मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 201–210
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 201–210
पृष्ठ 201
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १२५ ऽध्येतव्यम् । वेदार्थं विदुषः प्रतिग्रहाधिकारादेषोऽपि ब्राह्मसम्बन्धो भवति । ‘ यौन: सम्बन्धः ' कन्याया दानादाने । ब्राह्मणग्रहणं प्रदर्शनार्थम् । अस्माच्च दोषदर्शनाद्ब्रात्यतापरिहारार्थे पितुरभावेऽपि व्युत्पन्नबुद्धिना माणव-केनाप्यात्मनाऽऽत्मोपनाययितव्य इति प्रतीयते । काम्यो ह्ययमाचार्यस्य विधिः । तत्राचार्य-त्वमकामयमानो यदि कश्चित्र प्रवर्तते तदा माणवकेन प्रार्थयितव्यो दक्षिणादिना । तथा च श्रुतिः– “ सत्यकामो जाबालः हारिद्रुमतं गौतममियाय ब्रह्मचर्यं भवति वक्ष्या-मीति, ” स्वयमाचार्यमभ्यर्थितवानुपनयनार्थम् ॥४० ॥
हिन्दी – अपवित्र ( श्लो ० ३८ में कथित यज्ञोपवीत समय बीत जाने पर प्रायश्चित्त ग्रहणपूर्णक यज्ञोपवीत - धारण नहीं किये हुए ) इन व्रात्यों के साथ आपत्ति में भी कभी वेदाध्ययन और विवाहादि सम्बन्ध को ब्राह्मण नहीं करे ॥ ४० ॥
ब्रह्मचारियों के लिये कृष्ण- मृग - चर्मादि धारण –
कार्ष्णरौरववास्तानि चर्माणि ब्रह्मचारिणः ।
वसीरन्नानुपूर्व्येण शाण क्षौमाविकानि च ॥ ४१ ॥
भाष्य — कृष्णशब्दो यद्यपि कृष्णगुणयुक्तवस्तुमात्रे वर्तते ‘ “ कृष्णा गौ:, कृष्ण: कम्बलः ” इति तथापीह स्मृत्यन्तराद्रौरवसाहचर्याच्च मृग एव प्रतीयते । रुरुर्मृगजाति-विशेषः । बस्तः छात्रः । सर्वत्रविकारेऽवयवे वा तद्धितः । कृष्णाजिनं ब्राह्मणो, रुरुचर्म क्षत्रियो, वैश्यश्छागचर्म वसीरन्नाच्छादयेयुः । शणक्षुमोर्णास्तत्र कृतानि च वस्त्राणि । च शब्दः समुच्चये । क्षत्रानुत्तरीयाणि शाणादीनि । चर्माण्युत्तरीयाण्यौचित्यात् कौपीना-च्छादनानि च वस्त्राणि । आनुपूर्व्येण नैकैकस्य सर्वैरभिसम्बन्धो नापि व्युत्क्रमेण । प्रथमस्य ब्रह्मचारिणः प्रथमेन चर्मणा वस्त्रेण च सम्बन्धो द्वितीयस्य द्वितीयस्थानस्थेन ।. तथा च दर्शितम् । ननु चान्तरेणापि वचनं लोकत एवैतत्सिद्धं, “ चूर्णिताक्षिप्तदग्धानां वज्रानिल-हुताशनैरिति ’ ” यथाक्रमं सम्बन्धप्रतिपत्तिः, चूर्णिता वज्रेणाक्षिप्ताः अनिलेन दग्धा अग्निनेति । उच्यते । भवेदेतदेवं यदि भेदेन निर्देशः स्यात्समसङ्ख्यात्वं च । इह तु ' ब्रह्म-चारिण ' इत्येकशब्दोपादानान्न क्रमोऽवगम्यते । त्रयश्च ब्रह्मचारिणः । षडनुदेशिनः त्रीणि चर्माणि त्रीणि वस्त्राणि । आनुपूर्व्यग्रहणे तु सति वाक्यान्तरोपात्तः क्रम आश्रीयते । तथा च चर्मभिः सम्बध्य पुनर्ब्रह्मचारिपदमावर्त्य वासोभिः सम्बध्यते । ततः सङ्ख्यासाम्य-सिद्धिः । ईदृश एव विषये भगवता पाणिनिना यत्नः कृतो “ यथासङ्ख्यमनुदेशः समा-नामिति ” ( पा ० सू ० १।३।१० ) ॥४१ ॥
पृष्ठ 202
पाठ पढ़ें पाठ छिपाएँ
१२६ मनुस्मृतिः [ द्वितीयः हिन्दी – ब्राह्मणादि तीनों वर्ण के ब्रह्मचारी ( दुपट्टे के स्थान पर ) कृष्णमृग, रुरुमृग और बकरे के चमड़े को, ( धोती एवं कौपीन के स्थान पर ) सन, क्षौम ( रेशम ) और भेंड़ के बाल ( ऊन ) के बने कपड़ों को क्रमशः धारण करें ॥ ४१ ॥
मेखला -मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला ।
क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥४२ ॥
भाष्य – मुञ्जस्तृणजातिस्तद्विकारो मौञ्जी । सा ब्राह्मणस्य मेखला रशना कर्तव्या मध्यबन्धनी । त्रिवृत् त्रिगुणा । समा न क्वचित्सूक्ष्मा न क्वचित्सूक्ष्मतरा किं तर्हि सर्वत एव समा । श्लक्ष्णा तनुत्वगुणयुक्ता परिघृष्टा च । क्षत्रियस्य पुनर्ज्या धनुर्गुणः । सा कदाचिच्चर्ममयी भवति, कदाचित्तृणमयी, भङ्गोमादिरज्जुर्वा । तदर्थमाह — मौर्वीति । तया धनुषोऽवतारितया श्रोणीबन्धः कर्तव्यः । यद्यपि त्रिवृत्तादिर्गुणो मेखलोमात्राश्रितो न मौञ्ज्या एव, तथाऽपि ज्यायाः स्वरूपनाश-प्रसङ्गान्न भवति । शणतन्तुविकारः शणतान्तवी । छान्दसत्वादुत्तरपदवृद्धिः । अथवा केवला-त्तन्तुशब्दात्तद्धिते कृते तदन्तस्य शणैः सम्बन्ध: - शणानां तान्तवीति । प्रकृतेर्विकारः प्रकृतिसम्बन्धितया व्यपदिश्यते । ' गव्यं घृतं ' ' देवदत्तस्य पौत्र ' इति । ' तन्तुः ' सूत्रं शणमौञ्जीवत्कर्तव्या । गृह्यकारैर्वैश्यमेखलायाः त्रिवृत्तादिधर्मः सुस्पष्ट एवोक्तः || ४२ ॥ हिन्दी - त्रिगुणित ( तिगुनी ), बराबर ( मोटी - पतली नहीं ) और चिकनी मूँज की बनी मेखला को ब्राह्मण ब्रह्मचारी, मौर्वी ( धनुष की डोरी या मूर्वा नामक तृण - विशेष ) की बनी मेखला को क्षत्रिय ब्रह्मचारी और सन की रस्सी की बनी मेखला को वैश्य ब्रह्मचारी धारण करे || ४२ ॥
मौजी आदि मेखला का प्रतिनिधि-मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः ।
त्रिवृत्ता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥ ४३ ॥
भाष्य — आदिशब्दलोपमत्र स्मरन्ति । मुञ्जाद्यलाभ इति । कर्तव्या इति च बहुवचनमुपपन्नतरम् । भिन्नजातिसम्बन्धितया सुव्यक्तो मेखलाभेदः । एकजातिसम्बन्धि-त्वे तु केवलव्यक्तिभेदालम्बनं बहुवचनं स्यात् । विप्रस्येति च प्रकृतस्य बहुवचनेन परिणामः कर्तव्यः । विकल्पश्चैकविषयत्वे स्यात् । न च सम्भवत्यां गतौ विकल्पो युक्तः । तेन मुञ्जाभावे कौशी । ज्याया अभावेऽश्मन्तकेन । शाणानां बल्वजैः । तृणौषधि-वचनात्कुशादयः ।
पृष्ठ 203
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता प्रतिनिधिनियमश्चायम् । कुशाद्यभावेऽप्यन्यन्मुञ्जादिसदृशमुपादेयम् । १२७ त्रिवृत्ता ग्रन्थिनैकेन । नायं ग्रन्थिसङ्ख्याभेदो वर्णभेदेन । अपि तु प्रत्येकं विकल्पः । कुशादिमेखलास्वप्ययं ग्रन्थिभेदो धर्मभेदश्चोद्यमानः स्मृत्यन्तरसमाचारस्यानित्यत्वेऽपि द्रष्टव्यः ॥४३ ॥
हिन्दी - मुञ्ज आदि के नहीं मिलने पर कुश, अश्मन्तक ( तृण- विशेष या मल्लिका ) और बल्वज ( बबई नाम की घास ) की बनी हुई ( त्रिगुण, बराबर और चिकनी ) मेखला को ब्राह्मणादि ब्रह्मचारी क्रमशः धारण करें ॥ ४३ ॥
यज्ञोपवीत-कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत् ।
शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥ ४४ ॥
भाष्य — उपवीतशब्देन वासो विन्यासविशेष उच्यते । वक्ष्यति “ उद्धृते दक्षिणे पाणाविति ’ ” । तच्च धर्ममात्रम् । तस्य न कार्पासता सम्भवत्यतो धर्मेण धर्मी लक्ष्यते, यस्यासौ विन्यासस्तत्कार्पासमुच्यते । अर्श आदित्वाद्वा मत्वर्थीयोऽकारः कर्तव्यः, उप-वीतवदुपवीतमिति । ऊर्ध्ववृतं ऊर्ध्वं दिशं प्रतिवर्त्यते वेष्ट्यते । त्रिंवृत् त्रिगुणम् । कर्तनिकाभ्यो लब्धसूत्रभावस्य त्रिगुणीकृतस्येदमूर्ध्वनिवर्तनं विधीयते । संहत्य तन्तुत्रयं ऊर्ध्ववेष्ट-नेन रज्ज्वाकारं कृत्वा तेनोपवीतं कुर्यात् । सा च रज्जुरेकैव धारयितव्या तिस्रः पञ्च सप्त वा । यज्ञसम्बन्धाद्धि तद्यज्ञोपवीताख्यां लभते । यज्ञार्थोऽयमुद्यत इति भक्त्योपचर्यते । तत्रेष्टिपशुसोमानां यज्ञरूपतयैकत्वादेकतन्तुकं क्रियते । अग्नित्रयसाध्यत्वादहीनैकाहसत्र-भेदाद्वा त्रितन्तुकम् । सोमसंस्थानां सप्तसङ्ख्यत्वात्सप्त वा तन्तवः । “ त्रीणि सवनानि त्रिसन्ध्येनेति ” पञ्च । सूत्राभावेऽपि पटादिनाऽपि कर्तव्यम् । स्मृत्यन्तर एवमुक्तम् ।
अविः मेषस्तस्य सूत्रं कृतं आविकसूत्रिकम् । अध्यात्मादित्वाट्ठञ् कर्तव्यः ।
‘ अविकसूत्रिकमिति ' वा पठितव्यम् । तत्र च मत्वर्थीयेन ठना रूपसिद्धिः ॥४४ ॥
हिन्दी — ब्राह्मण का यज्ञोपवीत कपास ( कपास की रूई के बने सूत ) का, क्षत्रिय का यज्ञोपवीत सन के बने सूत का और वैश्य का यज्ञोपवीत भेड़ के बाल ( ऊन ) के बने सूत का, ऊपर की ओर से ( दक्षिणावर्त ) बँटा ( ऐंठा हुआ ) तीन लड़ी का होना चाहिए ॥४४ ॥
विमर्श - यद्यपि मनु भगवान् ने ' ऊर्ध्ववृतं त्रिवृत् ' ( ऊपर की ओर अर्थात् दक्षिणावर्त बँटा हुआ तिगुना यज्ञोपवीत का प्रत्येक वर्ण के लिए विधान किया है, तथापि ऊपर की ओर तिगुना बाँटकर नीचे की ओर अर्थात् वामावर्त फिर तिगुना बाँटना
पृष्ठ 204
पाठ पढ़ें पाठ छिपाएँ
१२८ मनुस्मृतिः [ द्वितीयः चाहिए । इस प्रकार ऊपर - नीचे ( क्रमशः दक्षिणावर्त तथा वामावर्त ) बँटने पर वह नौ सूत्र का यज्ञोपवीत ( छन्दोगपरिशिष्ट ) तथा देवल स्मृति के अनुसार होना चाहिए ' ।
दण्ड धारण-ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ ।
पैलवौदुम्बरौ वैश्यो दण्डानर्हन्ति धर्मतः ॥४५ ॥
भाष्य — सत्यपि द्वन्द्वनिर्देशे गुणविधिष्वेकत्वश्रवणात्केशान्तिक इति ‘ प्रतिगृह्ये-प्सितं दण्डम् ' इति च विकल्पितं एकदण्डधारणं प्रतीयते । “ बैल्वः पालाशो ब्राह्मणस्य दण्ड ” इति गृह्य । गौतमीये चैकदण्डग्रहणमेवोक्तम् । इह केवला दण्डसत्ता श्रूयते । ‘ दण्डानर्हन्ति ’ । दण्डा एते ब्रह्मचारिणां योग्याः । कस्यां क्रियायां इत्येतदत्रैवोक्तं उत्तरत्र भविष्यति ‘ प्रतिगृह्येप्सितमिति ' । तस्मिंश्च ग्रहणे दण्डस्योपायत्वाद्विवक्षितमेकत्वमत इह द्विवचननिर्देश: —देवश्चेद्वर्षेद्वहवः कृषिं कुर्युरिति यथा- प्राप्तानुवादः । बिल्वपलाशवटखदिरपीलूदुम्बरा वृक्षजातिविशेषनामधेयानि । बिल्वस्य विकारो-ऽवयवो वा ' बैल्वः ' । एवं सर्वत्र । प्रदर्शनार्थाश्चैते । ' यज्ञिया वा सर्वेषामिति ' वचनात् ।
एतान्दण्डान्वक्ष्यमाणे कार्ये अर्हन्ति । धर्मतः शास्त्रतः ॥४५ ॥
हिन्दी — धर्मानुसार ब्राह्मण ब्रह्मचारी को बेल या पलाश ( ढ़ाक ) का, क्षत्रिय ब्रह्मचारी को वट या खैर का और वैश्य ब्रह्मचारी को पीबु या गूलर का दण्ड धारण करना चाहिये ॥४५ ॥
दण्डमान --केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः ।
ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः ॥ ४६ ॥
भाष्य- आकारविशेषवचनो दण्डशब्दः । दीर्घं काष्ठं सम्मितायामं ‘ दण्ड ’ इत्युच्यते । कियत्तस्य दैर्घ्यमित्यपेक्षायामाह । केशान्तं गच्छति प्राप्नोति केशान्तगो मूर्द्धप्रमाणः । पादाग्रादारभ्य मूर्द्धावधिः केशान्तगः । केशा वाऽन्तोऽस्येति केशान्तकः । समासान्तः ककारः । प्रमाणतः प्रमाणेनानेन युक्तो दण्डः कार्यः कारयितव्यः ब्राह्मणस्याचार्येण । ललाटसम्मितः ललाटान्तमितः ललाटान्तप्रमाणः ललाटमात्रे
१. तदुक्तं छन्दोगपरिशिष्टे-उर्ध्वं तु त्रिवृतं कार्यं तन्तुत्रयमधोवृतम् ।
त्रिवृतं चोपवीतं स्यातस्यैको ग्रन्थिरिष्यते ॥
देवलोऽप्याह— यज्ञोपवीतं कुर्वीत सूत्राणि नव तन्तवः । इति । ( म ० मु ० )
पृष्ठ 205
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा’हिन्दीटीकासहिता १२ ९ चतुरङ्गुलेन मीयमानस्य दण्डशब्दवाच्यत्वाभावादेवं व्याख्यायते — पादाग्रादारभ्य
यावल्ललाटान्तं प्राप्तः ।
एवं विशो वैश्यस्य नासान्त इति ॥४६ ॥
हिन्दी - प्रमाणानुसार ब्राह्मण ब्रह्मचारी का दण्ड केश तक, क्षत्रिय ब्रह्मचारी का दण्ड ललाट तक और वैश्य ब्रह्मचारी का दण्ड नाक तक लम्बा होना चाहिये ॥ ४६ ॥
ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः ।
अनुद्वेगकरा नॄणां सत्वचोऽनग्निदूषिताः ॥४७ ॥
भाष्य — ऋजवः अवक्राः । सर्वे इत्यनुवादः । प्रकृतत्वाविशेषात् । अव्रणा अच्छिद्राः । सौम्यं प्रियकरं दर्शनमेषां ते सौम्यदर्शनाः वर्णपरिशुद्धाः, अकण्ट-किताश्च । अनुद्वेगकराः । नैतैः कश्चिदुद्वेजयितव्यः श्वा वा मनुष्यो वा । नॄणामिति प्रदर्शनार्थम् | सत्वचः अतष्टाः । अनग्निदूषिताः वैद्युतेन दावीत्थेन वाऽस्पृष्टाः || ४७ || हिन्दी - ( उन ब्राह्मणादि ब्रह्मचारियों के वे ) दण्ड सीधे; बिना कटे हुए, देखने में सुन्दर, लोगों में भय नहीं पैदा करने वाले ( मोटापन आदि के कारण उन्हें देखकर किसी को भय नहीं हो; ऐसे ) छिलकों के सहित बिना जले हुए होने चाहिये ॥ ४७ ॥
सूर्योपस्थानादि के बाद भिक्षावृत्ति-प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम् ।
प्रदक्षिणं परीत्याग्निं चरेद्भैक्षं यथाविधि ॥ ४८ ॥
भाष्य — प्रावृतेषु चर्मसु मेखलाबन्धनं कर्तव्यम् । आबध्य मेखलामुपनयनं कर्तव्यम् । कृते चोपवीते दण्डग्रहणम् । दण्डं गृहीत्वा भास्कर आदित्य उपस्थेयः । अभिमुखं स्थित्वा ऽऽदित्यदैवतैर्मन्त्रैरुपस्थानमादित्यस्य कर्तव्यम् । गृह्यान्मन्त्रावगमः । अन्या चेतिकर्तव्यता तत एव । यत्सर्वसाधारणं तदिहोच्यते । प्रदक्षिणं परीत्य सर्वतो गत्वा-ऽग्निम् | चरेत्कुर्यात् । भैक्षं भिक्षाणां समूहो भैक्षम् । तच्चरेद्याचेत । यथाविधीति
वक्ष्यमाणविध्यनुवादः । भिक्षाशब्देन स्वल्पपरिमाणं भक्ताद्युच्यते ॥४८ ॥
हिन्दी – ( ब्राह्मणादि ब्रह्मचारियों को ) ईप्सित ( श्लो ० ४५ में वर्णित विकल्प में से जो सुलभ या रुचिकर हो वह दण्ड धारण कर सूर्य का उपस्थान तथा अग्नि की प्रदक्षिणा कर विधि - पूर्वक भिक्षा माँगनी ( भिक्षार्थ याचना करनी ) चाहिये ॥४८ ॥
भिक्षा - विधि-भवत्पूर्वं चरेद्भैक्षमुपनीतो द्विजोत्तमः ।
भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥ ४ ९ ॥
पृष्ठ 206
पाठ पढ़ें पाठ छिपाएँ
१३० मनुस्मृतिः [ द्वितीय: भाष्य – भिक्षाप्रार्थनावाक्यमत्र भैक्षशब्देनोच्यते । तस्य हि भवच्छब्दपूर्वता सम्भवति, न भक्तादेरर्थस्य । स्त्रीणां च प्रथमं भिक्ष्यमाणतयोपदेशात्प्रार्थनायां च प्रार्थ्यमानस्य सम्बोध्यत्वात्सम्बुद्धिविभक्त्यन्तः स्त्रीलिङ्गो भवच्छब्दः प्रयोक्तव्यः । क्रम एव चात्रा-दृष्टाऽर्थो नियम्यते । यथार्थं तु शब्दप्रयोगो भवति भिक्षां देहीति ' । " कुतः पुनः संस्कृतशब्दार्थलाभः यावता स्त्रियः सम्बोध्यन्ते । ताश्च संस्कृतं नावबुद्ध्यन्ते । नित्यमुपनयनम् । तम्य च शब्दोच्चारणमङ्गत्वेनोक्तमिति । अनित्याश्चापभ्रंशाः । न तैर्नित्यस्य संयोग उपपद्यते । यथैव च शिष्टा असाधूनुपश्रुत्यैकदेशसादृश्येन साधू-न्संस्मृत्यार्थं प्रतियन्त्यसाधुरनुमानेन वाचक इति दर्शनेन गाशब्दो हि सादृश्याद्गोशब्द-मनुमापयति । ततोऽर्थप्रतिपत्तेः, एवं स्त्रियः सादृश्यात्साधुभ्यः असाधूनुत्पन्नसम्बन्धान् स्मृत्वा तेभ्योऽर्थं प्रत्येष्यन्ति । स्वल्पाक्षरं चैतत्पदत्रयं सर्वत्र प्रसिद्धं स्त्रीभिरपि सुज्ञानम् । एवं भवन्मध्यं क्षत्रियः ‘ भिक्षां भवति देहीति ' । तथा वैश्यो - भवच्छब्द उत्तरम-स्येति । भवदुत्तरं वाक्यं समार्थम् । उपनीत इति भूतप्रत्ययनिर्देशादान्वह्निकेऽपि वृत्त्यर्थे भैक्ष्यचरणेऽयमेव विधि-रिति दर्शयति । ‘ एष प्रोक्तो द्विजातीनामौपनायनिक ' इत्यत्रोपनयनप्रकरणमुपसंहरन्नुपनय-नाङ्गस्यापि भैक्ष्यस्यायमेव विधिरित्याह । अन्यथाकरणादुपनयनाङ्गमेवैतत्स्याद्यदि वा भूतप्रत्ययसामर्थ्यात्प्रकरणं बाधित्वा वृत्त्यर्थ एव भैक्ष्ये । उपनीयमानस्य तदङ्गं यद्भैक्षं यच्चाहरहवृत्त्यर्थं तत्र सर्वत्रायं धर्मः ॥४ ९ ॥ हिन्दी — उपनीत ( यज्ञोपवीत संस्कार से युक्त ) ब्राह्मण ब्रह्मचारी को ‘ भवत् ' शब्द का वाक्य के पहले उच्चारण कर ( यथा- ' भवति भिक्षां देहि ' ), क्षत्रिय ब्रह्मचारी को ' भवत् ' शब्द का वाक्य के मध्य में उच्चारण कर ( यथा- ' भिक्षां भवति देहि ' ) और वैश्य ब्रह्मचारी को ‘ भवत् ' शब्द का वाक्य के अन्त में उच्चारण कर ( यथा- ' भिक्षां देहि भवति ' ) भिक्षा याचना करनी चाहिये ॥४ ९ ॥
सर्वप्रथम भिक्षा किन - किन से माँगे-मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ।
भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥ ५० ॥
भाष्य — मात्रादयः शब्दाः प्रसिद्धार्थाः । निजा सोदर्या । या चैनं न विमानयेत् । विमानना अवज्ञानम्, ‘ न दीयत ' इति प्रत्याख्यानम् । तथा च गृह्यम् — ' अप्रत्याख्यायि-नमग्रे भिक्षेताप्रत्याख्यायिनीं वेति ' । तदेव हि मुख्यं प्राथम्यं यदुपनीयमानस्य । अहरहस्तु न विमाननाभयमाश्रयणीयम् ॥५० ॥
पृष्ठ 207
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १३१ हिन्दी— ( उक्त ब्राह्मणादि ब्रह्मचारी ) माता से, बहन से अथवा सगी मौसी से या जो निषेध के द्वारा अपमान न करे ( अवश्य भिक्षा दे ), उससे सर्वप्रथम भिक्षा माँगनी चाहिये ॥५० ॥
समाहृत्य
भिक्षाद्रव्य की भोजन - विधि-तु तद्भैक्षं यावदर्थममायया ।
निवेद्य गुरवेऽ श्रीयादाचम्य प्राङ्मुखः शुचिः ॥ ५१ ॥
भाष्य — समाहृत्येति शब्दो बह्वीभ्य आहरणं दर्शयति । नैकस्याः सकाशात् बढ्यो ग्रहीतव्याः । तदिति यस्यानन्तरं शब्दसन्निधिः वृत्त्यर्थस्य, न प्राकरणिकस्योपनयनाङ्गस्य । तस्य हि गृह्यकारै: “ अनुप्रवचनीयं अपयेदिति ' विहितं, न भोजनम् । ‘ तिष्ठेदहः-शेषमिति ' च कृतप्रातराशस्य चोपनयनम् । अतो नोपनयनाङ्गं भैक्षभोजनम् । यावदर्थं यावता भैक्ष्येण तृप्त्याख्यप्रयोजननिर्वृत्तिः । न बहु भिक्षितव्यम् । अमायया निवेद्य गुरवे, न कदन्नेन संस्कृतमन्नं प्रच्छाद्य कदन्नं गुरोः प्रकाशयेत्, कदनं किल एष न ग्रहीष्यतीत्यनया बुद्ध्या । निवेदनम् ‘ इदं प्राप्तमिति ’ प्रकटी-करणम् । अगृहीते गुरुणा अनुज्ञातो अश्नीयात् । “ कथं पुनर्निवेदनमदृष्टसंस्कारार्थमेव न भवति ” । इतिहासप्रामाण्यात् । तथा च भगवान् व्यासः । स्त्रितकूपाख्याने ' गुरुणा गृहीतमिति ' दर्शितवान् । ' अनुज्ञातो भुञ्जीतेति ' यत्क्वचिद्गृह्येश्रूयते । आचम्य प्राङ्मुखः । “ आचमने प्राङ्मुखतेयमानन्तर्यादिति ’ ” केचित् तद-युक्तम् । ‘ प्रागुदङ्मुख ' इत्याचमने दिनियमो भविष्यति । तस्माद्भोजनेनैव सम्बन्धः । शुचिः । चाण्डालादिदर्शनमशुचि देशाक्रमनिष्ठीवनादि कृताचमनस्य भोजन-कालेऽनेन निषिध्यते ॥५१ ॥
हिन्दी — अपने को तृप्त करने योग्य भिक्षा एकत्रित कर निष्कपट हो ( गुरुजी अच्छे अन्न अर्थात् भोज्य पदार्थों को अपने लिये ले लेंगे; इस कपट भावना से अच्छे भोज्य पदार्थ को निकृष्ट भोज्य पदार्थ से बिना छिपाये ) गुरु के सामने भिक्षा में प्राप्त हुए अन्न को निवेदन कर ( उनकी आज्ञा पाने के बाद ) आचमन कर पूर्व दिशा की ओर मुख करके उस अन्न का भोजन करे ॥५१ ॥
पूर्व आदि दिशाओं की ओर मुखकर काम्य- भोजन - फल-आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः । श्रियन् प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः ॥ ५२ ॥
पृष्ठ 208
पाठ पढ़ें पाठ छिपाएँ
१३२ मनुस्मृतिः [ द्वितीय: भाष्य — निष्कामस्य प्राङ्मुखस्य भोजनं विहितं नित्यतया । इदानीं काम्या विधय उच्यन्ते । आयुषे हितं आयुष्यं प्राङ्मुखो भुङ्क्त इति । यदि तद्भोजनादायुः प्राप्यते तत आयुष्यं तद्भवति, तेनायमर्थः सम्पद्यते ' आयुष्कामः । प्राङ्मुखो भुञ्जीत ' । अधिकार-द्वयं प्राच्यां, नित्यं काम्यं च । आयुष्कामः फलमभिसन्दधीत । इतरस्तु न तथेति । यथा नित्यमग्निहोत्रम्, स्वर्गकामस्य चासकृत्प्रयोगात्तन्त्रेण फलकामस्य नित्योऽप्यधिकारो निर्वर्तते । एवं यशःकामो दक्षिणामुखः । इमे काम्या एव विधयः । श्रियमिच्छन् श्रियन् क्यजन्ताच्छता कृतः । श्रियै हितं वा श्रियमिति मकारान्तः पाठः, आयुष्यादिवत् । प्राण्यङ्गत्वात्स्वार्थे भुजिर्वर्तते । तथा ऋतं भुङ्क्त इति । श्रियं भोजनात्प्राप्नोतीति । तथा च द्वितीयान्तः पाठः श्रियमिति । तादर्थ्ये वा चतुर्थी ' श्रियै प्रत्यगिति ' । ऋतं सत्यं यज्ञश्च, तत्फलं वा स्वर्गः । स्वर्गकाम उदङ्मुखो भुञ्जीत । अन्तरेणापि विधिप्रत्ययमप्राप्तत्वाद्विध्यर्थावगतिः पञ्चमलकारादिकल्पनया । एवमे-तद्दिग्विभागेन भोजनं फलविशेषार्थम् । विदिग्भोजनं त्वर्थप्राप्तं नित्येन प्राङ्मुखतानियमेनापोद्यते । अयं च काम्यो विधिर्न ब्रह्मचारिण एव भैक्ष्यभोजनविषयः, अऽपि तु गृहस्थादी-नामपि भोजनमात्राश्रितः । तथा चाश्नीयादिति प्रकृते भुङ्क इत्याख्यातान्तरनिर्देशो लिङ्गम् । इतरथाऽश्नीयादिति यतो निःसन्दिग्धा प्रकृतविषयता प्रतीयते तदेव निरदैक्ष्यत् । भुङ्क इति तु निर्देशे - किं प्रकृत एवार्थः शब्दान्तरेण निर्दिष्ट, उत शब्दार्थतया भोजनमात्रमिति सन्देहे — आख्यातवृत्तावर्थान्तरावगतिर्न प्रकृतप्रत्यभिज्ञानमेव । यत्तु “ विधिप्रत्ययाभावादर्थवाद एवायं पूर्वशेष ” इति चोक्त: परिहार: ‘ वचनानि त्वपूर्वत्वादिति ' । न च पूर्वैकवाक्यताहेतुर्विभज्यमानसाकाङ्क्षत्वादिरस्ति । यद्यप्युत्तरेषां चैतदवरोधीत्यनेनातिदेशेन ब्रह्मचारिधर्मोऽपि पुरुषमात्रविषयः स्यात्फलं तु न स्यात् । गुणकामनायां हि नातिदेशात्प्रवृत्तिमनुमन्यन्ते । ' गोदोहनेन पशुकामस्य प्रणयेत् ’ ‘ खादिरं वीर्यकामस्येति ' विकृतिषु नेष्यते कैश्चित् ॥५२ ॥
हिन्दी - हितकर अन्न को आयु के लिये पूर्व की ओर, यश के लिए दक्षिण की ओर, धन के लिए पश्चिम की ओर और सत्य के लिए उत्तर की ओर मुखकर भोजन करना चाहिए ॥ ५२ ॥
पृष्ठ 209
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता [ सायं प्रातर्द्विजातीनामशनं स्मृतिनोदितम् । नान्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः ॥ ६ ॥ ]
१३३ [ हिन्दी– ( द्विज को सायं प्रात: भोजन करने का विधान स्मृितियों में वर्णित है; बीच में भोजन नहीं करना चाहिये ( तीन बार भोजन नहीं करना चाहिए ) । यह विधि अग्निहोत्र के समान ( पुण्यप्रद ) है || ६ || ] उपस्पृश्य
भोजन के आदि - अन्त में आचमन - विधान-द्विजो नित्यमन्नमद्यात्समाहितः ।
भुक्त्वा चोपस्पृशेत्सम्यगद्भिः खानि च संस्पृशेत् ॥ ५३ ॥
भाष्य- . -आचमनोपस्पृशतिशब्दौ समानार्थी शुद्ध्यर्थसंस्कारविशेषवचनौ शिष्ट-व्यवहारादवगम्येते । यद्यपि स्पृशतिरर्थान्तरे पठितश्चमुरप्यदनमात्रे तथापि विशेष एव सोपसर्गयोः प्रयोगदर्शनात्तदर्थतैव प्रतीयते । स्पृशेः सामान्यविषयत्वेऽपि प्रयोगो निया-मकः । गडिर्वदनैकदेशे पठ्यते । स च कंपोल एव गण्ड इति प्रयुज्यते, नैकदेशान्तरे । ‘ पुष्यसिद्ध्यौ ' ( पा ० सू ० ३ | १ | ११६ ) नक्षत्रमात्रे पठ्येते, विशेषे च वर्तेते । धाय्या-शब्दः सामिधेनीमात्रे पठ्यते आवापिकीषु च वर्तते । अतोऽप एवाचम्येत्यर्थः । स एवो-पस्पृश्येत्यस्यापि । स च परस्ताद्विधायिष्यते । सामानाधिकरण्यं चानयोर्दृश्यते नित्य-कालमुपस्पृशेदित्यभिधाय त्रिराचामेदित्याह । अतः समानार्थः । उक्तेऽप्याचम्येति भोजनार्थतयाऽऽचमने पुनर्वचनमानन्तर्यार्थम्, अनन्तरमेव भुञ्जीत, न व्यापारान्तरेण व्यवदधीत । तथा च भगवान्व्यासः - “ पञ्चार्द्रा भुञ्जते नित्यं तेषु वत्स्याम्यहं हरे ” । श्रीः किलैवमाह । द्वौ हस्तौ द्वौ च पादावास्यं च एषा पञ्चार्द्रता । सा चोपस्पर्शनान्तरं भुञ्जानस्य भवति, न विलम्बमानस्य । इहापि वक्ष्यत्यार्द्रपादस्तु भुञ्जीतेति ’ स्नातकव्रतेषु । तस्यापौनरुक्त्यं च वक्ष्यामः । नित्यग्रहणं प्रकरणाद्ब्रह्मचारीभोजनधर्मो मा विज्ञायि, भोजनमात्रधर्मो यथा स्यादुप-देशत एव । अत्र “ द्विजग्रहणं भोक्तृमात्रधर्मार्थं चाहुः नित्यग्रहणं चानुवादनम् ” । न ते सम्यङ्मन्यन्ते । यदि द्विजशब्दः प्रकृते ब्रह्मचारिणि न समाविशेत्तदा स्या-` दपि । यदा तु तस्याप्येतदभिधानं तदा नान्तरेण नित्यग्रहणं प्रकरणबाधोपलभ्यते । समाहितः । भुज्यमानं द्रव्यं स्वात्मशक्तिं चावेक्षमाणः । अन्यचेतस्कस्य हि गुरु-विरुद्धविदाहिवर्जनं सात्म्यभोजनं च न स्यात् । भुक्त्वा चोपस्पृशेत् । स्नेहादिलेपापनयनं द्रव्यशुद्धावुक्तम् । कृते तस्मिन्भुक्तवत इदमाचमनं विधीयते । मनु I- 13
पृष्ठ 210
पाठ पढ़ें पाठ छिपाएँ
१३४ मनुस्मृतिः [ द्वितीयः अत्र केचिन्मन्यन्ते - ‘ शुद्ध्यर्थमेकमाचमनम्, ' सुप्त्वा क्षुत्वा च भुक्त्वा चेति ' अनेनादृष्टार्थं द्वितीयं कर्तव्यम् । एवं च पठ्यते “ आचान्तः पुनराचमेदिति ’ ” । एतत्पञ्चमे स्थापयिष्यामः । सम्यगिति वैधतामाचमनपदार्थस्यानुवदति । ' यादृशो विधिरुक्तस्तं सर्वमनुतिष्ठेत् ' । अद्भिः खानि च संस्पृशेत् । खानि छिद्राणि शीर्षण्यानि । “ ननु चैतदुक्तमेव, ‘ खानि चैव स्पृशेतद्भिरिति ’ । ” आत्मशिरसोर्व्यावृत्त्यर्थमिति केचित् । यदा शुचिः सन्नभोजनार्थतयैवाचामति । येषां च भोजनोत्तरकालमेकं शुद्ध्यर्थमाचमनमपरमदृष्टार्थं तत्रादृष्टार्थ आत्मशिरसी न स्पृश्येते, शुद्ध्यर्थं तु तादृशमुत्पन्नम् । तस्य सम्पूर्णाङ्गस्य प्रयोगो वक्ष्यते ( ६१ श्लो ० ) “ शौचेप्सुः सर्वदाऽऽचामेदिति ' । यद्वा विधिप्रत्यभिज्ञानार्थं – शास्त्रीयमेतदाचमनं न लौकिकमिति । ज्ञाताङ्गविशेषसम्बन्धस्य तदङ्गिनिर्देशे तदेवेदमिति प्रत्यभिज्ञानसिद्धिः । अतश्च यत्राचामेदिति श्रुतं तत्र न यस्य कस्यचिद् द्रव्यस्य भक्षणमात्रं प्रतीयते, किं तर्हि शास्त्रीयस्य संस्कारस्य सपरिकरस्येति यदुक्तं तद्दर्शितं भवति ॥५३ ॥
हिन्दी --द्विज नित्य ( ब्रह्मचर्यावस्था के बाद भी ) सावधान हो तीन आचमन कर भोजन करना आरम्भ करे तथा भोजन करने के बाद भी ( तीन ) आचमन करे और सम्यक् प्रकार से ( शास्त्रानुसार ) जल से ६ छिद्रों ( दो नाक, दो आँख और दो कान ) का स्पर्श करे ॥५३ ॥
पूजयेदशनं
श्रद्धा से अन्न- भोजन का विधान-नित्यमद्याच्चैतदकुत्सयन् ।
दृष्ट्वा हृष्येत्प्रसीदेच्च प्रतिनन्देच्च सर्वशः ॥ ५४ ॥
भाष्य — अश्यत इत्यशनं भक्तसक्त्वपृपाद्युच्यते । तदशनार्थमानीतं देवतारूपेण पश्येत । ‘ एषा वै परमा देवता यदन्नम् ' । तस्य सर्वेषां भूतानां स्रष्टृत्वेन स्थितिहेतुतया च यद्दर्शनं साऽस्य ‘ पूजा ’ । अथवा प्राणार्थत्वेन भावनम् -'ध्यायन्मम तदर्थत्वं सम्पूज-यति मां सदेति ' । नमस्कारादिना वा प्रणम्य ग्रहणं ‘ पूजा ' । अद्याच्चैतदकुत्सयन् । कदन्नतया, दुःसंस्कारोपग्रहणेन वा कुत्साहेतुसम्भवे नान्नं कुत्सयेत् । ‘ किमिदमश्यते, अरुचिकरं, धातुवैषम्यजनकमि’त्येवमादिनाऽभि-धानेन नाक्षिपेत् । यदि तु तद्रूपं भवति तदा नाद्यान्न कुत्सयन्नद्यात् । दूष्ट्वा हृष्येत् । पुत्रस्र्त्र्यादिसन्दर्शनेन चिरप्रवासप्रत्यागत इव तुष्येत प्रीयेत । प्रसीदेच्च । निमित्तान्तरजमपि कालुष्यमन्त्रदर्शनेन हित्वा मनःप्रसादमाश्रयेत् ।