मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 131–140

मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 131–140

पृष्ठ 131

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 131 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता भाष्य — तानीदानीं कर्माण्युच्यन्ते ॥८८ ॥

५ ९ हिन्दी - ( वेद ) पढ़ाना, पढ़ना, यज्ञ कराना, करना, दान देना और लेना, इन कर्मों को ब्राह्मणों के लिए बनाया ॥ ८८ ॥

क्षत्रियों के कर्म-प्रजानां रक्षणं दानमिज्याध्ययनमेव च ।

विषयेष्वप्रसक्तिश्च क्षत्रियस्य समादिशत् ॥

॥८९ ॥

भाष्य — विषयाभिलाषजनका गीतशब्दादयो भावा उच्यन्ते । तत्राप्रसङ्गः पुनः पुनरसेवनम् ॥८९ ॥

हिन्दी – प्रजा ( तथा आर्त आदि ) की रक्षा करना, दान देना, यज्ञ करना, ( वेद ) पढ़ना, विषय ( गीत- -: नाच आदि उपभोग्य कर्म वा वस्तुओं ) में आसक्ति नहीं रखना; सङ्क्षेप में इन कर्मों को क्षत्रियों के लिए बनाया ॥८९ ॥

वैश्यों के कर्म-पशूनां रक्षणं दानमिज्याध्ययनमेव च ।

वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च ॥ ९ ० ॥

भाष्य – वाणिक्पथः वणिक्कर्मणा स्थलपथवारिपथादिनां धनार्जनम् उप-युज्यमानदेशान्तरीयद्रव्यसन्निधापनं यस्य राज्ञो विषये वसति । कुसीदं वृद्ध्या धन-प्रयोगः ॥९ ० ॥ हिन्दी - पशुओं की रक्षा ( पालन - पोषण, क्रय - विक्रयादि ) करना, दान देना, यज्ञ करना, ( वेद ) पढ़ना, व्यापार करना, व्याज लेना और खेती करना; इन कर्मों को वैश्यों के लिए बनाया ॥ ९ ० ॥

शूद्र के कर्म-एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् ।

एतेषामेव वर्णानां शुश्रूषामनसूयया ॥ ९ १ ॥

भाष्य – प्रभुः प्रजापतिरेकं कर्म शूद्रस्यादिष्टवान् । एतेषां ब्राह्मणक्षत्रियवैश्यानां शुश्रूषा त्वया कर्तव्या । अनसूययाऽनिन्दया । चित्तेनापि तदुपरि विषादो न कर्तव्यः । शुश्रूषा परिचर्या तदुपयोगि कर्मकरणं शरीरसंवाहनादि तच्चित्तानुपालनम् । एतद्दृष्टार्थं शूद्रस्य । अविधायकत्वाच्चैकमेवेति न दानादयो निषिध्यन्ते । विधिरेषां कर्मणामुत्तरत्र भविष्यति । अतः स्वरूपं विभागेन यागादीनां तत्रैव दर्श-यिष्यामः ॥ ९ १ ॥

पृष्ठ 132

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 132 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६० मनुस्मृतिः हिन्दी- - ब्रह्मा ने इन ( ब्राह्मण आदि तीनों वर्णों की अनिन्दक रहते हु करना ही शूद्रों के लिए प्रधान कर्म बनाया ॥ ९ १ ॥ [ प्रथमः सेवा विमर्श - दान आदि कर्म भी शूद्रों को वर्जित नहीं है, किन्तु ब्राह्मणादि तीनों वर्णों की सेवा ही उसका प्रधान कर्म है, यह बतलाने के लिए यहाँ पर ' एक ' शब्द कहा गया है । अत: उक्त ' एक ' शब्द को सङ्ख्यार्थक न मानकर प्रधानार्थक मानना चाहिये ।

सर्वाङ्गों में मुख की श्रेष्ठता-ऊर्ध्वं नाभेर्मेध्यतरः पुरुषः परिकीर्तितः ।

तस्मान्मेध्यतमं त्वस्य मुखमुक्तं स्वयम्भुवा ॥ ९ २ ॥

भाष्य — आपादान्तान्मेध्यः पुरुषः । तस्य नाभेरूर्ध्वमतिशयेन्नामेध्यम् । ततोऽपि मुखम् । एतच्च स्वयमेव जगत्कारणपुरुषेणोक्तम् ॥९ २ ॥ ततः किमत आह— -हिन्दी – ब्रह्मा ने को अन्य जीवों के से श्रेष्ठ बतलाया उसमें भी पुरुष, पुरुष नाभि से ऊपर के भाग ( अङ्ग ) को पवित्र बतलाया और नाभि से ऊपर के भाग से भी अधिक पवित्र मुख को बतलाया ॥९ २ ॥ वर्णों में ब्राह्मण की श्रेष्ठता-उत्तमाङ्गोद्भवाज्ज्यैष्ठ्याद्ब्रह्मणश्चैव धारणात् । सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥ ९ ३ ॥ भाष्य-- ' उत्तमाङ्गं ' मूर्धा तत उद्भव उत्पत्तिर्ब्राह्मणस्य । ज्येष्ठश्चासावन्येभ्यो वर्णेभ्यः पूर्वं ब्रह्मणा सृष्ट: । ' ब्रह्मणो ' वेदस्य धारणात्तस्य हि सविशेषं तद्विहितमत: सर्वस्य जगतोऽस्माद्धेतुत्रयाद् ब्राह्मणः प्रभुः प्रभुरिव । प्रभुर्विनयेनोपसर्पणीयः, तदाज्ञायां च धर्मे स्थातव्यम् । धर्मतः प्रभुर्धर्मे प्रभुरित्यर्थः । आद्यादित्वात्तसिः ॥९ ३ ॥ हिन्दी - ( ब्रह्मा के ) मुख से उत्पन्न होने से, ( क्षत्रियादि तीनों वर्णों की अपेक्षा पहले उत्पन्न होने के कारण ) ज्येष्ठ होने से और वेद के धारण करने से धर्मानुसार ब्राह्मण की सम्पूर्ण सृष्टि का स्वामी ( सब में श्रेष्ठ ) कहा जाता है ॥९ ३ ॥। ब्रह्मा के मुख से ब्रह्मणोत्पत्तिकथन--तं हि स्वयम्भूः स्वादास्यात्तपस्तप्त्वाऽऽदितोऽसृजत् । हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये ॥ ९ ४ ॥ भाष्य - पूर्वस्यैव हेतुत्रयस्य विशेषार्थमिदम् । अन्यस्यापि पुरुषस्योत्तमाङ्गं

पृष्ठ 133

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 133 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ६१ प्रधानम् । तं पुनर्ब्राह्मणं स्वयम्भूः स्वादास्यान्मुखादसृजत् । तपश्च कृत्वैषोत्तमाङ्गा-दुत्पत्तिः । ज्यैष्ठ्यमाह — आदितः । यद्देवानुद्दिश्य क्रियते तद्धव्यम् । पितॄनुद्दिश्य यत् क्रियते तत्कव्यम् । तयोरभिवहनाय, देवान्पितॄंश्च प्रति प्रापणाय । अभिवाह्या-येति भावे कृत्यः कथञ्चिद्द्रष्टव्यः । सकर्मत्वाद्वहते: । तेन च कर्मणा सर्वस्य त्रैलोक्यस्य गुप्तिः परिपालनं भवति । इतः प्रदानं देवा उपजीवन्ति 1

। ते च शीतोष्ण-वर्षैरोषधीः पचन्ति पाचयन्ति । अतः परस्परोपकाराद्गुप्तिः ॥९ ४ ॥

हिन्दी – स्वयम्भू उस ब्रह्मा ने हव्य ( देव - भाग ) तथा कव्य ( पितृ - भाग ) को पहुँचाने के लिए और सम्पूर्ण सृष्टि की रक्षा के लिए तपस्या कर सर्वप्रथम ब्राह्मण को ही अपने मुख से उत्पन्न किया ॥९ ४ ॥

यस्यास्येन सदाऽश्नन्ति हव्यानि त्रिदिवौकसः ।

कव्यानि चैव पितरः किं भूतमधिकं ततः ॥ ९ ५ ॥

भाष्य — हव्यादिवहनं पूर्वोक्तं दर्शयति I । त्रिदिवमोको गृहं येषां त एवमुच्यन्ते स्वर्गवासिनो देवाः । ब्राह्मणेन भुक्तमन्नं देवा उपतिष्ठन्ति । श्राद्धे पित्र्यस्य कर्मणोऽङ्गभूतं विश्वेदेवानुद्दिश्य ब्राह्मणभोजनं विहितम् । तदपेक्ष्यैतदुक्तम् । किं भूतमन्यदधिकं श्रेष्ठं ततस्तस्मादिति स्वयं विस्मर्यते । देवाः पितरश्चोत्तमस्थाना मध्यमस्थानाश्चा-प्रत्यक्षा न तेषां भोजनोपायोऽन्योऽस्त्यन्यतो ब्राह्मणभोजनादतो महान्ब्राह्मण: ॥९ ५ ॥ हिन्दी — जिस ( ब्राह्मण ) के मुख से देवता लोग हव्य को तथा पितर लोग कव्य को खाते हैं, उस ( ब्राह्मण ) से अधिक श्रेष्ठ कौन प्राणी होगा? ॥ ९ ५ ॥

भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः ।

बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥९ ६ ॥

भाष्य— पृथिव्यां ये भावा: स्थावरा वृक्षादयो जङ्गमाः कृमिकीटादयस्ते भूत-शब्देनोच्यन्ते । तेषां ये प्राणिन आहारविहारादिचेष्टासमर्थास्ते श्रेष्ठाः । ते हि पटुतरं सुखमनुभवन्ति । तेषां ये बुद्ध्या जीवन्ति हिताहिते विचिन्वन्ति श्वशृगालादयः । ते हि धर्मेणोपतप्ताः छायामुपसर्पन्ति, शीतेनार्दिता आतपं; निराहारं स्थानं त्यजन्ति । तेषामधिकतरा मनुष्याः तेषां च ब्राह्मणाः । ते हि लोके पूज्यतमा; न च सर्वेण परि-भूयन्ते । जातिमात्राश्रयं हि तद्वधे महत्प्रायश्चित्तम् ॥९ ६ ॥ हिन्दी – भूतों ( पृथ्वी आदि पाँच महाभूतों ) में प्राणी ( प्राणधारी जीव ) श्रेष्ठ हैं, प्राणियों में बुद्धिजीवी ( बुद्धि से काम करने वाले जीव ) श्रेष्ठ हैं, बुद्धिजीवियों में मनुष्य श्रेष्ठ हैं और मनुष्यों में ब्राह्मण श्रेष्ठ हैं ॥ ९ ६ ॥

पृष्ठ 134

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 134 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६२ मनुस्मृतिः

ब्रह्मज्ञानी की श्रेष्ठता-ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ।

कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः ॥ ९ ७ ॥

[ प्रथमः भाष्य – विदुषां श्रैष्ठ्यं महाफलेषु यागादिष्वधिकारात् । तेषामपि कृतबुद्धयः परिनिष्ठितवेदतत्त्वार्था न बौद्धादिभिः कलुषीक्रियन्ते । तेषामपि कर्तारः कर्मणा-मनुष्ठातारः । ते हि विहितप्रकरणात्प्रतिषिद्धासेवनाच्च नोपहन्यन्ते । तेषामपि ब्रह्म-वादिनः, ब्रह्मस्वरूपत्वात्तत्र ह्यक्षय्यानन्दः ॥९ ७ ॥ हिन्दी – ब्राह्मणों में भी विद्वान् श्रेष्ठ हैं, विद्वानों में कृतबुद्धि ( शास्त्रोक्त कर्तव्य में बुद्धि रखने वाले ) श्रेष्ठ हैं, कृतबुद्धियों में अनुष्ठान ( शास्त्रोक्त कर्त्तव्य के अनुसार आचरण ) करने वाले श्रेष्ठ हैं और उनमें भी ब्रह्मज्ञानी श्रेष्ठ हैं ॥ ९ ७ ॥ [ तेषां न पूजनीयोऽन्यस्त्रिषु लोकेषु विद्यते । तपोविद्याविशेषेण पूजयन्ति परस्परम् ॥ १० ॥ ]

[ तीनों लोकों में कोई भी ब्रह्मज्ञानियों का पूज्य नहीं है । तपोविद्याविशेष से वे आपस में पूजते हैं । इससे सिद्ध होता है कि ब्रह्मज्ञानियों से बड़ा इस संसार में कोई भी नहीं है ॥१० ॥ ]

उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती ।

स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥ ९ ८ ॥

भाष्य- - विद्वत्तादिगुणसम्बन्धिनो ब्राह्मणस्य विशेषे दर्शिते जातिमात्रं ब्राह्मणं कश्चिदवमन्येत तन्निवृत्त्यर्थमिदमुच्यते । उत्पत्तिरेव गुणानपहाय जन्मैव, ब्राह्मणस्य जातिरेव शाश्वती धर्मस्य मूर्तिः शरीरम् । धर्मार्थमुत्पन्नो द्वितीयेन जन्मनोपनयनेन संस्कृत: । सा हि तस्य धर्मार्थोत्पत्तिर्ब्रह्मत्वाय कल्पते सम्पद्यते । धर्मशरीरमुज्झित्वा परानन्दभाग्यवतीति स्तुतिः ॥ ९ ८ ॥ हिन्दी - केवल ब्राह्मण की उत्पत्ति ही धर्म की नित्य देह है; क्योंकि धर्म के लिए उत्पन्न वह ( ब्राह्मण ) मोक्षलाभ के योग्य होता है ॥ ९ ८ ॥

ब्राह्मणो जायमानो हि पृथिव्यामधिजायते ।

ईश्वरः सर्वभूतानां धर्मकोषस्य गुप्तये ॥ ९९ ॥

भाष्य — सर्वलोकस्योपरि भवति । श्रैष्ठ्यमुपरिभावेनाह - ईश्वरः सर्वभूताना-मिति । प्रभुत्वं धर्माख्यस्य कोषस्य गुप्तये जायते । द्रव्यसञ्चयः कोषः । उपमानाद्धर्म-सञ्चय उच्यते कोष इति ॥ ९९ ॥

पृष्ठ 135

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 135 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ६३ हिन्दी- - उत्पन्न होता हुआ वह ब्राह्मण पृथ्वी पर श्रेष्ठ माना जाता है; क्योंकि वह धर्म की रक्षा के लिए समर्थ होता है ॥ ९९ ॥

समस्त सम्पत्ति का स्वामी ब्राह्मण-सर्वं स्वं ब्राह्मणस्येदं यत्किञ्चिज्जगतीगतम् श्रैष्ठ्ये नाभिजनेनेदं सर्वं वै ब्राह्मणोऽर्हति ॥ १०० ॥

-भाष्य — असन्तुष्टस्य प्रतिग्रहादिषु पुनः प्रवृत्तौ दृष्कृतितामाशङ्कय समाधत्ते । सर्वमिदं त्रैलोक्यान्तर्वर्ति धनं ब्राह्मणस्य स्वम् । नात्र प्रतिग्रहो विद्यते । प्रभुत्वेनासौ गृह्णाति, न प्रतिग्रहीतृर्तयेति । प्रशंसैषा न विधिरत एवार्हतिशब्दः । अभिजनोऽभि-जातताविशिष्टत्वम् ॥१०० ॥

हिन्दी – पृथ्वी पर जो कुछ भी है, वह सब कुछ ब्राह्मण का है अर्थात् ब्राह्मण उसे अपने धन के समान मानता है । ब्रह्मा के मुख से उत्पन्न तथा कुलीन होने के कारण यह सब धन ( ग्रहण करने ) का अधिकारी होता है ॥ १०० ॥

स्वमेव ब्राह्मणो भुङ्गे स्वं वस्ते स्वं ददाति च ।

आनृशंस्याद्द्ब्राह्मणस्य भुञ्जते हीतरे जनाः ॥ १०१ ॥

भाष्य — यत्परगृह आतिथ्यादिरूपेण भुङ्गे तदात्मीयमेव । नैवं मन्तव्यं पर-पाकेनेति । स्वं वस्ते याचित्वाऽयाचित्वा वा वस्त्रं लभते नासौ तस्य लाभाय, अपि तु स्वकस्याच्छादने विनियोगः । तिष्ठतु तावदात्मोपयोगि यद्गृह्णाति तत्र प्रभुत्वम् । यदन्येभ्यो ददाति परकीयं तदपि तस्य नानुचितम् । आनृशंस्यं कारुण्यम् । तदीयया महासत्त्वतया पृथिव्यां राजानः स्वानि धनान्युपयुञ्जते । अन्यथा यद्यसाविच्छेत् ‘ अहमेतदादाय स्वकार्ये विनियुञ्जीयेति ' तदा सर्वे निर्धनाः निरुपभोगाः स्युः || १०१ ॥ हिन्दी — ब्राह्मण अपना ही ( अन्नादि ) खाता है, अपना ही ( वस्त्र आदि ) पहनता है, अपना ही ( धनादि ) दान करता है तथा दूसरे व्यक्ति ब्राह्मण की दया से सब ( अन्न आदि पदार्थों ) का भोग करते हैं ॥ १०१ ॥

इस शास्त्र की रचना का उद्देश्य तथा प्रशंसा-तस्य कर्मविवेकार्थं शेषाणां चानुपूर्वशः । स्वायम्भुवो मनुर्धीमानिदं शास्त्रमकल्पयत् ॥ १०२ ॥

भाष्य — सर्वस्याः ब्राह्मणस्तुतेः फलप्रदर्शनार्थं श्लोकोऽयम् । एवंविधमिदं महार्थं शास्त्रं यत्तस्य — स्वहिम्नाऽऽत्यन्तिकेन महत्तमस्य ब्राह्मणस्य – -कर्मविवेकार्थं-इमानि कर्माणि कर्तव्यानि इमानि वर्ज्याणि - एष विवेकस्तदर्थम् । शेषाणां च क्षत्रिया-दीनाम् । अनुपूर्वशः प्राधान्याद्ब्राह्मणस्यानुषङ्गात्क्षत्रियादीनामिदं शास्त्रमकल्पयत्-कृतवान् ॥ १०२ ॥

पृष्ठ 136

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 136 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६४ मनुस्मृतिः [ प्रथम: हिन्दी — सर्वशास्त्र ज्ञाता स्वयम्भू पुत्र मनु ने उस ब्राह्मण तथा शेष ( क्षत्रिय आदि तीन वर्णों ) के कर्मज्ञान के लिए इस शास्त्र को बनाया ॥ १०२ ॥

विदुषा इसको पढ़ने का अधिकारी ब्राह्मण-ब्राह्मणेनेदमध्येतव्यं

प्रयत्नतः ।

शिष्येभ्यश्च प्रवक्तव्यं सम्यङ्नान्येन केनचित् ॥ १०३ ॥

भाष्य - अध्येतव्यं प्रवक्तव्यमित्यर्हेकृत्यो न विधौ । द्वितीयादध्यायात्प्रभृति शास्त्रं प्रवर्तिष्यते । अयं ह्यध्यायोऽर्थवाद एव । नात्र कश्चिद्विधिरस्ति । तेन यथा ‘ राजभोजनाः शालयः, इति शालिस्तुतिर्न राज्ञोऽन्यस्येति तद्भोजननिषेधः, एव-मत्रापि नान्येन केनचिदिति नायं निषेधः, केवलं शास्त्रस्तुतिः - ' सर्वस्मिञ्जगति श्रेष्ठो ब्राह्मणः, सर्वशास्त्राणां शास्त्रमिदमतस्तादृशस्य विदुषो ब्राह्मणस्याध्ययनप्रवच-नार्हं न सामान्येन शक्यते अध्येतुं प्रवक्तुं वा ' । अत एवाह — प्रयत्नत इति । यावन्न महान्प्रयत्न आस्थितो, यावन्न शास्त्रान्तरैस्तर्कव्याकरणमीमांसादिभिः संस्कृत आत्मा, तावदेतत्प्रवक्तुं न शक्यते । अत एवाध्ययनेन श्रवणं लक्ष्यते । तत्र हि विद्वत्तोपयोगिनी न सम्पाठे । विधौ ह्यध्ययने विद्वत्ताऽदृष्टायैव स्यात्र च “ विधौ श्रवणमध्ययनेन लक्ष्यत ” इति युक्तं वक्तुम् । न विधेये लक्षणार्थता युक्ता । अर्थवादे तु प्रमाणान्तरानु-सारेण गुणावादो न दोषाय । तस्मात्त्रैवर्णिकार्थं शास्त्रम् । एतच्च परस्ताद्विशेषतो वक्ष्यते ॥१०३ ॥

-हिन्दी - विद्वान् ब्राह्मण को यह धर्मशास्त्र यत्नपूर्वक तथा ( अधिकारी ) शिष्यों को यथायोग्य पढ़ाना चाहिए, अन्य कोई ( क्षत्रियादि तीनों वर्ण ) इस शास्त्र को नहीं पढ़ावें ॥१०३ ॥

विमर्श- – इस धर्मशास्त्र के अध्ययन के लिए क्षत्रिय तथा वैश्य को भी अधिकार है, किन्तु व्याख्यान या अध्यापन करने का उन्हें ( क्षत्रिय तथा वैश्य को ) अधिकार नहीं है, यह वचन उक्तानुवादमात्र है ऐसा मेधातिथि का मत है, किन्तु वह द्विजमात्र को यह शास्त्र पढ़ना चाहिये तथा ब्राह्मण मात्र को पढ़ाना तथा इसका व्याख्यान करना चाहिये यह अर्थ अपेक्षित होने से ठीक नहीं है । ' तीनों वर्णों को अध्ययन करना चाहिए ' ( १०।१ ) यह अग्रिम वचन भी वेद - विषयक है । अतः ' ब्राह्मण को ही यह धर्मशास्त्र पढ़ाना चाहिये ' इस अर्थ के आवश्यक होने से इस वचन को अनुवादमात्र मानना मेधातिथि का दुराग्रह ही है, यह मन्वर्थमुक्तावलीकार का मत है । यहाँ ‘ अध्येतव्यम् ' ( पढ़ना चाहिये ) पद में ' तव्यत् ' ' अर्हं ' ( योग्य ) अर्थ में ही हुआ है, ' विधि ' में नहीं । अतः यह वचन ' अर्थवाद ' ( प्रशंसापरक ) है, ' विधिपरक ’

पृष्ठ 137

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 137 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ६५ नहीं | जैसे ‘ राजभोजनाः शालय: ' ( राजा का भोज्य पदार्थ चावल है ) इस वाक्य में ' शालि ' भोजन का राजातिरिक्त के लिए निषेध नहीं किया जाता, अपि तु ' शालि ' ( चावल ) की प्रशंसा मात्र की जाती है; वैसे ही ' नान्येन केनचित् ( दूसरे किसी को नहीं पढ़ाना चाहिए ), इस वाक्य के द्वारा भी ब्राह्मणातिरिक्त के लिए निषेध नहीं किया गया है किन्तु यह ब्राह्मण सब वर्णों में श्रेष्ठ है और यह शास्त्र भी सब शास्त्रों में श्रेष्ठ है, अतः वैसे सर्वश्रेष्ठ ब्राह्मण को ही इस शास्त्र का अधिकार होना अभीष्ट माना गया है, सामान्य व्यक्ति को नहीं । अतः व्याकरण - न्याय - मीमांसादि के अध्ययन से परिपक्व बुद्धिवाले एवं प्रयत्नशील व्यक्ति को ही इस शास्त्र के प्रवचन का अधिकार है, अन्य व्यक्ति को चाहे वह ब्राह्मण ही क्यों न हो इसका अधिकार होना शास्त्रकार को अभीष्ट नहीं है । इस कारण यहाँ पर ' अध्ययन ' से ' श्रवण ' करना लक्षित होता है, विद्वान् होना ही इस शास्त्र के लिए उपयोगी है ।. अत: ' द्विजमात्र का इस शास्त्र में अधिकार है ' यह पूज्यपाद नेने शास्त्री का मत है ।

इस शास्त्र के अध्ययन का फल-इदं शास्त्रमधीयानो ब्राह्मणः शंसितव्रतः ।

मनोवाग्देहजैर्नित्यं कर्मदोषैर्न लिप्यते ॥ १०४ ॥

भाष्य- –एवं सम्बन्धिद्वारेण ब्राह्मणार्थतया शास्त्रं स्तुत्वाऽधुना साक्षात्स्तौति । इदं शास्त्रं जानानः शंसितव्रतो भवतीति परिपूर्णयमनियमानुष्ठायी भवति । शास्त्राद-ननुष्ठाने प्रत्यवायं ज्ञात्वा तद्भयादनुतिष्ठति सर्वान् यमनियमान् यथाशास्त्रं सर्व-मनुतिष्ठति । अनुतिष्ठन्विहितातिक्रमप्रतिषिद्धकर्मजनितैर्दोषैः पापैः न लिप्यते न सम्बध्यते ॥१०४ ॥

हिन्दी — इस शासत्र को पढ़ता हुआ इसके अनुसार नित्य व्रतानुष्ठान करने वाला ब्राह्मण मानसिक, वाचिक और कायिक कर्मदोषों से लिप्त नहीं होता अर्थात् उक्त दोषों से मुक्त हो जाता है ॥ १०४ ॥

पुनाति पङ्कि वंश्यांश्च सप्तसप्त परावरान् ।

पृथिवीमपि चैवेमां कृत्स्नामेकोऽपि सोऽर्हति ॥ १०५ ॥

भाष्य – पङ्क्तिपावनो भवति । विशिष्टानुपूर्वीकः सङ्घातः पङ्क्तिरुच्यते । तां पुनाति निर्मलीकरोति । सर्वे दुष्टास्तत्सन्निधानाददुष्टाः सम्पद्यन्ते । वंश्यान्स्वकुलसम्भूतान्-सप्तपरानुपरितनान्पित्रादीनागामिनोऽवराञ्जनिष्यमाणान् । समुद्रपर्यन्तां पृथिवीं प्रति-ग्रहीतुमर्हति । धर्मज्ञाता हि प्रतिग्रहाधिकारे हेतु:, इतश्च सर्वे धर्मा ज्ञायन्ते ॥१०५ ॥

हिन्दी — वह ( इस शास्त्र को पढ़ता हुआ ) ब्राह्मण ( श्राद्ध आदि में भोजन करने के समय में बैठने से पंक्ति को दूषित करने वाले ब्राह्मणों से दूषित हुई ) पंक्ति को,

पृष्ठ 138

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 138 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६६ मनुस्मृतिः [ प्रथम: अपने कुल में उत्पन्न हुए ( पिता आदि ) तथा उत्पन्न होने वाले ( पुत्र आदि ) सात पीढ़ियों तक के वंशजों को पवित्र करता है और सम्पूर्ण पृथ्वी को भी ( सत्पात्र होने से ) ग्रहण करने के योग्य होता है ॥ १०५ ॥

[ यथा त्रिवेदाध्ययनं धर्मशास्त्रमिदं तथा । अध्येतव्यं ब्राह्मणेन नियतं स्वर्गमिच्छता ॥ ११ ॥ ]

[ तीनों वेदों के अध्ययन के समान इस धर्मशास्त्र का अध्ययन है; स्वर्ग के इच्छुक ब्राह्मण को अवश्य ही इसका अध्ययन करना चाहिए ॥ ११ ॥ ]

इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्धनम् ।

इदं यशस्यं सततमिदं निःश्रेयसं परम् ॥ १०६ ॥

भाष्य — स्वस्त्यभिप्रेतस्यार्थस्याविनाशः । अयनं प्रापणम् । स्वस्ति प्राप्यते येन तत्स्वस्त्ययनम् श्रेष्ठमन्येभ्यो जपहोमादिभ्यः । न हि शास्त्रमन्तरेण तेषामनुष्ठानं सम्भवति, अतस्तदनुष्ठानहेतुत्वाच्छ्रेष्ठमेतत् । अथवा धर्मज्ञानार्थवाक्यान्येव श्रेयस्या-न्यनुष्ठानं तु क्लेशकरमत उच्यते श्रेष्ठमिति । इदं बुद्धिविवर्धनम् । शास्त्रे ह्यासेव्यमाने तदर्थस्य प्रकाशनाद्ग्रन्थिप्रमोक्षाद्बुद्धिविवृद्धिः प्रसिद्धैव । इदं यशस्यम्, धर्मज्ञः संशयानैः पृच्छ्यमानः ख्यातिं लभते । यशसो निमित्तं ' यशस्यम् ' । विद्वत्तौदार्यादि-गुणवत्तया प्रसिद्धिर्यशः । निःश्रेयसं दुःखाननुविद्धाया प्रीतेः स्वर्गापवर्गलक्षणाया-स्तत्प्राप्तिहेतुकर्मज्ञानहेतुत्वात्रिः श्रेयसं परं श्रेष्ठम् || १०६ ॥ हिन्दी- – स्वस्त्ययन ( अभीष्टार्थ के अविनाश का स्थान अर्थात् प्राप्त कराने वाला ) यह धर्म शास्त्र बुद्धिवर्द्धक, आयुवर्द्धक और मोक्ष का साधक है ॥ १०६ ॥

अस्मिन् धर्मोऽखिलेनोक्तो गुणदोषौ च कर्मणाम् । चतुर्णामपि वर्णानामाचारश्चैव शाश्वतः ॥ १०७ ॥

भाष्य — इदानीं स्वशास्त्रस्य स्वविषये साकल्येन वृत्तेरन्यनिरपेक्षतामाह । कश्चिद्यो नाम धर्मः स सर्वः शास्त्रेऽस्मिन्कात्स्र्त्स्न्येनाभिहितः । न तस्माद्धर्मज्ञानाय शास्त्रान्त-रापेक्षा कर्तव्येत्यतिशयोक्तिः स्तुतिः । अस्मिञ्छास्त्रे धर्मः स्मार्तोऽखिलेन निःशेषे-णोक्तः । गुणदोषौ च कर्मणाम् । इष्टानिष्टे फले ' गुणदोषौ कर्मणां ' यागादिब्रह्म-हत्यादीनाम् । एवं हि साकल्यं भवति यत् कर्मस्वरूपमितिकर्तव्यताफलविशेषः कर्तृविशेषसम्बन्धो नित्यकाम्यताविवेकः । एतत्सर्वं गुणदोषपदेन प्रतिज्ञातम् । धर्म इत्युक्ते कर्मग्रहणं वृत्तपूरणार्थम् । चतुर्णामपि वर्णानाम् । एतदपि साकल्यार्थम् । यो नाम कश्चिद्धर्मेऽधिकृतस्तस्य सर्वस्येतो धर्मलाभः । आचारश्चैव शाश्वतः । आचारप्रमाणकोधर्म ' आचार ' इत्युक्तः ।

पृष्ठ 139

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 139 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता

द्वितीये चैनं विवेक्ष्यामः । शाश्वतो वृद्धपरम्परया नेदानीन्तनैः प्रवर्तितः॥१०७ ॥

६७ हिन्दी — इस धर्मशास्त्र में सम्पूर्ण धर्म, कर्मों के गुण तथा दोष और चारों वर्णों के सनातन आचार बतलाये गये हैं ॥ १०७ ॥

आचार की प्रधानता—

आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च ।

तस्मादस्मिन्सदायुक्तो नित्यं स्यादात्मवान् द्विजः ॥ १०८ ॥

भाष्य – परमः प्रकृष्टो धर्म आचारस्तथा श्रुतौ वेदे य उक्त:, स्मार्तः स्मृति-सूक्तस्तस्मादाचारधर्मे नित्यं युक्तः स्यान्नित्यमनुतिष्ठेदात्मवानात्मनो हितमिच्छन् । सर्वस्वाऽऽत्मास्त्यतो मतुपा तद्धितपरत्वमुच्यते ॥। १०८ ॥ हिन्दी — वेदों तथा स्मृतियों में कहा गया आचार ही श्रेष्ठ धर्म है, आत्महिताभिलाषी द्विज को इस ( अचार के पालन ) में प्रयत्नवान् होना चाहिये ॥ १०८ ॥

आचाराद्विच्युतो विप्रो न वेदफलमश्नुते ।

आचारेण तु संयुक्तः सम्पूर्णफलभाक्स्मृतः ॥ १० ९ ॥

भाष्य – प्रकारान्तरेणेयमाचारस्तुतिः । आचारात्प्रच्युत आचारहीनो न वेदफलं प्राप्नोति । वेदविहितकर्मानुष्ठानफलं वेदफलमित्युक्तम् । समग्राण्यविकलानि वैदिकानि कर्माण्यनुतिष्ठन्यद्याचारभ्रष्टो न ततः पुत्रकामादिफलमश्नुत इति निन्दा । एष एवार्थो विपर्ययेणोच्यते I । आचारेण तु संयुक्तः सकलं फलं प्राप्नोति, काम्यानाम् । अत्र यद्वदन्ति “ सम्पूर्णवचनादाचारहीनस्याप्यस्ति काम्येभ्यः फलसम्बन्धो न कृत्स्नफल-लाभ ” इति तन्न किञ्चित्, अर्थवादत्वादस्य ॥१० ९ ॥ हिन्दी — आचारभ्रष्ट ब्राह्मण वेद के फल को नहीं प्राप्त करता और आचारवान् ब्राह्मण सम्पूर्ण वेदोक्त फल का भागी होता है ॥ १० ९ ॥

एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् ।

सर्वस्य तपसो मूलमाचारं जगृहुः परम् ॥ ११० ॥

भाष्य — यावत्किञ्चित्तपः प्राणायाममौनयमनियमकृच्छ्रचान्द्रायणानशनादि तस्य सर्वस्य फलप्रसवे मूलमाचारोऽतस्तमेव मुनयस्तपः फलार्थिनो मूलत्वेन कारणतया जगृहुः गृहीतवन्तः । आचाराद्दृष्ट्वा धर्मस्य मुनयो गतिं प्राप्तिमतिक्लेशकरं तपस्तथाप्याचारहीनस्य न फलतीति श्रुतिः ॥ ११० ॥

हिन्दी - इस प्रकार आचार से धर्मलाभ देखकर महर्षियों ने तपस्या के श्रेष्ठ मूल आचार का ग्रहण किया ॥ ११० ॥

पृष्ठ 140

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 140 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६८ मनुस्मृतिः

इस शास्त्र के अध्यायानुसार विषयसूची-जगतश्च समुत्पत्तिं संस्कारविधिमेव च ।

व्रतचर्योपचारं च स्नानस्य च परं विधिम् ॥ १११ ॥

[ प्रथमः भाष्य - उक्ता धर्मा अत्र विशिष्यन्ते । श्रोतृप्रवृत्त्यर्थं चानन्तफलता धर्मस्योत्ता ‘ एतदन्ता’स्त्वित्यादिना । तत्रातीन्द्रियोऽयमनन्तो दुष्पार इति मन्वाना अवसीदेयुरत उत्साहजनानार्थं शास्त्रार्थसङ्कलनात्मिकामनुक्रमणीं पठति । एतावन्त्यत्र वस्तूनि, नातिबहूनि, शक्यन्ते श्रद्दधानैः पुरुषैर्ज्ञातुमिति । सङ्क्षेपोपदिष्टमार्ग आक्रम्यमाणो न दुःसहो भवतीति । जगतश्च समुत्पत्तिमिति कालपरिमाणं तत्स्वभावभेदो ब्राह्मणस्तुतिरित्यादि सर्वं जगदुत्पत्तावन्तर्भूतम् । एतच्चार्थवादतयोक्तं न प्रमेयतया । संस्कारविधिं व्रत-चर्योपचारञ्च । गर्भाधानादयः संस्काराः । तेषां विधिः कर्तव्यता । ब्रह्मचारिणो व्रतचर्याया उपचारोऽनुष्ठानमितिकर्तव्यता वा । एतद्द्द्वितीयाध्यायप्रमेयार्थः । स्नानं गुरुकुलान्निवर्तमानस्य संस्कारविशेषः ॥१११ ॥

हिन्दी – संसार की उत्पत्ति ( प्रथमाध्याय का विषय ); संस्कारविधि ( जातकर्म आदि षोडश संस्कारों का विधान ), ब्रह्मचर्य आदि व्रत का आचरण और गुरु का अभिवादन, सेवन आदि उपचार ( द्वितीयाध्याय का विषय ); ब्रह्मचर्य व्रत को समाप्त कर गुरुकुल से गृहस्थाश्रम में प्रवेश करने के पूर्व स्नानरूप संस्कार - विशेष का श्रेष्ठ वैधान ॥ १११ ॥

दाराधिगमनं चैव विवाहानां च लक्षणम् ।

महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम् ॥ ११२ ॥

भाष्य- दाराणामधिगमनं भार्यासङ्ग्रहः । विवाहानां ब्राह्मादीनां तत्प्राप्त्यु-पायानां च लक्षणं स्वरूपाधिगमने हेतुम् । महायज्ञाः पञ्च वैश्वदेवादयः । श्राद्धस्य पितृयज्ञस्य कल्पो विधिरितिकर्तव्यता । ' पर ' ग्रहणं ' शाश्वत ' ग्रहणं च वृत्तपूरणार्थम् । एष तृतीयाध्यायार्थः ॥११२ ॥

हिन्दी – विवाह, आठ प्रकार के ( २।२७-३४ ) विवाहों के लक्षण, महायज्ञ ( वैश्वदेव आदि पञ्च महायज्ञ - ३ । ७० ) का विधान; श्रद्धा की नित्य विधि ( तृतीयाध्याय का विषय ) ॥ ११२ ॥

वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च ।

भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिमेव च ॥ ११३ ॥