तिः सृष्टिं ससर्जेति ” । य एवार्थः सृष्टिं कृतवानिति । सर्वे धातवः करोत्यर्थस्य विशेषावच्छिन्ने वर्तन्ते । पचति – पाकं करोति, यजति - यागं करोति । तत्र कृदन्ताद्विशेषेऽवगत आख्यातगतो धातु करोत्यर्थमात्रप्रतिपादनपरो भजति । तस्मिन्नपि कुतश्चित्प्रतिपन्ने पुनः प्रतिपादनेऽनुवा-ददोषो मा भूदिति कालकारकादिषु तात्पर्यम् । अथवा सृज्यमानविशेषा प्रमाणावच्छिन्ना ‘ सृष्टि: ’ सामान्यसृष्टेः कर्म:; यथा स्वपोषं पुष्ट इति ॥२५ ॥
= हिन्दी – तप ( प्राजापत्य आदि ), वाणी, रति, इच्छा और क्रोध की सृष्टि की तथा इन प्रजाओं की सृष्टि करने की इच्छा करते हुए ब्रह्मा ने - ॥ २५ ॥
कर्मणां च विवेकाय धर्माधर्मौ व्यवेचयत् ।
द्वन्द्वैरयोजयच्चेमाः सुखदुःखादिभिः प्रज्ञाः ॥ २६ ॥
भाष्य - धर्माधर्मौ व्यवेचयद् विवेकेन पृथग्भावेन व्यवस्थापितवान् । अयं धर्म एवायमधर्म एव । “ ननु च नैवायं विवेकोऽस्ति । सन्ति हि कर्माण्युभयरूपाणि धर्माधर्मात्मकानि । यथाहुः– शबलानि वैदिकानि कर्माणि हिंसासाधनकत्वात् । यथा ज्योतिष्टोमः स्वरूपेण धर्मो हिंसाङ्गत्वात्त्वधर्म ” इति अत आह— कर्मणां तु विवेकाय । कर्मशब्देनात्र
पृष्ठ 96
पाठ पढ़ें पाठ छिपाएँ
२४ मनुस्मृतिः [ प्रथम: भाष्य - तिस्र एव देवता अग्निप्रभृतय इति नैरुक्ताः; सम्यप्यभिधाननानात्वे । अतस्तेन दर्शनेनोच्यते । एताभ्यस्तिसृभ्यो यज्ञसिद्ध्यर्थम् यागसम्प्रदानत्वात्तासां चतुर्थी । त्रयमृग्यजुः सामलक्षणं ब्रह्म वेदाख्यं दुदोह । द्विकर्मकोऽयं धातुः । प्रधानं कर्म ' त्रयम् ' । अप्रधानेन द्वितीयेन कर्मणा भवितव्यम् । न च तदस्ति । अतः पञ्चम्येवेयमिति मन्यामहे । अग्न्यादिभ्यो दुदोहाक्षारयदभावयत् । “ कथं पुनरगन्यादिभ्यो वर्णात्मा शब्दो मन्त्रवाक्यानि ब्राह्मणवाक्यानि च भवेयुः ” । किं नोपपद्यते? किं शक्तीरदृष्टा असतीर्वक्तुमर्हति । “ नाख्यातार्थो विकल्पयितुं युक्तः । पञ्चमी तर्हि किमर्थं? ' दुहि याचीति ' द्वितीया भवितव्यम् । किञ्च दृष्टप्रमाणविरोधी प्राग्वृत्तोऽर्थ उच्यमानो न मनः परितोषमाधते प्रामाणिकानाम् । ” परिहृतो विरोधः स्वरूपपरत्वाश्रयणेनैषामागमानाम् ऋग्वेद एवाग्नेरजायत, यजुर्वेदो वायो:, सामवेद आदित्यादिति । अग्न्यादयोऽपि देवता ऐश्वर्यभाजो निरति-शयशक्तिश्च प्रजापतिस्तत्र का नामानुपपत्तिः? अस्मिन् दर्शने पञ्चम्यपि विवक्ष्या । अतः कारकाणि कथितान्यत्रापादानसंज्ञेत्यपादानविवक्षायां भाष्ये समर्थितानि । “ अन्यदर्शने कथम् । ” चतुर्थी तावद्युक्तैव । अर्थवादाश्चैते । तत्र द्वितीयं कर्मात्मैव - प्रजापतिरात्मानं दुदोह । दोहनं चाध्यापनं परसङ्क्रान्तिसामान्येन । अथापि पञ्चमी, तत्राप्याग्नेया मन्त्रा आदावृग्वेदे – ' अतोऽग्नेरजायते’त्युच्यते । यजुर्वेदेऽपि ‘ “ इषेत्वोर्जेत्वेति ’ ’ – ‘ इट् ’ अन्नं तत् म व्यस्थानत्वाद्वायुना वर्षदानेन क्रियते । ‘ उर्क् ’ प्राणः, स वायुरेव । अत आदितो वायुकार्यसम्बन्धाद्वायोरित्युपमा । अथवाऽऽ-ध्वर्यवमार्त्विज्यं बहुप्रकाराश्चेष्टाश्च सर्वा वायोरित्यनेन सामान्येन वायोर्जन्म यजुर्वेदस्य । अनधिकारस्य सामगीत्ययोग्यत्वादुत्तमाध्ययनानि समान्युत्तमस्थानश्चादित्य इति ॥२३ ॥
हिन्दी — उस ब्रह्मा ने यज्ञों की सिद्धि के लिए अग्नि, वायु और सूर्य से नित्य ऋग्वेद, यजुर्वेद और सामवेद को क्रमशः प्रकट किया ' ॥२३ ॥
समयादि की सृष्टि-कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा ।
सरितः सागराञ्छैलान् समानि विषमाणि च ॥ २४ ॥
१. तथा च श्रुतिः- “ अग्नेर्ऋग्वेदो वायोर्यजुर्वेद आदित्यात्सामवेद ” इति ।
पृष्ठ 97
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २५ भाष्य — धर्मसामान्यादाह । द्रव्यात्मा कालो वैशेषिककाणां, क्रियारूपोऽन्येषाम् । आदित्यादिगतिप्रतान आवृत्तिमान् । कालविभक्तयो विभागा मासर्त्वयनसम्वत्सराद्याः । नक्षत्राणि कृत्तिकारोहिण्यादीनि । ग्रहा आदित्यादयः । सरितो नद्यः । सागराः
समुद्राः । शैलाः पर्वताः । समानि स्थलान्येकरूपा भूभागाः खातप्रदरवर्जिताः ।
विषमाणि आरोहावरोहवन्ति ॥ २४ ॥
-हिन्दी — फिर उस ब्रह्मा ने समय ( निमेष, काष्ठ, दिन, रात, पक्ष, मास, वर्ष आदि ), उनके विभाग, नक्षत्र ( अश्विनी, भरणी २७ या २८ ) ग्रह ( सूर्य - चन्द्रादि नव ), नदी ( यमुना, गङ्गा, गोदावरी आदि ), समुद्र ( क्षीरसमुद्र, दधिसमुद्र आदि सात ), पर्वत, सम ( समतल = बराबर ), विषय ( ऊँचा - नीचा ) ॥२४ ॥
तपो वाचं रतिं चैव कामं च क्रोधमेव च ।
सृष्टिं ससर्ज चैवेमां स्रष्टुमिच्छन्निमाः प्रजाः ॥ २५ ॥
-भाष्य – रतिर्मनसः परितोषः । कामोऽभिलाषो मन्मथो वा । अन्यत्प्रसिद्धम् । एवमादिकां सृष्टिं ससर्ज इमाम् । अत्रश्लोके पूर्वा च या सृष्टिरुक्ता । इमाः प्रजाः स्त्रष्टुमिच्छन् । देवासुरा यक्षराक्षसगन्धर्वाद्यास्तदुपकरणं तदात्मधर्मवच्छरीरं धर्म चादावसृजदित्यर्थः । “ अथ केयं वाचोयुक्ति: सृष्टिं ससर्जेति ’ ” । य एवार्थः सृष्टिं कृतवानिति । सर्वे धातवः करोत्यर्थस्य विशेषावच्छिन्ने वर्तन्ते । पचति – पाकं करोति, यजति - यागं करोति । तत्र कृदन्ताद्विशेषेऽवगत आख्यातगतो धातु करोत्यर्थमात्रप्रतिपादनपरो भजति । तस्मिन्नपि कुतश्चित्प्रतिपन्ने पुनः प्रतिपादनेऽनुवा-ददोषो मा भूदिति कालकारकादिषु तात्पर्यम् । अथवा सृज्यमानविशेषा प्रमाणावच्छिन्ना ‘ सृष्टिः ’ सामान्यसृष्टेः कर्म:, यथा स्वपोषं पुष्ट इति ॥२५ ॥
हिन्दी – तप ( प्राजापत्य आदि ), वाणी, रति, इच्छा और क्रोध की सृष्टि की तथा इन प्रजाओं की सृष्टि करने की इच्छा करते हुए ब्रह्मा ने - ॥ २५ ॥
कर्मणां च विवेकाय धर्माधर्मौ व्यवेचयत् ।
द्वन्द्वैरयोजयच्चेमाः सुखदुःखादिभिः प्रज्ञाः ॥ २६ ॥
भाष्य - धर्माधर्मौ व्यवेचयद् विवेकेन पृथग्भावेन व्यवस्थापितवान् । अयं धर्म एवायमधर्म एव । “ ननु च नैवायं विवेकोऽस्ति । सन्ति हि कर्माण्युभयरूपाणि धर्माधर्मात्मकानि । . यथाहुः - शबलानि वैदिकानि कर्माणि हिंसासाधनकत्वात् । यथा ज्योतिष्टोमः स्वरूपेण धर्मो हिंसाङ्गत्वात्त्वधर्म ” इति अत आह— कर्मणां तु विवेकाय । कर्मशब्देनात्र
पृष्ठ 98
पाठ पढ़ें पाठ छिपाएँ
२६ मनुस्मृतिः [ प्रथम: प्रयोगः कर्मणामनुष्ठानमुच्यते । स एव पदार्थोऽन्यथा प्रयुज्यमानो विपरीतस्वभावो भवति । धर्मः सन्नधर्मरूपतामापद्यतेऽधर्मो धर्मत्वम् । तथा हिंसैव । हिंसा बहिः प्रयुज्य-माना अधर्म: स:; ‘ न हिंस्यात्सर्वभूतानीति ' प्रतिषेधगोचरत्वात् । अन्तर्वेदिकृता अग्नीषोमीये धर्मः, विधिलक्षणत्वात् । एवं तपो धर्मः, तदेव तु दम्भेनासामर्थ्यादिना वा क्रियामाणमधर्मः । एवं देवरगमनं स्त्रीणामधर्मः, गुरुनियुक्तानां पुत्रार्थिनीनां घृता-क्ताद्यनुग्रहेण धर्मः । अतः स्वरूपैकत्वेऽपि प्रयोगभेदाद्धर्माधर्मव्यवस्था । एकत्वेऽपि प्रमाणान्तरदृष्ट्या स्वरूपभेद एव । अथ च कर्मफलेषु कर्मशब्दः, कारणे कार्योपचारात् । तेनैतदुक्तं भवति । कर्माणि व्यवेचयत् कर्मफलविभागाय । कः पुनः कर्मणां फलविभागोऽत उक्तं द्वन्द्वै-रयोजयत् सुखदुःखादिभिः । धर्मस्य फलं सुखमधर्मस्य दुःखम् । अत उभयकारिणो द्वन्द्वैर्योज्यन्ते, धर्मकारित्वात्सुखेनाधर्मकारित्वाद्दुःखेन । द्वन्द्वशब्दोऽयं रूढ्या परस्पर-विरुद्धेषु पीडाकरेषु वर्तते शीतोष्णवृष्ट्यातपक्षुत्सौहित्यादिषु । आदिग्रहणं सामान्य-विशेषभावेन ज्ञेयम् । केवलौ सुखदुःखशब्दौ स्वर्गनरकयोर्वाचकौ निरतिशयानन्दपरितापवचनौ वा । विशेषः स्वर्गग्रामपुत्रपश्वादिलाभस्तदपहारश्चादिशब्दस्य विषयः । कर्मणां पूर्वमुत्पत्तिरुक्ता । अनेन तेषामेव प्रयोगविभागः फलविभागश्च प्रजा-पतिना कृत इति प्रतिपाद्यविवेकः ॥२६ ॥
हिन्दी - कर्मों की विवेचना के लिए धर्म ( अवश्य कर्तव्य यज्ञादि ) और अधर्म ( अवश्य त्याज्य प्राणि हिंसादि ) को पृथक् - पृथक् बतलाया तथा इन प्रजाओं को सुख एवं दुःख आदि ( राग - द्वेष, शीत - उष्ण, भूख - प्यास आदि ) द्वन्द्वों से संयुक्त किया अर्थात् धर्म से सुख तथा अधर्म से दुःख होता है यह प्रजाओं के लिए निश्चय किया || २६ || स्थूल तथा सूक्ष्मादि की सृष्टि-अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः । ताभिः सार्धमिदं सर्वं सम्भवत्यनुपूर्वशः ॥ २७ ॥
भाष्य — उपसंहारोऽयम् । दशार्धानां पञ्चानां महाभूतानां या अण्व्यः सूक्ष्मा मात्रा अवयवास्तन्मात्रास्ता विनाशिन्यः । परिणामधर्मित्वात् स्थौल्यप्रतिपत्त्या विनाशिन्य
उच्यन्ते । ताभिः सार्धमिदं जगत्सर्वं सम्भवत्युत्पद्यते । अनुपूर्वशः क्रमेण ।
सूक्ष्मात्स्थूलं स्थूलात्स्थूलतरम् । यादृशो वा क्रम उक्तः प्राक् ॥२७ ॥
हिन्दी — पञ्चमहाभूतों ( आकाश आदि ) की विनाशशील जो पञ्चतन्मात्रायें ( शब्द
पृष्ठ 99
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २७ आदि ) कही गयी हैं, उन्हीं के साथ पहले कहे गये तथा आगे कहे जाने वाले ये सब क्रमशः उत्पन्न होते हैं ॥ २७ ॥
विमर्श - ' अनुपूर्वशः ' शब्द से सूक्ष्म से स्थूल, स्थूल से स्थूलतर और स्थूलतर से स्थूलतम आदि क्रम इष्ट है, इस कथन से- सर्वशक्तिसम्पन्न, परमात्मा की मान-सिक सृष्टि कभी तत्त्वनिरपेक्ष भी हो सकती है, यह शंका भी उसके द्वारा ही इस सृष्टि की उत्पत्ति कहने से दूर कर दी गयी है ।
कर्मानुसारिणी सृष्टि -यं तु कर्मणि यस्मिन्स न्ययुङ्क प्रथमं प्रभुः ।
स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः ॥ २८ ॥
भाष्य — अस्यायमर्थः । यद्यपि प्रजापतिरीश्वरो भूतसृष्टौ शक्नोति यथेच्छं प्राणिन: स्रष्टुं तथापि न पूर्वकल्पकृतानि कर्माण्यनपेक्ष्य प्राणिनः सृजति । येन यादृशं पुराकल्पे कर्म कृतं तत्कर्माक्षिप्तायां जातौ तं जनयति, न जात्यन्तरे । शुभेन कर्मणा तत्फलोपभोग्यायां देवमनुष्यादिजातौ जनयति, विपरीतेन तिर्यक्प्रेतादिषु । यथैव भूतेन्द्रियगुणाः कल्पादौ प्रकृतिस्था उद्भवन्ति एवं कर्माण्यपि प्रलये स्वप्रकृतिस्थानि पुनरुद्भवन्ति सर्गादौ । ' ततः शेषेणे ' त्येष न्यायस्तत्राप्यस्त्येव । “ यदि तर्हि कर्मापेक्षोत्पत्तिः, क्व प्रजापतेरैश्वर्यमुपयोगि कीदृशं वा सापेक्षमैश्वर्यम् ” । तस्मिन् सति जगत उत्पत्तेः कथमनुपयोगः । न तमन्तरेण स्थित्युत्पत्तिप्रलयाः सन्ति । नित्यत्वात्तस्य स्वकृतान्यपि कर्माणि कारणं तदिच्छाऽपि प्रकृतिपरिणामश्च । एतस्याः कारणसामग्र्या इदं जागदुत्पद्यते तिष्ठति प्रलीयते च । सापेक्षस्याप्यैश्वर्यं न विहन्वते । यथेह राजादिरीश्वरो । भृत्यादीन् फलेन योजयेदेवमेवादिकर्मानुरूपेणैव योजयति । न चानीश्वरः । " ननु नास्य श्लोकस्यायमर्थः प्रतीयते । किं तर्हि प्रतीयते? विधातुरेव प्राणिनां कर्मविनियोगे स्वातन्त्र्यम् । स यं प्राणिनं प्रथमं सर्गादौ यस्मिन् कर्मणि हिंसात्मके तद्विपरीते वा न्ययुङ्क् स तदेव कर्म भजते करोति । न पित्रादेरनुशासनमपेक्ष्य स्वेच्छयाऽन्यथा प्रवर्तते, किं तर्हि, प्राक्प्रजापतिनियोगवशात्साध्वसाधु वा स्वय-मन्यानुशासननिरपेक्षोऽनुतिष्ठति । सृज्यमानः पुनर्जायमानः । कल्पान्तरेऽस्मिन्नेव वा कल्पे प्रजापतिरेव क्षेत्रज्ञांस्तत्कर्तृत्वेन नियुङ्गे । अतस्तन्त्रियोगमेवानुवर्तमानाः प्राचीनं शुभमशुभं वा कर्म कुर्वन्ति । तदुक्तम् । ' कर्तृत्वं प्रतिपद्यन्ते अनीशाः स्वेषु कर्मसु । महेश्वरेण प्रेर्यन्ते शुभे वा यदि वाऽशुभे ' इति ।
पृष्ठ 100
पाठ पढ़ें पाठ छिपाएँ
२८ मनुस्मृतिः ‘ अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥ ” [ प्रथमः उच्यते । एवं सति कर्मफलसम्बन्धस्त्यक्तः स्यात् पुरुषकारानर्थक्यं च स्यात् । अग्निहोत्रादिकर्माद्युपदेशो ब्रह्मोपासनाश्च व्यर्था: प्रसज्येरन् । य एवेश्वरस्वरूपानभि-ज्ञास्त एव दृष्टादृष्टार्थेषु कर्मसु प्रवर्तेरन् । ये तु तदधीनं कर्तृत्वं भोक्तृत्वं च मन्यन्ते तेषां सर्वत्राप्रवृत्तिप्रसङ्गः । कृतमपि न तत्कर्म फलति - अकर्तारोऽपि भोक्ष्यामह इति मन्यमाना उदासीरन् । न च व्याधिरिवापथ्याद्विदुषां बलादिच्छोपजायते कर्तृत्व ईश्वर-प्रेरणया । अथ कर्मफल सृष्ट्या तदिच्छा निश्चिता अस्मात्कर्मण इदं कर्तृत्वं भवतीति, न तर्हि ‘ यं तु कर्मणी’त्येतदस्ति । शास्त्रादेव नियोगः प्रतिपत्तव्यः । तस्माद्यं पुरुषं स प्रभुः प्रथमं न्ययुङ्क — अनादौ संसारे ' प्रथमं ' वर्तमानापेक्षम्, नियोक्तृत्वं चास्य सर्वभावेषु, दिक्कालनिमित्तकारणत्वात् । अन्ये तु व्याचक्षते । जात्यन्तरापन्नस्यात्मनो न पूर्वं जातिसंस्कारापेक्षा । अतः स्वभावानुवृत्तिः । यं जातिविशेषं यस्मिन्कर्मणि नियुक्तवान् परवधादौ स सिंहादि-जातीय आत्मा सम्पन्नो मनुष्यत्वे मार्दवमभ्यस्तमपि हित्वा जातिधर्मं प्रतिपद्यते अन्येना-नुपदिष्टमपि स्वाभाव्यात्प्रजापतिकृतत्वात् कर्माणि बलवन्ति प्रागभ्यासं जात्यन्तरगतस्य विस्मारयन्तीति प्रदर्शितं भवति ॥ २८ ॥
एतदेव विस्तारयति— हिन्दी - उस ब्रह्मा ने जिस ( व्याघ्र आदि जाति - विशेष ) को जिस कर्म ( मारण आदि ) में पहले लगाया था, बार - बार सृज्यमान ( उत्पन्न होता हुआ ) वह ( जाति-विशेष अपने - अपने कर्मवश ) उसी कर्म को करने लगा || २८ ||
हिंस्राहिंस्त्रे मृदुक्रूरे धर्माधर्मावृतानृते ।
यद्यस्य सोऽदधात्सर्गे तत्तस्य स्वयमाविशत् ॥ २ ९ ॥
भाष्य — हिंस्त्रं परप्राणिवियोगकरं सर्पसिंहहस्त्यादि । तद्विपरीतमहिंस्त्रं रुरुपृष-तादि । मृदु पेशलमनायासकम् । क्रूरं कठिनं परदुःखोत्पादनात्मकम् । अन्यत्प्रसिद्धम् । यदेतद्विशः प्रसिद्धं कर्म जातं ततो यस्य यदेव अदधाद्दत्तवान् कल्पितवान् स प्रजापतिः सर्गे सृष्ट्यादौ पूर्वकर्मानुरूप्यमवेक्ष्य, तत्कर्म स सृष्टः प्राणी स्वयमा-विशत् प्रतिपद्यते । भूतकालता न विवक्षिता । अद्यत्वेऽपि जातिधर्मस्यानुपदिष्टस्य स्वयम्प्रतिपत्तिदर्शनात् ॥२९ ॥
हिन्दी — हिंसा ( मारन — सिंह व्याघ्रादि का ), अहिंसा ( मृग आदि का ), मृदु, ( दया, सरलता आदि — ब्राह्मण का ), क्रूर अर्थात् कठोर ( युद्ध दण्ड आदि — क्षत्रिय