मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 161–170

मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 161–170

पृष्ठ 161

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 161 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ८७ मन्त्राः प्रयोगप्रकाशत्वेन रूपादेवावगतास्तस्य प्रयोगस्यान्यतोऽसिद्धेः प्रकाश-कत्वनिर्वहणाय प्रकाश्यं कल्पयन्ति । न वाऽसतोरुत्पत्त्यधिकारयोः प्रकाशनमष्टकायाः सम्भवतीत्युत्पत्त्यधिकारविनियोगबोधका मन्त्राः । एवं मान्त्रवर्णिकाश्च विधयोऽप्युपग-म्यन्ते । यथाऽऽधारे देवताविधिः । चतुष्पाद्धि धर्मोऽभ्युपगतस्तत्राल्पतरांशः श्रुतः, सकलेतरांशबोधहेतुस्तथा-विध एव, विधौ सम्बन्धग्रहणादिति । सर्वथा तावत्सम्भवति वेदसंयोगः । मनुर्बहुभिर्बहुशाखाध्यायिभिः शिष्यैरन्यैश्च श्रोत्रियैः सङ्गतस्तेभ्यः शाखाः श्रुत्वा ग्रन्थं चकार । ताश्च मूलत्वेन प्रदर्श्य ग्रन्थं प्रमाणीकृतवान् । एवमन्ये तत्प्रत्ययादनुष्ठा-नमादृतवन्तो न मूलोपलम्भे यत्नं कुर्वन्ति । अस्माकं चैतदनुमानम् । अतो विरोधे सत्यपि तुल्ये श्रौतंत्वे बाधोपपत्तिः । प्रत्यक्षया श्रुत्या प्रयोगसम्पत्तौ श्रुत्यन्तरं प्रत्याकाङ्गैव नास्ति । यथा सामिधेनीषु साप्तदश्यपाञ्चदश्ययोः पाञ्चदश्येन प्रकृतिरवरुद्धा साप्तदश्यं प्रत्यक्षश्रुतमपि नाकाङ्क्षति । आभिधानिको ह्यर्थः सन्नि-कृष्यतेऽभिहितार्थाकाङ्क्षावगम्यं प्रत्ययं विप्रकर्षाद्दुर्बलं बाधते । न चैतावताऽप्रामाण्या-पत्तिः । यथा प्राकृतान्यङ्गानि विकृतिषु चोदकप्राप्तानि वैकृतिकैर्विरुध्यमानानि बाध्यन्ते तद्वदेव द्रष्टव्यम् । यत्र सम्प्रदायविच्छेदस्तत्र च परम्परापत्तिः । न हि तत्र कस्यचित्प्रमाणं प्रवृत्तम् । नित्यानुमेयपक्षोऽपि सम्प्रदायपक्षान्नातीव भिद्यते । मन्वादिस्मरणस्य वयं मूलं परीक्षितुं प्रवृत्ताः । यदि च तेषामप्यसावनुमेयो वेदो वयमिव न ते स्मर्तारः । नच यः पदार्थो न कस्यचित्प्रत्यक्षस्तस्यानुमेयता सम्भवत्यन्वयासम्भवात् । क्रियादिषु सामान्यतोऽस्त्येव सम्बन्धदर्शनम् । यदि वाऽर्थापत्त्यवसेयाः क्रियादयो न चेहान्यथाऽनुपपत्तिरस्ति । तस्मादस्तिमन्वादीनामस्मिन्नर्थे वेदसम्बन्धो, न पुनरयमेव प्रकार इति निर्धार-यितुं शक्यम् । द्रढीयसी कर्तव्यतावगतिर्वेदविदां वेदमूलैव युक्ता कल्पयितुं, न भ्रान्त्यादि-मूलेत्यवगत्यनुरूपकारणकल्पना कृता भवति । तत्रोत्सादविप्रकीर्णे मन्त्रार्थवादे प्रत्यक्ष-वेदानां कारणानां सम्भवात्कल्प्यत्वमुपशेते । प्रत्यक्षोऽपि विधिः क्वचिन्मूलत्वेन दृश्यते ' न मलवद्वाससा सह संवदेदिति । स चाध्ययने चोपनयने च पठ्यते । तदेतल्लेशतोऽस्माभिरुक्तम् । विस्तरस्तु स्मृतिविवेकाज्झातव्यः ।

शाखाः काश्चित्समुत्पन्नाः, पक्षो नैष मतो मम ।

पक्षेऽस्मिन्न प्रमाणं हि वह्नदृष्टं प्रसज्यते ॥

उपपन्नतरः पक्षो विक्षिप्तानां ततस्ततः ।

उत्पत्त्यादिसमाहारः प्रायशो दृश्यते - ह्यदः ॥

पृष्ठ 162

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 162 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८८ मनुस्मृतिः अनेकशिष्योपाध्यायैः श्रोत्रियैरादृतोऽपरैः ।

उपपन्नस्तदानीं च दृष्टमूलैः परिग्रहः ।

शक्तो रचयितुं श्रुत्वा शाखां तां तां कुतश्चन ॥

[ द्वितीय: निश्चयोऽस्माकमप्यद्य यथा सम्भवतः स्थितः ॥

प्रयोगद्योतकामन्त्रा, द्योतनं तस्य नामतः ।

नतेऽधिकारोत्पत्तिभ्यां प्रयोगस्यास्ति सम्भवः ॥

विशिष्टदेवतालाभ आधारे मान्त्रवर्णिकः । प्रकाशकत्वान्मन्त्रस्य या

सिद्धरूप एकस्मिन्रूपान्तरगतिर्भवेत् ।

तन्निर्वहणहेतुकः ॥

न सा स्वरूपनाशाय विश्वजित्यधिकारवत् ॥

प्रतिपन्ने विधौ युक्तं तत्सम्बन्धार्थकल्पनम् ।

गतिर्मन्त्रार्थवादेभ्यो न दृष्टा चेद्विधेः क्वचित् ॥

“ लिङादिगम्यंभगवान्विधिं स्मरति पाणिनिः ।

न शक्तास्ते विधिं वक्तुं सिद्धवस्त्वभिधायिनः ॥

व्याख्येयो गुणवादेन योऽर्थवादादतत्परात् ।

अर्थोऽधिगन्तुमिष्येत कथं स्यात्तस्य सत्यता ॥

भिन्द्याद्वाक्यं न प्रतिष्ठा साकाङ्क्षा रात्रयो यतः ।

विशेषे तद्गते युक्ता वाक्यशेषावगम्यताः ॥

स्तेयादीनां निषेधेऽपि विध्यन्तरगतिर्भुवा ।

ततश्च वाक्यभेदः स्यान्नोपन्यासस्ततः समः ॥

वाचः स्तोमे प्रयुज्यन्ते सर्वे मन्त्रविधिश्रुतेः ।

नाष्टकादौ विशेषोऽस्ति हेतुर्मन्त्रस्य बोधने ॥

विना सामान्यसम्बन्धाल्लिङ्गं च विनियोजकम् । ब्रुवन्त्यत्र न च नास्त्यस्य सम्बन्धो विना प्रकरणादिभिः ॥ केचित्तन्मूलवादिनः । परिहारं पञ्चमेन लकारेण रात्रिषु प्रतितिष्ठन्तीत्यसत्स्वेव लिङादिषु ॥

तदर्थगतिरिष्यते ।

पतन्ति न म्लेछितवा इत्यादिषु तथा भवेत् ॥

ऋचां विधिर्वाचिस्तोमे सर्वदाशतयोरिति ।

दशभ्यो मण्डलेऽभ्यस्ता वर्णिताः पठिता वहिः ॥

सामान्यसम्बन्धकारी समाख्यैवेति गीयते ।

समाख्या गृह्यमन्त्राणां तेन तेनास्ति कर्मणाम् ॥

पृष्ठ 163

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 163 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता अध्याय: ] पञ्चाग्निविद्याशेषत्वं

हिरण्यस्तेननिन्दया ।

स्तोनो हिरण्यवाक्यस्य, न विना तन्निषेधतः ॥

शेषत्वावगमोर्थात्तु तदकर्तव्यता तु या ।

द्रढिम्ने शेषतायाः, सा न पुनस्तद्विरोधिनी ॥

नित्यानुमेयपक्षो यो वाऽप्यागमपरम्परा ।

तयोरन्धप्रवाहत्वं न भेदः कश्चिदीक्ष्यते ॥

८ ९ एवं च सति या गौतमेन प्रत्यक्षविधानता गार्हस्थ्यस्योक्ता सा शब्दस्याव्यवहित-व्यापाराभिप्रायेण । श्रवणान्तरं योऽर्थः प्रतीयते स प्रत्यक्षः । यस्तु प्रतीतेऽर्थे तत्सा-मर्थ्यलोचनया गम्यः स विलम्बितत्वात्प्रतिपत्तेर्न प्रत्यक्षः इति सर्वमुपपन्नम् । स्मृतिशीले च तद्विदाम् । स्मृतिश्च शीलं च स्मृतिशीले । शीलं रागद्वेषप्रहाण-माहुः । तच्च धर्ममूलं वेदस्मृतिवन्न ज्ञापकतया किन्तु निर्वर्तकत्वेन । रागद्वेषप्रहाणाद्धि धर्मो निर्वर्तते ॥ “ ननु च श्रेयःसाधनं धर्म इत्युक्तम् । रागद्वेषप्रहाणमेव च तत्स्वभावम् । व्यतिरेके किमुच्यते रागादिप्रहारणाद्धर्मो निर्वर्तत इति । ” तत्रासति उक्तमस्माभिर्धर्मशब्दोयं स्मृतिकारैः कदाचिद्विधिनिषेधविषयभूतायां क्रियायां प्रयु-ज्यते, कदाचित्तदनुष्ठानजन्य आफलप्रदानावस्थायिनि कस्मिंश्चिदर्थे । तस्य च सद्भावे शब्द एव प्रमाणम् । यदि हि यागस्तथाविधं वस्त्वनुत्पाद्य विनश्येत्तदा कालान्तरे कुत: फलोत्पत्ति: । तदेतद्वस्तु धर्मशब्देनात्राभिप्रेतम् । तस्य शीलं मूलमिति न किञ्चिदनुप-पन्नम् । तदभिप्राया एव व्यवहाराः । “ एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः ” इति । क्रियाया अनुष्ठांनसमनन्तरमेव नाशात्कुतः कालान्तरान्वयः । अत्र चोद्यते । “ ननु सर्व एव श्रुतिस्मृतिविहितोऽर्थो धर्मस्य मूलम् । शीलस्यापि तत्रान्तर्भावाद्भेदेनोपादानमनर्थकम् । विधायिष्यते च ' इन्द्रियाणां जये योगं समातिष्ठे-द्दिवानिशम् । यस्मिञ्जिते जितावेतौ भवतः पञ्चकौ गणाविति ' । अयमेव मनसो जयो यो रागद्वेषयोः परित्याग इति वक्ष्यामः ” । केचिदाहुरादरार्थः पृथगुपदेशः । एतद्धि सर्वकर्मणामनुष्ठान उपयुज्यते, स्वप्रधानं च अग्निहोत्रादिकर्मवत् । सर्ववर्णधर्मश्चायं सर्वाश्रमधर्मश्च । अतः सामान्यधर्मलक्षणा-वसरेऽस्मिन्रुच्यते । वयं तु ब्रूमः । समाधिः शीलमुच्यते । तथाहि ' शीलसमाधाविति ' धातुषु पठ्यते । समाधानं च मानसो धर्मः । यच्चेतसोऽन्यविषयव्याक्षेपपरिहारेण शास्त्रार्थनिरूपणप्रव-णता तच्छीलमुच्यते । द्वन्द्वश्चायमितरेतरयोगे । तेन परस्परसापेक्षयोः स्मृतिशीलयोः धर्मप्रति प्रामाण्यमे-

पृष्ठ 164

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 164 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ० मनुस्मृतिः [ द्वितीयः वाभिप्रेतं, न पूर्ववन्निर्वर्तकत्वम् । एतदुक्तं भवति । समाधानवती या स्मृतिः सा प्रमाणं न स्मृतिमात्रम् । तेन सत्यपि वेदार्थवित्त्वे यदतत्पराणां स्मरणं न तद्धर्ममूलं भ्रान्त्यादि-सम्भवाच्छास्त्रार्थावधानशून्यानाम् । च शब्द इह पठ्यते । स तद्विदामित्यस्मादनन्तरं द्रष्टव्यः । वृत्तानुरोधात्त्वेवं पठितः । समुच्चयार्थश्चासौ पूर्वप्रकृतस्य च समुच्चेतव्यस्याभावात्तृतीये पादे यत्साधूना-मित्युक्तं तत्समुच्चिनोति । अतस्त्रीणि विशेषणान्यत्राश्रीयन्ते । विदुषामुपाध्यायादाग-मितविद्यानां तथा तदभ्यासपराणामनुष्ठानपराणां च स्मृतिः प्रमाणम् । एतत्सर्वं मन्वा-दीनामासीदिति स्मर्यते । नान्यथा तत्कृतेषु ग्रन्थेषु शिष्टानां परिग्रहोपपत्तिः । “ यद्येवं स्पष्टमेव वक्तव्यम्, ‘ मन्वादिवाक्यानि धर्ममूलमिति । ' किमेतेन लक्षणेन । ” सत्यम् । यः कथञ्चित्तत्प्रामाण्ये विप्रतिपद्येत तं प्रति न्यायशास्त्रप्रसिद्धं प्रामाण्य-हेतुकथनमेतत् । अद्यत्वेऽपि यस्यैतद्धेतुसद्भावः सोऽपि मन्वादिवद्ग्राह्यवाक्यः स्यात् । तथा च विदुषां प्रायश्चित्ताद्युपदेशे । तथाभूता एव परिषत्त्वेन प्रमाणीभवन्ति “ एकोऽपि वेदविद्धर्मं यो व्यवस्येद्विजोत्तम " इति । अत एव स्मर्तृपरिगणना मनुर्विष्णुर्य्यमोऽ-ङ्गिरा इति निर्मूला । तथा हि पैठीनसिबौधायनप्रचेतः प्रभृतयः शिष्टैरेवंरूपाः स्मर्यन्ते । न च परिगणनायामन्तर्भाविताः । सर्वथा यमविगानेन शिष्टाः स्मरन्ति वदन्ति वा एवंविधैर्गुणैर्युक्तम् । तेन चैतत्प्रणीतमिति तस्य वाक्यं सत्यपि पौरुषेयत्वे धर्मे प्रमाणं स्यादिति । स्मृतिशीले च तद्विदाम् इत्यस्यार्थः । अद्यत्वे य एवंविधैर्गुणैर्युक्त ईदृशेनैव च हेतुना ग्रन्थमुपनिबन्धीयात्स उत्तरेषां मन्वादिवत्प्रमाणीभवेत् । इदानीन्तनानां तु यदेव तत्र तस्य बोधकारणं तदेव तेषा-मस्तीति न तद्वाक्यादवगतिः । इदानीन्तनो हि यावन्मूलं न दर्शयति तावन्न विद्वांसस्तद्वाक्यं प्रमाणयन्ति । दर्शिते तु मूले प्रमाणीकृते ग्रन्थे कालान्तरे यदि कथञ्चिदष्टकादिमूल-तुल्यता स्यात्तदा तेषां शिष्टपरिग्रहान्यथानुपपत्त्या तन्मूलानुमानं युक्तम् । आचारश्चैव साधूनाम् । चशब्देन वेदविदामिति सम्बध्यते । पदद्वयेन शिष्टत्वं लक्ष्यते । शिष्टानां य आचारः सोऽपि धर्मे मूलम् । आचारो व्यवहारः अनुष्ठानम् । यत्र श्रुतिस्मृतिवाक्यानि न सन्ति शिष्टाश्च धर्मबुद्धयाऽनुतिष्ठन्ति तदपि वैदिकमेव पूर्वव-त्प्रतिपत्तव्यम् । यथा विवाहादौ कङ्कणबन्धनादि माङ्गलिकत्वेन यत्क्रियते, या च कन्यायास्तदहर्विवाहयिष्यमाणायाः प्रख्यातवृक्षयक्षचतुष्पथादिपूजा देशभेदन, तथा चूडा-सङ्ख्यादेशभेदश्च, या चातिथ्यादीनां गुर्वादीनां चानुवृत्तिः प्रियहितवचनाभिवादना-भ्युत्थानादिरूपा, तथा पृनिसूक्तं तृणपाणयोऽधीयते अश्वमेधमश्वं यथा समर्पयन्तः । ईदृश आचारः । एषोऽपि हि स्वभावभेदेन पुरुषाणां मनःस्वास्थ्यादौः स्थ्यादिभेदेनानेकरूपः प्रति-

पृष्ठ 165

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 165 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता ९ १ विशेषमानन्त्यादशक्यो । ग्रन्थेनोपनिबद्धुम् । यदेव बहुशः प्रियमस्येत्युपलक्षितं तदेवा-वसरान्तरे विपरीतं सम्पद्यते । तथा पर्युपासनं गृहस्थेनातिथेः क्रियमाणं कस्यचित्प्रीति-करं ' ममायं भृत्यवत्तिष्ठति ', अन्यस्त्वन्यथा ' निर्यन्त्रणया न लभ्यत आसितुमस्मिन्सन्नि-हित ' इति पर्युपासनयैव विरज्यति । न तत्र सामान्यतः शक्यं वेदानुमानं न विशेषतः । अष्टकादीनां तु नियतैकरूपसमस्तप्रयोगस्मरणमित्येष स्मृत्याचाराणां भेदः । आत्मनस्तुष्टिरेव च । धर्ममूलमित्यनुषज्यते । वेदविदां साधूनामिति च । अस्याश्च धर्ममूलत्वं प्रामाण्येनैवेत्याहुः । यत्र ह्येबंविधानामनुष्ठेयेऽर्थे मनः प्रसी-दति द्वेषो न भवति स धर्मः । " ननु च यस्य प्रतिषिद्ध एवार्थे मनः प्रसीदेत्स धर्मः प्राप्नोति । विहिते च किङ्कथिका स्यात् स न धर्म इति । ” एवमेतदीदृशानां महात्मनां मतिमतां महाप्रभावो मनःप्रसादो येनाधर्मोऽपि धर्मता-मेति धर्मश्चाधर्मतां न रोगद्वेषादिदोषवताम् । यथा रुमायां यत्किञ्चिद्द्रव्यं प्रविशति तत्सर्वं लवणसात्सम्पद्यते, एवं वेदविदा सहसोत्पन्नेन मन: परितोषेण सर्वं निर्मली-क्रियते । अतो यथा प्रतिषिद्धमपि ग्रहणं षोडशिनि विधिनाऽनुष्ठीयमानं न दोषाय । न चात्र ग्रहणवद्विकल्पः । प्रतिषेधा ह्यात्मतुष्टिव्यतिरेकेणान्यत्र विषये व्यवस्थाप्यन्ते । अथवा नैव तेषामधर्मे आत्मा परितुष्यति । यथा विषघ्नीमेवौषधीं नकुलो दशति ना-न्याम् । अत उच्यते “ नकुलो यां यां दशति सा सा विषघ्नीति ” । इह भवन्तश्चाहुः । ये वैकल्पिकाः पदार्थास्तेषु यस्मिन्पक्षे मनः प्रसीदति स पक्ष आश्रयितव्यः । वक्ष्यति च द्रव्यशुद्धौ प्रायश्चित्तेषु च " तस्मिंस्तावत्तपः कुर्याद्यावत्तुष्टिकरं भवेत् ” । अथवा योऽ-श्रद्दधानो नास्तिकतया तस्यानधिकारमाह । नास्तिकस्य हि न वैदिकं कर्म कुर्वतोऽ-प्यात्मा तुष्यति । अतस्तेन क्रियमाणमपि कर्म निष्फलमेव । अथवा सर्वकर्मविषयो

भावप्रसाद उपदिश्यते, अनुष्ठानकाले क्रोधमोहशोकादि त्यक्त्वा प्रमुदितेन भाव्यम् ।

अतश्च शीलवदस्याः सर्वशेषतया धर्ममूलत्वाभिधानम् ॥ ६ ॥

-हिन्दी – सब देव, उन्हें ( वेदों को ) जानने वालों ( मनु आदि ) की स्मृति और ब्राह्मणत्व आदि तेरह प्रकार के शील या राग - द्वेष - शून्यता, महात्माओं का आचरण और अपने मन की प्रसन्नता ( जहाँ धर्मशास्त्रों में अनेक पक्ष कहे गये हैं, वहाँ जिस पक्ष वाले विधान को स्वीकार करने में अपना मन प्रसन्न हो ), ये सब धर्म के मूल हैं ॥६ ॥

धर्मों की देवमूलकता-यः कश्चित्कस्यचिद्धर्मो मनुना परिकीर्तितः ।

स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥७ ॥

पृष्ठ 166

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 166 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ २ मनुस्मृतिः भाष्य — यदुक्तं वेदवित्सम्बन्धेन स्मृतेः प्रामाण्यं तदनेन प्रकटयति । [ द्वितीयः यः कश्चिद्धर्मो वर्णधर्म आश्रमधर्मः संस्कारधर्मः सामान्यरूपो विशेषरूपश्च कस्यचिद्ब्राह्मणादेर्वर्णस्य । मनुना परिकीर्तितः । स सर्वोऽपि वेदेऽभिहितः प्रतिपादितः । यथा चैतत्तथा पूर्वश्लोक उक्तम् । सर्वज्ञानमयो हि सः । सर्वेषां ज्ञाना-नामदृष्टविषयाणां हेतुर्निमितं वेदः । सर्वैर्ज्ञानैर्निर्मित इवेति ज्ञाने तद्विकारत्वमध्यारोप्य मयट् कृतः । यो हि यद्विकारः स तन्मयस्तत्स्वभाव इत्युच्यते । वेदश्च ज्ञानहेतुत्वा-त्तन्मय इति । सत्कार्यदर्शने कारणं कार्यस्वभावमिति । अथवा सर्वज्ञानाद्धेतोः आगतः ' हेतुमनुष्येभ्य ' ( पा ० सू ० ४-३-८१ ) इति मयट् क्रियते ॥ ७ ॥

हिन्दी - मनु ने जिस किसी ( ब्राह्मण आदि ) का जो धर्म कहा है, वह सब धर्म वेदों में कहा गया है | वे मनु सब वेदों के अर्थों के ज्ञाता हैं ( अथवा वह सब ज्ञान-स्वरूप हैं ) || ७ || धर्म - निश्चय के विषय में विद्वानों के कर्त्तव्य-सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा । श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै ॥८ ॥

भाष्य — सर्वं ज्ञेयं कृतकाकृतकम् । शास्त्रगोचरं प्रत्यक्षादिगोचरमप्रत्यक्षादिगोचरम् । समवेक्ष्यैतज्ज्ञानचक्षुषा तर्कव्याकरणनिरुक्तमीमांसादिविद्यास्थानश्रवणचिन्तनात्मकेन । चक्षुरिव चक्षुः शास्त्राभ्यासो, ज्ञानस्य कारणत्वसामान्यात् । यथा चक्षुषा रूपं ज्ञायते एवं शास्त्रेण धर्म इति सामान्यम् । समवेक्ष्य सम्यग्विचारपूर्वकं निरूप्य । श्रुतिप्रामाण्यतो वेदप्रामाण्येन धर्मे निविशेत । धर्ममनुतिष्ठेत् । सर्वेषु हि शास्त्रेषु सम्यग्ज्ञातेषु वेदप्रमाण्यमेवावतिष्ठते । नाज्ञातेषु । तथाहि तानि शास्त्राणि निपुणत्वेन चिन्तयन् न तेषां प्रामाण्ये सम्यग्युक्तिरस्ति, वेदे त्वस्तीति निश्चि-नोति । सर्वग्रहणं ज्ञेयविशेषणम् । निखिल शब्दश्च समवेक्ष्येति क्रियाविशेषणम् । निखिलं समवेक्ष्य नि: शेषेणपूर्वपक्षेण शास्त्रान्तराणां प्रामाण्ये, वेदस्य वाऽप्रामाण्ये यावन्त्य: काश्चन युक्तयः प्रतिभासन्ते ताः सर्वाः प्रदर्श्य, सिद्धान्तसिद्धैर्हेतुभिर्यथा-लक्षणलक्षितौर्नराकृत्य स्वपक्षसाधने चोपन्यस्ते वेदप्रामाण्यमवतिष्ठत इति निखिल-शब्देन प्रदर्श्यते । तेन तौ निखिलसर्वशब्दौ पर्यायावपि भिन्नविषयत्वान्न पुनरुक्तौ । स्वग्रहणमनुवादः । यो ह्यन्यस्य धर्मः सोऽन्यस्याधर्म एव ॥८ ॥

हिन्दी – विद्वान् मनुष्य वेदार्थज्ञानोचित सम्पूर्ण शास्त्र - समूह को व्याकरण - मीमां-सादि को ज्ञानरूपी नेत्रों से सब देखकर ( विचार कर ) वेद - प्रमाण से अपने कर्तव्य धर्म को निश्चय कर अनुष्ठान करे ॥ ८ ॥

पृष्ठ 167

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 167 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता श्रुतिस्मृत्युक्त धर्म के अनुष्ठान का फल-श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन् हि मानवः । इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥ ९ ॥

९ ३ भाष्य — यो नास्तिकतया वैदिकानि निष्फलानि कर्माणीति व्यामुह्य न तदनुष्ठाने प्रवर्तेत तस्य प्रवृत्त्यर्थं सुहृद्भूत्वा दृष्टफलप्रदर्शनं करोति । तिष्ठतु तावदन्यत्फलम् । श्रुतौ स्मृतिषु च यदुदितमुक्तं धर्माख्यं कर्म तदनुतिष्ठन्निहास्मिल्लोके यावज्जीवति तावत्कीर्तिं प्रशस्यतां पूज्यतां सौभाग्यं लभते । न्याय्ये पथि स्थितो महापुण्योऽयमिति सर्वेण पूज्यते, प्रियश्च सर्वस्य भवति । प्रेत्य देहान्तरे । यस्मादन्यदुत्तमं नास्ति तत्सुखं प्राप्नोति । प्रायेण स्वर्गकामस्याधिकारः । निरतिशया च प्रीतिः स्वर्गस्तत उच्यते अनुत्तममिति । तस्मान्नास्तिकस्यापि दृष्टफलार्थिनोऽत्रैव प्रवृत्तिः प्रयुक्तेत्येवम्परमेतत् ॥९ ॥

हिन्दी - वेदों और स्मृतियों में कहे गये धर्म का अनुष्ठान ( पालन ) करता हुआ मनुष्य इस संसार में यश पाता है और धर्मानुष्ठानजन्य स्वकर्मादि के अनुत्तम सुख को पाता है ( अतएव वेद - स्मृति - प्रतिपादित धर्म का अनुष्ठान करना चाहिए ) ॥ ९ ॥

श्रुति और स्मृति का परिचय–

श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्तृतिः ।

ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ ॥ १० ॥

भाष्य— “ किमिदं शब्दार्थसम्बन्धस्मरणमभिधानकोशशास्त्रम् - ‘ आत्मभूः परमेष्ठी’त्यादिवन्न धर्मशास्त्रं, येनेदमुच्यते ' श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिरिति । ’ उच् । इह सदाचारो न श्रुतिर्न स्मृतिर्निबन्धाभावात् । निबद्धाक्षरा हि स्मृतय: प्रसिद्धाः । अतस्तस्य स्मृतित्वमुपपादयति । यत्कार्यधर्मशास्त्यर्थं तत् धर्मशास्त्रम् । यत्र धर्मः शिष्यते कर्तव्यतया प्रतीयते सा स्मृतिः । निबन्धानिबन्धावप्रयोजकौ । शिष्ट-समाचारादपि धर्मस्य कर्तव्यतावगतिः । सोऽपि स्मृतिरेव । ततश्च यत्र कस्मैचित्कार्याय स्मृतेरुपादानं तत्र सदाचारोऽपि ग्रहीतव्यः । धर्मशास्त्रं चेत्स्मृतिर्वेदोऽपि सर्वमुख्यं धर्मशासनमिति तस्यापि स्मृतित्वप्रसङ्ग-स्तन्निवृत्त्यर्थमाह — श्रुतिस्तु वेदो विज्ञेयः । यत्र श्रूयते धर्मानुशासनशब्दः सा श्रुतिः । यत्र च स्मर्यते सा स्मृतिः । तच्च समाचारेऽप्यस्तोत्यतः सोऽपि स्मृतिरेव । न हि तत्रा-प्यस्मृतवैदिके शब्दे प्रामाण्यम् । अथवा श्रुतिग्रहणं स्मृतेर्वेदतुल्यत्वार्थम् । “ किं पुनः श्रुतिस्मृत्योः समानं कार्यं यत्समाचारेऽप्यनेन प्राप्यते ” ।

पृष्ठ 168

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 168 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ४ मनुस्मृतिः [ द्वितीय: उच्यते । ते सर्वार्थेष्वमीमांस्ये । ' ते ' श्रुतिस्मृती । सर्वेष्वर्थेष्वत्यन्तासम्भाव्ये-ष्वपि दृष्टविषयैः प्रमाणैः, —यथा तस्मादेव हिंसालक्षणात्पदार्थात्क्वचिदभ्युदयः क्वचित्-प्रत्यवाय:, ( २ ) ‘ सुरापानान्नरकः सोमपानात्पापशुद्धि: ' इत्यादौ पक्षप्रतिपक्षगमनेन विचारो न कर्तव्यः । आशङ्कापक्षान्तरसम्भावनं मीमांसनम् । यथा – “ हिंसा चेत्पाप-हेतुः स्वरूपाविशेषाद्वैदिक्यपि तथा भवितुमर्हति । अथ वैदिक्यभ्युदयहेतुर्लौकिक्यपि तथा स्यात्, तद्रूपसमानत्वात् ' । यस्य यद्रूपं वेदादवगतं तस्य तद्विपरीतरूपसम्भा-वनमसत्तर्काश्रयैरसम्यग्घेतुभिर्यद्विचारणं तत्सिद्धान्ताभिनिवेशः स इह प्रतिषिध्यते । न पुनरयमर्थोवेदस्याद्यः पूर्वपक्ष उतस्विद्यः सिद्धान्त इत्येषा मीमांसा निषिध्यते । यतो वक्ष्यति ‘ “ यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतर ” इति ॥ “ किं पुनरयमदृष्टार्थो मीमांसनप्रतिषेधः ॥ ” नेति ब्रूमः । ताभ्यां धर्मो हि निर्बभौ । अनेन तार्किकप्रमाणानां वेदार्थविप-रीतसाधनानामाभासतामाह । ईदृशा हि तेषां हेतवः – “ वैदिकी हिंसा पापहेतु:, हिंसा-त्वाल्लौकिकहिंसावत् ” । तत्र हिंसायां पापहेतुत्वं न कुतश्चिदन्यतः प्रमाणात्सिद्ध-मन्तरेणागमम् । एवं चेन्नास्ति हिंसायाः पापसाधनसिद्धौ हेतुः यावदागमः प्रामाण्येन नाभ्युपगतः । अभ्युपगते चागमप्रामाण्ये तद्विरुद्धो हेतुर्न युज्यते, अप्रामाण्यापत्ते-रागमस्य । ततश्चेतरेतरव्याघातः । पूर्वं प्रामाण्येन परिग्रहः पश्चादप्रामाण्यमिति । सोऽयं स्ववचनविरुद्धः पक्षः । नैनं तार्किका अनुमन्यन्ते, ' मम माता बन्ध्येति ' वत् । आगमविरुद्धश्च । अथोच्यते— “ नैवागमः प्रमाणम् । कथं तद्विरोधोद्भावनं दूषणम् । अनृतव्या-घातपुनरुक्तदोषेभ्यः । कारीर्यादिकर्मणां तत्समनन्तरं फलार्थितयाऽनुष्ठीयमानानां न निय-मतोऽनुष्ठानसमनन्तरं फलप्राप्तिः । कालान्तरे भविष्यतीति चेदुक्तमत्र — ' कृता शरदि कारीरी भृशं शुष्यत्सु शालिषु । वसन्ते जायते वृष्टिस्तस्या गोमरकः फलमिति ' । यान्यप्यन्यत्रभाविफलानि ज्योतिष्टोमादीनि तत्रापि निरन्वयविनाशात्कर्मणो वर्षशते फलं भविष्यतीति निःसन्दिग्धवैतालिकव्यवहारोपममेतत् । तस्मादनृतम् । व्याघातः— उदिते होतव्यमनुदिते जुह्वतो दोषः । “ प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम् ” । तथाऽनुदिते होतव्यं - " यथा अतिथये प्रद्रुताय दद्यात्तदृगेतद्यज्जुहुया ” -दित्येकत्रोदितहोमो विधीयतेऽनुदितहोमनिन्दया तदेव विपरीतमन्यत् । तत्रैकः पक्ष आश्रीय-तामित्यनध्यवसायः । यदेवाग्निहोत्राद्येकस्यां शाखायां विद्यते तदेव शाखान्तरेऽपि । सर्वशाखाप्रत्ययमेकं कर्मेत्यभ्युपगमः । ततश्च पुनरुक्तम् । ” तत्रानृतमेव तन्न भवतीत्येतेनैव पादेन प्रतिपाद्यते । यतो वेदाद्धर्म एव कर्तव्यता-मात्रं यागादिविषयं निर्बभौ विभाति गम्यते । न पुनः कालविशेषः फलस्योत्पत्तौ,

पृष्ठ 169

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 169 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ९ ५ अधिकारवाक्येषु कालविशेषाश्रवणात् । विधितो हि फलं भवतीत्येतावद्गम्यते । काला-वच्छेदो न विधिः । धात्वर्थसम्बन्धिनो हि कालविभागा भूतभविष्यद्वर्तमानाः । न चैतद्धात्वर्थः फलं किन्तु वैधम् । धात्वर्थफलं हि तदानीमेव निर्वर्तते देवतोद्देशेन द्रव्यत्यागो हविर्विकारादि । यदि कश्चित्कस्यचिदाज्ञाकरो भवति तेन प्रेष्यते ' गच्छ याहि ग्राममिति ' स आज्ञासम्पादने प्रवृत्त कदाचित्प्रारम्भ एव वेतनफलं लभते, कदाचिन्मध्ये, कदाचित्कृत्आज्ञाविषये; समनन्तरमन्येद्युर्वा कालान्तरेऽथवा । एवमेतच्छास्त्रफल-नियतकालम् । दिव्यवृष्ट्यादेस्तु स्वाभाव्येन प्रत्यासत्तिमात्रं गम्यते । न तु तदहरेवो-त्पत्तिः । प्रतिबन्धकानि च यथा फलस्यैवंविधस्य लोके भवन्ति तथा वेदेऽपि, पुराकृतं दुष्कृतादि । तथा च वेद एवैतद्दर्शयति, ' यदि न वर्षेत्तथैव वसेदिति ' । सर्वस्वारे तु विवदन्ते । ‘ नैतत्क्रतुफलम् । अङ्गमेतत्स्मरणम् । क्रतुफलं यः कामयेतानामयः स्वर्ग-लोकमियामिति ' । यच्चोक्तं हिंसायां लोकवेदयोर्न विशेष इति तत्र शास्त्रावगम्यो हि तस्या अयं स्वभावो न प्रत्यक्षादिगोचरः । तत्र च भेदः । रागलक्षणा लौकिकी हिंसा, विधि-लक्षणाऽलौकिकी हिंसा । विधिलक्षणा त्वग्नीषोमीयस्तेति महान्भेदः ।

तस्मान्न किञ्चिद्वेदेऽनृतम् । व्याघातं परस्तात्परिहरिष्यति श्लोकेनैव ॥ १० ॥

हिन्दी— ( ऋक् आदि ) वेद को श्रुति तथा ( मनु आदि के द्वारा कथित ) धर्मशास्त्र को स्मृति जानना चाहिये, वे सभी विषयों में प्रतिकूल तर्क के योग्य नहीं हैं ( उनके किसी भी विषय में प्रतिकूल तर्क नहीं करना चाहिये ), क्योंकि उन दोनों ( श्रुति = वेद और स्मृति = धर्मशास्त्र ) से ही धर्म प्रादुर्भूत हुआ है ॥१० ॥

नास्तिक - निन्दा-योऽवमन्येत ते मूले हेतुशास्त्रश्रयाद् द्विजः ।

स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः ॥ ११ ।

भाष्य — असत्याप्रामाण्यहेतोर्वेदस्य यो द्विजो हेतुशास्त्राश्रयाद्धेतुशास्त्रं नास्तिक-तर्कशास्त्रं बौद्धचार्वाकादिशास्त्रम्, यत्र वेदोऽधर्मायेति पुनः पुनरुद्धुष्यते, तादृशं तर्क-माश्रित्य योऽवज्ञां कुर्यात् । श्रुतौ स्मृतौ च केनचिदकार्यान्निवर्त्येत ' मैवं कार्षीः प्रतिषिद्धं वेदेनेति ' तमनादृत्य चिकीर्षेत् ' किंनाम यदि वेदे स्मृतिषु वा प्रतिषिद्धं, नहि किञ्चित् तयोः सम्यक् प्रामाण्यमस्तीति ' कथयेत् मनसा वा विचिन्तयेत् । तर्कशास्त्रेषु निबद्धादरो यदि दृश्येत । स साधुभिः शिष्टैर्बहिः कार्य्यस्तिरस्कार्यः तत्तत्कार्येभ्यो याजनाध्याप-नातिथिसत्कारादिभ्यः । क्रियाविशेषस्यानिर्देशाद्विद्वदर्हेभ्य इति गम्यते । यतोऽविद्वान्-सम्यगसंस्कृतात्मा तार्किकगन्धितयैवं व्यवहरति । आसु च क्रियासु विद्वानधिक्रियते ।

पृष्ठ 170

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 170 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ६ मनुस्मृतिः [ द्वितीयः अत एव पूर्वश्लोके विचार ईदृशः प्रतिषिध्यते यस्तदवज्ञानपरतया क्रियते, नतु यस्त-दर्थविशेषजिज्ञासया । एवमर्थमेव हेतुमाह – नास्तिको वेदनिन्दकः । अतश्च पूर्वपक्षे यो वेदस्याप्राणाण्यं ब्रूयान्नासौ नास्तिकः स्यात् । सिद्धान्तदार्यार्थमेव पूर्वपक्षे हेतु-कथनम् । वेदनिन्दक इति स्मृतिग्रहणं न कृतम् । तुल्यत्वेनोभयोः प्रकृतत्वादन्यतर-निर्देशेनैव सिद्धमुभयस्यापि ग्रहणमित्यभिप्रायः ॥ ११ ॥

यस्त्वेतमर्थमविदित्वा वेदशब्दस्य विवक्षितार्थत्वमेव मत्वा स्मृतिनिन्दकस्य न बहिष्कारः, अनेन वेदनिन्दकस्यैव विहित इति प्रतिपद्येत । तं प्रत्याह-हिन्दी — जो मनुष्य तर्कशास्त्र के आधार पर उन दोनों ( वेद और स्मृति ) का अपमान करे, नास्तिक एवं वेदनिन्दक वह मनुष्य सज्जनों के द्वारा बहिष्कृत करने योग्य है॥११ ॥

धर्म के चतुर्विधलक्षण-वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।

एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ १२ ॥

भाष्य — नात्र कश्चिद्विशेषः । वेदनिन्दाप्रतिषेधेन स्मृतिसदाचारात्मतुष्टीनामपि निन्द-कस्य बहिष्कारोऽनेन विहितः । तेषामपि वेदमूलधर्माभिधानम् । अतः स्मृत्यादिनिन्दको वेदनिन्दक एव । “ ननु श्लोकद्वयेन नार्थः । एवं वक्तव्यम् । श्रुत्यादीनात्मतुष्ट्यन्तान्हेतुशास्त्रा-श्रयाद्विजः यो निन्देत्स बहिष्कार्यः साधुभिर्नास्तिकत्वतः ” । उच्यते । नाचार्या ग्रन्थगौरवं मन्यन्ते । बुद्धिगौरवं यत्नेन परिहरन्ति । तस्मिन्हि पति असम्यगवबोधो धर्मस्य । स च पुरुषार्थं विहन्ति । भेदनिर्देशेऽपि हि चोदयेयुर्वेदग्रहणमेव कर्तव्यम् सर्वस्य धर्मस्य वैदिकत्वात् । स्माद्विस्पष्टार्थं भेदेनोभयनिर्देशः, सङ्क्षिप्तरुचीनां पूर्वश्लोकः । अन्येषां श्लोकद्वयम् । स्वस्य च प्रियमात्मन: इत्यनेन प्रागुक्ता आत्मतुष्टिरेवोक्ता । स्वग्रहणं वृत्तपूर-णार्थम् । एतत्साक्षाद्धर्मस्य लक्षणं निमित्तं, ज्ञापकम्, न पुनः प्रत्यक्षम् । यथाऽन्यैरुक्तं ‘ साक्षात्कृतधर्माण ’ इति । विधाशब्दः प्रकारवचन: । एकमेव धर्मे प्रमाणं वेदाख्यम् । तस्य त्वेते भेदाः स्मृत्यादयः अन्ये तूपसंहारार्थमिमं श्लोकं व्याचक्षते । समाप्तं धर्मलक्षणप्रकरणमिति पुनः पाठः समाप्तिं सूचयति । यथा द्विरभ्यासो वेदाङ्गेषु ' संस्थाजपेनोपतिष्ठन्त उपतिष्ठन्त ’ इति । तथा च पिण्डीकृत इव प्रागुक्तोऽर्थो हृदि वर्तते । यथा नैयायिका ' अनित्यः ' शब्द