मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 141–150
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 141–150
पृष्ठ 141
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता
स्त्रीधर्मयोगं तापस्यं मोक्षं संन्यासमेव च ।
राज्ञश्च धर्ममखिलं कार्याणां च विनिर्णयम् ॥ ११४ ॥
साक्षिप्रश्नविधानं च धर्मं स्त्रीपुंसयोरपि ।
विभागधर्मं द्यूतं च कण्टकानां च शोधनम् ॥ ११५ ॥
वैश्यशूद्रोपचारं च सङ्कीर्णानां च सम्भवम् ।
आपद्धर्मं च वर्णानां प्रायश्चित्तविधिं तथा ॥ ११६ ॥
६ ९ भाष्य — वृत्तीनां जीवनोपायानां धनार्जनात्मकानां भृत्यादीनां लक्षणम् | स्नात-कस्य समाप्तवेदाध्ययनस्य गुरुकुलान्निवृत्तस्य व्रतानि नेक्षेतोद्यन्तमादित्यमित्यादीनि । एष चतुर्थाऽर्थः । भक्ष्याभक्ष्यम् । ‘ पञ्च पञ्चनखा भक्ष्या ' ' अभक्ष्यं ' पलाण्डादि । शौचं कालकृतं जन्मादावुदकादिना च द्रव्यशुद्धिः । स्त्रीधर्मयोगः सम्बन्धो बालयुवेत्यादि । एत-त्पाञ्चामिकम् । तापसाय हितं तापस्यम् । तपः प्रधानस्तापसो वानप्रस्थस्य धर्मस्तापस्यम् । मोक्षः परिब्राजकधर्मः । संन्यासश्च तद्विशेष एव । स च तत्रैव दर्शयिष्यते । षष्ठाध्या-यवस्त्वेतत् । राज्ञः पृथिवीपालनाधिकृतस्य प्राप्तैश्चर्यस्य धर्मोऽखिलो दृष्टार्थोऽदृष्टार्थश्च । एष सप्तमाध्यायगोचरः । कार्याणामृणादानादीनां विनिर्णयो विचार्य संशयच्छेदेनावधारणमनुष्ठेयनिश्चयः । साक्षिणां च प्रश्ने यो विधिः । प्राधान्यत्पृथङ्गिर्देश: । आष्टमिकोऽयमर्थः । धर्मः स्त्रीपुंसयोरित्येकदेशे स्थितयोः प्रवासवियुक्तयोश्च परस्परं वृत्तिः । रिक्थ-विभागधर्मः । द्यूतम् । तद्विषयो विधि: द्यूतशब्देनोक्तः । कण्टकादीनां चोराटविका-दीनां शोधनं राष्ट्रान्निसनोपायः । यद्यपि विभागादिरष्टादशपदान्तर्गतत्वात्कार्याणां चेत्यनेनैवोपादानादृणादानादिवन्न पृथङ्निर्देश्यः, – अध्यायभेदात्तु पृथङ्गिर्देश: । वैश्यशूद्रयोरुपचारः स्वधर्मानुष्ठानम् । एतन्नवमे । सङ्कीर्णानां क्षत्तृवैदेहकादीनां सम्भवमुत्पत्तिम् । आपद्धर्मं च स्ववृत्त्याऽजीवतां
प्राणात्यये यो धर्मः । एतद्दशमे ।
प्रायश्चित्तविधिरेकादेशे ॥११३-११६ ॥
हिन्दी — जीविकाओं ( ऋत, अमृत, प्रमृत आदि – ४, ५-६ ) के लक्षण, गृहाश्रमियों ( गृहस्थों ) के नियम ( चतुर्थाध्याय का विषय ) भक्ष्य ( भक्षण करने योग्य अन्न, दुग्ध, दही आदि ) और अभक्ष्य ( लहसुन, मांस, उच्छिष्ट आदि ), शौच ( मृत्यु के बाद मनु I- 9
पृष्ठ 142
पाठ पढ़ें पाठ छिपाएँ
७० मनुस्मृतिः ' [ प्रथमः ब्राह्मणादि की दशाह कर्मादि द्वारा शुद्धि ), जल - मिट्टी आदि के द्वारा द्रव्यों की शुद्धि । स्त्रियों का धर्मोपाय ( पञ्चमाध्याय का विषय ); वानप्रस्थ - कर्म, यति - धर्म ( मोक्ष ) संन्यास - धर्म ( षष्ठाध्याय का विषय ), राजा का सम्पूर्ण धर्म ( सप्तमाध्याय का विषय ), कर्तव्य अर्थात् व्यवहार ( लिए तथा दिये गये ऋण ) का विशेष निर्णय । साक्षियों ( गवाहों ) से प्रश्न करने ( विवाद विषयक प्रश्न पूछने या जिरह करने ) का विधान ( अष्टमाध्याय का विषय ), पत्नी और पति का संयुक्त एवं पृथक् रहने पर धर्म, विभाग ( बँटवारा अर्थात् हिस्से को यथायोग्य अधिकारियों को बाँटने ) का धर्म, द्यूत ( जुआ ) तथा शरीरस्थ कण्टक के समान चोर ( डाकू, जेबकट, विष देकर यात्री आदि का धन लेने वाले आदि ) का निवारण । वैश्य तथा शूद्रों का अपना - अपना धर्मानुष्ठान ( नवमाध्याय का विषय ); वर्णशङ्कर ( भिन्न - भिन्न जाती वाले स्त्री - पुरुषों के संभोग से सन्तान ( १०।१-४० ) की उत्पत्ति, आपत्ति काल में जीविका साधनोपदेश ( दशमाध्याय का विषय ); प्रायश्चित्त का विधान ( एकादशाध्याय का विषय ) ॥ ११३-११६ ॥
संसारगमनं चैव त्रिविधं कर्मसम्भवम् ।
निःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् ॥ ११७ ॥
भाष्य — संसारगमनम् | धर्मेण धर्मी लक्ष्यते, संसारी पुरुष आत्मा, तस्य गमनं देहाद्देहान्तरप्राप्तिः । अथवा संसारविषयाः पृथिव्यादयो लोका उच्यन्ते, तत्र गमनम् पूर्ववत् । त्रिविधम् उत्तमाधममध्यमम् कर्मसम्भवं शुभाशुभकर्मनिमित्तम् । निःश्रेयसम् न केवलं कर्मनिमित्ता गतय उक्ताः यावद्यतः परमन्यच्छ्रेयो नास्ति तदु-पायोऽप्यध्यात्मज्ञानमुक्तम् । कर्मणां च विहितप्रतिषिद्धानां गुणदोषपरीक्षा || ११७ ॥ हिन्दी — वर्णानुसार तीन प्रकार की ( उत्तम; मध्यम और अधम ) सांसारिक गति, मोक्षदायक आत्मज्ञान, विहित तथा निषिद्ध कर्मों के गुण - दोषों की परीक्षा ॥ ११७ ॥
देशधर्माञ्जातिधर्मान्कुलधर्मांश्च शाश्वतान् ।
पाषण्डगणधर्मांश्च शास्त्रेऽस्मिन्नुक्तवान्मनुः ॥ ११८ ॥
भाष्य — तदेव साकल्याभिधानं द्रढयति । प्रतिनियते देशेऽनुष्ठायमाना न सर्वस्यां पृथिव्यां ते देशधर्माः । ब्राह्मणादिजात्याश्रया जातिधर्माः । कुलधर्माः प्रख्यातवंशप्रवर्तिता इति । पाषण्डं प्रतिषिद्धव्रतचर्या बाह्यस्मृतिसमाश्रयास्तत्र ये
धर्माः – पाषण्डिनो विकर्मस्थानिति । गणः सङ्घातो, वणिक्कारुकुशीलवादीनाम् ।
तान्सर्वधर्मान्भगवान्मनुरस्मिञ्छास्त्रे उक्तवान् ॥ ११८ ॥
हिन्दी – देशधर्म ( किसी देश - विदेश में नियत धर्म - विशेष ) जाति - धर्म ( ब्राह्मणादि जातिविशेष के लिये नियत धर्म - विशेष ) पाखण्डियों ( वेद तथा धर्मशास्त्रों के प्रतिकूल आचरण करने वालों ) के समुदायों का धर्म ( द्वादशाध्याय का विषय );
पृष्ठ 143
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ७१
प्रथमाऽध्याय का उपसंहार-यथेदमुक्तवाञ्छास्त्रं पुरा पृष्टो मनुर्मया ।
तथेदं यूयमप्यद्य मत्सकाशान्निबोधत ॥ ११ ९ ॥
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां प्रथमोऽध्यायः ॥ १ ॥
भाष्य — अवधानार्थः प्रतिबोधः ॥११९ ॥
इति श्रीभट्टमेधातिथि विरचिते मनुभाष्ये प्रथमोऽध्यायः ॥ १ ॥
-हिन्दी – ( भृगु मुनि महर्षियों से कहते हैं कि ) — पूर्व काल में पूछने पर भगवान् मनु इस शास्त्र को जैसा मुझसे कहा था, वैसा ही आप लोग भी मुझसे इस धर्मशास्त्र को मालूम करें ॥११९ ॥
मानवे धर्मशास्त्रेऽस्मिन् संसारोत्पत्तिवर्णनम् ।
श्रीगणेशकृपादृष्ट्या ' प्रथमे पूर्णतामगात् ' ॥१ ॥
पृष्ठ 144
पाठ पढ़ें पाठ छिपाएँ
॥ अथ द्वितीयोऽध्यायः ॥
सामान्य धर्म का लक्षण-विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः ।
हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत ॥ १ ॥
भाष्य- – प्रथमोऽध्यायः शास्त्रप्रतिपाद्यार्थतत्त्वदर्शनार्थोऽन । ऽिनुक्रान्तः जगत्सृष्ट्यादि-वर्णनं च तच्छेषमेत्र व्याख्यातम् । इदानीं शास्त्रमारभते । तत्र प्रतिज्ञातोऽर्थो जगत्सर्गादि-वर्णनेन व्यवायाद्विस्मृत इत्यनुसन्धानार्थं पुनः शिष्यान्प्रति बोधयति । यो धर्मो भवतां शुश्रूषितस्तमिदानीं मयोच्यमानं निबोधतावहिता भूत्वा शृणुत । प्रथमेऽध्याये पञ्चषाः श्लोकाः प्रयोजनादिप्रतिपादनार्थाः । परिशिष्टमर्थवादरूपम् । तच्चेन्नातिसम्यगवधारितं न धर्मपरिज्ञाने महती क्षतिः । इह तु साक्षाद्धर्म उपदिश्यते । ततोऽवधानवद्भिरवधारणीयोऽयमर्थ इति पुनरुपन्यासफलम् । धर्मशब्द उक्तार्थोऽष्टकाद्यनुष्ठानवचनः । बाह्यदर्शनिनस्तु भस्मकपालादिधारण-मपि धर्मं मन्यन्ते । तन्निवृत्त्यर्थं विद्वद्भिरित्यादीनि विशेषणपदानि । विद्वांसः शास्त्रसंस्कृतमतयः प्रमाणप्रमेयस्वरूपविज्ञानकुशलाः 1 । ते च वेदार्थ-विदो विद्वांसो नान्ये । यतो वेदादन्यत्र धर्म प्रति ये गृहीतप्रामाण्यास्ते विपरीतप्रमाण-प्रमेयग्रहणादविद्वांस एव । एतच्च मीमांसातस्तत्त्वतो निश्चीयते । सन्तः साधवः प्रमाणपरिच्छिन्नार्थानुष्ठायिनो हिताहितप्राप्तिपरिहारार्थाय यत्न-वन्तः । हिताहितं च दृष्टं प्रसिद्धम् । अदृष्टं च विधिप्रतिषेधलक्षणम् । तदनुष्ठानबाह्या असन्त उच्यन्ते । अत उभयमत्रोपात्तं ज्ञानमनुष्ठानं च । विद्यमानतावचनः सच्छब्दो न सम्भवति, आनर्थक्यात् । यद्धि येन सेव्यते तत्तेन विद्यमानेनैव । सेवाऽनुष्ठानशीलता । भूतप्रत्ययेनानादिकालप्रवृत्तमाह । नायमष्टकादिधर्मोऽद्यत्वे केनचित्प्रवर्तित इतरधर्मवत् । एतदेव नित्यशब्देन दर्शयति । यावत्संसारमेष धर्मः । बाह्यधर्मास्तु सर्वे मूर्खदुःशीलपुरुषप्रवर्तिताः कियन्तं कालं लब्धावसरा अपि पुनरन्त-र्धीयन्ते । न हि व्यामोहो युगसहस्रानुवर्ती भवति । सम्यग्ज्ञानमविद्यया सञ्छन्नमपि तत्क्षये निर्मलतामेवैति । न हि तस्य निर्मलतया छेदः सम्भव इति ।
पृष्ठ 145
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ७३ अद्वेषरागिभिः । इदं बाह्यधर्मानुष्ठाने द्वितीयं कारणम् । व्यामोहः पूर्वमुक्तः । अनेन लोभादय उच्यन्ते, रागद्वेषग्रहणस्य प्रदर्शनार्थत्वात् । लोभेन मन्त्रतन्त्रादिषु प्रवर्तयन्ति । अथवा रागद्वेषयोर्लोभोऽन्तर्भूतः । आत्मनि ये भोगोपायास्तेषु रक्ताः उपाया-न्तरेण जीवितुमसमर्था लिङ्गधारणादिना जीवति । तदुक्तं ' भस्मकपालादिधारणं, नग्नता, काषाये च वाससीबुद्धिपौरुषहीनानां जीविकेति ' । द्वेषो विपरीतानुष्ठानकारणम् । द्वेषप्रधाना हि नातीव तत्त्वावधारणे समर्था भवन्त्य-तोऽधर्ममेव धर्मत्वेनाध्यवस्यन्तीति । अथवोभावपि रागद्वेषौ तत्त्वावधारणे प्रतिबन्धकौ । सत्यामपि कस्याञ्चिच्छास्त्र-वेदनमात्रायां लब्धेऽपि विद्वद्व्यपदेशे रागद्वेषवत्तया विपरीतानुष्ठानं सम्भवति । जानानां अपि यथावच्छास्त्रं कस्यचिद् द्वेष्यस्योपघाताय प्रियस्य चोपकाराय कौटसाक्ष्याद्यधर्मं सेवन्ते । तेषां वेदमूलमेवानुष्ठानमित्यशक्यनिश्चयं कारणान्तरस्य रागद्वेषलक्षणस्य सम्भ-वात् । अतस्तत्प्रतिषेधः । अत्र चोद्यते । “ सद्भिरिति सच्छब्दः साधुतावचनो वर्णितः । कीदृशी च साधुता तस्य यदि रागद्वेषाभ्यामधर्मे प्रवृत्तिः सम्भाव्यते । तस्मादद्वेषरागिभिरिति न वक्तव्यम् । ' ’ एवं तर्हि हेतुत्वेनोच्यते । यतो रागादिवर्जिता अतः सन्तो भवन्ति । रागद्वेष-प्रधानत्वाभावश्चात्र प्रतिपाद्यते । न सर्वेण सर्वं तदभावयोग्यावस्थागतस्य हेतोर्निरन्वय-मुच्छिद्यते । तथा च श्रुतिः- “ न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्तीति ’ ॥ रागो विषयोपभोगगृध्नुता । तत्प्रतिषेधव्यापारो द्वेषः । लोभो मात्सर्यमसाधा-रण्येन स्पृहा, परस्य चैतन्माभूद्विभवख्यात्यादि । चित्तधर्मा एते । अथवा चेतनावत्सु स्त्रीसुतसुहृद्वान्धवादिषु स्नेहो रागः; लोभोऽचेतनेष्वपि धनादिषु स्पृहा । हृदयेन । हृदयशब्देन चित्तमाचष्टे । अनुज्ञानं च हृदयस्य प्रसादः । एषा हि स्थितिः । अन्तर्हृदयवर्तीनि बुद्ध्यादितत्त्वानि । यद्यपि बाह्यहिंसाभक्ष्यभक्षणादिषु मूढ़ा धर्मबुद्ध्याप्रवर्तन्ते, तथाऽपि हृदयाक्रोशनं तेषां भवति ॥ वैदिकेत्वनुष्ठाने परि-तुष्यति मनः । तदस्य सर्वस्यायमर्थः । न मया तादृशो धर्म उच्यते यत्रैते दोषाः सन्ति । किन्तु य एवंविधैर्महात्मभिरनुष्ठीयते स्वयं च यत्र चित्तं प्रवर्तयति वा । अत आदरातिशय उच्यमानेषु धर्मेषु युक्तः । अथवा हृदयं वेदः । स ह्यधीतो भावनारूपेण हृदयस्थितो ' हृदयम् ' । ततश्च त्रितयमत्रोपात्तम् । यदि तावदविचार्यैव स्वाग्रहात्काचित्प्रवृत्तिः कस्यचित्तथाऽप्यत्रैव युक्ता । एतद्धृदयेनाभ्यनुज्ञात इत्यनेनोच्यते । अथाप्ययं न्यायो ' महाजनो येन गतः स पन्थाः '
पृष्ठ 146
पाठ पढ़ें पाठ छिपाएँ
७४ मनुस्मृतिः [ द्वितीयः इति, तदप्यत्रैवास्ति | विद्वांसो ह्यत्र निष्कामाः प्रवृत्तपूर्वा अनिन्द्याश्च लोके । अथा-प्रमाणिकी प्रवृत्तिः, साऽपि वेदप्रामाण्यात्सिद्धैवेति । सर्वप्रकारं प्रवृत्याभिमुख्यमनेन जन्यते । अन्ये त्वेतं श्लोकं सामान्येन धर्मलक्षणार्थं व्याचक्षते । एवंविधैर्यः सेव्यते स धर्मोऽवगन्तव्यः । प्रत्यक्षवेदविहितस्य स्मार्तस्य वाऽऽचारतः प्राप्तस्य सर्वस्यैतल्लक्षणं विद्यते । अत्र तु य एतैः सेव्यते तं धर्मं निबोधतेति पाठो युक्तः ॥१ ॥
हिन्दी - ( भृगु मुनि महर्षियों से कहते हैं कि ) धर्मात्मा एवं रागद्वेष से रहित विद्वानों द्वारा सर्वदा सेवित और हृदय से अच्छी तरह जाना गया जो धर्म है, उसे ( तुम लोग ) सुनो ॥ १ ॥
सकाम कर्म का निषेध वेदादि प्राप्ति की काम्यता-कामात्मता न प्रशस्ता चैवेहास्त्यकामता । काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः ॥ २ ॥
भाष्य – फलाभिलाषः कर्मप्रवृत्तेर्हेतुर्यस्य स कामात्मा तद्भावः कामात्मता । तत्प्रधानता ‘ आत्म ' शब्देन प्रतिपाद्यते । सा न प्रशस्ता निन्दिता । अतश्च निन्दया प्रतिषेधानुमाने ' न कर्तव्येति ' प्रतीयते । अर्थात्सौर्यादीनां सर्वेषां काम्यानां निषेधोऽयम् । अथवा किं विशेषण ब्रूमः सौर्यादिनामिति, सर्वमेव क्रियानुष्ठानं फलसिद्ध्यर्थं, न स्वरूपनिष्पत्तये । न च काचन निष्फला क्रिया । यदपि - ' न कुर्वीत वृथा चेष्टामिति, भस्मनि हुतं विषयान्तरे देशराजवार्ताद्यन्वेषणं’– तत्रापि क्रियाफलं विद्यते, किन्तु प्रधानफलं स्वर्गग्रामादि पुरुषस्य यद्दृष्टादृष्टयोरुपयुज्यते तदभावाद् वृथा चेष्टेत्युच्यते अथोच्यते- ' भवतु क्रिया फलवती । तद्विषयेऽभिलाषो न कर्तव्य: वस्तुस्वाभाव्यात्फलं भविष्यति ' - अत्रापि सौर्यादीनामफलत्वं, काम्यमानं फलं ज्ञातम् । नानिच्छोस्तद्भविष्यतीति । न च लौकिकी प्रवृत्तिर्दृश्यते फलाभिसन्धिनिरपेक्षा । न चात्र विशेषः श्रुतौ - वैदिकेषु कर्मसु फलं नाभिसन्धेयमिति । तत्र फलवत्तु श्रुतेषु कामनानिषेधाद-प्रवृत्तौ श्रुतिविरोधः । नित्येषु तु प्राप्तिरेव नास्ति । विशेषानुपादानाच्च लौकिकव्यापार-निवृत्तौ दृष्टविरोधः । तदिदमापतितम्, न – किञ्चित्केनचित्कर्तव्यं सर्वैस्तूष्णींभूतैः यं स्थातव्यम् ” । उच्यते । यत्तावदुक्तं काम्येषु सौर्यादिषु निषेधप्रसङ्ग इति, तत्र वक्ष्यति'यथा-सङ्कल्पितांश्चेह सर्वान् कामान् समश्रुत ' इति । निषेधे हि कुत: सङ्कल्पः कुतश्च कामा-वाप्तिः । यद्यपि विशेषानुपादानाल्लौकिकेऽपि प्रसक्त इति - तत्रोपात्त एव विशेषः, ' यो धर्मस्तं निबोधतेति ' धर्मस्य प्रकृतत्वात् । यदप्युक्तं नित्येषु फलाश्रवणात्फलाभिसन्धेः
पृष्ठ 147
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ७५ प्राप्तिरेव नास्ति, किं निषेधेनेति, – तत्राप्युच्यते । फलाभावात्कश्चित्सम्यक्शात्रार्थम-जानानो न प्रवर्तेत, सौर्यादिषु च श्रुतफलेषु फलाभिसन्धिपूर्विकां प्रवृत्तिं दृष्ट्वा सामा-न्यतोदृष्टेन यत्कर्तव्यं तत्फलहेतोः क्रियत इत्यश्रुतमपि फलमभिसन्दधीत तन्निवृत्यर्थ-मिदमारभ्यते । यद्यप्ययं न्यायोयत्फलवच्छुतं तत्तथैव कर्तव्यम्, यदापि निष्फलमेव कर्तव्यतया शास्त्रेण यावज्जीवादिपदैर्विनैव विश्वजिन्यायेन फलकल्पनयाऽवगमितं तस्यान्यथानुष्ठाने प्रसङ्ग एव नास्ति, तथापि य येतं न्यायं प्रतिपत्तुमसमर्थः स वचनेन प्रतिपाद्यते । न्यायतः प्रतिपत्तौ हि गौरवम्, वचनात्तु लघीयसी मुखप्रतिपत्तिरिति सुहृद्भूत्वा प्रमाणसिद्धमर्थमुपदिशतिस्म । कामशब्दोऽयं यद्यपि तदृच्छयवचनो दृष्टस्तथाऽपि तस्येहासम्भवात्काम इच्छा-ऽभिलाष इत्यनर्थान्तरम् । तत्र वक्ष्यमाणपर्यालोचनया फलाभिलाषेण न सर्वत्र प्रव-र्तितव्यमित्ययमर्थः स्थास्यति । परन्तु कामात्मतामिच्छामात्रसम्बधमात्रं पदार्थं मन्वानश्चोदयति । न चैवेहा-स्त्यकामतेति । न चेह लोके काचिदकामिनः प्रवृत्तिरस्तीत्यर्थः । आस्तां तावत्कृषि-वाणिज्यादि व्युत्पन्नबुद्धिना क्रियमाणम् यः स्वयं वेदाधिगमो वेदाध्ययनं बाल: कार्यते पित्रादिना ताड्यमानः सोऽपि न काममन्तरेणोपपद्यते । अध्ययनं हि शब्दो-च्चारणरूपम् । न चोच्चारणमिच्छया विना निर्घातध्वनिवदुत्तिष्ठति । इच्छति चेत्क़ि-मिति ताड्यत इति । सैवतथेच्छोपजन्यते । अभिमते तु विषये स्वयमुपजायत इत्येता-वान्विशेषः । यश्चायं वैदिको वेदविहितः कर्मयोगो दर्शपूर्णमासादिकर्मानुष्ठाने नित्य-त्वेनावगतः सोऽपि न प्राप्नोति । न ह्यनिच्छतो देवतोद्देशेन स्वद्रव्यत्यागोपपत्तिः । तस्मात्कामात्मतानिषेधे सर्वश्रौतस्मार्तकर्मनिषेधः प्रसक्त इति ॥२ ॥
हिन्दी -कर्म - फल की इच्छा करना श्रेष्ठ नहीं किन्तु इच्छा का अभाव ( त्याग ) भी नहीं है । वेद को स्वीकार ( ज्ञान ) और वेदोक्त कर्म करना भी इच्छा से ही होता है ॥२ ॥
व्रतों की सङ्कल्पमूलता-सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः ।
व्रतानि यमधर्माश्च सर्वे सङ्कल्पजाः स्मृताः ॥ ३ ॥
भाष्य— ततश्च यदुक्तं यागस्य कामेन विना न स्वरूपनिष्पत्तिरिति, तदनेन विस्पष्टं कृत्वा कथयति । सङ्कल्पो यागादीनां मूलं, कामस्य च । यागादीश्चिकीर्षन्नवश्यं सङ्कल्पं करोति । सङ्कल्पे च क्रियमाणे तत्कारणेन कामेन सन्निधातव्यमनिष्टेनापि । यथा पाकार्थिनो ज्वलनं कुर्वतस्तत्समानकारणो धूमोऽप्यनिष्टो जायते । तत्र न शक्यं यज्ञादयः करिष्यन्ते कामश्च न भविष्यतीति ।
पृष्ठ 148
पाठ पढ़ें पाठ छिपाएँ
७६ मनुस्मृतिः ‘ अथ कोऽयं सङ्कल्पो नाम यः सर्वक्रियामूलम् '? [ द्वितीय: उच्यते । यच्चेतः सन्दर्शनं नाम यदनन्तरं प्रार्थनाध्यवसायौ क्रमेण भवतः । एते हि मानसा व्यापारा: सर्वक्रियाप्रवृत्तिषु मूलतां प्रतिपद्यन्ते । न हि भौतिका व्यापारास्तमन्त-रेण सम्भवन्ति । तथाहि प्रथमं पदार्थस्वरूपनिरूपणम् ' अयं पदार्थ इमामर्थक्रियां साधयतीति यज्ज्ञानं स इह सङ्कल्पोऽभिप्रेतः ' । अनन्तरं प्रार्थना भवति इच्छा । सैव कामः । ‘ कथमहमिदमनेन साधयामीति ' इच्छायां सत्यामध्यवस्यति करोमीति निश्चिनोति सोऽध्यवसायः । ततः साधनोपादाने बाह्यव्यापारविषये प्रवर्तते । तथाहि बुभुक्षित आदौ भुजिक्रियां पश्यति, तत इच्छति भुञ्जीयेति, ततोऽध्यवस्यति ' व्यापारान्तरेभ्यो विनि-वृत्त्य भोजनं करोमीति, ’ ततः कर्मकारणस्थानाधिकारिण आह ' सज्जीकुरुत, रसवतीं सञ्चारयतेति ' । “ नन्वेवं सति न यज्ञादयः सङ्कल्पमात्राद्भवन्ति अपि तु सङ्कल्पप्रार्थनाध्यव-सायेभ्यः; तत्र किमुच्यते ' यज्ञाः सङ्कल्पसम्भवाः ' इति । " सङ्कल्पस्याद्यकारणत्वाददोष: । अत एवोत्तरत्र ' नाकामस्य क्रिया काचिद् दृश्यत ' इति वक्ष्यति । व्रतानि मानसोऽध्यवसायो व्रतम् । ' इदं मया यावज्जीवं कर्तव्यमिति ' यद्वि-हितम् । यथा स्नातकव्रतानि ।
यमधर्माः प्रतिषेधरूपाः अहिंसादयः ।
कर्तव्येषु प्रवृत्तिः निषिद्धेभ्यो निवृत्तिः नान्तरेण सङ्कल्पमस्ति ॥३ ॥
हिन्दी – इच्छा सङ्कल्पमूलक ( इच्छा का मूल सङ्कल्प ही ) है, यज्ञ सङ्कल्प से होते हैं और सब व्रत एवं ( चतुर्थाध्याय में वक्ष्यमाण ) यम आदि सङ्कल्प से ही होते हैं || ३ ||
क्रिया की काम- सापेक्षता-अकामस्य क्रिया काचिद् दृश्यते नेह कर्हिचित् ।
यद्यद्धि कुरुते किञ्चित्तत्तत्कामस्य चेष्टितम् ॥४ ॥
भाष्य- - " पूर्वेण शास्त्रीये प्रवृत्तिनिवृत्ती सङ्कल्पाधीने व्याख्याते । अनेन लौकिकेषु कर्मसु तदधीनतोच्यत इति विशेषः । नेह लोके कर्हिचित्कदाचिदपि जाग्रदवस्थायां क्रिया काचिदनुष्ठेयत्वेनानिच्छतः सम्भवति । यत्किञ्चिल्लौकिकं वैदिकं वा कुरुते कर्म विहितं प्रतिषिद्धं च तत्सर्वं कामस्य चेष्टितम् । हेतुत्वाच्चेष्टितं कमास्यैवेत्युक्तम् । तदिदमतिसङ्कटम्— कामात्मता न प्रशस्ता, न चानया विना किञ्चिदनुष्ठान-मस्ति ” || ४ ||
पृष्ठ 149
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ७७ हिन्दी — इस संसार में इच्छा के बिना किसी मनुष्य का कोई काम कभी भी नहीं देखा जाता है | मनुष्य जो कुछ करता है, वह सब इच्छा की चेष्टा है ( इच्छा के द्वारा ही करता है ) || ४ ||
तेषु सम्यग् वर्तमानो गच्छत्यमरलोकताम् ।
यथा सङ्कल्पितांश्चेह सर्वान्कामान्समश्नुते ॥ ५ ॥
भाष्य — अत्र प्रतिविधत्ते— तेषु कामेषु सम्यग्वर्तितव्यम् । “ का पुनः सम्यग्वृत्ति? ” यद्यथा श्रुतं तत्तथैवानुष्ठेयम् । नित्येषु फलं नाभिसन्धेयम्, अश्रुतत्वात् । काम्येषु त्वनिषेधः तेषां तथाश्रुतत्वात् । फलसाधनतयैव ताऽनि विधितोऽवगम्यन्ते । फलानिच्छो-स्तदनुष्ठानमश्रुतकरणं स्यात् । नित्येषु फलाभिसन्धिर्व्यामोह एव । न ह्यभिसन्धि-मात्रात्प्रमाणतोऽनवगते फलसाधनत्वे फलमुत्पद्यते । एवं कुर्वन् गच्छति प्राप्नोत्यमरलोकताम् । अमरा: देवाः तेषां लोकः स्वर्ग: । तन्निवासात् अमरेषु लोकशब्दः स्थानस्थानिनोरभेदात् ' मञ्चाः क्रोशन्तीति ' वत् 1 । तेनायं समासः । अमराश्च ते लोकाश्च अमरलोकास्तद्भावः अमरलोकता । देवजनत्वं प्राप्नोति देवत्वं प्राप्नोतीत्यर्थः । वृत्तानुरोधादेवमुक्तम् । अथवाऽमरांल्लोकयति पश्यत्यमरलोकः । ‘ कर्मण्यम् ’ । तदन्ताद्भावप्रत्ययः । ( पाणिनि सू ० ३।२।१ ) । देवदर्शी सम्पद्यते । अनेनापि प्रकारेण स्वर्गप्राप्तिरेवोक्ता भवति । अथवाऽमर इव लोक्यते लोके । अर्थवादश्चायम् । नात्र स्वर्गः फलत्वेन विधीयते । नित्यानां फलाभावात्काम्यानां च नानाफलश्रवणात् । तेन स्वर्गप्राप्त्या शास्त्रानुष्ठानसम्पत्तिरेवोच्यते । लक्षणया यदर्थं कर्मणामनुष्ठानं तत्सम्पद्यत इत्यर्थः । तत्र नित्यानां प्रत्यवायानुत्पत्तिर्विध्यर्थसम्पत्तिर्वा प्रयोजनम् । काम्येषु तु यथासङ्कल्पितान् यथाश्रुतं सङ्कल्पितान् । प्रयोगकाले यस्य कर्मणो यत्फलं श्रुतं तत्सङ्कल्प्य अभिसन्धाय मनसा कामयित्वेदमहमतः फलं प्राप्नु-यामिति । ततः सर्वान्कामान् काम्यानर्थान् समश्रुते प्राप्नोति । अत: परिहृता सङ्कटापत्तिः, यतो न सर्वविषय: कामो निषिध्यते, किं तर्हि, नित्येषु फलाभिलाषलक्षणः । साधनसम्पत्तिस्तु काम्यैव । ब्रह्मवादिनस्तु सौर्यादीनां निषेधार्थं कामात्मतेति मन्यन्ते । फलार्थितया क्रियमाणा बन्धात्मका भवन्ति । निष्कामस्तु ब्रह्मार्पणन्यायेन कुर्वन्मुच्यते । तदुक्तं भगवता कृष्ण-द्वैपायनेन ‘ मा कर्म फलहेतुर्भूः ' ( भ ० गी ० २.४७ ) । तथा “ साधनानामकृत्स्नत्वान्मौ-यत्कर्मकृतस्तथा । फलस्य चभिसन्धानादपवित्रो विधिः स्मृतः ” इति । बहवश्चात्र व्याख्याविकल्पाः, असारत्वात्तु न प्रदर्शिताः ॥ ५ ॥
हिन्दी-–उन ( शास्त्रोक्त ) कर्मों में अच्छी तरह नियत मनुष्य मोक्ष को प्राप्त करता
पृष्ठ 150
पाठ पढ़ें पाठ छिपाएँ
७८ आचारश्चैव -नाया अनवसरः । मनुस्मृतिः [ द्वितीयः धर्म के प्रमाण-साधूनामात्मनस्तुष्टिरेव च ॥ ६ ॥
नाप्येतद्युज्यते वक्तुम् — ‘ स्मृतिशीले च तद्विदामित्येतदप्यनूद्यते, बाह्यस्मृतिनाम-प्रामाण्याय ’ – यतस्तासां न्यायत एव सिद्धमप्रामाण्यम् । न हि शाक्यभोजकक्षपण-कादीनां वेदसंयोगसम्भवो येन तन्मूलतया प्रमाणं स्युः, स्वयमनभ्युपगमात्, तैश्च वेदस्याप्रमाण्याभिधानात् । प्रत्यक्षवेदविरुद्धार्थोपदेशाच्च तत्रासम्भवः, तासु स्मृतिषु १. तदुक्तं हारीतेन – ' ब्रह्मण्यता, पितृभक्तिता, सौम्यता, अपरोऽपतापिता अनसूयता, मृदुता, अपारुष्यं, मित्रता, प्रियवादित्वं कृतज्ञता, शरण्यता, कारुण्यं, प्रशान्ति'श्चेति त्रयोदशविधं शीलमीति । - म ० मु ० ( क ) है और इस संसार में इच्छानुसार सब कर्मों को प्राप्त करता है ॥ ५ ॥
[ असद्वृत्तस्तु कामेषु कामोपहतचेतनः । नरकं समवाप्नोति तत्फलं न समश्नुते ॥ १ ॥ ]
[ यदि तृष्णा से नष्ट बुद्धि वाला ईप्सित विषयों के लिए अवैधानिक अर्थात् यथेच्छ आचरण करता है, तो वह नरक जाता है और उसे ईप्सित फल भी नहीं मिलता है ॥ १ ॥
[ तस्माच्छुतिस्मृितिप्रोक्तं यथाविध्युपपादितम् । काम्यं कर्मेह भवति श्रेयसे न विपर्ययः ॥ २ ॥ ]
इसलिए श्रुति और स्मृति में बताया हुआ काम्य कर्म यथाविधि करने से कल्याण के लिये होता है, अन्यथा नहीं || २ || ] वेदोऽखिलो धर्ममूलं स्मृतिशीले ' च तद्विदाम् । भाष्य – पूर्वपक्षः – कोऽस्याभिसम्बन्धः । यावता धर्मोऽत्र वक्तव्यतया प्रति-ज्ञातः । स च विधिप्रतिषेधलक्षणः । तत्र न वेदस्य धर्ममूलता विधेया — ' वेदो धर्म-मूलत्वेन ज्ञातव्यो धर्मप्रामाण्य आश्रयणीयः, ' अन्तरेणैवोपदेशं तत्सिद्धेः । न हि मन्वाद्युपदेशसमधिगम्यं वेदस्य धर्ममूलत्वम् । अपि तु अवाधितविषयप्रतीतिजनक-त्वेनापौरुषेयतया च पुरुषसंसर्गदोषैरपि मिथ्याभिधानाशङ्काभावात्, स्वतश्च शब्दस्या-दुष्टत्वात्प्रत्यक्षवत्स्वत: प्रामाण्यसिद्धिः । अथोच्यते— ' न्यायतः सिद्धं वेदस्य प्रामाण्य-मनूद्य मन्वादिस्मृतीनां तन्मूलता वचनेन ज्ञाप्यत इति ' - तदपि न । तत्रापि पूर्वज्ञान-सापेक्षत्वात्स्मरणस्य भ्रान्तिविप्रलम्भादीनां महाजनपरिग्रहादिना निरस्तत्वादतीन्द्रियार्थ-दर्शनस्याशक्यभावाच्च पुरुषस्य च स्वानुभवसिद्धेर्वेदार्थस्मरणस्य वेदमूलतैवावशिष्यते । न हि वेदविदां कार्यार्थविषयं स्मरणं सम्भवति । वेदस्य च मूलत्वेन मूलान्तरकल्प-