मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 191–200
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 191–200
पृष्ठ 191
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ११५ युक्तास्तद्गृह्यं तथा समाख्यायते । प्रमाणं गृह्यस्मृतिः । सा कठानामियमिति व्यपदिश्य-माना बह्वृचानामपि स्वार्थावगमनं करोत्येव । कर्तव्यता वेदस्य स्वार्थे स्मृतीनां च । अवगतायां च कर्तव्यतायां कर्तृविशेषाश्रवणे स्वाधिकारो न स्याद्यथा च तनूनपाति प्रयाजे वसिष्ठानां, निषेधाद्वा पतितम् । न चेह द्वयमप्यस्ति । न च शक्यं कल्पयितुं न हि कठानां बाहृच्यं प्रमाणं, बह्वृचानां वा काठकम् । यतो य एव कठः स एवाकठोऽसति तच्छाखाध्ययने । गोत्रं तु नियतमित्यसमानः । एष एवार्थः ‘ स्वसूत्रं यः परित्यज्य परसूत्रेण वर्तत ' इति । तदेव स यदधीते तदर्थः शक्योऽनुष्ठातुम् । तेन यः स्वाधीतां शाखामतिक्रम्य पित्राद्यधीतशाखया कर्माणि कुर्यात्तद्गृह्यं च समाश्रयेत् तस्य शाखात्यागदोषः । पित्रादीनां वा शाखात्यागः यैर्माणवकः क्रमाधीतां शाखां नाध्यापितः । माणवकस्यात्र दोषो नास्ति । यदा मृतपितृको जाबालवदयं बालः स्वयमाचार्यमाश्रयेत्तदा ' येनास्य पितरो याता: ' इत्यनेन शास्त्रेण सैवाध्येतुं युक्ता स्यात् । अथात्मशाखाध्ययनं न सम्भवति, तदा स्वशाखात्यागः । अतः स्थितमिदं — सर्वं सर्वासु स्मृतिषु जातकर्माद्युपदिश्यते । तत्र भिन्नार्थमङ्ग-जातं समुच्चीयते, विरुद्धं विकल्प्यते समानार्थं च । पुंस इति स्त्रीनपुंसकव्यावृत्त्यर्थम् । अन्ये त्वविवक्षितं पुमर्थं मन्यन्ते । द्विजन्मनामिति सामान्येन त्रैवर्णिकानां संस्कार्य-त्वेन प्रकृतत्वात् । संस्कार्यश्च प्रधानमुद्देशो न च प्रधाने लिङ्गसङ्ख्यादिविशेषणं विवक्ष्यते । ‘ ग्रहं सम्माष्टति ’ सत्यप्येकवचने सर्वे ग्रहाः सम्मृज्यन्ते । ‘ ज्वरितं ज्वरमुक्तं च दिवान्ते भोजयेन्नरम् ' इति नार्या अपि ज्वरिताया एष एव भोजनकालः । तथा च प्राप्त-प्रतिषेधः । स्त्रीणां ‘ अमन्त्रिका तु कार्येयं स्त्रीणामावृद् ' इति ( अ ० २ श्लो ० ६६ ) । नपुंसकानां च पाणिग्रहणदर्शनं ' यद्यर्थिता तु दारैः स्यात्क्लीवादीनामिति ' ( अ ० ९ श्लो ० २०३ ) । तत्रोच्यते — नायं पुंशब्दो मनुष्यजातिवचनो नरशब्दवद्येन विभक्तिवाच्यं लिङ्गं न विवक्ष्येत । एष हि सर्वत्र स्थावरमूर्तामूर्तगतं लिङ्गविशेषं प्रसवरूपमाचष्टे । प्रातिपदि-कार्थो ह्यत्र लिङ्गम् । विभक्तिवाच्यस्य ह्यर्थस्य विवक्षाविवक्षे युज्येते । यतो न विभक्ते-र्वचनमेवैकं प्रयोजनं, कर्माद्यर्थान्तराभिधानेनाप्यर्थवत्त्वात् । इह त्वविवक्षायामानर्थक्यमेव प्राप्नोति पुंस्पदस्य । यथा तत्रैव ग्रहप्रातिपदिकार्थो विवक्ष्यते वाक्यानर्थक्यपरिहाराय । यथोच्येत “ न प्रत्ययार्थमात्रस्याविवक्षा । कृत्स्नोऽपि पदार्थ उद्दिश्यमानविशेषणं न विवक्ष्यते । यथा ‘ यस्योभयं हविः, ' इति सत्यप्युभयपदश्रवणे दधिपयसोरन्यतरावृत्ता-वपि तदेव प्रायश्चित्तम् । न विवक्षित उभयशब्दः ” ।
पृष्ठ 192
पाठ पढ़ें पाठ छिपाएँ
११६ मनुस्मृतिः [ द्वितीय: अत्र केचित्परिहारमाहुः 1 । नैतत्तेन समानम् । न हि हविरर्थः पञ्चशरावः । हविर्वि-नाशे हि नैमित्तिकोऽधिकारः । इह तु माणवकार्था एव संस्काराः । एष त्वप्रयोजको विशेषः । वाक्यभेदभयाद्विशेषणविवक्षा नेष्यते । तादर्थ्येऽपि वाक्यभेदो नैवापैति । तस्मादयं परिहारः । एतदेवोत्पत्तिवाक्यं जातकर्मणो वैदिकैः कर्मभिरित्येतदुपक्रमम् । तत्र पुमानेव संस्कार्यतया निर्दिष्टः । तदविवक्षायां वाक्यानर्थक्यं, यथा तत्रैव हविःपदं विवक्ष्यते । “ यद्येवं शूद्रस्यापि प्राप्तिः, जातिविशेषानिर्देशात् ” । न प्राप्स्यति, मन्त्रसाध्यत्वात् । अथवा द्विजन्मनामिति वाक्यशेषको भविष्यति । न च तदानीं विधेयार्थविषयत्वेन निर्दिष्टो येन तत एव संस्कार्यावगतौ पुंस इत्येतदुभय-पदवदविवक्षितमाशङ्क्येत । स्त्रीणां त्वप्राप्तेऽपि विधानमुपपद्यते क्लीबस्यापि दारदर्शनम् । वातरेता यः क्लीब उभयव्यञ्जनोऽप्रवृत्तेन्द्रियो वा । बहुप्रकारव्यावृत्तिकरं जातकर्मादिसंस्कारकालेऽपरिच्छे-द्यत्वाच्छक्यप्रतीकारत्वाच्च । न च यो न नियतो धर्मः सोऽधिकारं व्यावर्तयति, यथा-ऽद्रव्यत्वं, न ह्यद्रव्यत्वं नियतं जातिवत् । य एवाद्रव्यः सोऽपि द्रव्यवान्भवति । चिरमधनो भूत्वा भवत्यह्ना महाधनः । ईदृशस्यैव षण्ढस्य वधे पलालभारकशुद्धिः । स ह्यसंस्कृतोऽनुपनीतः शान्त्यै न कस्यचित्तिष्ठति । अतः स्थितं पुंसामेवैते संस्कारा एभिर्विधीयन्ते । विध्यन्तरेण स्त्रीणाममन्त्रकाः । नपुंसकस्य नैव सन्तीति ॥२९ ॥
हिन्दी — नाभिच्छेदन ( नार काटने ) के पहले पुरुष का जातकर्म संस्कार किया जाता है और सोना, घी तथा मधु ( शहद ) का ( अपने गृह्येोक्त ) मन्त्रों से ( इस नवोत्पन्न बच्चे को ) प्राशन कराया जाता है ॥२९ ॥
नाम - करण संस्कार-नामधेयं दशम्यां तु द्वादश्यां वाऽस्य कारयेत् ।
पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ॥ ३० ॥
भाष्य - दशम्यां तिथौ द्वादश्यां वाऽस्य दारकस्य नामधेयं कुर्वीत 1 । णिजर्थो न विवक्षितः । तथा च गृह्यम् “ दशम्यामुत्थाप्य पिता नाम करोति " इति । नामैव ‘ नामधेयम् ’ । येन शब्देन कार्येष्वाहूयते तन्नाम । ‘ प्राङ्नाभिवर्धनादिति ’ जातकर्मणः प्रकृतत्वाज्जन्मनः प्रभृति दशमीद्वादश्यौ गृह्येते न चन्द्रतिथी ।
पृष्ठ 193
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता ११७ इह केचिद्दशमीग्रहणमाशौचनिवृत्तिरित्युपलक्षणार्थं वर्णयन्ति । अतीतायामिति चाध्याहारः । दशम्यामतीतायां ब्राह्मणस्य द्वादश्यां क्षत्रियस्य पञ्चदश्यां वैश्यस्योत । तदयुक्तम् । लक्षणायां प्रमाणाभावाज्जातकर्मवदाशौचेऽपि करिष्यते । यदि तु ब्राह्मणभोजनं विहितं क्वचित्तदा युक्ता लक्षणा । यदि दशमीद्वादश्यौ वक्ष्यमाणगुणयुक्ते भवतः तदा तयोः कर्तव्यम् | अथ न, तदाऽन्यस्मिन्नपि पुण्येऽहनि । पुण्यान्यहानि द्वितीयापञ्चम्यादीनि । ' पुण्यं ' प्रशस्तं, नवमीचतुर्दश्यादयो रिक्तास्तिथयः अपुण्याः । मुहूर्तो लग्नं कुम्भादि । तस्मिन्पुण्ये पापग्रहैरनधिष्ठिते गुरुभ्यां च दृश्यमाने । लग्नशुद्धिर्ज्योतिषादवगम्यते । नक्षत्रे च गुणयुक्ते । नक्षत्रं श्रविष्ठादि, तद्यस्मिन्नहनि गुणयुक्तं भवति । नक्षत्रगुणाश्च क्रूरग्रहपापग्रहविष्टिव्यतीपातविवर्जतम् । वा शब्दः समुच्चये । तेन प्रशस्तायां तिथौ नक्षत्रे च शुद्धे लग्न इत्युपदिष्टं भवति । समुच्चयश्च ज्योतिषाऽवगम्यः । अयं च परमार्थः । दशमीद्वादशीभ्यामर्वाङ्न कर्तव्यम् । उत्तरकालं च यदहर्नक्षत्रं लग्नं परिशुद्धं तदहरेव कर्तव्यम् ॥३० ॥
इदानीं यादृशं नाम कर्तव्यं तन्नियमयति स्वरूपतोऽर्थतश्च— हिन्दी - जन्म से दशवें ( ' शङ्ख ' के मत से ग्यारहवें ) या बारहवें दिन उस बालक का ‘ नामकरण ' संस्कार किया जाता है । ( उन दिनों में नहीं करने पर ज्योतिष-शास्त्र में कहे गये ) शुभ तिथि, मुहूर्त और गुणयुक्त नक्षत्र में ' नामकरण ' संस्कार किया जाता है १ ॥३० ॥
प्रत्येक वर्ण के नामकरण का पृथक् - पृथक् वर्णन-मङ्गल्यं ब्राह्मणस्य स्यात्क्षत्रियस्य बलान्वितम् । वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥ ३१ ॥
भाष्य — तत्र स्वरूपमवधारयिष्यन्नाह । मङ्गलाय हितं तत्र वा साधु मङ्गल्य-मिति व्युत्पत्तिः । अभिमतस्यार्थस्य चिरजीवित्वबहुधनादेर्दृष्टादृष्टसुखफलस्य सिद्धि-र्मङ्गलम् । तदभिधानमेव शब्दस्य हितत्वं साधुत्वं चेति तद्धितसिद्धिः । ‘ साधुत्वं ’ नाभि-१. तदुक्तं मुहूर्तचिन्तामणौ-तज्जातककर्मादि शिशोर्विधेयं पर्वाख्यरिक्तोनतिथौ शुभेऽह्नि । एकादशे द्वादशकेऽपि घस्त्रे मृदुध्रुवक्षिप्रचरोडुषु स्यात् ॥ इति ( ५।११ ) विशेष विवरणं मुहूर्तचिन्तामणेः पीयूषधाराटीकायां ग्रन्थान्तरेषु च द्रष्टव्यं जिज्ञासुभिरिति । मनु I- 12
पृष्ठ 194
पाठ पढ़ें पाठ छिपाएँ
[ द्वितीयः ११८ मनुस्मृतिः प्रेतार्थसिद्धिप्रतिपादनमेव विवक्षितम्, किं तर्हि, य आशास्यते तद्वचनेनैव सिद्धिः । समासाद्वायुःसिद्धिः धनसिद्धिः पुत्रलाभ इत्यादिः प्रतीयते । तद्धिताद्वा हितनिमित्त-प्रयोजनार्थीयात् । तत्र गृह्ये तद्धितान्तं प्रतिषिद्धं “ कृतं कुर्यान्न तद्धितमिति ” । समासेऽपि पदद्वयैकार्थीभावस्तत्र वह्वक्षरप्रयोगप्रसङ्गाः । यतो वक्ष्यति ' शर्मवद्ब्राह्मणस्ये ' त्युप-पदनियमम् । तत्र चतुरक्षरे त्र्यक्षरे वा नाम्नि शर्मशब्दे चोपपदे पञ्चाक्षरं षडक्षरं नाम भवति । तच्च प्रतिषिद्धं “ द्व्यक्षरं चतुरक्षरं वा कुर्यादिति " । तेन यद्यत्किञ्चित्प्रायेण सर्वस्याभिलषणीयमगर्हितं पुत्रपशुग्रामकन्याधनादि तद्वचनाः शब्दा नामधेयत्वेन विनियो-क्तव्या: शर्मान्ताः । तेन गोशर्मा धनशर्मा हिरण्यशर्मा कल्याणशर्मा मङ्गलशर्मेत्यादि-शब्दपरिग्रहः सिद्धौ भवति । अथवा ‘ मङ्गलं ’ धर्मः तत्साधनं मङ्गल्यं नाम । “ कतमत्पुनर्धर्मसाधनं नाम " । य एते देवताशब्दाः इन्द्रोऽग्निर्वायुः । तथा ऋषि-शब्दाः - वसिष्ठो विश्वामित्रो मेधातिथिः । तेषामपि धर्मसाधनत्वमस्ति । ' ऋषीस्तर्पयेत्-पुण्यकृतो मनसा ध्यायेदिति ' । “ देवतानामृषीणां च द्विजानां पुण्यकर्मणाम् । प्रात: प्रबुद्धः श्रीकामो नरो नामानि कीर्तयेद् ” इति । मङ्गल्यग्रहणाच्च यदप्रशस्तं यमो मृत्युरित्यादि तन्निरस्यते, यच्चानर्थकं डित्यादि यदृच्छानिमित्तम् । क्षत्रियस्य बलान्वितम् । बलसंयुक्तं बलवाचि । अन्वयः सम्बन्धः । शब्दस्यार्थेन सम्बन्धः प्रतिपादकभाव एव । सामर्थ्यं बलम् तद्येन प्रतिपाद्यते तादृशं नामक्षत्रियस्य कर्तव्यम् ‘ शत्रुन्तपः ' दुर्योधनः प्रजापाल इत्यादि । येन विभागेन च नामनिर्देशो जातिचिह्नम् । एवं वैश्यस्य धनसंयुक्तम् । न चात्र पर्याया एव गृह्यन्ते - " धनं वित्तं स्वापतेयमिति ' ' । किं तर्हि येन प्रकारेण तत्प्रतिपत्तिः । यदि वा धनादिशब्दप्रयोगादर्थसम्बन्धाद्वा । धनकर्मा महाधनः गो-मान्धान्यग्रह इति । एवं सर्वत्र द्रष्टव्यम् । तथा चान्वितादिशब्दप्रयोगो बलान्वितं धनसंयुक्तमिति । इतरथा एवमेवावक्ष्य‘द्वलनामानि कुर्यादिति ' । स्वल्पत्वाद्वलाद्यर्थवाचिनामानन्त्याच्च
पुरुषव्यक्तीनां दुरवधाने भेदे व्यवहारोच्छेद एव स्यात् ।
शूद्रस्य जुगुप्सितम् । कृपणको दीनः शबरक इत्यादि ॥३१ ॥
भाष्य – ब्राह्मण का मङ्गल - सूचक शब्द से युक्त, क्षत्रिय का बल - सूचक शब्द से युक्त, वैश्य का धन - वाचक शब्द से युक्त और शूद्र का निन्दित - शब्द से युक्त नामकरण करना चाहिए ॥३१ ॥
पृष्ठ 195
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता शर्मवद्ब्राह्मणस्य स्याद्राज्ञा रक्षासमन्वितम् । ११ ९ वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् ॥ ३२ ॥
भाष्य — अत्र स्वरूपग्रहणं पाठानुक्रमश्चादौ मङ्गल्यमन्ते शर्मशब्दः । तथा चोदाहृतम् । क्षत्रियादिनाम्नां तु नैतत्सम्भवति । रक्षाशब्दस्य स्त्रीलिङ्गस्य श्रवणात्पुंसां सामाना-धिकरण्यानुपपत्तेः । तस्मादेकोपक्रमत्वात्समाचाराच्च सर्वत्रार्थग्रहणम् । वाक्यभेदाच्च समुच्चयः । यन्मङ्गल्यं तच्छर्मार्थवत् । शर्म शरणमाश्रयः सुखं च । अर्थग्रहणात्स्वामि-दत्तभवभूत्यादिशब्दपरिग्रहः । इन्द्रस्वामीन्द्राश्रयः इन्द्रदत्तः तदाश्रयता प्रतीयते । एवं सर्वत्रोन्नेयम् । “ अथ कोऽयं हेतुर्वाक्यभेदात्समुच्चय इति । व्रीहिभिर्यजेत यवैर्यजेतेति किं न समुच्चय इति ” । उच्यते । लिङ्गदर्शनमात्रमेतत्पौरुषेयत्वात् ग्रन्थस्य । विकल्पेऽभिप्रेते मङ्गल्यं शर्मव-द्वेति लाघवादवक्ष्यत् । वाक्यभेदे हि द्विराख्यातोच्चारणम् । तद् गुरु भवति । रक्षा परिपालनं पुष्टिर्वृद्धिर्गुप्तिश्च । गोवृद्धो धनगुप्त इति । प्रेष्यो दासः । ब्राह्मण-दासो देवदासो ब्राह्मणाश्रितो देवताश्रित इति || ३२ || हिन्दी— ब्राह्मण का ' ' शर्मा ' शब्द से युक्त, क्षत्रिय का रक्षा - शब्द से युक्त, वैश्य का पुष्टि - शब्द से युक्त और का प्रेष्य ( दास ) शब्द से युक्त उपनाम ( उपाधि ) करना चाहिये ॥३२ ॥
-शुभ शर्मा, मङ्गलदेव, - वसुभूति, कुबेर-विमर्श - क्रमश: इनका उदाहरण - ब्राह्मण का यथा— क्षत्रिय का यथा — बलवर्मा, विजयप्रताप वर्मा.... वैश्य का यथा-दत्त, और शूद्र का यथा— दीनदास,..........।
स्त्रियों का नामकरण-स्त्रीणां सुखोद्यमक्रूरं विस्पष्टाथ मनोहरम् ।
मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् ॥ ३३ ॥
भाष्य – पुंस इत्यधिकृतत्वास्त्रीणामप्राप्तौ नियम्यते । सुखेनोद्यते सुखोद्यम् । स्त्रीबालैरपि यत्सुखेनोच्चारयितुं शक्यते तत्स्त्रीणां नाम कर्तव्यम् । बाहुल्येन स्त्रीणां स्त्रीभिर्बालैश्च व्यवहारस्तेषां च स्वकरणसौष्ठवाभावान्न सर्वं संस्कृतं शब्दमुच्चारयितुं शक्तिरस्ति । अतो विशेषेणोपदिश्यते । नतु पुंसामसुखोद्यम-भ्यनुज्ञायते । उदाहरणं ‘ मङ्गलदेवी ' ' चारुदती ' ' सुवदनेत्यादि ' । प्रत्युदाहरणं ‘ शर्मिष्ठा ' ' सुश्लिष्टाङ्गी'ति ।
पृष्ठ 196
पाठ पढ़ें पाठ छिपाएँ
१२० मनुस्मृतिः [ द्वितीयः अक्रूरमक्रूरार्थवाचि । क्रूरार्थवाचि क्रूरार्थं ' डाकिनी ' ' परुषेति ’ । विस्पष्टार्थं यस्यार्थो व्याख्यानगम्यो न भवति, श्रुत एव विदुषामविदुषां वाऽर्थ-प्रतीतिं करोति । अविस्पष्टार्थं यथा, ' कामनिधा ' ' कारीषगन्ध्येति ' । ' कामस्य निधेव , निधा तया कामस्तत्रैव तिष्ठतीति ' एवं यावन्न व्याख्यातं तावन्नावगम्यते । एवं करीषगन्धे-र्दुहिता कारीषगन्ध्येति व्याख्यानमपेक्ष्यते । मनोहरं चित्ताह्लादकरं, ‘ श्रेयसी ' । विपरीतं तु ' कालाक्षी ' । शर्मवती मङ्गल्यम् । विपरीतम् ' अभागा ' ' मन्दभागेति ' । दीर्घो वर्णोऽन्ते यस्य । विपरीतं शरत् । आशिषं वदतीत्या‘शीर्वादम् ', ' अभिधानं ' शब्दः, तयोर्विशेषणसमासः । तद्यस्मि-न्नस्ति विद्यते तत्आशीर्वादाभिधानवत् । ' सपुत्रा ' ' बहुपुत्रा ’ ‘ कुलवाहिकेति ’ । एते ह्यर्था आशीर्विषया । विपरीता ' अप्रशस्ता ' ' अलक्षणेति ' ।
“ अथ मङ्गल्यस्याशीर्वादस्य च को विशेषः ” ।
न कश्चित् । वृत्तपूरणार्थं तु भेदेनोपादानम् ॥३३ ॥
हिन्दी — स्त्रियों का नाम सुखपूर्वक उच्चारण करने योग्य, अक्रूर तथा स्पष्ट अर्थवाला मनोहर, मङ्गल सूचक, अन्त में दीर्घ अक्षर ( स्वर ) वाला और आशीर्वाद से युक्त अर्थ वाला करना चाहिये ( यथा - यशोदा, शान्ता, सुषमा, मनोरमा ) ॥३३ ॥
बालकों को प्रथम बार घर में बाहर निकालना और अन्नप्राशन संस्कार-चतुर्थे मासि कर्त्तव्यं शिशोर्निष्क्रमणं गृहात् । षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गलं कुले ॥ ३४ ॥
भाष्य – जन्मचतुर्थमासे गृहाद्वहिर्निष्क्रमणमादित्यदर्शनं शिशोर्बालस्य कर्तव्यम् । त्रीन्मासान् गर्भगृह एव वासयेत् । शिशुग्रहणं शूद्रस्यापि प्राप्त्यर्थम् । एवं षष्ठे मास्य-प्यन्नप्राशनम् । पञ्चमासान्क्षीराहार एव । यद्वा कुले दारकस्य श्रेयस्यं मङ्गल्यं पूतना-शकुनिकैकवृक्षोपहारादि प्रसिद्धम् । कालविशेषे वा तत्कर्तव्यम् । अयं च सर्वसंस्कार-शेषः । तेन नामधेयमुक्तलक्षणव्यतिरेकेणापि यथाकुलधर्मं लभ्यते । ‘ इन्द्रस्वामी ’ ‘ इन्द्र-शर्मा ’ ‘ इन्द्र भूमि: ’ ‘ इन्द्रघोष ' ' इन्द्ररात ' ‘ इन्द्रविष्णुः ' ‘ इन्द्रदेव ’ ‘ इन्द्रज्योतिः ’ ‘ इन्द्र-यशा ' इत्यादि कुलभेदेनोपपन्नं भवति || ३४ || १. तथा च यमः – शर्म देवश्च विप्रस्य ' वर्म त्राता च भूभुजः । भूतिर्दत्तश्च वैश्यस्य दासः शूद्रस्य कारयेत् ॥ इति । विष्णुपुराणेऽपि — शर्मवद्ब्राह्मणस्योक्तं वर्मेति क्षत्रसंयुतम् । गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ॥ इति ( म ० मु ० )
पृष्ठ 197
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १२१ हिन्दी - चौथे मास में बालकों को ( सर्वप्रथम ) घर से बाहर निकालना चाहिये ( इस संस्कार में मूख्यत: सूर्य भगवान् का दर्शन कराना उचित होता है ) और छठे मास में अन्नप्राशन कराना चाहिये; अथवा जैसा कुलाचार हो, वैसे ही उक्त संस्कारों को कराना चाहिये ॥३४ ॥
संस्कार का समय-चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः ।
प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिनोदनात् ॥ ३५ ॥
भाष्य – ' चूडा ' शिखा तदर्थं ' कर्म ' चूडाकर्म । केषुचिन्मूर्द्धदेशेषु केशानां स्थापनं रचना विशेषश्चैतच्चूडाकर्मोच्यते । प्रथमवर्षे तृतीये वा । ग्रहसौस्थित्यापेक्षा विकल्पः । श्रुतिनोदनादित्यनुवादस्तन्मूलतयैव प्रामाण्यस्योक्तत्वात् । अथवा श्रुतिशब्देन न विधायकान्येव वाक्यान्युच्यन्ते, किं तर्हिमन्त्राः । ते च रूपात् चूडाकर्म — याञ्जना इति-वददष्टकां — प्रकाशयन्ति । ‘ यत्क्षुरेण मार्जयेते'त्यादि ( पारस्कर २.१.१ ९ ) । तेन समन्त्रकमेतत्कर्मेत्युक्तं भवति । विशेषापेक्षायां गाह्य विधिरङ्गीक्रियते । अतः शूद्रस्य नायं संस्कारः, द्विजातिग्रहणाच्च । अनियतकालं तु केशवपनं शूद्रस्यार्थप्राप्तं न निवार्यते ॥३५ ॥
हिन्दी — सभी द्विजाति बालकों का ' चूड़ाकरण ' ( मुण्डन ) संस्कार वेद के अनुसार पहले या तीसरे वर्ष ( अथवा कुलाचारानुकूल समय ) में कराना चाहिए ॥ ३५ ॥
उपनयन संस्कार का समय-गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् ।
गर्भादेकादशे राज्ञो गर्भात्त द्वादशे विशः ॥ ३६ ॥
भाष्य — गर्भस्थस्य यः संवत्सरस्तत आरभ्य योऽष्टमोऽब्दः । गर्भशब्देन साह-चर्यात्संवत्सरो लक्ष्यते । न हि मुख्यया वृत्त्या गर्भस्य संवत्सरोऽष्टम इति व्यपदेशं लभते । तस्मिन्नौपनायनं ब्राह्मणस्य कुर्वीत । उपनयनमेवोपनायनम् । स्वार्थिकोऽण् । “ अन्येषामपि दृश्यते ” ( पा ० सू ० ६।३।१८७ ) इत्युत्तरपदस्य दीर्घः । छान्दसत्वा-द्वोभयपदवृद्धिः वेदविदां गृह्यस्मृतिषु प्रसिद्धो मौञ्जी-द्रः । उपनयनमिति हि एष संस्कारो बन्धनापरपर्यायः । उपनीयते समीपं प्राप्यते येनाचार्यस्य स्वाध्यायाध्यनार्थं न कुड्यं कटं वा कर्तुं तदुपनयनम् । विशिष्टस्य संस्कारकर्मणो नामधेयमेतत् । गर्भादिकादशे राज्ञः । गर्भात्प्रभृति गर्भाद्वा परो य एकादशोऽब्दस्तत्र क्षत्रियस्य कर्तव्यम् । राजशब्दोऽयं क्षत्रियजातिवचनो नाभिषेकादिगुणयोगमपेक्षते ग्रन्थेषु तथा
पृष्ठ 198
पाठ पढ़ें पाठ छिपाएँ
१२२ मनुस्मृतिः [ द्वितीयः प्रयोगदर्शनात्, ब्राह्मणादिजातिशब्दसाहचर्याच्च । गुणविधिषु च क्षत्रियशब्ददर्शनात् ‘ क्षत्रियस्य तु मोर्वीति ' । यस्तु राजशब्दस्य क्षत्रियादन्यत्र जनपदेश्वरे वैश्यादौ प्रयोग: स गौण इति वक्ष्यामः । मुख्ये चासति गौणस्य ग्रहणम् । तथा च गृह्यकारः– “ अष्टमे वर्षे ब्राह्मणमुपनयेदेकादशे क्षत्रियं द्वादशे वैश्यमिति ” । भगवांश्च पाणिनिः एवमेव प्रति-पन्नो ‘ राज्ञः कर्म राज्यं ’ इति राज्यशब्दस्य राजशब्दं प्रकृतिं ब्रुवन्नेव जनपदैश्वर्येण राज-शब्दार्थप्रसिद्धिमाह । एवं गर्भात्तुद्वादशेऽब्दे विशः वैश्यस्य ॥ ३६ ॥
हिन्दी- - ब्राह्मण - बालक का गर्भ से आठवें वर्ष में, क्षत्रिय - बालक का गर्भ से ग्यारहवें वर्ष में और वैश्य - बालक का गर्भ से बारहवें वर्ष में ' उपवीत ' ( यज्ञोपवीत ) संस्कार कराना चाहिये ॥ ३६ ॥
अधिक ज्ञानादि प्राप्ति के लिए प्रतिवर्ण के यज्ञोपवीत का अन्य समय–
ब्रह्मवर्चसकामस्य काम विप्रस्य पञ्चमे ।
राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे ॥ ३७ ॥
भाष्य – पितृधर्मेणापत्यं व्यादिशति ' ब्रह्मवर्चसी मे पुत्रः स्यादिति ' पितृकामनया पुत्रो व्यपदिष्टस्तत्कामस्येति । पुत्रस्य बालत्वान्नैवंविधा कामना सम्भवति । “ ननु चैवमन्यकृतात्कर्मण अन्यस्य फलेऽभ्युपगम्यमानेऽकृताभ्यागमदोषापत्तिः । अकाम्यमानं च फलं भवत्येतदप्युत्क्रान्तशब्दप्रमाणन्यायमर्यादयोच्यते ” । नैष दोषः । श्येनवदेतद्भविष्यति । श्येनमभिचरन्करोत्यभिचर्यमाणश्च म्रियते । अथोच्यते “ कामिन एवैतत्फलम् । शत्रुमरणं हि यजमानः कामयते । तदेव प्राप्नोतीति, नाकर्तृगामिता फलस्य ’ – अत्रापि विशिष्टपुत्रवत्तालक्षणमुपनेतुरेव फलम् । यथा पुत्र-स्यारोग्येण पितुः प्रीतिः एवं ब्रह्मवर्चसेनाप्यतोऽधिकृतस्य कर्तुश्च तत्फलमन्वयानुसारी हि शास्त्रार्थावसायः । इह च पुत्रस्य फलकामेनैवं कर्तव्यमित्यन्वयः प्रतीयते । न च यथाश्रुतान्वयत्यागे किञ्चन प्रमाणमस्ति । एतेन पितृरौर्ध्वदेहिकः पुत्रकृत उपकारो व्या-ख्यात:( । तत्रापि हि पुत्रः कर्ता पितृतृप्तिश्च फलम् । तथा च लिङ्गं “ आत्मा वै पुत्र-नामासीति ” । पित्रैव हि तावच्छ्राद्धमात्मसम्प्रदानकं वस्तुतः कृतमेव येनापत्योत्पादन-मेवमर्थमेव कृतम् । यथा ‘ सर्वस्वारे मृतस्यार्भवपवमानात् ये पराञ्चः पदार्थास्तेष्वपि यजमानस्यैव कर्तृत्वम् । ' ब्राह्मणाः संस्थापयत यज्ञमिति ' प्रैषेण, दक्षिणाभिर्वरणेन वा प्रयोगसमाप्तावृत्विजां विनियोक्तृत्वात् — एवमिहापि तादर्थ्येन पुत्रस्योत्पादनाद्यच्छ्राद्धादिकं क्रियते पित्रैव तत्कृतं भवति । अध्ययनविज्ञानसम्पन्नं ‘ ब्रह्मवर्चसम् ’ ।
पृष्ठ 199
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १२३ बलं सामर्थ्यम्, आभ्यन्तरं बाह्यं च । उत्साहशक्तिर्महाप्राणता चेत्येतदाभ्यन्तरम् । बाह्यं च हस्त्यश्वरथपदातिकोशसम्पत् । तदुक्तं ' स्वाङ्गाभ्युच्चयं सांयौगिकानां चार्वानामिति ' ।
ईहा चेष्टा, बहुना धनेन कृषिवाणिज्यादिव्यहारः ।
सर्वत्र गर्भादिसङ्ख्या वर्षाणाम् । गर्भादिति ह्यनुवर्तते ॥ ३७ ॥
हिन्दी - वेदाध्ययन और ज्ञानाधिक्य - प्राप्ति आदि तेज के लिए ब्राह्मण - बालक का गर्भ से पाँचवें वर्ष में, हाथी, घोड़ा और पराक्रम आदि प्राप्ति के लिये क्षत्रिय बालका का गर्भ से छठे वर्ष में और अधिक धन तथा खेती आदि की प्राप्ति के लिए वैश्य-बालक का गर्भ से आठवें वर्ष में ' यज्ञोपवीत ' संस्कार करना चाहिये || ३७ ||
यज्ञोपवीत संस्कार का अन्तिम काल-आ षोडशाद्ब्राह्मणस्य सावित्री नातिवर्त्तते ।
आ द्वाविंशात्क्षत्रबन्धोरा चतुर्विंशतेर्विशः ॥ ३८ ॥
भाष्य — एवं तावन्मुख्यकाम्यावुपनयनकालावुक्तौ । इदानीं पितुरभावे व्याध्वा-दिना वा कथञ्चिदनुपनीते माणवके कालातिपत्तावनुपनेयता प्राप्ता, सत्यपि कालस्याङ्गत्वे तदभावेऽधिकारनिवृत्तेः । यथा सायम्प्रात: कालातिपत्तावग्निहोत्रस्याकरणे । अतो विहित-कालव्यतिरेकेण प्रतिप्रसवार्थमिदमारभ्यते । यावत्षोडशं वर्षं गर्भादारभ्य तावद्ब्राह्मणस्योपनयनार्हता न निवर्तते । सावित्रीशब्देन तदनुवचनसाधनमुपनयनाख्यं कर्म लक्ष्यते । नातिवर्तते नातिक्रान्तकालं भवतीत्यर्थः । एवमा द्वाविंशात्क्षत्रबन्धोः क्षत्रियजातीयस्येत्यर्थः । बन्धुशब्दोऽयं क्वचित्कुत्सायां प्रवर्तते, यत्स्वं कथं वेत्स ब्रह्मबन्धविति । ज्ञातिवचनः यथा— “ ग्रामता जनता चैव बन्धुता च सहायता । महेन्द्रस्याप्यगम्याऽसौ भूमिभागभुजां कुतः ॥ ” द्रव्यवचनो “ जात्यन्ताच्छ बन्धुनीति ” ( पा ० सू ० ५।४।९ ) । तत्र पूर्वयोरर्थयोर-सम्भवात्तृतीयोऽर्थो गृह्यते । द्वाविंशतेः पूरणो द्वाविंशोऽब्दः तद्धितार्थः । आ चतुर्विंशतेर्विशः । प्राप्तोऽप्यत्र पूरणप्रत्ययो वृत्तानुरोधान्न कृतः, प्रतीयते तु तदर्थः । न हि समुदायविषयायाश्चतुर्विंशतिसङ्ख्याया अवधित्वेन सम्भवः । तदवय-वस्तु चतुर्विंशो भवति संवत्सरोऽवधिः । आङमभिविधौ व्याचक्षते । लिङ्गदर्शनं चोदाहरन्ति । " गायत्र्या ब्राह्मणमुपनयीत, त्रिष्टुभा राजन्यम्, जगत्या वैश्यम् ” इति । एतेषां च छन्दसामियता कालेन द्वौ पादौ पूर्येते । तावन्तं कालं
पृष्ठ 200
पाठ पढ़ें पाठ छिपाएँ
१२४ मनुस्मृतिः [ द्वितीय: बलवन्ति न त्यजन्ति स्वाश्रयभूतान्वर्णान् । तृतीये तु पादेऽपक्रान्ते गतरसान्यति-वयांसि न्यूनसामर्थ्यानि भवति । समाप्तिमुपयान्ति । यथा “ पञ्चाशता स्थविरो मनुष्यः ” इति । अतश्च नैतेन वयमुपासितानीति त्यजन्ति तं वर्णम् । ततो ' न गायत्रो ब्राह्मणो, न त्रैष्टुभो राजन्यो, न जागतो वैश्य ' इति । सविता देवता यस्या ऋचः सा सावित्री; सा च गायत्री द्रष्टव्या प्रदर्शिता, गृह्याच्च एवं क्षत्रियस्य त्रिष्टुप् सावित्री ' आकृष्णेनेति ' वैश्यस्य जगती “ विश्वारूपाणीति’॥३८ ॥।
हिन्दी — सोलह वर्ष की आयु तक ( गर्भ से ) ब्राह्मण की, बाईस वर्ष की आयु तक क्षत्रिय की और चौबीस वर्ष की आयु तक वैश्य की सावित्री का उल्लङ्घन नहीं होता है । अत: १६, २२ तथा २४ वर्ष की अवस्था पूर्ण होने के पहले क्रमशः ब्राह्मण, क्षत्रिय तथा वैश्य तीनों वर्णों का यज्ञोपवित संस्कार करना आवश्यक माना गया है ॥३८ ॥
व्रात्य लक्षण-अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः ।
सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः ॥
॥३९ ॥
भाष्य-. - अस्मात्कालादूर्ध्वं परेण त्रयोऽप्येते वर्णाः ब्राह्मणादयो यथाकालं यस्यो-पनयनकालः तत्रानुकल्पिकेऽप्यसंस्कृता अकृतोपनयनाः सावित्रीपतिता उपनयन-भ्रष्टा भवन्ति । व्रात्याश्च संज्ञया । ' आर्यैः ' शिष्टैः ' विगर्हिताः ' निन्दिताः । व्रात्यसंज्ञा-व्यवहारप्रसिद्ध्यर्थोऽयं श्लोकः । अनुपनेयत्वं तु पूर्वेणैव सिद्धम् ॥३ ९ ॥ हिन्दी — इसके बाद यथा समय ( ब्राह्मण १७, क्षत्रिय २३ और वैश्य २५ वर्ष तक ) उपवीत ( यज्ञोपवीत ) संस्कार से रहित ये तीनों वर्ण ( ब्राह्मण, क्षत्रिय और वैश्य ) सावित्री से पतित ( भ्रष्ट ) तथा शिष्टों से निन्दित होकर " व्रात्य " कहलाते हैं ॥३ ९ ॥ उक्तम् “ आर्यैर्निन्दितः ” । का पुनरेषां निन्देत्याह— व्रात्य के साथ व्यवहार - त्याग आवश्यक– नैतैरपूतैर्विधिवदापद्यपि
हि कर्हिचित् ।
ब्राह्मान् यौनांश्च सम्बन्धान्नाचरेद्ब्राह्मणैः सह ॥ ४० ॥
भाष्य— एतैर्ब्रात्यैरपूतैरकृतप्रायश्चित्तैर्विधिवद्यादृशो विधि: प्रायश्चित्तशास्त्रेणोप-दिष्टः ' तांश्चारयित्वा त्रीन्कृच्छ्रानिति ' – आपद्यपि हि कर्हिचित्कस्याञ्चिदप्यापदि न सम्बन्धानाचरेत्कुर्यात्तैः सह । किं सर्वसम्बन्धनिषेधो नेत्याह — ब्राह्मान्यौनांश्च । ' ब्रह्म ' वेदः । तन्निमित्ता: सम्बन्धाः याजनाध्यापनप्रतिग्रहाः । न ते याज्याः न याजकाः कर्तव्याः । एवं नाध्याप्या नैतेभ्यो-