मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 151–160

मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 151–160

पृष्ठ 151

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 151 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ७ ९ वेदाध्ययननिषेधात् । सति हि वेदाध्येतृत्वे बुद्धादीनां तन्मूलता स्यान्न वेति जायते विचारणा । यत्र तु तत्सम्बन्धो दूरापेतस्तत्र का तन्मूलताशङ्का । स्वयं च मूलान्तरं परम्परायातमभ्युपगच्छन्ति- ' पश्याम्यहं भिक्षुकानां दिव्येन चक्षुषा सुगतिं दुर्गतिं च ' । एवं सर्व एव बाह्या भोजकपाञ्चरात्रिकनिर्ग्रन्थानार्थवादपाशुपतप्रभृतयः स्वसिद्धान्तानां प्रणेतृन्पुरुषातिशयान् देवताविशेषांश्च प्रत्यक्षतदर्थदर्शिनोऽभ्युपयन्ति, न वेदमूल-मपि, धर्ममभिमन्यन्ते । प्रत्यक्षेण च वेदेन विरुद्धास्तत्रार्था उपदिश्यन्ते । तथाहि हिंसा चेद्धर्म उच्यते संसारमोचकादिभिः, सा चात्र प्रत्यक्षतः प्रतिषिद्धा । तथाऽन्यत्र तीर्थ-स्नानमधर्मोऽभ्युपेयते, इह त्वहरहः स्नानात्तीर्थानि सेवेतेति च विधिः । तथाऽग्नि-ष्टोमीयवधः क्वचित्पापहेतुरिष्यते, स च ज्योतिष्टोमविधिना विरुद्धः । तथाऽन्ये सर्वानेव यागहोमानात्मार्थान्सम्मन्यन्ते, देवताभेदविधिभिर्नानादैवत्यास्तेऽवगमिताः । अतो विरोधः । येऽप्याहुः - ग्रहणाग्रहणवदुदितानुदितहोमकालवत्प्रत्यक्षश्रुतिविरोधदर्शनात् स्यात्-सम्भवः शाखान्तरस्योच्छिन्नस्यानुच्छिन्नस्य वा तद्विरुद्धार्थविधिपरस्य । अनन्ता हि वेदशाखाः । ताः कथमेकस्य प्रत्यक्षाः । उत्साहश्च सम्भवतीति । तत्र स्यात्तादृशी वेद-शाखा यस्यामयं नरास्थिपात्रभोजननग्नचर्मादिरुपदिष्टो भवेत् । उच्यते — न वयं ब्रूमः वेदे विरुद्धार्थोपदेशासम्भव इति । किन्तु समकक्षत्वात्त-योर्विकल्पितप्रयोगयोरव्याघातः । इह तु कल्प्यो वेदः । न च प्रत्यक्षविरोधिकल्पनाया अवसरः । न च सम्भवमात्रेण तावता निश्चयः । निश्चितस्तु तद्विरुद्धप्रत्यक्षविधिः । अनिश्चितेन न वा निश्चितं बाध्यते । शाखोत्सादपक्षं चात्रैव श्लोके परस्तात्प्रपञ्चयि-ष्यामः । सर्वत्र च प्रत्यक्षश्रुतिभिर्मन्वादिस्मृतीनां व्यतिषङ्गः । क्वचिन्मन्त्रेण क्वचिद्देव-तया क्वचिद्द्द्द्रव्यविधिभिः । न च बाह्यासु तत्सम्भवतीति तासामप्रामाण्यम् । एवमाचारस्यापि वेदविद्भिरदृष्टार्थतयाऽऽचर्यमाणस्य स्मृतिवदेव प्रामाण्यं मूल-सम्भवात् । असाध्वाचारस्यापि दृष्टकारणादिसम्भवादविदुषां च भ्रान्त्यादिसम्भवाद-प्रामाण्यम् । एवमात्मनास्तुष्टेरपि । यदि च वेदस्मृत्याचाराणां मन्वाद्युपदेशसमधिगम्यं प्रामाण्यं मन्वादीनां कथम् । तत्राप्युपदेशान्तरात् स्मार्तञ्च मनुरब्रवीदित्यादेः । तत्र कथम् । तस्मादिदं प्रमाणमिदम-प्रमाणमिति युक्तित एतदवसेयम् नोपदेशतः । तथाचायमनर्थकः श्लोकः । एतत्समान-रूपा उत्तरेऽपि । सिद्धान्तः । अत्रोच्यते । इह ये धर्मसूत्रकारा अव्युत्पन्नपुरुषव्युत्पादनार्थं पदार्थ-

पृष्ठ 152

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 152 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८० मनुस्मृतिः [ द्वितीयः सम्पादनपरतयाग्रन्थसन्दर्भानारभन्ते तत्र यथैवाष्टकादीनां वेदात्स्वयं कर्तव्यतामवगम्य परावबोधनार्थमुपनिबन्धः, एवं प्रमाणान्तरसिद्धस्य वेदप्रामाण्यादेः । सन्ति केचित्प्रति-पत्तारो ये न्यायतस्तत्त्वविवेचनासमर्था ऊहापोहादिरूपबुद्ध्यभावात् । तान्प्रति न्यायसिद्धोऽप्यर्थः सुहृदुपदेशवदुपदिश्यते । तत्र यन्यायतः सिद्धं वेदस्य धर्ममूल-त्वं तदेवानेनानूद्यते । वेदो धर्ममूलम् । धर्मस्य मूलत्वेन वेदो विचार्य युक्तया सिद्धो नात्राप्रामाण्यशङ्का कर्तव्या । भवन्ति च लोके शङ्का प्रमाणान्तरसिद्धानामर्थानामुप-देष्टारः । ‘ न त्वयाऽजीर्णे भोक्तव्यमजीर्णप्रभवा हि रोगा: ' । न चैतद्वक्तव्यम्, – “ ये न्यायतो वेदस्य धर्ममूलत्वं न शक्नुवन्ति प्रतिपत्तुं ते वचनादपि न प्रत्येष्यन्ति ” । यतो दृश्यते य आप्तत्वेन प्रसिद्धास्तदीयं वचनमविचार्यैव केचन प्रमाणयन्ति । तदेवं सर्वमिदं प्रकरणं न्यायमूलं, न वेदमूलम् । अन्यत्रापि व्यवहारस्मृत्यादौ यत्र न्याय-मूलता तत्र यथावसरं दर्शयिष्यामः । अष्टकादीनां यथा वेदमूलता तथाऽत्रैव निर्दिश्यते । वेदशब्देनर्ग्यजुःसामानि ब्राह्मणसहितान्युच्यन्ते । तानि चाध्येतॄणां वाक्यान्त-रेभ्य: प्रसिद्धभेदानि । उपदेशपरम्परासंस्कृता अध्येतारः श्रुत्वैव वेदोऽयमिति प्रति-पद्यन्ते यथा ब्राह्मणोऽयमिति । तत्र वाक्यसमूहेऽपि ' अग्निमीले ' ' अग्निर्वैदेवानाम-वम ’ इत्यादौ ‘ संसमिद्युवसे ’ ' अथ महाव्रतमि'त्यन्ते, वेदशब्दः प्रयुज्यते; तदवयव-भूतेषु केवलेषु वाक्येष्यपि । न च ग्रामादिशब्दवद्गौणमुख्यता विद्यते । तत्र समुदायेषु हि वृत्ताः शब्दा अवयवेष्वपि वर्तन्त इत्येष न्यायः । ग्रामशब्दो हि प्रसिद्धभूयिष्ठ-प्रयोगः समुदाय एव, ‘ ग्रामो दग्ध ' इत्यादिपदसम्बन्धात्तदवयवे वर्तते । कतिपयशाला-दाहेऽपि लौकिका ‘ ग्रामो दग्ध ' इति प्रयुञ्जते । अथवा तत्रापि समुदायवचन एव । दाहस्त्वेकदेशवर्ती समुदायसम्बन्धितया व्यपदिश्यते । अवयवद्वारक एव समुदायस्य क्रियासम्बन्धः । एष एव समुदायस्य क्रियासम्बन्धो योऽवयवानाम् । न ह्यवयवान्-परिहाप्य समुदायो द्रष्टुं स्प्रष्टुं वा शक्यते । व्युत्पाद्यते च वेदशब्दः । विदन्त्यनन्यप्रमाणवेद्यं धर्मलक्षणमर्थमस्मादिति ‘ वेदः ’ । तच्च वेदनमेकैकस्माद्वाक्याद्भवति, न यावानृग्वेदादिशब्दवाच्योऽध्यायानुवाकसमूहः । एवं चोदाहरणे जिह्वाच्छेद इत्येकवाक्यविषयोऽप्ययं दण्डः । कृत्स्नोऽधिगन्तव्य इति कृत्स्नग्रहणं सकलवेदवाक्याध्ययनप्राप्त्यर्थम् । अन्यथा कतिचिद्वाक्यान्यधीत्य कृती स्यात्, न पुनः कृत्स्नं वेदम् इति । अत्रैतन्निरूपयिष्यामः । स च वेदो बहुधा भिन्नः । सहस्रवर्त्मा सामवेदः सात्यमुग्रिराणायनीयादिभेदेन; एक-शतमध्वर्यूणां, काठकवाजसनेयकादिभेदेन; एकविंशतिबाहवृच्या आश्वलायनैतरेयादि-भेदेन; नवधा आथर्वणं मोदकपैप्पलादकादिभेदेन । “ ननु नैव केचिदाथर्वणं वेदं मन्यन्ते यतः ' त्रयी विद्या ऋच: सामानि यजूंषीति ’

पृष्ठ 153

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 153 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ८१ ‘ वेदैरशून्यस्त्रिभिरेति सूर्यः ’ । तथा ' त्रैवेदिकं व्रतं चरेरि’त्यादौ न क्वचिदाथर्वणनामा-प्यस्ति ’ । प्रतिषेधश्च श्रूयते ‘ तस्मादाथर्वणेन न शंसेदिति ' । अतस्त्रयीवाह्यानाथर्वणिकान्-पाषण्डिनः प्रतिजानते " । तद्युक्तम् । अविगानेन शिष्टानां वेदव्यवहारात् । ' श्रुतीरथर्वाङ्गिरसीरित्यत्रापि व्यवहारः । श्रुतिर्वेद इत्येकोऽर्थः । न च वेदशब्दवाच्यताऽग्निहोत्रादिवाक्यानामपि धर्म-प्रमाण्ये कारणम् । इतिहासायुर्वेदयोरपि वेदव्यवहारदर्शनात् ‘ इतिहासपुराणं पञ्चमं वेदानां वेदमिति ' । किं तर्हि अपौरुषेयत्वे सत्यनुष्ठेयार्थावबोधकत्वाद् विपर्यया-भावाच्च । तच्चाथर्ववेदेऽपि सर्वमस्ति, ज्योतिष्टोमादिकर्मणां यजुर्वेदादिष्विव तत्राप्यु-पदेशात् । अभिचारमूलककर्मणां बाहुल्येन तत्रोपदेशादवेदत्वमिति विभ्रमः केषा-ञ्चित् । अभिचारा हि परप्राणवियोगफलत्वात्प्रतिषिद्धाः; आथर्वणिकैश्च त एव प्राधान्ये-नानुष्ठीयन्ते राजपुरोहितैरतस्ते निन्द्यन्ते । यत्तु " वेदैरशून्य " इत्यादावथर्ववेदस्या-निर्देश इति । अर्थवादा एते । किं तत्र निर्देशेनानिर्देशेन वा । मन्त्रभेदाभिप्रायं वैत-द्वचनं त्रयो वेदास्त्रयी विद्येत्यादि । न हि चतुर्थं मन्त्रजातमस्ति ऋग्यजुः सामव्यति-रेकेण । प्रैषनिविन्निगदेन्द्रगाथादीनामत्रैवान्तर्भावात् । अथर्ववेदे चर्चएव मन्त्रत्वेन समा-म्नाता: । अत ऋग्वेद एवायं मन्त्राभिप्रायेण । यस्तु प्रतिषेधः स विपरीतसाधनः प्राप्तौ सत्यां प्रतिषेधोपपत्तेः । अयं वाऽस्यार्थः । अथर्ववेदाधीतैर्मन्त्रैस्त्रैवेदिकं कर्म न मिश्र-येत् । वाचः स्तोमे सर्वा ऋचः सर्वाणि यजूंषि सर्वाणि सामानि विनियुक्तानि तत्राथर्व-वेदाधीतानां प्रतिषेधः । सा वेदो विशिष्टः शब्दराशिरपौरुषेयो मन्त्रब्राह्मणाख्योऽनेकशाखाभेदभिन्नः धर्मस्य मूलं प्रमाणं परिज्ञाने हेतुः । कारणं मूलम् । तच्च वेदस्मृत्योर्धर्मप्रतिज्ञापकतयैव, न निर्वर्तकतया न च स्थितिहेतुतया, वृक्षस्येव । धर्मशब्दश्च प्राग् व्याख्यातः । यत्पुरुषस्य कर्तव्यं प्रत्यक्षाद्यवगम्यविलक्षणेन स्व-भावेन श्रेयःसाधनम् । कृषिसेवादि भवति पुरुषस्य कर्त्तव्यं, तस्य च तत्साधनत्वस्व-भावोऽन्वयव्यतिरेकाभ्यामवगम्यते । यादृशेन व्यापारेण कृष्यादेर्त्रीह्यादिसिद्धिः साऽपि प्रत्यक्षाद्यवगम्यैव । यागादेस्तु साधनत्वम् येन च रूपेणापूर्वोत्पत्तिर्व्यवधानादिना तन्न प्रत्यक्षाद्यवगम्यम् । श्रेयश्चाभिलषितस्वर्गग्रामादिफलप्राप्तिः सामान्यतः सुखशब्दवाच्या । व्याधिनिर्धनत्वासौख्यनरकादिफलप्राप्तिः सामान्यतो दुःखशब्दवाच्या तत्परिहारश्च । अन्ये तु परमानन्दादिरूपं ‘ श्रेयः ’ । अयं धर्मो ब्राह्मणवाक्येभ्योऽवगम्यते लिङादियुक्तेभ्यः । क्वचिच्च मन्त्रेभ्योऽपि ‘ वसन्ताय कपिञ्जलानालभत ' इत्येवमादिभ्यः । तत्र कामपदयुक्तानि वाक्यानि फलार्थमनुष्ठानमवगमयन्ति । ‘ सौर्यं चरुं निर्वपेद्

पृष्ठ 154

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 154 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८० मनुस्मृतिः [ द्वितीयः सम्पादनपरतयाग्रन्थसन्दर्भानारभन्ते तत्र यथैवाष्टकादीनां वेदात्स्वयं कर्तव्यतामवगम्य परावबोधनार्थमुपनिबन्धः, एवं प्रमाणान्तरसिद्धस्य वेदप्रामाण्यादेः । सन्ति केचित्प्रति-पत्तारो ये न्यायतस्तत्त्वविवेचनासमर्था ऊहापोहादिरूपबुद्ध्यभावात् । तान्प्रति न्यायसिद्धोऽप्यर्थः सुहृदुपदेशवदुपदिश्यते । तत्र यन्यायतः सिद्धं वेदस्य धर्ममूल-त्वं तदेवानेनानूद्यते । वेदो धर्ममूलम् । धर्मस्य मूलत्वेन वेदो विचार्य युक्तया सिद्धो नात्राप्रामाण्यशङ्का कर्तव्या । भवन्ति च लोके शङ्का प्रमाणान्तरसिद्धानामर्थानामुप-देष्टारः । ‘ न त्वयाऽजीर्णे भोक्तव्यमजीर्णप्रभवा हि रोगाः ' । न चैतद्वक्तव्यम्, – “ ये न्यायतो वेदस्य धर्ममूलत्वं न शक्नुवन्ति प्रतिपत्तुं ते वचनादपि न प्रत्येष्यन्ति ” । यतो दृश्यते य आप्तत्वेन प्रसिद्धास्तदीयं वचनमविचार्यैव केचन प्रमाणयन्ति 1 । तदेवं सर्वमिदं प्रकरणं न्यायमूलं, न वेदमूलम् । अन्यत्रापि व्यवहारस्मृत्यादौ यत्र न्याय-मूलता तत्र यथावसरं दर्शयिष्यामः । अष्टकादीनां यथा वेदमूलता तथाऽत्रैव निर्दिश्यते । वेदशब्देनर्ग्यजुः सामानि ब्राह्मणसहितान्युच्यन्ते । तानि चाध्येतॄणां वाक्यान्त-रेभ्य: प्रसिद्धभेदानि । उपदेशपरम्परासंस्कृता अध्येतारः श्रुत्वैव वेदोऽयमिति प्रति-पद्यन्ते यथा ब्राह्मणोऽयमिति । तत्र वाक्यसमूहेऽपि ' अग्निमीले ' ' अग्निर्वैदेवानाम-वम ' इत्यादौ ‘ संसमिद्युवसे ' ' अथ महाव्रतमि'त्यन्ते, वेदशब्दः प्रयुज्यते; तदवयव-भूतेषु केवलेषु वाक्येष्यपि । न च ग्रामादिशब्दवद्गौणमुख्यता विद्यते । तत्र समुदायेषु हि वृत्ताः शब्दा अवयवेष्वपि वर्तन्त इत्येष न्यायः । ग्रामशब्दो हि प्रसिद्ध भूयिष्ठ-प्रयोगः समुदाय एव, ‘ ग्रामो दग्ध ' इत्यादिपदसम्बन्धात्तदवयवे वर्तते । कतिपयशाला-दाहेऽपि लौकिका ‘ ग्रामो दग्ध ' इति प्रयुञ्जते । अथवा तत्रापि समुदायवचन एव । दाहस्त्वेकदेशवर्ती समुदायसम्बन्धितया व्यपदिश्यते । अवयवद्वारक एव समुदायस्य क्रियासम्बन्धः । एष एव समुदायस्य क्रियासम्बन्धो योऽवयवानाम् । न ह्यवयवान्-परिहाप्य समुदायो द्रष्टुं स्प्रष्टुं वा शक्यते । व्युत्पाद्यते च वेदशब्दः । विदन्त्यनन्यप्रमाणवेद्यं धर्मलक्षणमर्थमस्मादिति ' वेदः ’ । तच्च वेदनमेकैकस्माद्वाक्याद्भवति, न यावानृग्वेदादिशब्दवाच्योऽध्यायानुवाकसमूहः । एवं चोदाहरणे जिह्वाच्छेद इत्येकवाक्यविषयोऽप्ययं दण्डः । कृत्स्नोऽधिगन्तव्य इति कृत्स्नग्रहणं सकलवेदवाक्याध्ययनप्राप्त्यर्थम् । अन्यथा कतिचिद्वाक्यान्यधीत्य कृती स्यात्, न पुनः कृत्स्नं वेदम् इति । अत्रैतन्निरूपयिष्यामः । स च वेदो बहुधा भिन्नः । सहस्रवर्त्मा सामवेदः सात्यमुग्रिराणायनीयादिभेदेन; एक-शतमध्वर्यूणां, काठकवाजसनेयकादिभेदेन; एकविंशतिबाहवृच्या आश्वलायनैतरेयादि-भेदेन; नवधा आथर्वणं मोदकपैप्पलादकादिभेदेन । “ ननु नैव केचिदाथर्वणं वेदं मन्यन्ते यतः ' त्रयी विद्या ऋचः सामानि यजूंषीति '

पृष्ठ 155

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 155 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ८१ ‘ वेदैरशून्यस्त्रिभिरेति सूर्यः ’ । तथा ‘ त्रैवेदिकं व्रतं चरेरि’त्यादौ न क्वचिदाथर्वणनामा-प्यस्ति ' । प्रतिषेधश्च श्रूयते ' तस्मादाथर्वणेन न शंसेदिति ' । अतस्त्रयीवाह्यानाथर्वणिकान्-पाषण्डिनः प्रतिजानते " । तद्युक्तम् । अविगानेन शिष्टानां वेदव्यवहारात् । ‘ श्रुतीरथर्वाङ्गिरसीरित्यत्रापि व्यवहारः । श्रुतिर्वेद इत्येकोऽर्थः । न च वेदशब्दवाच्यताऽग्निहोत्रादिवाक्यानामपि धर्म-प्रमाण्ये कारणम् । इतिहासायुर्वेदयोरपि वेदव्यवहारदर्शनात् ' इतिहासपुराणं पञ्चमं वेदानां वेदमिति ' । किं तर्हि अपौरुषेयत्वे सत्यनुष्ठेयार्थावबोधकत्वाद् विपर्यया-भावाच्च । तच्चाथर्ववेदेऽपि सर्वमस्ति, ज्योतिष्टोमादिकर्मणां यजुर्वेदादिष्विव तत्राप्यु-पदेशात् । अभिचारमूलककर्मणां बाहुल्येन तत्रोपदेशादवेदत्वमिति विभ्रमः केषा-ञ्चित् । अभिचारा हि परप्राणवियोगफलत्वात्प्रतिषिद्धाः; आथर्वणिकैश्च त एव प्राधान्ये-नानुष्ठीयन्ते राजपुरोहितैरतस्ते निन्द्यन्ते । यत्तु “ वेदैरशून्य ” इत्यादावथर्ववेदस्या-निर्देश इति । अर्थवादा एते । किं तत्र निर्देशेनानिर्देशेन वा । मन्त्रभेदाभिप्रायं वैत-द्वचनं त्रयो वेदास्त्रयी विद्येत्यादि । न हि चतुर्थं मन्त्रजातमस्ति ऋग्यजुः सामव्यति-रेकेण । प्रैषनिविन्निगदेन्द्रगाथादीनामत्रैवान्तर्भावात् । अथर्ववेदे चर्चएव मन्त्रत्वेन समा-म्नाता: । अत ऋग्वेद एवायं मन्त्राभिप्रायेण । यस्तु प्रतिषेधः स विपरीतसाधन: प्राप्तौ सत्यां प्रतिषेधोपपत्तेः । अयं वाऽस्यार्थः । अथर्ववेदाधीतैर्मन्त्रैस्त्रैवेदिकं कर्म न मिश्र-येत् । वाचः स्तोमे सर्वा ऋचः सर्वाणि यजूंषि सर्वाणि सामानि विनियुक्तानि तत्राथर्व-वेदाधीतानां प्रतिषेधः । सा वेदो विशिष्टः शब्दराशिरपौरुषेयो मन्त्रब्राह्मणाख्योऽनेकशाखाभेदभिन्नः धर्मस्य मूलं प्रमाणं परिज्ञाने हेतुः । कारणं मूलम् । तच्च वेदस्मृत्योर्धर्मप्रतिज्ञापकतयैव, न निर्वर्तकतया न च स्थितिहेतुतया, वृक्षस्येव । धर्मशब्दश्च प्राग् व्याख्यातः । यत्पुरुषस्य कर्तव्यं प्रत्यक्षाद्यवगम्यविलक्षणेन स्व-भावेन श्रेयःसाधनम् । कृषिसेवादि भवति पुरुषस्य कर्त्तव्यं, तस्य च तत्साधनत्वस्व-भावोऽन्वयव्यतिरेकाभ्यामवगम्यते । यादृशेन व्यापारेण कृष्यादेर्त्रीह्यादिसिद्धिः साऽपि प्रत्यक्षाद्यवगम्यैव । यागादेस्तु साधनत्वम् येन च रूपेणापूर्वोत्पत्तिर्व्यवधानादिना तन्न प्रत्यक्षाद्यवगम्यम् । श्रेयश्चाभिलषितस्वर्गग्रामादिफलप्राप्तिः सामान्यतः सुखशब्दवाच्या | व्याधिनिर्धनत्वासौख्यनरकादिफलप्राप्तिः सामान्यतो दुःखशब्दवाच्या तत्परिहारश्च । अन्ये तु परमानन्दादिरूपं ‘ श्रेयः ’ । अयं धर्मो ब्राह्मणवाक्येभ्योऽवगम्यते लिङादियुक्तेभ्यः । क्वचिच्च मन्त्रेभ्योऽपि ‘ वसन्ताय कपिञ्जलानालभत ' इत्येवमादिभ्यः । तत्र कामपदयुक्तानि वाक्यानि फलार्थमनुष्ठानमवगमयन्ति । ' सौर्यं चरुं निर्वपेद्

पृष्ठ 156

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 156 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८२ मनुस्मृतिः [ द्वितीयः ब्रह्मवर्चसकामो ’ ‘ वैश्वदेवींसाङ्गृहिणीं निर्वपेद्ग्रामकाम ' इति । तानि फलमनिच्छता न क्रियन्ते । अन्यानि यावज्जीवादिपदैर्नित्यतया समर्पितानि । तानि न फलहेतोरनु-ष्ठीयन्ते, फलस्याश्रुतत्वात् । न च “ विश्वजिता यजेते ” त्यादिवदश्रुतफलत्वेऽपि फल-कल्पना । यतो यावज्जीवादिपदैर्विनैव फलेन कर्तव्यतयाऽवगम्यन्ते । तत्रकरणे शास्त्रा-र्थातिक्रमदोषः । तत्र तत्परिहारार्थं तानि क्रियन्ते । प्रतिषेधानामपि, ' ब्राह्मणो न हन्तव्यः ' ‘ सुरा न पेया ' इत्येषैव वार्ता । न हि फलार्थं प्रतिषिद्धवर्जनमपि तु प्रत्यवायपरिहारार्थम् । अखिलः कृत्स्नः । न किञ्चित्पदं वर्णो मात्रा वा यन्न धर्माय । अत्र चोदयन्ति । ननु च विध्यर्थवादमन्त्रनामधेयात्मको वेदः । धर्मश्च कर्तव्यता-स्वभाव इत्युक्तम् । तत्र युक्तं यद्विधिवाक्यानि धर्मे प्रमाणं स्युः । तेभ्यो हि यागादि-विषया कर्तव्यता प्रतीयते । ‘ अग्निहोत्रं जुहोति ' ' दघ्ना जुहोति ’ ‘ यदग्नये च प्रजापतये च सायं जुहोति ’ ‘ स्वर्गकामो जुहोतीति ' । अत्र ह्यग्निहोत्राख्यं कर्म कर्तव्यतया प्रतीयते । ‘ दध्नेति ’ तत्रैव द्रव्यम् । ' यदग्नये चेति ' देवता । ' स्वर्गकाम ' इत्यधिकारः । यत्तु “ अग्निर्वै सर्वा देवता अग्निरेव दैव्यो होता स देवानाह्वयति च जुहोति च " इत्यादयः, तथा “ प्रजापतिर्वपामात्मन उदखिखदत् " इत्यादयः, न तैः किञ्चित्कर्तव्यमुपदिश्यते । केवलं पुरावृत्तमन्यद्वाऽसाम्प्रतिकं भूतमनुवदन्ति । प्रजापतिना पुरा आत्मनो वपोत्-खाता । उत्खिदतु — किमस्माकमेतेना? तथाऽग्नेरपि सर्वदेवतात्मत्वं नाग्नेयकर्मण्युप-युज्यते । अग्निशब्देनोद्देशार्थनिवृत्तेः । अन्यदेवत्वेऽन्यत्वादग्नेरुद्देश एव नास्ति । आवा-हनस्यापि वचनान्तरेण “ अग्निमग्न आवहे " त्यादिना विहितत्वात् । ' स देवानाह्वयति च जुहोति’चेत्यादिरनर्थकः । मन्त्रा अपि " न मृत्युरासीदमृतं न तर्हि ” “ सुदेवो अद्य पतेदनावृत् ” इत्यादयो भाववृत्तपरिदेवनादिरूपार्थाभिधायिनः कं धर्मं प्रमिमते? तस्मिन्-काले न मृत्युर्जातो नाप्यमृतं जीवितं, प्राक् सृष्टेर्भूतानामनुत्पन्नत्वान्न कस्यचिज्जीवित-मासीन्नापि मृत्युः; प्रलये सर्वेषां मृतत्वाद्भवतु वा मृत्युर्मा वा; न किञ्चिदेतेन कर्तव्य-मुपदिष्टं भवति । एवं सुदेवोऽसौ महापुण्यो, देवतुल्यो मनुष्यो योऽद्य प्रपतेच्छ्वभ्र आत्मानं क्षिपेदनावृदावृत्तिः प्रत्युज्जीवनं यस्मात्प्रपातान्न भवति । उर्वश्याविप्रलब्धाः पुरूरवाः परिदेवयाञ्चक्रे । तथा नामधेयम् “ उद्भिदा यजेत ' ' बलभिदा यजेत " इत्यादि, न कस्याचिदर्थस्य क्रियाया द्रव्यस्य वा विधायकमाख्यातेन क्रियाया विधानादद्रव्य-वचनत्वाच्च बलभिदादेः । सोमस्य वा व्यक्तचोदनत्वेन प्रकृतितः प्राप्तत्वान्न क्लेशेन द्रव्यवचनता कल्प्यते । तस्मान्नाम्ना न धर्मं उपदिश्यते । अतः कथमुच्यते कृत्स्नो वेदो धर्ममूलमिति । उच्यते । अनयैवाशङ्क्याऽखिलग्रहणं कृतम्, यतः सर्वेषामेतेषां धर्मप्रतिपादन-परत्वम् ।

पृष्ठ 157

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 157 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ८३ तथा ह्यर्थवादा नैव विधायकेभ्यो वाक्येभ्यः पृथगर्थाः येन धर्मं न प्रमिमीरन् । विभज्य मानसाकाङ्क्षत्वे विधिपरत्वावगमात्, तत्परत्वे च सिद्धायामेकवाक्यतायां, यथा तदर्थानुगुण्यं प्रतिपद्यन्ते तथा व्याख्येयाः । अतः प्रजापतेर्वपोत्खादनवचनं न स्वार्थ-निष्ठम् किं तर्हि विधिशेषम् । न च विधेयं द्रव्यगुणादि अर्थवादेभ्यः प्रतीयत इति प्रकारान्तरेण विधेयार्थस्तावकत्वेन तच्छेषतां प्रतिपद्यन्ते । तदपि तत्र प्रतीयत एव । इत्थं नाम पशुयागः कर्तव्यो यदसत्सु पशुषु गत्यन्तराभावात्प्रजापतिनाऽऽत्मैव पशु-त्वेन कल्पितो वपा चोत्खिन्ना । यतस्तत्सहितान्येव विधायकानि यत्रार्थवादाः सन्ति । यद्यपि तैर्विनाऽपि भवति विध्यर्थावगतिः, विध्युद्देशादेव “ वसन्ताय कपिञ्जलाना-लभत ” इति, तथापि न तेषामानर्थक्यम् । तेषु हि सत्सु न केवलादवगतिः । न च केनचित्कृते वेदो येनोच्यते ' यथाऽन्यत्र न सन्ति तथात्रापि मा भूवन् ' । सत्स्वर्थवा-देष्वस्माभिर्गतिर्वक्तव्या । सा चौक्ता । न चायमलौकिकोऽर्थः । लोकेऽपि हि स्तुति-पदानि दृश्यन्ते विधिशेषभूतान्येव । यथा भृतिदाने प्रवृत्तस्य स्वामिनः कश्चिद्भृतकः प्रीत्याऽऽचष्टे साधुर्देवदत्तो नित्यसन्निहितः परिचर्याभूमिज्ञस्तत्परश्चेति । अतो विधेयार्थ-स्तुतिद्वारेणार्थवादा विधायका एव । तथा क्वचिदर्थवादादेव विधेयविशेषावगतिः । यथा “ अक्ताः शर्करा उपदधाति । अत्र ह्यञ्जनसाधनं सर्पिस्तैलादि यत्किञ्चिद्विधिना-ऽपेक्षितम् । “ तेजो वै घृतम् ” इत्यर्थवादे घृतस्तुत्या घृतमध्यवसीयते । “ एवं प्रति-तिष्ठन्ति य एता रात्रीरुपयन्तीति " रात्रिष्वर्थवादादधिकारावगमः । तस्मादर्थवादा अपि धर्ममूलम् । मन्त्रास्तु केचिद्विधायका एव । यथा “ वसन्ताय कपिञ्जलानिति ” । आधारे देव-ताविधिर्मान्त्रवर्णिक एव । न हि तत्र देवता कर्मोत्पत्तिवाक्ये श्रुता नापि वाक्यान्तरेण विहिता । मन्त्रस्तु विहितो नियुक्तः “ इत इन्द्र ” इत्यादिः । अतोऽस्मान्मन्त्रवर्णाद्देवता-प्रतिपत्तिः । सहस्रशश्च मान्त्रवर्णिका देवताविधयः सन्ति । येऽप्यन्ते क्रियमाणानुवादिन-स्तेऽपि स्मृतिलक्षणं धर्ममेव बुद्धं कुर्वन्तीति भवन्ति धर्ममूलमनुष्ठेयार्थप्रकाशनेन । नाम त्वाख्यातार्थादभिन्नार्थमाख्यातार्थवत्सुप्रसिद्धधर्ममूलभावम् । गुणविधयश्च प्रायशो नामाश्रय एव । " शरदि वाजपेयेन यजेत स्वाराज्यकामो वाजपेयेनेति ” । तस्मात्सिद्धं कृत्स्नस्य वेदस्य धर्ममूलत्वम् । अन्ये तु श्येनादिवाक्यानां धर्मोत्पत्तिमत्त्वाभावमाशङ्कमाना निषेधानां च “ न लशुनं भक्षयेदि ’ ” त्यादीनामखिलग्रहणं मन्यन्ते “ अभिचारा हि श्येनादयो मारणात्मानो हिंसारूपाः । क्रूरत्वाच्च हिंसाया अभि-चाराणां च प्रतिषेधादधर्मत्वम् । अतो न कृत्स्नो वेदो धर्ममूलम् । कर्तव्यश्च धर्म उक्तः ।

पृष्ठ 158

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 158 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८४ मनुस्मृतिः [ द्वितीय: ब्रह्महत्यादिश्च न कर्तव्यः । अतः कथं तद्वाक्यानि धर्ममूलं स्युः? किञ्च येऽपि पशु-यागा अग्नीषोमीयादयस्तेऽपि हिंसासाधकत्वाद्दूरापेतधर्मभावाः । हिसा हि पापमिति सर्वप्रवादेष्वभ्युपगमः । उक्तं च ' यत्र प्राणिवधो धर्मअधर्मस्तत्र कीदृशः ” । कथं पुनरियमाशङ्काऽपनुद्यते? अखिलग्रहणात् । न ह्यस्यान्यत्प्रयोजनमस्ति । हेतुर्नोक्त इतिचेदागमग्रन्थोऽयं सिद्धमर्थमाह । हेत्वर्थिनो मीमांसातो विनीयन्ते । अस्मा-भिरुक्तं य आगममात्रेण प्रतियन्ति तान्प्रत्येतदुच्यते । विवरणकारास्तु युक्तिलेशमात्रं दर्शयन्ति । यदुक्तं श्येनादयः प्रतिषिद्धत्वादधर्म इतितत्सत्यम् । तथापि प्रतिषिद्धेष्वपि तेषु योऽत्यन्तप्रवृद्धद्वेषो न हिंस्याद्भूतानीत्यति-क्रान्तनिषेधाधिकारस्तस्य ते शत्रुवधलक्षणां प्रीतिमनुष्ठीयमानां निर्वर्तयन्तीत्येतावतां-ऽशेन वेदस्य धर्ममूलत्वं श्येनादिवाक्येष्वपि न विहन्यते । निषेधेष्वपि यो रागत: प्रवृत्तो हनने स निषेधे नियुज्यते । एतदेव निषेधस्यानुष्ठानं यन्निषिध्यमानस्याननु-ष्ठानम् । अग्नीषोमीयादौ तु नैव हिंसाप्रतिषेधोऽस्ति द्वेषलक्षणाया लौकिक्या हिंसाया निषेधेन निषिद्धत्वात् । शास्त्रीया तु विधिलक्षणा न निषेधेन विषयीक्रियते, लौकिक्यां चरितार्थत्वान्निषेधस्य । न च सामान्यतोदृष्टेन हिंसात्वाल्लौकिकहिंसावद्वैदिक्या: पाप-हेतुत्वमापादयितुं शक्यते । यतो न हिंसात्वं पापहेतुत्वे कारणम् अपि तु प्रतिषेधेन विषयीकरणम् । न चात्र प्रतिषेधोऽस्तीत्युक्तम् । कैश्चित्तु मूलशब्दः कारणपर्यायो व्याख्यायते । धर्मस्य वेदो मूलं प्रतिष्ठाकारणं साक्षात्प्रणाड्या च । ‘ स्वाध्यायमधीयीत ' ' ऋग्वेदं धारयन्विप्र ' इत्यादि चोदनासु साक्षात् । अग्निहोत्रादिकर्मस्वरूपज्ञापकतया प्रणाड्या । स्मृतिशीले च तद्विदाम् । अनुभूतार्थविषयं विज्ञानं स्मृतिरुच्यते । तच्छब्देन वेदः प्रत्यवमृश्यते । तं विदन्ति तद्विदः 1 । वेदार्थविदामिदं कर्तव्यमिदं न कर्तव्यमिति यत्स्मरणं तदपि प्रमाणम् । “ ननु च स्मृतिर्न प्रमाणमित्याहुः । सा हि पूर्वप्रमाणावगतप्रमेयानुवादिनी नाधिकमर्थं परिच्छिनत्तीति वदन्ति ” । सत्यम् । ये स्मरन्ति तेषामाद्यमेव तत्र शब्दादि प्रमाणं नात्मीया स्मृतिः । अस्माकं तु मन्वादिस्मृतिरेव प्रमाणम् । नहि वयं तामन्तरेणान्यतोऽष्टकादिकर्तव्यतामवगच्छामः । तच्च मन्वादीनामीदृशं स्मरणं तत्कृतेभ्यो वाक्येभ्यः स्मृतिपरम्परायातेभ्योऽवसीयते । तस्माच्च स्मरणादनुभूतोऽयमर्थः प्रमाणेन मन्वादिभिरिति निश्चिनुमो, यत एते स्मरन्ति, नह्यननुभूतस्य स्मरणोपपत्तिः । " ननु कल्पयित्वा ग्रन्थमुपनिबध्नीयुरननुभूयैव केनचित् प्रमाणेन । यथोत्पाद्य

पृष्ठ 159

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 159 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता वस्तु कथानकं केचन कवयः कथयेयुः ” अत्रोच्यते । भवेदेवं यद्यत्र कर्तव्यतोपदेशो न स्यात् । कर्तव्यतोपदेशो नार्थः । न च केचित्स्वेच्छया कल्पिते बुद्धिपूर्वव्यवहारिणोऽनुष्ठातुमर्हन्ति । ८५ ह्यनुष्ठा-“ भ्रान्त्याऽप्यनुष्ठानसिद्धिरिति चेत् । स्यादप्येकस्य भ्रान्ति:, सर्वस्य जगतो भ्रान्तिर्यावत्संसारभाविनी चेत्यलौकिकी कल्पना । न च सम्भवति मन्वादीनां वेद-मूलत्वे भ्रान्त्यादेरवसरः । अत एव प्रत्यक्षतो मन्वादयो धर्मान्ददृशुरिति नाभ्युप-गम्यते । इन्द्रियैरर्थानां सन्निकर्षे यज्ज्ञानं तत्प्रत्यक्षम् । न च धर्मस्येन्द्रियैः सन्निकर्षः सम्भवति, तस्य कर्तव्यतास्वभावत्वात् । असिद्धं च कर्तव्यम् । सिद्धवस्तुविषयश्च सन्निकर्षः । अनुमानादीनि तदात्वे यद्यप्यसन्तमर्थमवगमयन्ति पिपीलिकाण्डासञ्चारेण हि भविष्यन्तीं वृष्टिमनुमिमते तथापि न तेभ्यः कर्तव्यतावगतिः । तस्मात्कर्तव्यता-स्मरणस्यानुरूपकारणकल्पनायां वेद एवोपदिश्यते । स च वेदोऽनुमीयमानो मन्वादि-भिरुपलब्धः । इदानीमुत्सन्ना सा शाखा यस्याममी स्मार्ता धर्मा आसन् । तथा किमेका शाखाऽथ बह्वयः तासु च कश्चिदष्टकादिः कस्याञ्चिदित्येतदनुमानं प्रवर्तते । अथाद्यत्वे पठ्यन्त एव ताः शाखाः । किन्तु विप्रकीर्णास्ते धर्माः । कस्याञ्चि-च्छाखायामष्टकादीनां कर्मणामुत्पत्तिः, कस्याञ्चिद्द्रव्यं क्वचिद्देवता, क्वचिन्मन्त्र इत्येवं विप्रकीर्णानां मन्वादयोऽङ्गोपसंहारं सुखावबोधार्थं चक्रुः । अथ मन्त्रार्थवादलिङ्गमात्रप्रभवा एते धर्माः अथायमनादिरनुष्ठेयोऽर्थोऽविच्छिन्न-पारम्पर्यसम्प्रदायायातो वेदवन्नित्य उतास्मदादीनामिव मन्वादीनामपि परप्रत्ययानुष्ठानो नित्यानुमेयश्रुतिक इत्येवमादि बहुविकल्पं विचारयन्ति विवरणकाराः । एतावांस्तु निर्णयः । वैदिकमेतदनुष्ठानं स्मार्तानां वैदिकैर्विधिभिर्व्यतिषङ्गावगमाद-नुष्ठातॄणां च तद्दृष्ट्वानुष्ठानात् । व्यतिषङ्गश्च दर्शितः । क्वचिद्वैदिकमङ्गम् प्रधानं स्मार्तं क्वचिदेतदेव विपरीतं क्वचिदुत्पत्तिः क्वचिदधिकारः क्वचिदर्थवाद इति । एवं सर्व एव स्मार्ता वैदिकैर्व्यतिषक्ताः । निपुणतश्चैतन्निर्णीतमस्माभिः स्मृतिविवेके—

स्मार्तवैदिकयोर्नित्यं व्यतिषङ्गात्परस्परम् ।

कर्तृत: कर्मतोवाऽपिवियुज्यतेतेनजातुतौ ॥

प्रत्यक्षश्रुतिनिर्दिष्टं येऽनुतिष्ठन्ति केचन ।

तएव यदि कुर्वन्ति तथा स्याद्वेदमूलता ॥

प्रामाण्यकारणं मुख्यं वेदविद्भिः परिग्रहः ।

तदुक्तं कर्तृसामान्यदनुमानं श्रुतीः प्रति ॥

विशेषनिर्धारणे तु न किञ्चित्प्रमाणं न च प्रयोजनम् । मनु I- 10 Phy

पृष्ठ 160

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 160 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८६ मनुस्मृतिः [ द्वितीयः उत्सादोऽपि सम्भाव्यते । दृश्यन्ते हि प्रविरलाध्येतृका अद्यत्वेऽपि शाखाः । ताभ्यः सम्भाव्यभाव्युत्सादाभ्यो विधिमात्रमर्थवादविरहितमुद्धृत्योपनिबद्धं स्मृतिकारै-रिति कैश्चिदभ्युपगम्यते । “ ब्राह्मणोक्ता विधयः तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्त ” इत्यापस्तम्ब: ( १।४।१० ) । अत्र तुयैवं महाप्रयोजना शाखा यस्यां सर्वे स्मार्ता गार्ह्याश्च सर्ववर्णाश्रमधर्मा आम्नातास्तस्या उपेक्षणमसम्भाव्यम्, सर्वाध्येतॄणां चोत्साद इत्यादि वह्वदृष्टं प्रकल्प्यम् । विप्रकीर्णानां त्वर्थवादगहनानां क्रत्वर्थपुरुषार्थतया च दुर्विज्ञानानां प्रयोगोन्नयन-मभियुक्तानां न्यायतो निश्चितार्थानां घटते । अस्मिंस्तु पक्षे विरोधद्वयस्यापि प्रत्यक्षश्रौतत्वाद्विकल्पेन स्मृतेर्बाधः । स च विशि-ष्टानां नाभिप्रेतः । स्मृतिकाराश्च बाधमनुमेयश्रुतिमूलत्वं च प्रतिपन्नाः । एवमप्याह गौतमः ( ३।३५ ) – “ ऐकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानाद्गार्हस्थ्यस्येति ” । यदि हि मन्वादीनां प्रत्यक्षास्ताः शाखा अभवन्केयं वाचोयुक्ति गार्हस्थ्यस्य प्रत्यक्षविधाना-दिति । ननु सर्व एवाश्रमाः प्रत्यक्षविधानाः । स्वमतमेव चैतद्गौतमेनाचार्यापदेशेनोप-दिष्टम् – ‘ तस्याश्रमविकल्पम् ' ( ३।१ ) इत्याद्युपक्रम्यानेनोपसंहृतत्वात् । मन्त्रार्थवादप्रमाणभावोऽप्यविरुद्धः । यद्यप्यर्थवादा विध्युद्देशस्तुतिपरा न स्वार्थस्य विधायकास्तथापि केषाञ्चिदन्यपरतैव नोपपद्यते यावत्स्वार्थविषयो विधिर्नावगमितः । यथा ' स्तेनो हिरण्यस्य सुरां पिबंश्चेत्यादेः पञ्चाग्निविधिशेषतैवमेतावतैव नोपपद्यते यावद्धिरण्यस्तेयादेः प्रतिषेधो नावगमितः । य एतां विद्यामधीते स हिरण्यस्तेयाद्यप्या-चारंस्तैश्च संवसन्न पतति, अन्यथा तु पततीत्यवगतिरविरुद्वा । “ अथ विध्युद्देशो विधेः प्रतिपादको, नार्थवाद इति केनैषा परिभाषा कृता । ‘ एते पतन्ति चत्वार ' इत्यत्राप्याख्यातश्रवणमस्ति । ' लिङादयो न सन्तीति ' चेत् ' प्रतितिष्ठ-न्तीति ' रात्रिष्वपि नैव लिश्रुतिरस्ति । अथ ' तत्राधिकाराकाङ्क्षायामेकवाक्यतायां सत्यां पञ्चमलकारादिकल्पनया विध्यवसायः ', एवमत्रापि भविष्यति । बहवश्च द्रव्यदेवता-विधायोऽर्थवादावगम्याः सन्ति । तत्र यस्य विधेः शेषा अर्थवादास्तद्विधिनैव द्रव्यदेवता-देरपेक्षितत्वाद्विशेषसमर्पणमात्रे व्यापारान्तर्गतविशेषावगतिरर्थवादाधीना न दोषाय । इह तु तदसम्बद्धस्य विघ्यन्तरस्येष्यमाणत्वाद्वाक्यभेदापत्तिरतश्च न प्रकृतिशेषता । तद-भावे च तन्मूला प्रतिषेधावगतिर्न स्यादतश्च ' अक्ताः शर्करा उपदधाति ' ' तेजो वै घृतमित्यनेन वैषम्यमित्याहुः । " तदसत् । सत्यप्यर्थान्तरत्वे तदेकवाक्यतामूलत्वादस्यावगतेर्नास्ति वाक्यभेदाभि-चोद्यापत्तिः ।