मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 181–190
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 181–190
पृष्ठ 181
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १०७ तथाहि । हिमवती तावत्काश्मीरादौ शीतेनार्दिता न बहिः सन्ध्योपासनेऽधिक्रियन्ते । न च यथाविधि स्वाध्यायसम्भवः प्राग्वोदग्वा ग्रामादुपष्क्रिम्येति । न हि हेमन्तशिशिरयो-रहरहर्नदीस्नानादिसम्भवः । इदमेव च द्विजातय इति वचनलिङ्गम् । न कश्चिदेव देशोऽसति म्लेच्छसम्बन्धे स्वत एव म्लेच्छदेशः । अन्यथा तद्देशसम्बन्धान्म्लेच्छत्वे कथं द्विजातित्वम्? अथोच्यते-“ न गमनमात्रान्म्लेच्छताऽपि तु निवासात् । स चानेन प्रतिषिध्यते " - तच्च न । संश्र-योऽत्र श्रूयते । स च देशान्तरे भवतस्तत्त्यागेनान्यदेशसम्बन्धः । न संश्रितस्यैव संश्रय-णम् । अन्यथा एवमेवावक्ष्यत् ' एतान्देशांस्त्यक्त्वा नान्यत्र निवसेत् ' । अथ सिद्धे संश्रयणे तद्वचनमन्यनिवृत्त्यर्थमिति - परिसङ्ख्या तथा स्यात् । तस्याश्च त्रयो दोषाः । “ अथ हानिर्लक्ष्यते - एतान्देशान्न जह्यादिति ” – न श्रुतार्थसम्भवे लक्षणा युक्ता । अत एव न भूतपूर्वगतिः । तस्माल्लिङ्गमिदं न देशसम्बन्धेन पुरुषा म्लेच्छाः, किं तर्हि पुरुषसम्बन्धेन म्लेच्छदेशता । शूद्रस्य द्विजातिशुश्रूषाया विहितत्वात्तद्देशनिवासे सर्वदा प्राप्ते तत्राजीवतो देशान्तर-निवासोऽभ्यनुज्ञायते । यदा बहुकुटुम्बतया शुश्रूषाशक्त्या वाऽयं द्विजातिमाश्रितः स एनं बिभृयात् । तदा देशान्तरे सम्भवति धनार्जने निवसेत् । तत्रापि न म्लेच्छभूयिष्ठे, किं तर्हि यज्ञिये; म्लेच्छावृते यानासनाशनादिक्रियानिमित्तस्य संसर्गस्यापरिहार्यत्वात्त-द्भावापत्तिप्रसङ्गात् । वृत्तिकशितो वृत्त्यभावपीडितः । ‘ वृत्ति'रात्मकुटुम्बस्थितिसमर्थं धनम् । तदभावे यत्‘कर्शनं ’ तत्सम्बन्धितयोच्चते । यथा वर्षाकृते सुभिक्षदुर्भिक्षे । दुर्भिक्षं वर्षाभाव-कृतम् । दुर्भिक्षं वर्षाकृतत्वेन व्यपदिश्यते । यस्मिंस्तस्मिन्नित्यनियममाह ॥२४ ॥
हिन्दी — द्विज ( ब्राह्मण, क्षत्रिय और वैश्य, वे चाहे इन देशों में उत्पन्न हों चाहे अन्यत्र कहीं भी उत्पन्न हों ) इन देशों का आश्रय करें अर्थात् इन देशों में निवास करें; परन्तु शूद्र तो वृत्ति के लिए कहीं भी निवास करें ॥ २४ ॥
वर्णादि - धर्म-एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता ।
सम्भवश्चास्य सर्वस्य वर्णधर्मान्निबोधत ॥ २५ ॥
भाष्य— अतिक्रान्तस्य सर्वस्य ग्रन्थार्थस्य पिण्डार्थकथनमविस्मरणार्थम् । योनिः कारणम् । समासेन सङ्क्षेपेण । सम्भवश्चेति प्रथमाध्यायार्थावमर्शः । अस्य सर्व-स्येति । जगन्निर्माणं बुद्ध्या प्रत्यक्षीकृत्य निर्दिशति । वर्णानुष्ठेया धर्मा वर्णधर्माः । तान्निबोधत । विस्तरेणेति शेषः ।
पृष्ठ 182
पाठ पढ़ें पाठ छिपाएँ
१०८ मनुस्मृतिः [ द्वितीयः इह पञ्चप्रकारो धर्म इति स्मृतिविवरणकारा प्रपञ्चयन्ति । वर्णधर्म आश्रमधर्मो वर्णाश्रमधर्मो नैमित्तिको धर्मो गुणधर्मश्चेति । तत्र यो जातिमात्रमपेक्ष्य प्रवृत्तो न वयोविभागा-श्रमादिकमाश्रयति स ‘ वर्णधर्म: ' । यथा ' ब्राह्मणो न हन्तव्यः ' । ' ब्राह्मणेन सुरा न पेयेति ’ जातिमात्रस्याऽऽन्त्यादुच्छ्वासादेष धर्मः । ' आश्रमधर्मो ' यत्र जातिर्नापेक्ष्यते केवला, यदाश्रमप्रतिपत्तिराश्रीयते । यथा ब्रह्मचारिणोऽग्नीन्धनभिक्षाचरणे । ' वर्णाश्रमधर्म ’ उभयापेक्षः । यथा मौर्वी ज्या क्षत्रियस्येत्यादिः । नाश्रमान्तरे न च जात्यन्तरस्य धारण-मस्या उदाहरणम् । प्रथमोपादानन्तूपनयनधर्मो नाश्रमधर्मः । उपनयनं चाऽऽश्रमार्थं नाश्रमधर्मः । ‘ नैमित्तिको ’ द्रव्यशुद्ध्यादिः । गुणमाश्रितो ' गुणधर्म: ' । ' षड्भिः परिहार्यश्चे’-त्यादिः । बाहुश्रुत्येन गुणेनैते धर्माः । एवमभिषिक्तस्य क्षत्रियस्य ये धर्माः । तदेतद्वर्णग्रहणेन सर्वं गृहीतमिति दर्शितम् । अवान्तरभेदस्तु ततएवावतिष्ठते । पुरुषत्वमात्राश्रिता अवर्णधर्मा अपि सन्ति । तेऽपि भेदेन वाच्याः स्युः । एवमन्योऽपि भेदोऽभ्यूह्यः । वर्णग्रहणं चात्र प्रदर्शनार्थम्, नान्तरप्रभवव्युदासार्थम् । पूर्वं प्रतिज्ञात-त्वात् । तदनुवादिनी ह्येषा प्रतिज्ञा ॥२५ ॥
हिन्दी— ( भृगु मुनि महर्षियों से कहते हैं कि ) मैंने आप लोगों से धर्म के कारण तथा सम्पूर्ण संसार की उत्पत्ति को सङ्क्षेप में कहा । अब वर्ण - धर्मों को ( १ वर्ण - धर्म, २. आश्रम - धर्म, ३ वर्णाश्रम धर्म, ४ गौण - धर्म और ५ नैमित्तिक धर्मों को ) सुनो ॥२५ ॥
विमर्श – १. वर्णधर्म — ब्राह्मण आदि वर्णमात्र के आश्रय से प्रवृत्त होने वाला धर्म; यथा — यज्ञोपवीत आदि । २. आश्रमधर्म – ब्रह्मचर्य आदि आश्रयमात्र से प्रवृत्त होने वाला धर्म; यथा — भिक्षा - वृत्ति तथा दण्ड - धारण आदि । ३. वर्णाश्रम धर्म — ब्राह्मण आदि वर्ण तथा ब्रह्मचर्य आदि आश्रम- इन दोनों के आश्रय से प्रवृत्त होने वाला धर्म; यथा — मौञ्जी मेखला तथा पालाश - पैप्पल ( पलाश का और पीपल का ) दण्ड आदि । ४. गुण - धर्म - गुणों के आश्रय से प्रवृत्त होने वाला धर्म; यथा - अभिषिक्त राजा का प्रजापालन आदि और ५. नैमित्तिक धर्म - एक निमित्त के आश्रय प्रवृत्त होने वाला धर्म; यथा— प्रायश्चित विधान आदि । १. “ तदुक्तं भविष्यपुराणे-वर्णधर्मः स्मृतस्त्वेक आश्रमाणामतः परम् । वर्णाश्रमस्तृतीयस्तु गौणोनैमित्तिकस्तथा वर्णत्व-मेकमाश्रित्य यो धर्मः सम्प्रवर्तते । वर्णाश्रमः स उक्तस्तु यथोपनयनं नृप! यस्त्वाश्रमं समाश्रित्य अधिकार: प्रवर्तते । स खल्वाश्रमधर्मस्तुभिक्षदण्डादिको यथा । वर्णत्त्वमाश्रमत्वञ्च योऽधिकृत्य प्रवर्तते । वर्णाश्रमधर्मस्तु मौञ्जीया मेखला यथा यो गुणेन प्रवर्तेत गुणधर्मः स उच्यते । यथा मूर्द्धाभिषिक्तस्य प्रजानां परिपालनम् निमित्तमेकमाश्रित्य यो धर्मः सम्प्रवर्तते । नैमित्तिकः स विज्ञेयः प्रायश्चित्तविधिर्यथा । इति ( म ० मु ० ) ।
पृष्ठ 183
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता वैदिक मन्त्रों से द्विजों के संस्कार का विधान-वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् । कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥ २६ ॥
१० ९ भाष्य — मन्त्रप्रयोगा ‘ वैदिककर्माणि ' । ' वेदा ' मन्त्रा इहाभिप्रेताः । तेषां यान्युच्चा-रणानि तानि तत्र भवानि । अतोऽध्यात्मादित्वाठ्ठक् । वेदमूलत्वाद्वोपचरितो वैदिकशब्दः । कर्मशब्देन च इतिकर्तव्यतारूपं कर्म गृह्यते । ततश्च कर्मभिर्निषेकादिः संस्कारः कार्य इति साध्यसाधनभेदोपपत्तिः । प्रधानं निषेको, मन्त्रोच्चारणमितिकर्तव्यता । ' निषेका ' योनौ शुक्रनिक्षेपः । स आदिर्यस्य संस्कारकलापस्य वक्ष्यमाणस्योपनयन-पर्यन्तस्य । एकवचनं शरीरसंस्कार इति समुदायापेक्षम् । संस्कारशब्देन च सगुण-शरीर निर्वर्तकमुच्यते । तत्र निषेको निर्वर्तकोऽन्यानि विशेषजनकानि । एतदेवाह— पावन इति । पावयति अशुद्धतामपकर्षतीति पावनः । प्रेत्य चेह चेति । संस्कृतस्य सर्वत्रात्र दृष्टादृष्टफलेषु कर्मसु कारीरीज्योतिष्टोमा-दिष्वधिकारादुभयलोकोपकारकत्वमाह । पुण्यैः शुभैर्मङ्गलैरिति यावत् । सौभाग्यमावहन्ति दौर्भाग्यं चापनुदन्तीति पुण्य-पावनशब्दयोरर्थभेदः । द्विजन्मनामिति शूद्रपर्युदासार्थम् । संस्कार्यनिर्देशश्चायम् । लक्षणया च त्रैवर्णिकाः प्रतीयन्ते । न हि तदानीं द्विजन्मानो भवन्ति ॥ २६ ॥
हिन्दी — इस लोक में तथा मृत्यु के बाद परलोक में पवित्र करने वाला ब्राह्मणादि वर्णों का गर्भाधान आदि शरीर - संस्कार पवित्र वेदोक्त मन्त्रों से करना चाहिए || २६ || संस्कार का पापक्षय कारणत्व-गार्भैर्होमैर्जातकर्मचौडमौञ्जीनिबन्धनैः बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते ॥ २७ ॥
भाष्य — उक्तं संस्कारप्रयोजनं पावनः शरीरसंस्कारःपुण्यश्च । तत्र पावनत्वमुच्यते दुष्टस्य दोषापकर्षणम् । कुतः पुनः शरीरस्य दुष्टतेत्याशङ्कायामाह - बैजिकं गार्भिकं चैन इति । बीजे भवं बीजनिमित्तं वा ' बैजिकम् ' । एवं ' गार्भिकम् ' । ' एनः ' पापमदृष्टं दुःखकारणम् । तस्य बीजगर्भयोर्निमित्तभावादशुचित्वमात्रमिहोच्यते । शुक्रशोणिते पुरुषस्य ' बीजम् ' । ते च स्वाभावादशुचिनी । गार्भाधान्यपि दोषसङ्क्रान्त्या दुष्टैव । अतस्तन्निमित्तमशुचित्वं पुरुषस्य संस्कारैरपमृज्यतेऽपनुद्यते ।
पृष्ठ 184
पाठ पढ़ें पाठ छिपाएँ
११० मनुस्मृतिः [ द्वितीयः तानिदानीं कांश्चिन्नामधेयेन, कांश्चित्संस्कार्यविशेषोपलक्षितान् कृत्वा निर्दिशति । गार्भैर्होमैः । गर्भे सम्भूते नार्याः क्रियन्ते । गर्भं वा ग्रहीतुम् गर्भप्रयोजनकत्वाद्गार्भाः । नारी तत्र द्वारमात्रम् । प्रयोजकस्तु गर्भ एव । अतस्तत्प्रयुक्तत्वाच्च तदर्था होमाः पुंसंवन सीमन्तोन्नयनगर्भाधानानि । होमशब्द उपलक्षणार्थ: कर्ममात्रस्य । न हि गर्भाधानं होम: । एतेषां च कर्मणां द्रव्यदेवतादिरूपं गृह्यस्मृतिभ्योऽवसातव्यम् । यथैव गार्भैहौमैरेवं जातकर्माख्येन संस्कारेण । एवं चौडेन । चूडार्थ: ' चौड ' । मौञ्जीनिबन्धनमुपनयनम् । तत्र हि मुञ्जविकारो मेखला बध्यते I । अतस्तेनोपनयनकर्मोपलक्ष्यते । बन्धनमेव निबन्धनम् । निः वृत्तपूरणः । जातकर्मादीनि संस्कारनामधेयानि कृतद्वन्द्वानि करणविभक्त्या एनोप-मार्जनस्य एनोपमार्जनस्य निर्दिश्यन्ते । संस्कारश्च सर्वः संस्कार्ये कार्यान्तरशेषभूते कृतार्थे करिष्यमाणार्थे वा कश्चिद्दृ-ष्टमदृष्टं वा विशेषमादधाति । ' व्रीहीनवहन्तीति ', ' व्रीहिभिर्यजेते ' ति यागं निर्वर्तयिष्यतां तुषकणविप्रमोक्षो दृष्टो विशेष: । ' शिरसोऽवतार्य स्रजं शुचौ देशे निदधातीति ' उप-भुक्ताया आकीर्णाकारायाः प्रतिपत्तिनियमाददृष्टः स्रजो विशेषः । तत्रेमे संस्काराः शरीर-शुद्ध्यर्थाः श्रुताः । न च गन्धाद्यपकर्षणं मृद्वारिसम्बन्धादिव शरीरे दृश्यते । तेनेयं जन्मादिकालशुद्धिवददृष्टविशेषा शुद्धिर्वेदितव्या । एतया च शुद्ध्या पूतः श्रौतस्मार्तेषु कर्मस्वधिक्रियते । यथा मन्त्रपूतमाज्यं होमे । लौकिके तु कार्ये द्रव्यशुद्धयैव शुद्धिर्यथा-ऽऽज्यस्य भोजनादौ । स्पृश्यता हि कुमारस्य ' अद्भिर्गात्राणि शुद्ध्यन्ती'त्येतावतैव भवति । तथा चाह – ‘ न तदुपस्पर्शनादशौचमिति ' । “ कथं पुनः कर्मार्थत्वमेतेषाम् । युक्तमुत्पवनस्याज्यद्वारकं प्रकरणेन विनियोगात् । अमी तु बाह्या न कस्यचित्कर्मणः प्रकरणे श्रुताः । अतः पुरुषद्वारिका कर्मार्थता दुर्भणा । न चासति कार्योपयोगे स्वरूपतः संस्कार एवं निर्वर्त्यः । तथा सति संस्कारतैव हीयेत प्रधानकर्मता स्यात् । अतश्च ' कार्यः शरीरसंस्कार ' इति, ‘ कुमारे जाते पुराऽन्यै-रालम्भादिति ' च द्वितीया श्रुतिर्बाध्येत । ' सक्तूञ्जुहोतीति ' वद्विनियोगभङ्गः स्यात् । तत्र चाधिकार कल्पनेत्यादिबह्वसमञ्जस प्राप्नोति ” । उच्यते । न वयं श्रुत्यादिप्रामाण्यापेक्षं तादर्थ्यमङ्गलक्षणं ब्रूमः अपि तूपकार-कत्वम् । तच्चानङ्गत्वेऽप्युपपद्यते । यथाऽऽधानविधिः स्वाध्यायाध्ययनविधिश्च । न ह्यत्र श्रुत्यादयः सन्ति । यदाहवनीये जुहोतीत्याहवनीयादयो विनियुक्ताः । अलौकिकत्वाच्च तत्स्वरूपस्याधानविधिनैव सिद्धिः ' वसन्ते ब्राह्मणोऽग्नीनादधीत ' इति । अत आह— वनीयादिनिर्वृत्तिद्वारेणाधानं क्रतुषूपयुज्यते । न चाङ्गम् । अध्ययनविधिरप्यर्थावबोध-द्वारेण क्रतूपकारकः । एवममी संस्काराः एतत्संस्कृतस्याध्ययनविधिः, निष्पादिताध्ययन-
पृष्ठ 185
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १११ विध्यर्थस्य विवाहः, कृतविवाहस्याधानम्, आहिताग्नेरधिकार इत्यस्ति संस्कारकार्यो-पयोगिता बाह्यपुरुषसंस्काराणाम् । निषेकग्रहाच्च सर्वत्रापि पितुरधिकारः । तथा च जातकर्मणि मन्त्र: ‘ आत्मा वै पुत्रनामासि ' इति । तस्य ह्यपत्योत्पादनमपत्यानुशासनं च विहितम् | ' ऋणानि त्रीण्यपा-कृत्य ' ( अ ० ६।३५ ) इति । ' तस्मादनुशिष्टं पुत्रं लोक्यमाहुः ' इति । अनुशासनं च स्वाधिकारप्रतिपादनम्, तच्च वेदाध्यापनेनार्थावबोधपर्यन्तेन भवतीति वक्ष्यामः । अत एवोभयोपकारकाः संस्काराः, अपत्योत्पत्तिविधौ पितुर्माणवकस्य च संस्कृतसाध्यासु क्रियासु । तस्मात्पितुरधिकारस्तदभावे तत्स्थानापन्नस्य । तथा चाह ‘ असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः ' इति ॥२७ ॥
हिन्दी – गर्भ – शुद्धिकारक हवन, चूड़ाकरण ( मुण्डन ) और मौञ्जीबन्धन ( यज्ञोपवीत ) संस्कारों से द्विजों के वीर्य एवं गर्भ से उत्पन्न दोष नष्ट होते हैं ॥ २७ ॥
येषु कर्मसु माणवकस्य संस्कारा उपकारकास्तानिदानीमुपहारणमात्रेण दर्शयति—
स्वाध्यायादि का मोक्षकारणत्व-स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः ।
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥ २८ ॥
भाष्य— अध्ययनक्रिया स्वाध्यायशब्देनात्राभिप्रेता । तस्या एष विषयनिर्देश-स्त्रैविद्येनेति । व्यवधानेऽप्यर्थलक्षणः सम्बन्धो, ' यस्य येनार्थसम्बन्ध ' इति न्यायेन । अत एव सामानाधिकरण्येऽपि श्रुतेर्विषयविषयिभावो विभक्तिविपरिणामेन, ' त्रयाणां वेदानामध्ययनेने’त्यर्थः । त्रय एव वेदाः त्रैविद्यम् । चातुर्वर्ण्यादिवद्रूपसिद्धिः । अथवा ‘ स्वाध्यायेनेति ’ वेदाध्ययनं ' त्रैविद्येनेति ' तदर्थावबोधः । व्रतैः सावित्रादिभिर्ब्रह्मचारिकर्तृकैः । होमैर्ब्रतादेशनकाले ये क्रियन्ते । यदि वा सायम्प्रातः समिद्भिरग्नीन्धनं ब्रह्मचारिणो होमशब्देनाग्न्याधारसम्बन्धसामान्यादुच्यते । “ अथ किं समिदाधानं न होमो येनैवमुच्यते सम्बन्धसामान्यादिति ” । न भवतीति ब्रुवन्ति, अदनीयद्रव्यसाध्यत्वाद्यागहोमयोः । “ कथं तर्हि ‘ सायं प्रातश्च जुहुयात्ताभिरग्निमतन्द्रितः ' इत्युक्तम् ” । लक्षणया समिदाधानं होमशब्देनोच्यते । यथैव हूयमानं द्रव्यमग्नौ प्रक्षिप्यते एवं समिन्धनार्थाः समिधोऽपि अत एतेन सामान्येन समिन्धनमेव होम इत्युच्यते । उत्पत्ति-वाक्ये हि ‘ समिधमादध्याद् ' इति श्रुतम् । जुहुयात्ताभिरग्निमित्यनुवादोऽयमन्यार्थ इति
पृष्ठ 186
पाठ पढ़ें पाठ छिपाएँ
११२ मनुस्मृतिः परस्ताद्वक्ष्यामः । न चानुवादे लक्षणादोषः । [ द्वितीय: इदं तु युक्तं यन्मेध्यमात्रद्रव्यसाध्यौ यागहोमौ । तथा च सति बह्वयश्चोदना यथार्था भवन्ति । यथा ‘ सूक्तवाकेन प्रस्तरं प्रहरतीति ' । तत्र हि प्रस्तरं द्रव्यमाहुर्हरतिं च यजतिम् । “ अथ वचनादसौ तादृश एव यागः । दर्भाश्चाप्यदनीयाः केषाञ्चित् ” । कथं शाकलहोमे | “ तत्रापि हि ‘ शकलान्यभ्यादधाति ' इत्युत्पत्तिरिति ” चेद्ग्रहयज्ञे का गतिः । ग्रहेभ्य एकैकस्यै समिधो जुहुयादर्कादीनाम् । अतो यत्र जुहुयादिति देवतासम्बन्धश्च काष्ठादेरपि श्रुत उत्पत्तिवाक्ये सोऽपि होम एव । इज्यया देवर्षितर्पणेन । एष तावदुपनीतस्य ब्रह्मचर्ये क्रियाकलापः । इदानीं गृहस्थधर्माः । सुतैरपत्योत्पत्तिविधिना । महायज्ञैः पञ्चभिर्ब्रह्मयज्ञादिभिः । यज्ञैः श्रौतैर्ज्योतिष्टोमादिभिः । “ ननु यद्येषां कर्मणां किञ्चित्प्रयोजनं स्यात्तदा तदधिकारयोग्यतोत्पत्त्यर्था बाह्या संस्कारा अर्थवन्तः स्युः ” । अत आह— ब्राह्मीयं क्रियते तनुः । ' ब्रह्म ' परमात्मा कारणपुरुषः, तस्येयं सम्बन्धिनी ' तनुः ' शरीरम्, एतैः श्रौतस्मार्तैः सर्वैः कर्मभि: क्रियते । ब्रह्मसम्बन्धिता च तद्भावापत्तिलक्षणा । स हि परः पुरुषार्थः । सम्बन्धान्तराणि सर्वस्य कस्यचित्कारणत्वेन सिद्धत्वान्नाभिलषितव्यानि । ततो मोक्षप्राप्तिरुक्ता भवति । ब्राह्मीत्येनन तनुशब्देन च तदधिष्ठाता पुरुषो लक्ष्यते । तस्य ह्येते शरीरद्वारका: संस्काराः । तस्यैव च मोक्षप्राप्तिः । शरीरस्य पञ्चतापत्तेः । अन्ये त्वाहुर्ब्रह्मत्वप्राप्तौ योग्या क्रियते । न हि कर्मभिरेव केवलैर्ब्रह्मत्वप्राप्तिः, प्रज्ञानकर्मसमुच्चयात्किल मोक्षः । एतैस्तु संस्कृत आत्मोपासनास्वधिक्रियते । तथा च श्रुतिः । ‘ य एतदक्षरं गार्ग्यविदित्वा यजते जुहोति तपस्तप्यते अधीते ददात्यन्तवदेवास्य तद्भवति ' इति । “ ननु च नैतेषां कर्मणां ब्रह्मप्राप्तिः फलं श्रुतम् । तथा हि नित्यानि तावदश्रुत-फलान्येव । कल्पनायां च पौरुषेयत्वम् । यावज्जीवादिपदैश्च नित्यताया अवगमितत्वा-द्विश्वजिन्यायोऽपि नास्ति । अथास्मादेव वचनादेतत्फलत्वमिति यद्युच्येत, मोक्षार्थिनः तदाधिकारः स्यात्तथा च नित्यत्वहानिस्ततश्च श्रुतिविरोधः । ' निष्फलं न कश्चिदनुतिष्ठति तत्रानर्थक्यमिति ' चेत् काममननुष्ठानम् । प्रमाणस्य प्रमेयावगतिरर्थः । सा चेत्कृता जातमर्थत्त्वम् । अस्ति चात्र कर्तव्यतावगतिः । सत्यां च तस्यामकरणे शास्त्रार्थातिक्रम-स्ततश्च प्रत्यवाय: । ईदृश एवार्थे लिङादीनां वृद्धव्यवहारे व्युत्पत्तिः । यो हि भृत्यादिः
पृष्ठ 187
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता ११३ कर्तव्यं न करोति कस्यचिदाज्ञातु: स वेतनार्थी वेतनं न लभते, यदि वा प्रत्यवायेन योज्यते । तत्र फलस्याश्रुतत्वान्न फलानुत्पत्तिः प्रत्यवायः, अपि तु दुःखेन योजनं नित्येषु । एवं सर्वपुरुषाधिकारो नित्यः समर्थितो भवति । तस्मान्न नित्यानां किञ्चित्फलम् । काम्यानां त्वन्यदेव फलं, न मोक्षः, श्रुतत्वात् । तत्र कथमेतत्सर्वकर्मानुष्ठानसाध्यः परः पुरुषार्थ इति ॥ ” अत एव कैश्चिदर्थवादोऽयमिति व्याख्यायते । संस्कारविधिस्तुत्यर्थः । अत्र च ब्राह्मीयमिति यत्किञ्चिदालम्बनमाश्रित्य गुणवादेन नीयते | ' ब्रह्म ' वेदस्त-दुच्चारणार्हा तत्कर्माधिकारिणी च । “ यत्तर्हि गौतमेनोक्तम् ( अ ० ८ सू ० ८ ) । चत्वारिंशत्संस्काराः ' इति, तत्कथम् । तत्र हि सोमसंस्थाऽपि संस्कारत्वेनोक्ता । न च प्रधानकर्मणां संस्कारत्वोपपत्तिः । नाप्ये-तदर्थवादतया शक्यं व्याख्यातुमविशेषत्वात् । ” तत्राप्यात्मगुणशेषसंस्कारत्वाध्यारोपेण स्तुतिः । एवमिहाप्यसंस्कारैः संस्कारान् समानीकृत्य तुल्यफलताध्यारोपेण संस्काराणाम-वश्यकर्तव्यतामाचष्टे । तथा च संस्कारप्रकरणान्नोत्कृष्यते । स्तुति: क्रियत इचि च वर्तमानापदेशः । न विधिविभक्तिः । तत्र कुतो ब्रह्मप्राप्तेः फलत्वावगमः । न चात्र कर्माणि विधीयन्ते, येनाधिकाराकाङ्क्षायां सत्यपि वर्तमान-निर्देशे रात्रिसत्रे प्रतिष्ठावत्फलनिर्देशः स्यात् । तस्मात्संस्कारस्तुत्यर्थमेव सर्वमेतदुच्यते । येऽपि विभागेन वर्णयन्ति — “ नित्यानां ब्रह्मप्राप्तिफलं काम्यानां तु यथाश्रुत-मेव ’ ” तदप्यप्रमाणं, सर्वस्यास्यार्थवादत्वात् । अन्तरेण च फलं नित्येष्वनुष्ठानसिद्धेः प्रतिपादितत्वात् । तदुक्तं ‘ कामात्मता न प्रशस्तेति ' ( अ ० २ श्लो ० २ ) ॥२८ ॥
हिन्दी — वेदाध्ययन से, मधु - मांसादि के त्यागरूप व्रत अर्थात् नियम से, प्रातः-सायं कालीन हवन से, त्रैविद्य - नामक व्रत से, ब्रह्मचर्यावस्था में देवर्षि - पितृतर्पण आदि क्रियाओं में गृहस्थावस्था में पुत्रोत्पादन से, ( ३।६८-७० में वक्ष्यमाण ब्रह्म-यज्ञ आदि ) महायज्ञों से और ज्योतिष्टोमादि यज्ञों से ब्रह्म - प्राप्ति के योग्य यह शरीर बनाया जाता है ॥२८ ॥
नवजात बालक का जातकर्म संस्कार-प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते ।
मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम् ॥ २ ९ ॥
पृष्ठ 188
पाठ पढ़ें पाठ छिपाएँ
११४ मनुस्मृतिः [ द्वितीय: भाष्य — वर्धनं छेदनम् । जातकर्मेति कर्मनामधेयमेतत् । रूपं चास्य गृह्य-स्मृतिभ्यो ज्ञातव्यम् । कस्य पुनः कर्मणो जातकर्मेति नाम? तदर्थमुक्तं प्राशनं हिरण्यमधुसर्पिषाम् । अस्येति दारकं व्यपदिशन्ति, कर्म वा, अस्य जातकर्मण इदं प्रधानम् यन्मन्त्र-वत्प्राशनमिति । समन्त्रकं मन्त्रेण कर्तव्यमित्यर्थः । मन्त्रस्य चेहानुक्तत्वात् सर्वस्मृतीनां चैकार्थ्याद्य-दन्यत्रोक्तं तदत्रापि प्रतीयते । तेन गृह्यस्मृतिषु ये मन्त्रा उपात्तास्तैर्मन्त्रवदिति द्रष्टव्यम् । “ यदि गृह्यस्मृतयोऽपेक्ष्यन्ते द्रव्यनिर्देशोऽपि न कर्तव्यः । एवं हि तत्र पठ्यते— ‘ सर्पिर्मधुनी हिरण्यनिकाषं हिरण्येन प्राशयेत् ' ' प्रते ददामि मधुनो घृतस्य ' इति । किञ्च बह्वयो गृह्यस्मृतयो, भिन्नाश्च प्रतिगृह्यं मन्त्राः, अन्याऽपि भिन्नेतिकर्तव्यता, तत्र काऽ-ऽश्रीयतामिति न विद्मः । अथ चरणसमाख्या नियामिका भविष्यति - व्यर्थस्तर्हि जात-कर्माद्युपदेशस्तत एव सिद्धेः । कठानां गृह्यं बह्वचामाश्वलायनानां च गृह्यमिति यद्येन समाख्यायते स तदुक्तमनुष्ठास्यतीति । " उच्यते । द्रव्यादिनिर्देशेन सुस्पष्टं कर्मैकत्वमिति प्रतीयते । तथा हि प्रत्यभिज्ञा-सिद्धिः । तद्द्रव्यमेवेदं तन्नामधेयकं चेदं कर्मातस्तदेवेदमिति, भूयसा दृष्टं तद्गुण-योगेन प्रत्यभिज्ञायते । सति चैकत्वे यदङ्गजातं क्वचिन्नोक्तं तदविरुद्धमन्यत आने-तव्यम् । यथा सर्वशाखाप्रत्ययमेकं कर्म, एवं सर्वस्मृतिप्रत्ययमपि । यत्तु बहुत्वाद्गृह्य-स्मृतीनां काऽऽश्रीयतामित्यनध्यवसाय: – सर्वासां प्रामाण्याविशेषादेकार्थानां च विकल्पः भिन्नार्थानां समुच्चयः । चरणसमाख्या तु नैव नियामिका । यतो न समाख्यया पुरुषस्य नियतः सम्बन्धः गोत्रप्रवरवत् । यैव शाखा येनाधीता स एव समाख्यायते ' कठो बढ् च ' इति न चाध्ययने नियमोऽस्त्यनेनेयं शाखाऽध्येतव्येति । अनेकशाखाध्ययनम-प्यस्ति, वेदानधीत्येति । तत्र त्रिवेदाध्यायिनः सर्वे व्यपदेशाः प्रवर्तन्ते । केऽप्यूचुः कौथुमाः कठा बढ् च इति तत्रावश्यं विकल्प आस्थेयः । एकशाखाध्यायिनस्तु यद्गृह्यं यया शाखया समाख्यायते तदुक्तमेव तस्य युक्तं कर्तुम् । एष हि तदुक्तमेव शक्नोति कर्तुं तच्छाखामन्त्रा एव तेनाधीताः, शक्नोति तान्प्रयोक्तुम् । तमेव वा वृतं वेद । “ वेदने च कर्मानुष्ठानार्थं वेदाध्ययनं येन तावतो मन्त्रान्कर्मोपयोगिनोऽध्ये-ष्यत इति । ” उच्यते । स्वाध्यायविधिवशेन वेदाध्ययनम् । अनधीतवेदस्य नाधिकारः । न च कर्मप्रयुक्तमध्ययनम् । अत इयं समाख्या मन्त्रविशेषविनियोगनिमित्तैव ' कठानां गृह्यं ’ ‘ वाजसनेयिनां गृह्यमिति ’ । यस्यां शाखायां ये मन्त्रा अधीतास्ते यत्र बाहुल्येन विनि-
पृष्ठ 189
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ११५ युक्तास्तद्गृह्यं तथा समाख्यायते । प्रमाणं गृह्यस्मृतिः । सा कठानामियमिति व्यपदिश्य-माना बह्वृचानामपि स्वार्थावगमनं करोत्येव । कर्तव्यता वेदस्य स्वार्थे स्मृतीनां च । अवगतायां च कर्तव्यतायां कर्तृविशेषाश्रवणे स्वाधिकारो न स्याद्यथा च तनूनपाति प्रयाजे वसिष्ठानां, निषेधाद्वा पतितम् । न चेह द्वयमप्यस्ति । न च शक्यं कल्पयितुं न हि कठानां बाहृच्यं प्रमाणं, बढ्चानां वा काठकम् । यतो य एव कठः स एवाकठोऽसति तच्छाखाध्ययने । गोत्रं तु नियतमित्यसमानः । एष एवार्थः ‘ स्वसूत्रं यः परित्यज्य परसूत्रेण वर्तत ' इति । तदेव स यदधीते तदर्थः शक्योऽनुष्ठातुम् । तेन यः स्वाधीतां शाखामतिक्रम्य पित्राद्यधीतशाखया कर्माणि कुर्यात्तद्गृह्यं च समाश्रयेत् तस्य शाखात्यागदोषः । पित्रादीनां वा शाखात्यागः यैर्माणवकः क्रमाधीतां शाखां नाध्यापितः । माणवकस्यात्र दोषो नास्ति । यदा मृतपितृको जाबालवदयं बाल: स्वयमाचार्यमाश्रयेत्तदा ' येनास्य पितरो याता: ' इत्यनेन शास्त्रेण सैवाध्येतुं युक्ता स्यात् । अथात्मशाखाध्ययनं न सम्भवति, तदा स्वशाखात्यागः । अतः स्थितमिदं — सर्वं सर्वासु स्मृतिषु जातकर्माद्युपदिश्यते । तत्र भिन्नार्थमङ्ग-जातं समुच्चीयते, विरुद्धं विकल्प्यते समानार्थं च । पुंस इति स्त्रीनपुंसकव्यावृत्त्यर्थम् । अन्ये त्वविवक्षितं पुमर्थं मन्यन्ते । द्विजन्मनामिति सामान्येन त्रैवर्णिकानां संस्कार्य-त्वेन प्रकृतत्वात् । संस्कार्यश्च प्रधानमुद्देशो न च प्रधाने लिङ्गसङ्ख्यादिविशेषणं विवक्ष्यते । ‘ ग्रहं सम्माष्टीति ’ सत्यप्येकवचने सर्वे ग्रहाः सम्मृज्यन्ते । ' ज्वरितं ज्वरमुक्तं च दिवान्ते भोजयेन्नरम् ' इति नार्या अपि ज्वरिताया एष एव भोजनकालः । तथा च प्राप्त-प्रतिषेधः । स्त्रीणां ‘ अमन्त्रिका तु कार्येयं स्त्रीणामावृद् ' इति ( अ ० २ श्लो ० ६६ ) । तु नपुंसकानां च पाणिग्रहणदर्शनं ' यद्यर्थिता तु दारैः स्यात्क्लीवादीनामिति ' ( अ ० ९ श्लो ० २०३ ) । तत्रोच्यते — नायं पुंशब्दो मनुष्यजातिवचनो नरशब्दवद्येन विभक्तिवाच्यं लिङ्गं न विवक्ष्येत । एष हि सर्वत्र स्थावरमूर्तामूर्तगतं लिङ्गविशेषं प्रसवरूपमाचष्टे । प्रातिपदि-कार्थो ह्यत्र लिङ्गम् । विभक्तिवाच्यस्य ह्यर्थस्य विवक्षाविवक्षे युज्येते । यतो न विभक्ते-र्वचनमेवैकं प्रयोजनं, कर्माद्यर्थान्तराभिधानेनाप्यर्थवत्त्वात् । इह त्वविवक्षायामानर्थक्यमेव प्राप्नोति पुंस्पदस्य । यथा तत्रैव ग्रहप्रातिपदिकार्थो विवक्ष्यते वाक्यानर्थक्यपरिहाराय । यथोच्येत “ न प्रत्ययार्थमात्रस्याविवक्षा । कृत्स्नोऽपि पदार्थ उद्दिश्यमानविशेषणं न विवक्ष्यते । यथा ‘ यस्योभयं हविः, ' इति सत्यप्युभयपदश्रवणे दधिपयसोरन्यतरावृत्ता-वपि तदेव प्रायश्चित्तम् । न विवक्षित उभयशब्दः ” ।
पृष्ठ 190
पाठ पढ़ें पाठ छिपाएँ
११४ मनुस्मृतिः [ द्वितीयः भाष्य — वर्धनं छेदनम् । जातकर्मेति कर्मनामधेयमेतत् । रूपं चास्य गृह्य-स्मृतिभ्यो ज्ञातव्यम् । कस्य पुनः कर्मणो जातकर्मेति नाम? तदर्थमुक्तं प्राशनं हिरण्यमधुसर्पिषाम् । अस्येति दारकं व्यपदिशन्ति, कर्म वा अस्य जातकर्मण इदं प्रधानम् यन्मन्त्र-वत्प्राशनमिति । समन्त्रकं मन्त्रेण कर्तव्यमित्यर्थः । मन्त्रस्य चेहानुक्तत्वात् सर्वस्मृतीनां चैकार्थ्याद्य-दन्यत्रोक्तं तदत्रापि प्रतीयते । तेन गृह्यस्मृतिषु ये मन्त्रा उपात्तास्तैर्मन्त्रवदिति द्रष्टव्यम् । “ यदि गृह्यस्मृतयोऽपेक्ष्यन्ते द्रव्यनिर्देशोऽपि न कर्तव्यः । एवं हि तत्र पठ्यते— ‘ सर्पिर्मधुनी हिरण्यनिकाषं हिरण्येन प्राशयेत् ' ' प्रते ददामि मधुनो घृतस्य ' इति । किञ्च बह्व्यो गृह्यस्मृतयो, भिन्नाश्च प्रतिगृह्यं मन्त्राः, अन्याऽपि भिन्नेतिकर्तव्यता, तत्र काऽ-ऽश्रीयतामिति न विद्मः । अथ चरणसमाख्या नियामिका भविष्यति - व्यर्थस्तर्हि जात-कर्माद्युपदेशस्तत एव सिद्धेः । कठानां गृह्यं बह्वृचामाश्वलायनानां च गृह्यमिति यद्येन समाख्यायते स तदुक्तमनुष्ठास्यतीति । ” उच्यते । द्रव्यादिनिर्देशेन सुस्पष्टं कर्मैकत्वमिति प्रतीयते । तथा हि प्रत्यभिज्ञा-सिद्धिः । तद्द्रव्यमेवेदं तन्नामधेयकं चेदं कर्मातस्तदेवेदमिति, भूयसा दृष्टं तद्गुण-योगेन प्रत्यभिज्ञायते । सति चैकत्वे यदङ्गजातं क्वचिन्त्रोक्तं तदविरुद्धमन्यत आने-तव्यम् । यथा सर्वशाखाप्रत्ययमेकं कर्म, एवं सर्वस्मृतिप्रत्ययमपि । यत्तु बहुत्वाद्गृह्य-स्मृतीनां काऽऽश्रीयतामित्यनध्यवसाय: – सर्वासां प्रामाण्याविशेषादेकार्थानां च विकल्पः भिन्नार्थानां समुच्चयः । चरणसमाख्या तु नैव नियामिका । यतो न समाख्यया पुरुषस्य नियतः सम्बन्धः गोत्रप्रवरवत् । यैव शाखा येनाधीता स एव समाख्यायते ' कठो बढ् च ' इति न चाध्ययने नियमोऽस्त्यनेनेयं शाखाऽध्येतव्येति । अनेकशाखाध्ययनम-प्यस्ति, वेदानधीत्येति । तत्र त्रिवेदाध्यायिनः सर्वे व्यपदेशाः प्रवर्तन्ते । केऽप्यूचुः कौथुमाः कठा बढ् च इति तत्रावश्यं विकल्प आस्थेयः । एकशाखाध्यायिनस्तु यद्गृह्यं यया शाखया समाख्यायते तदुक्तमेव तस्य युक्तं कर्तुम् । एष हि तदुक्तमेव शक्नोति कर्तुं तच्छाखामन्त्रा एव तेनाधीताः, शक्नोति तान्प्रयोक्तुम् । तमेव वा वृतं वेद । " वेदने च कर्मानुष्ठानार्थं वेदाध्ययनं येन तावतो मन्त्रान्कर्मोपयोगिनोऽध्ये-ष्यत इति । ” उच्यते । स्वाध्यायविधिवशेन वेदाध्ययनम् । अनधीतवेदस्य नाधिकारः । न च कर्मप्रयुक्तमध्ययनम् । अत इयं समाख्या मन्त्रविशेषविनियोगनिमित्तैव ' कठानां गृह्यं ’ ‘ वाजसनेयिनां गृह्यमिति ’ । यस्यां शाखायां ये मन्त्रा अधीतास्ते यत्र बाहुल्येन विनि-