मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 171–180

मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 171–180

पृष्ठ 171

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 171 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ९ ७ इति प्रतिज्ञाय साधनोपन्यासं कृत्वा निगमयन्ति ' तस्मादनित्यः शब्द इति ' । प्रायेण चैषा ग्रन्थकाराणां रीतिः । तथा महाभाष्यकारोऽपि क्वचित्सूत्रं वार्तिकं वा पठित्वा व्याख्याय पुनः पठति ॥१२ ॥

हिन्दी – वेद, स्मृति, आचार और मन की प्रसन्नता ( किसी विषय में जहाँ एकाधिक पक्ष बतलाये गये हों, वहाँ जिस पक्ष के ग्रहण करने में अपने मन की प्रसन्नता हो ); ये चार धर्म के साक्षात् लक्षण हैं ॥ १२ ॥

श्रुति स्मृति के विरोध में श्रुति की प्रामाणिकता-अर्थकामेष्वसक्तानां धर्मज्ञानं विधीयते । धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ॥१३ ॥

भाष्य – गोभूमिहिरण्यादिधनमर्थः । तत्र सक्तिस्तात्पर्येण तदर्जनरक्षणार्थं कृषि-सेवादिव्यापारकरणम् । कामः स्त्रीसम्भोगः । तत्र सक्ति: नित्यं तदासेवनं तदङ्गानां च गीतवादित्रादीनाम् । तद्वर्जितानां पुरुषाणां धर्मज्ञानं धर्मावबोधो विधीयते विशेषेण धीयते; व्यवस्थितं भवति । ' धीङ् आधाने ' इत्यस्यैतद्रूपम् । “ किमर्थं पुनस्तत्र सक्तानां न भवति धर्मज्ञानम् । यावता तेपि यथाक्षणं तद-विरोधिन्यवसरे भोजनादावितिहासश्रवणादन्योपदेशात्समाचाराद्वा शक्नुवन्ति ज्ञातुम् ” इत्यत आह— धर्मं जिज्ञासमानानामिति । मुख्यं प्रमाणं धर्मे वेदः, स च तैर्न शक्यो ज्ञातुम् । अत्यन्तदुर्विज्ञानो ह्यसौ निगमनिरुक्तव्याकरणतर्कपुराणमीमांसाशास्त्रश्रवणमपेक्षते स्वार्थबोधे । न चेयान्प्रन्थराशिः सर्वव्यापारपरित्यागेन विना शक्य आसादयितुम् । समाचारेतिहासादेः कतिपये धर्मा अवगम्यन्ते, न वेदादिवत्समस्ताङ्गयुक्तो ज्योतिष्टो-मादिप्रयोगः । अत उक्तम्- प्रमाणं परमं श्रुतिः । न तु समाचारादेः प्रामाण्यापकर्षः । तदुक्तं—

योऽह्नेरिव धनाद्भीता मिष्टान्नाच्च विषादिव ।

राक्षसीभ्य इव स्त्रीभ्यः स विद्यामधिगच्छति ॥

अपरे त्वर्थकामा दृष्टफलैषिण उच्यन्ते । तत्र ' सक्तानां ’ पूजाख्यात्यादिकामानां दृष्टफलार्थितया लोकपक्तिमात्रप्रयोजनानां ' न धर्मज्ञानं ' धर्मानुष्ठानं ' विधीयते ' उप-दिश्यते I । ज्ञायतेऽस्मिन्निति ज्ञानमनुष्ठानमित्युच्यते । अनुष्ठीयमानो हि धर्मों व्यक्ततरो भवति शास्त्रावगमकालतोऽपि । अतोऽनुष्ठानं धर्मज्ञानमुच्यते । अत एतदुक्तं भवति । यद्यपि धर्मानुष्ठानाल्लोकपक्त्यादि दृष्टं प्रयोजनमुपलभ्यते तथापि न तत्सिद्धिपरतया तत्र प्रवर्तितव्यम्, किं तर्हि शास्त्रेण तच्चोदितमिति कृत्वा । तथा च प्रवृत्तौ यदि दृष्ट-मपि भवति भवतु, न विचार्यते । तथा च श्रुतिः स्वाध्यायस्य दृष्टं फलमनुवदति “ यथा

पृष्ठ 172

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 172 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ८ मनुस्मृतिः [ द्वितीयः लोकपक्तिरिति ’ ” “ लोकः पच्यमानश्चतुर्भिरेनं भुनक्ति अर्चया दानेनाजेयतया चावध्य-तया " इत्यादि । श्लोकश्चात्र भवति— “ यथेक्षुहेतोरिह सेचितं पयस्तृणानि वल्लीरपि च प्रसिञ्चति । तथा नरो धर्मपथेन सञ्चरन्यशश्च कामांश्च वसूनि चाश्रुते ॥ ” “ ननु च यस्य यः स्वभावोऽवगतः सोऽन्योद्देशेनाप्यनुष्ठीयमानो न स्वभावाच्च्यवते करोत्येव तत्कार्यम् । यथा विषमौषधौद्देशेनापि पीतं हन्त्येव । अतो दृष्टार्थतयाऽप्य-नुष्ठीयमानानि कर्माणि शास्त्रीयाण्यदृष्टार्थान्यपि भविष्यन्ति । को भवतो मत्सरो लोका-वर्जनहेतुतया न प्रवर्तितव्यमिति येनात्थ । ” अत आह ‘ धर्मं जिज्ञासमान्मनां ' वेदो धर्मे प्रमाणम् । तेन चैतदुक्तम् – दृष्टफल-कामार्थानां नादृष्टं भवति । न केवलं अदृष्टं न भवति । यावत्प्रतिषिद्धसेवनादधर्मोऽपि भवति ॥१३ ॥

हिन्दी — अर्थ और काम ( इच्छा ) में अनासक मनुष्यों के लिए धर्म का उपदेश किया जाता है, धर्म के जिज्ञासुओं के लिए वेद ही मुख्य प्रमाण है ॥१३ ॥

श्रुति- - द्वय के विरोध में दोनों की प्रामाणिकता-श्रुतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ । उभावपि हि तौ धर्मौ सम्ययुक्तौ मनीषिभिः ॥ १४ ॥

भाष्य— प्रागुक्तो व्याघातः परिह्रियते । यत्र श्रुत्योर्द्वैधं, विरुद्धाभिधानं, यं धर्मोऽ-यमिति काचिच्छ्रुतिराह, तमेवाधर्ममित्यन्या – तत्र उभावपि तौ धर्मानुष्ठेयौ विकल्पेन | मुल्यवले हि ते श्रुती । तत्रेयं प्रमाणमियं नेत्यशक्यो विवेकः । अत एकार्थतुल्यबल-विरोधे विकल्प इति । “ उभावपि तौ धर्मावित्युक्तम् । तत्र समुच्चयः प्राप्नोति । एवमुभौ धर्मौ भवतः । अन्यथा एकः स्यात् ” । नेति ब्रूमः । पर्यायेणापि प्रयोगे नोभयशब्दस्य प्रवृत्तिविरोधः । न ह्ययं सापेक्ष्य-द्वयविषय एव ॥ न्याय्यश्च विकल्पः । यथाऽग्निहोत्राख्यमेकं कर्म; तस्य कालत्रयमुपदिष्टम् । तत्र कर्मप्रधानं, कालो गुणः । न चैकस्मिन्प्रयोगे कालत्रयसम्भवः । न च कालानुरोधेन प्रयोगावृत्तिर्युक्ता । नाङ्गानुरोधेन प्रधानमावर्तनीयम् । तस्मान्याय्योऽयं तुल्यबलविरोधे विकल्प इति वचनात् । “ उभावपि हि तौ धर्मों - ननु च को भेदस्तत्र धर्मावित्यस्मादेतस्य । ”

पृष्ठ 173

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 173 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ९९ न कश्चित् । पूर्वेण स्वमतमुपन्यस्तमुत्तरेणान्यैरपि गनीषिभिरेतदेवोक्तमिति स्व-मतमाचार्यान्तरमतसंवादेन द्रढयति ॥१४ ॥

हिन्दी — जहाँ पर श्रुतिद्वय ( दो वेद वचनों ) का परस्पर में विरोध होता हो, वहाँ पर वे दोनों ही वचन धर्म हैं; क्योंकि मनु आदि विद्वानों ने उन दोनों को ही सम्यक् ( उत्तम ) ज्ञान बतलाया है ॥१४ ॥

श्रुति द्वय विरोध का दृष्टान्त--उदितेऽनुदिते चैव समयाध्युषिते तथा ।

सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः ॥ १५ ॥

भाष्य — उदाहरणमिदं समनन्तरप्रदर्शिते विरोधे । य एते त्रयः काला इतरेतर-निन्दया होमस्य विहिताः तत्रायमर्थः श्रुतिवाक्यानाम् । सर्वथा वर्तते यज्ञः । सर्वप्रकारो होमः प्रवर्तते प्रवर्तनीय इत्यर्थः । या उदितहोमनिन्दा सा न तत्प्रतिषेधार्था किं तर्ह्यनुदितहोमविध्यर्था । एवमितरत्रापि । तेनायमर्थं उक्तो भवति ' सर्वथा कर्तव्य एतेषां कालानामन्यतमस्मिन्काले ' । तत्र यस्मिन्कृतस्तत्र सम्पूर्ण: शास्त्रार्थो भवतीतीयं वैदिकी श्रुतिरेवम्परा । अस्मिन्नर्थेऽस्यास्तात्पर्यं न पुनर्निन्द्यमानप्रतिषेधे । यज्ञो होमोऽत्राग्निहोत्राख्योऽभिप्रेतः । यागहोमयोर्यतो नात्यन्तं भेदः । देवतामु-द्दिश्य द्रव्यस्य स्वत्वत्यागो ' नेदं मम देवताया इदमिति ' यागः । एतच्च स्वरूपं होमेऽप्यस्ति । अयं तु विशेषो द्रव्यस्य होमे प्रक्षेपः अधिक; आरोपणविशेषोऽग्न्यादौ । अतो यज्ञशब्देनात्र होमस्याभिधानम् । होमे ह्येते कालाः श्रुतावाम्नाता न यागमात्रे | उदितादिशब्दैश्चोदिते होतव्यमित्यादिका श्रुतिरेकदेशेन लक्ष्यते । येयमुदिते होतव्यं नोदिते होतव्यमिति श्रुतिः सैवम्परेत्येवं योजना । समयाध्युषितशब्देन समुदायेनैवोषसः काल उच्यते । अन्ये तु पदद्वयमेतदि-त्याहुः । ‘ समया’शब्दः समीप वचन: समीपिनमपेक्षते । उदितानुदितयोः सन्निधानात्तत्-समीपी संध्याकालः । ‘ अध्युषितं राहोर्ववासकालः, व्युष्टायां रात्रावित्यर्थः । कासु-चिच्छ्रुतिष्वेवं पठितं कासुचिदेवमिति श्रुतिवाक्यानुकरणमेषा स्मृतिस्तत्र किं पदद्वयमे-तदुक्तैकमिति तत एव निर्णयः । अतो विकल्पेनैकं होमाख्यं कर्म, प्रतिकालत्रयविधानान्नास्ति विरोधः । सिद्धरूपे हि वस्तुनीतरेतरविरुद्धरूपसमावेशासम्भवात्स्याद्विरोधो, न साध्ये । साध्यं ह्यनेनापि

सिध्यत्यनेनापीत्यवगम्यते । तत्र कुतो विरोधः ।

एष एव च स्मृतिनां विरुद्धानां विकल्पो न्याय्यः ॥ १५ ॥

हिन्दी— “ सूर्य के उदय होने पर, सूर्य के उदय नहीं होने पर ( जब पूर्व दिशा

पृष्ठ 174

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 174 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०० मनुस्मृतिः [ द्वितीय: लालिमा युक्त हो जाय तथा कहीं - कहीं एक - दो तारे भी दृष्टिगोचर हो रहे हों तब ) और अध्युषित काल में ( न तो सूर्योदय ही हुआ हो और न तो तारे ही दृष्टिगोचर हो रहे हों; ऐसे समय में ) सर्वथा यज्ञ ( अग्निहोत्र - सम्बन्धी हवन ) करना चाहिये ” ये तीनों वैदिक श्रुतियाँ हैं ( यहाँ उक्त तीनों समय परस्पर में सर्वथा विरुद्ध हैं ), अतएव इस प्रकार का द्वैध अर्थात् विकल्प वचन आने पर उक्त तीनों समयों में से किसी भी समय में यज्ञ ( अग्निहोत्र - सम्बन्धी हवन ) करना धर्मशास्त्र के अनुकूल ही है ॥१५ ॥

[ श्रुतिं पश्यन्ति मुनयः स्मरन्ति तु यथास्मृतिः । तस्मात्प्रमाण मुनयः प्रमाणं प्रथितं भुवि ॥ ३ ॥ ]

[ मुनि लोग सब वेदों का साक्षात्कार करते हैं और अन्य लोग स्मृति के अनुसार वेदों की कल्पना करते हैं; इसलिये सभी लोगों में मुनि लोग ही प्रमाण हैं और वे ही प्रमाण तथा पृथ्वी में ख्यात हैं || ३ || ] [ धर्मव्यतिक्रमो दृष्टः श्रेष्ठानां साहसं तथा । तदन्वीक्ष्य प्रयुञ्जानाः सीदन्त्यपरधर्मजाः ॥४ ॥ ]

[ ' सूर्य के उदित या अनुदित रहने पर हवन किया जाय ' इत्यादि धर्मों में व्यति-क्रम ( किसी को कुछ करते तो किसी को कुछ करते ) देखा गया है और श्रेष्ठ लोगों का साहस भी ( यही कल्याणकारी है तो यही कल्याणकारी है ऐसा कहना भी ) देखा गया है । इसलिए इनको अच्छी तरह समझ कर ( स्वस्य च प्रियमात्मनः ) इसके अनुसार चलने वाले कल्याण पाते हैं और जो इनमें द्वैध देखकर अन्य धर्म का अवलम्बन करते हैं, वे ‘ परधर्मो भयावहः ' के अनुसार क्लेश पाते हैं || ४ || ] वैदिक संस्कार से संस्कृत ही इस धर्मशास्त्र का अधिकारी-निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः । तस्य शास्त्रेऽधिकारोऽस्मिज्ञेयो नान्यस्य कस्यचित् ॥ १६ ॥

भाष्य- -'विदुषा ब्राह्मणेनेदमध्येतव्यमिति ' पठन्ति । स चार्थवादः । तत्र तव्य-प्रत्ययदर्शनात्कस्यचिद्विधिभ्रान्तिः: स्यात् । तथा च सति क्षत्रियवैश्ययोरध्ययनं निवर्तेत इत्येदाशङ्कानिवृत्त्यर्थोऽयं श्लोकः क्षत्रियवैश्ययोः प्राप्तिं दर्शयति । तथा यथाकामी शूद्रोऽप्यप्रतिषेधादध्येतुं प्रवर्तेत तन्निवृत्त्यर्थमपीत्येवमिमं श्लोकं पूर्वे व्याचक्षिरे । शास्त्रशब्दोऽयं मानवग्रन्थवचनः । अधिकारो मयैतदनुष्ठेयमित्यवगमः । न च शब्दराशेः सिद्धस्वभावस्यानुष्ठेयत्वावगतिः सम्भवति । न हि द्रव्यमनाश्रित्य क्रिया-विशेषं साध्यतयाऽवगम्यते । अतः शास्त्रविषयायां कस्याञ्जित्क्रियायामधिकार इत्यव-गम्यते । तत्र कृभ्वस्तयस्तावन्न विषयतया प्रतीयन्ते । भ्वस्त्योर्भवत्यर्थत्वात् । भ्वस्ति-

पृष्ठ 175

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 175 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १०१ सम्बन्धे ह्ययमर्थः प्रतीयते ' शास्त्रस्य यद्भवनं या च सत्ता तामनुतिष्ठेदिति ' । न चान्य-दीयायां सत्तायामन्यस्यानुंष्ठातृत्वसम्भवः । करोत्यर्थेपि न सम्भवति । पदानां नित्यत्वा-द्वाक्यानां चान्येन कृतत्वात् । अतः शास्त्रसहचारिण्यध्ययनक्रिया प्रतीयते । अतोऽ-यमर्थ उक्तो भवति - ‘ शास्त्राध्ययने तस्याधिकारः ' यथैवाध्ययने तथैव श्रवणेऽपि । “ न न्वादिमत्त्वान्मानवस्य ग्रन्थस्य कथं तद्विषयो विधिरनादिवेदमूल इति शक्यते वक्तुम् । ’ ” उच्यते । यानि कानिचन शास्त्रप्रतिपादकानि वाक्यानि न तानि शूद्रेणाध्येयानीति शक्यते सामान्यतोऽनुमानम् । यानि वेदवाक्यानि यानि तदर्थव्याख्यानवाक्यानि व्याख्यातॄणां तत्प्रतिरूपकाणि तान्यपि प्रवाहनित्यतया नित्यान्येव । अर्थानुष्ठानं तु शास्त्रविषयः । तत्र चातुर्वर्णस्याधिकारः । “ नन्वेवं सत्यनुपात्तकर्तृविशेषेषु सामान्यधर्मेषु शूद्रस्याधिकारप्रसङ्गः । ” यथा न भवति तथा तत्र तत्र कथयिष्यामः । “ ननु कथमध्ययनावबोधाधिकारनिषेधे कर्माधिकारः? न ह्यविदितकर्मरूपस्य तदनुष्ठानसम्भव:, न चाध्ययनमन्तरेण तदर्थावबोधसम्भवः, न चावैद्योऽधिक्रियते । ” सत्यम् । परोपदेशादपि यावत्तावत्सिद्ध्यति परीज्ञज्ञनम् । यं ब्राह्मणमाश्रितः शूद्रो, यो वाऽर्थतः प्रवृत्तः स एनं शिक्षयिष्यतीदं कृत्वेदं कुर्विति । अतो न कर्मानुष्ठानप्रयुक्ते शूद्रस्याध्ययनवेदने, स्त्रीवत्परप्रत्ययादप्यनुष्ठानसिद्धेः । यथा स्त्रीणां भर्तृविद्यैव प्रसङ्गा-दुपकरोति न कर्मश्रुतयो विद्यां प्रयुञ्जते । तेषामेव स्वप्रत्ययोऽनुष्ठानहेतुर्येषां ‘ स्वाध्यायो-ऽध्येतव्य ' इति विधिरस्ति पुंसाम् । स च पुंसां त्रैवर्णिकानाम् । तेषामपि नार्थज्ञानप्रयुक्तेऽ-ध्ययनवेदने, अपि तु विधिद्वयप्रयुक्ते आचार्यकरणविधिना स्वाध्यायाध्ययनविधिना च । निषेको गर्भाधानं स आदिर्यस्य संस्कारकलापस्य स निषेकादिः । गर्भाधानं च विवाहादनन्तरं प्रथमोपगमे विष्णुर्योनिं कल्पयतु इति मन्त्रवत्केषाञ्चिद्विहितम् । परेषा-मागर्भग्रहणात्प्रत्यृतु । श्मशानमन्तोऽस्येति श्मशानान्तः । श्मशानशब्देन मृतशरीराणि यत्र निधीयन्ते तत्स्थानमुच्यते । तच्च साहचर्यात्प्रेतसंस्कारं पराचीमिष्टिं लक्षयति । सा हि मन्त्रवती, न स्थानम् । अनेन च द्विजातयो लक्ष्यन्ते । तेषां हि मन्त्रवन्तः संस्काराः । द्विजातीनामिति नोक्तम् । विचित्रा श्लोकानां कृतिः स्वायम्भुवस्यास्य मनोः । मन्त्रैरुदित वक्तो विधिरिति नायं सम्बन्धः । न हि मन्त्रा विधिं वदन्ति । किं तर्हि मनु I- 11

पृष्ठ 176

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 176 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०२ मनुस्मृतिः [ द्वितीयः प्रयोगावस्थस्य विधेयस्य स्मारकाः, न विधायकाः । तस्मादेवं व्याख्येयम् - मन्त्रैर्युक्तः समन्त्रको येषामयं विधिरिति । नान्यस्य कस्यचिदित्यनुवादो, द्विजातीनां नियतत्वात् । अथवा कश्चिन्मन्येत-“ द्विजातीनामयं विहितोऽवश्यकर्तव्यः, शूद्राणां त्वशिष्टोऽप्रतिषिद्ध इति ” । तदा शङ्का-निवृत्त्यर्थमिदमुक्तम् ॥१६ ॥

हिन्दी – गर्भाधान संस्कार से आरम्भ कर अन्त्येष्टि ( मरण ) संस्कार पर्यन्त वेद मन्त्रों के द्वारा पहले से ही जिसके संस्कार का विधान है, उसी ( द्विज - ब्राह्मण, क्षत्रिय और वैश्य ) का इस शास्त्र में ( शास्त्र के पढ़ने तथा सुनने में ) अधिकार है, दूसरे किसी ( चाण्डाल या शूद्रादि ) का नहीं ( अध्यापन के लिये अध्ययन करने का अधिकार केवल

ब्राह्मणों को ही है, यह बात पहले ( १ । १०३ में ) ही कह आयें हैं ) ॥१६ ॥

ब्रह्मावर्त देश-सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् ।

तं देवनिर्मितं देशं ब्रह्मावर्त्तं प्रचक्षते ॥ १७ ॥

भाष्य – उक्तानि धर्मे प्रमाणानि । विरोधे च विकल्पोऽभिहितः । अधिकारिणश्च सामान्येनोक्ताः । इदानीं येषु योग्यतया धर्मोऽनुष्ठेयतामापद्यते ते देशा वर्ण्यन्ते । सर-स्वती नाम नदी । अपरा दृषद्वती । तयोर्नद्योर्यदन्तरं मध्यं तं देशं ब्रह्मावर्त इत्यनया संज्ञया प्रचक्षते व्यवहरन्ति शिष्टाः । देवग्रहणमवध्यवधिमतोः स्तुत्यर्थम् । देवैः स निर्मितोऽतः सर्वेभ्यो देशेभ्यः पावनतर इति ॥१७ ॥

हिन्दी – सरस्वती तथा दृषद्वती, इन दो देव - नदियों के मध्य का जो देश है, उसे देव निर्मित ( देव - नदी - निर्मित ) ' ब्रह्मावर्त ' कहते हैं ॥ १७ ॥

सदाचार का लक्षण -तस्मिन्देशे य आचार: पारम्पर्यक्रमागतः ।

वर्णानां सान्तरालानां स सदाचार उच्यते ॥ १८ ॥

भाष्य – “ अथास्मिन्देशे य आचारस्तस्य प्रामाण्ये किं विद्वत्ता शिष्टता चोपाधि-रङ्गीक्रियते, अथाविदुषामशिष्टानां च देशोपाधिरेव प्रमाणम् । किं चातः । यदि नापेक्ष्यते, यत्तदुक्तं ‘ आचारश्चैव साधूनामिति ' विशेषणद्वयमनर्थकम् । न त्वसाध्वाचारस्य धर्म-मूलतोपपद्यते, वेदसंयोगासम्भवात् । अथापेक्ष्यते, देशविशेषसम्बन्धानुपकारः । न हि देशान्तरेऽपि शिष्टसमाचारस्याप्रामाण्यं शक्यते वक्तुम् ” ।

पृष्ठ 177

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 177 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १०३ उच्यते । प्रायिकमेतदभिधानम् । प्रायोवृत्त्याऽस्मिन्देशे शिष्टानां सम्भव इत्युक्तम् तस्मिन्देशे य आचारः स सदाचार इति । अन्ये तु देशान्तरे मातुलदुहितुः परिणयनाद्देशाचारनिषेधार्थमिदमित्याहुः । तदयुक्तम् । अविशेषैणैवोक्तं " तद्देशकुलजातीनामविरुद्धं प्रकल्पयेत् ” । स च विरुद्ध ‘ ऊर्ध्वं सप्तमात्पितृबन्धुभ्यो मातृबन्धुभ्यश्च पञ्चमात् ' इत्येतेन । अस्मिन्नपि देशेऽनुपनीतेन सहभोजनादिराचारो नैव धर्मत्वेनेष्यते । न च स्मृतिविरुद्धस्याचारस्य प्रामाण्यसम्भवः, श्रुति विप्रकर्षात् । आचारात्स्मृतिरनुमातव्या, स्मृतेः श्रुतिः । स्मृति-स्त्वव्यवहितामेव श्रुतिमनुमापयति । किञ्च कारणग्रहाच्चैवमादेराचारस्य । रूपवतीं मातुल-कन्यां कामयमाना राजभयादूढवन्तः, कन्यागमनं दण्डो माभूदिति । अन्ये त्वविद्वांसो “ येनास्य पितरो याता ” इत्यस्य यथाश्रुतमर्थं गृहीत्वा धर्मोऽयमिति प्रतिपन्नाः । अपि च ' एतास्तिस्रस्तु भार्यार्थे नोपयच्छेतेति ' प्रायश्चित्तं श्रुतमपि । भ्रान्तिहेतुराभ्यस्तिसृभ्यो-ऽन्या न प्रतिषिद्धा इति । यथा चास्य नायमर्थस्तथा वक्ष्यामः । न च दृष्टकारणयोः स्मृत्याचारयोः प्रामाण्यम् । उक्तं च भट्टपादैः- —

विरुद्धा च विगीता च दृष्टार्था दृष्टकारणा ।

स्मृतिर्न श्रुतिमूला स्याद्या चैषा सम्भवश्रुतिः ॥

तस्मात्‘एतान्द्विजातयो देशान्संश्रयेरन् ' इत्येतद्विधिशेषा देशप्रशंसार्थवादा एते । परम्परैव पारम्पर्य्यम् | अन्यस्मादन्यमुपसंक्रामति, तस्मादन्यं ततोऽप्यन्यमि-त्येवंरूपः प्रवाहः परम्परा । ' क्रमः तदविच्छेदस्तत आगतः सम्प्राप्तः ।

सङ्कीर्णयोनयः ‘ अन्तराला: ' । तत्सहिंतानां वर्णानाम् ॥१८ ॥

हिन्दी- - उस देश में ब्राह्मणादि और अम्बष्ठः रथकार आदि वर्णसङ्कर जातियों का कुल- परम्परागत ( आधुनिक नहीं ) जो आचार है, वही " सदाचार " कहा जाता है ॥१८ ॥

[ विरुद्धा च विगीता च दृष्टार्थादिष्टकारणे । स्मृतिर्न श्रुतिमूला स्याद्या चैषा संभवश्रुतिः ॥ ५ ॥ ]

[ हिन्दी - प्रत्यक्ष विषयों से इष्ट - सम्पादन के लिए जो ( चार्वाकों की ) वेदविरुद्ध और सज्जन निन्दित स्मृति है, वह श्रुतिमूलक नहीं है । अत: नहीं मानना चाहिये किन्तु वेदमूलक जो यह स्मृति है इसे ही मानना चाहिये || ५ || ]

कुरुक्षेत्रादि ब्रह्मर्षि देश-कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः ।

एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरः ॥ १ ९ ॥

पृष्ठ 178

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 178 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०४ मनुस्मृतिः [ द्वितीय: भाष्य — देशनामधेयान्येतानि । कुरुक्षेत्रं स्यमन्तपञ्चकं प्रसिद्धम् । कुरवस्तत्र क्षयं गताः । ‘ कुरु वा सुकृतं क्षिप्रमत्र त्राणं भविष्यतीति ' व्युत्पत्तिः । मत्स्यादयः शब्दा बहुवचनान्ता एवं देशवचनाः । ब्रह्मर्षिदेश इति समुदायसंज्ञा । देवनिर्मितो देशो ब्रह्मावर्तः । देवेभ्यः किञ्चिन्यूना ब्रह्मर्षय इत्यतोऽयं देशो ब्रह्मर्षि सम्बन्धाद्ब्रह्मावर्तान्त्र्यूनः । तथा चाह । ब्रह्मावर्ताद-नन्तर ईषद्भिन्नः । नईषदर्थः । यथाऽनुष्णां यवागूं पिबेदामयावीतीषदुष्णामुपदिशन्ति । अन्तरशब्दो भेदवचन: । ‘ नारीपुरुषतोयानामन्तरं महदन्तरमिति’यथा ॥१९ ॥

हिन्दी – कुरुक्षेत्र, मत्स्य, पञ्चाल ( पञ्जाब या कान्यकुब्ज अर्थात् कन्नौज का समीपवर्ती भाग ) और सूरसेन देश; वह " ब्रह्मर्षि देश ” ब्रह्मावर्त से कुछ कम उसके बाद में हैं ॥१९ ॥

उन देशों के ब्राह्मणों से आचार - शिक्षा ग्रहणोपदेश-एतद्देशप्रसूतस्य

सकाशादग्रजन्मनः ।

स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ २० ॥

भाष्य - एतेषु देशेषु कुरुक्षेत्रादिषु प्रसूतस्याग्रजन्मनो ब्राह्मणस्य सकाशात्स्वं स्वं चरित्रमाचारं शिक्षेरञ्जिज्ञासेरन् 1 । ' तस्मिन्देश ' इत्यनेनैतद्व्याख्यातम् ॥२० ॥

-हिन्दी – इन देशों ( श्लो ० १७ तथा १ ९ में कथित ) में उत्पन्न ब्राह्मणों से पृथ्वी पर सब मनुष्य अपने - अपने चरित्र सीखें ( वहाँ के निवासी ब्राह्मण जैसा कहें तथा स्वयं आचरण करें, वैसा ही पृथ्वी मात्र के मनुष्य करें ॥ २० ॥

मध्यदेश-हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि ।

प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः ॥ २१ ॥

भाष्य — उत्तरस्यां दिशि हिमिवान्पर्वतो दक्षिणस्यां विन्ध्यः । विनशनं सरस्वत्या अन्तर्धानदेशः । प्रयोगो गङ्गायमुनयोः सङ्गमः । एतान्देशानवधीकृत्य मध्यं मध्य-देशनामानं देशं विद्यात् । नात्युत्कृष्टो नातिनिकृष्ट इत्यतोऽयं मध्यदेशो, न तु पृथिवी-मध्यभवत्वात् ॥२१ ॥

हिन्दी - ( उत्तर - दक्षिण भाग से क्रमशः ) हिमालय और विन्ध्याचल के बीच, बिनशन ( सरस्वती नदी के अन्तर्धान होने का देश कुरुक्षेत्र ) के पूर्व और प्रयाग के पश्चिम का देश “ मध्यदेश " कहा गया है ॥२१ ॥

पृष्ठ 179

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 179 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १०५

आर्यावर्त देश-आसमुद्रात्तु वै पूर्वादासमुद्राच्च पश्चिमात् ।

तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः ॥ २२ ॥

भाष्य--- आपूर्वसमुद्रादापश्चिमसमुद्राद्योऽन्तरालवर्ती देशस्तथा तयोरेव पूर्वश्लोको-पदिष्टयोर्गिर्योः पर्वतयोर्हिमवद्विन्ध्ययोर्यदन्तरं मध्यं स आर्यावर्तो देशो बुधैः शिष्टै-रुच्यते । आर्या वर्तन्ते तत्र पुनःपुनरुद्भवन्ति । आक्रम्याक्रम्यापि न चिरं तत्र म्लेच्छाः स्थातारो भवन्ति । आङत्र मर्यादायां नाभिविधौ । तेन समुद्रद्वीपानि नार्यावर्तः । एते चतसृषु दिक्षुदेशावधय उपात्ताः प्राच्यां पूर्वसमुद्रः, प्रतीच्यां पश्चिमः, उदग्दक्षिणयो-र्हिमवद्विन्ध्यौ । एतौ ह्यवमित्वनोपात्तौ । न तयोरार्यावर्तत्वमस्यतस्तत्र निवासाभावे प्राप्ते इदमाह ॥ २२ ॥

हिन्दी – ( पूर्व पश्चिम भाग से क्रमशः ) पूर्व समुद्र तथा पश्चिम समुद्र और उन्हीं दोनों पर्वतों ( हिमालय और विन्ध्याचल ) के मध्य स्थित देश को पण्डित लोग “ आर्यावर्त ” देश कहते हैं ॥ २२ ॥

यज्ञिय और म्लेच्छ देश-कृष्णसारस्तु चरति मृगो यत्र स्वभावतः ।

स ज्ञेयो यज्ञियो तेशो म्लेच्छदेशस्त्वत परः ॥ २३ ॥

भाष्य- -कृष्णश्वेतः कृष्णपीतो वा कृष्णसाराख्यो मृगो यत्र चरति निवसति । सम्भव उत्पत्तिर्यत्र देशे तस्य स्वभावतो, न पुनर्देशान्तरात्प्राशस्त्योपायनादिना निमित्ते-नानीतस्य कियन्तमपि कालं निवासः । स देशो यज्ञियो यागार्हो बोद्धव्यः अतः कृष्णमृगचरणात्परोऽन्यो म्लेच्छ्देशः । म्लेच्छाः प्रसिद्धाः । चातुर्वर्ण्यजात्यपेताः प्रति-लोमजातीयानधिकृता मेदान्ध्रशबरपुलिन्दादयः । न चानेन यागाधिकरणताऽस्य देशस्य विधीयते, ' समे यजेतेति'वत् । चरतीति वर्तमाननिर्देशात् । न हि यत्रैव चरितुं प्रवृत्तस्तदैव तत्र यागः शक्यः कर्तुम् । यागस्य हि देशोऽधिकरणं तत्साधनकर्त्रादिकारकाश्रितद्रव्यादिधारणद्वारेण । न च द्वयोर्मूर्त्तयोरेक-काले एकदेशे स्थानसम्भवः - न च कालान्तरलक्षणा न्याय्या, विधौ लक्षणाया अन्याय्य-त्वात् । यथोक्तं शूर्पाधिकरणे - ‘ एतद्धि क्रियत इत्युच्यत ' इति । “ ननु च नाभिव्यापक एवाधेयो येन कृत्स्नाधाराभिव्याप्त्यैवाधिकरणार्थनिर्वृत्तिः स्यात्, तिलेषु तैलमितिवत् । किंतर्हि एकदेशसम्बन्धिनाऽप्याधेयेन भवति कृत्स्नस्या-धारभाव:, ‘ प्रासाद आस्ते रथमधितिष्ठतीति ' । एवमिह ग्रामनगरसमुदायस्य नंदीपर्वतान्ता-द्यवधिकस्य देशस्य प्रकृतत्वादेकदेशेऽपि पर्वतारण्यादौ चरन्सर्वमाधारीकरोति । तेना-

पृष्ठ 180

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 180 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०६ यमदोषः मूर्तयोर्नैकदेशः सम्भवति ” । मनुस्मृतिः [ द्वितीयः उच्यते । नैवात्र यष्टव्यमिति विधिरस्ति । जानातेः परो विधायकः श्रुतो न यजेः । यागस्य तत्रार्हता श्रुता, यागार्होऽसौ देश इति । सा च यागार्हताऽसत्यपि विधौ घटते । एतेषु देशेषु यागाङ्गानि दर्भपलाशखदिरादीनि प्रायेण च भवन्ति । अधिकारिणश्च त्रैवर्णिका त्रैविद्याश्च तेष्वेव देशेषु दृश्यन्ते । अत एतदवलम्बनो यागार्हतानुवादः । कृत्योऽपि ‘ ज्ञेय ’ इत्यध्यारोपितविध्यर्थो ' जर्तिलयवाग्वा जुहुयादि ' तिवद्विधिवन्निगदार्थवाद एव । यच्चोक्तं ‘ म्लेच्छदेशस्त्वतः पर ' इत्येषोऽपि प्रायिकोऽनुवाद एव । प्रायेण ह्येषु देशेषु म्लेच्छा भवन्ति । न त्वनेन देशसम्बन्धेन म्लेच्छा लक्ष्यन्ते, स्वतस्तेषां प्रसिद्धे-र्ब्राह्मणादिजातिवत् । अथार्थद्वारेणायं शब्दः प्रवृत्तो म्लेच्छानां देश इति । तत्र यदि कथञ्चिद्ब्रह्मावर्तादिदेशमपि म्लेच्छा आक्रमेयुः तत्रैवावस्थानं कुर्युर्भवेदेवासौ ' म्लेच्छ-देश: ' । तथा यदि कश्चित्क्षत्रियादिजातीयो राजा साध्वाचरणो म्लेच्छान्पराजयेत् चातुर्वर्ण्य वासयेत् म्लेच्छांश्चार्यावर्त इव चाण्डालान्व्यवस्थापयेत्सोऽपि स्याद्यज्ञियः । यतो न भूमिः स्वतो दुष्टा । संसर्गाद्धि सा दुष्यत्यमेध्योपहतेव । अत उक्तदेशव्यतिरेकेणापि सति सामग्र्ये त्रैवर्णिकेनाकृष्णमृगचरणेऽपि देशे यष्टव्यमेव । तस्मादनुवादोऽयम् ' संज्ञेयो यज्ञियो देशो म्लेच्छदेशस्त्वतः पर ' इत्युत्तरविधिशेषः ॥२३ ॥

हिन्दी — जहाँ पर काला मृग स्वभाव से ही ( कहीं अन्यत्र से लाकर रखा या छोड़ा गया नहीं ) विचरण करता है " यज्ञिय " ( यज्ञ के योग्य ) देश है, इसके अतिरिक्त “ म्लेच्छदेश ” कहते हैं ॥२३ ॥

एतान् द्विजातयो देशान्संश्रयेरन्प्रयत्नतः ।

शूद्रस्तु यस्मिंस्तस्मिन्वा निवसेद्वृत्तिकर्शितः ॥ २४ ॥

यदर्थं देशसंज्ञाभेदकथनं तमिदानीं विधिमाह । एतान्ब्रह्मावर्तादीन् देशान्द्विजा-तयो देशान्तरेऽपि जाताः संश्रयेरन् । जन्मदेशं त्यक्त्वा ब्रह्मावर्तादिदेशसंश्रयणं प्रयत्नेन कर्तव्यम् । अत्र केचिदाहुरदृष्टार्थ एवायमेतद्देशसंश्रयणविधिः । सत्यपि देशान्तरेऽधिकार-सम्भवे एतेषु निवासः कर्तव्यः । तत्र कल्प्याधिकारत्वे, यदि वा गङ्गादितीर्थस्नानवदेतद्देश-निवासविधिः पावनत्वेन कल्प्यते । यथैव काश्चिदापः पवित्रतरा एवं भूमिभागा अपि केचिदेव पवित्राः, यथोक्तं पुराणे । यदि वा संश्रयणादेव स्वतन्त्रात्स्वर्गो विश्वजिद्वत् । तत्रैतौ द्वावपि पक्षावप्राप्तौ । यद्यप्राप्तः संश्रयो विधीयते कल्प्येताप्यधिकारः । तत्र चिन्त्यते कतरः पक्षो युक्त इति । स तु नित्यकाम्यानामुक्तया रीत्या एतद्देश एवा-नुष्ठानसम्भवादधिकृतानां प्राप्त एव । न ह्येतद्देशव्यतिरेकेण कृत्स्नधर्मानुष्ठानसम्भवः ।