मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 211–220

मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 211–220

पृष्ठ 211

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 211 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १३५ प्रतिनन्देच्च । समृद्ध्या शंसनं प्रतिनन्दम् । ' नित्ययुक्ता एतेन स्याम ' इत्यादरो-पदर्शनमभिनन्दनम् । सर्वशः सर्वदा | ‘ अन्यतरस्यामिति ' व्यवस्थितविभाषाविज्ञानात्सप्तम्यर्थे शस् कर्तव्यः । सर्वदेति वा पठितव्यम् ॥ ५४ ॥

हिन्दी – भोजन के पदार्थ का " यह प्राणार्थक है " ऐसा ध्यान करे और उसकी निन्दा नहीं करते हुए सब अन्न को खा जाय ( जूठा न छोड़े ), उसे देखकर मन को प्रसन्न रखे और ‘ मुझे यह अन्न सर्वदा प्राप्त हो ' इस प्रकार उसका प्रतिनन्दन करे ॥ ।५४ ॥ श्रद्धा एवं अश्रद्धा से भोजन करने का सदसत्फल-पूजितं ह्यशनं नित्यं बलमूर्जं च यच्छति । अपूजितं तु तद्भुक्तमुभयं नाशयेदिदम् ॥ ५५ ॥

भाष्य – पूर्वविधिशेषोऽयमर्थवादः, न तु फलविधिः । फलविधौ हि काम्योऽयं विधिः स्यादूर्जकामस्य बलकामस्य च । ततश्च नित्यशब्दो नोपपद्येत ' पूजितं ह्यशनं नित्यमिति ' । ' अतोऽयं यावज्जीविकः प्राङ्मुखताववन्नियमः । अपूजितं भुक्तं ह्युभयं नाशयेद्बलमूर्जं च । बलं सामर्थ्यमनायासेन भारोद्यमनादिशक्तता । कृशस्याप्यूर्जं महाप्राणता । अङ्गो-पचयः महाकायो महाबलश्च भवति ॥५५ ॥

हिन्दी – पूर्वोक्त प्रकार से पूजित ( सत्कृत अर्थात् अभिनन्दित ) अन्न सामर्थ्य और वीर्य को देता है तथा अपूजित ( निन्दित अर्थात् निन्दा करते हुए खाया हुआ ) अन्न उन दोनों ( सामर्थ्य और वीर्य ) को नष्ट करता है ॥ ५५ ॥

नोच्छिष्टं

भोजन विषयक अन्य नियम-कस्यचिद्दद्यान्नाद्यादेतत्तथान्तरा ।

न चैवात्यशनं कुर्यान्नचोच्छिष्टः क्वचिदव्रजेत् ॥ ५६ ॥

भाष्य – पात्रीस्थमन्नमास्यस्पर्शदूषितमुच्छिष्टमुच्यते । तन्न कस्यचिद्दद्यात् अनेनैव सिद्धे स्नातकव्रतेषु यः शुद्रविषयः प्रतिषेधः स तत्रैव निरूपयिष्यते । चतुर्थ्यां प्राप्तायां षष्ठी सम्बन्धमात्रनिषेधार्था । येऽपि दत्तमिदमस्मभ्यमिति न विदुस्तेषामपि भोजनाय न प्रकल्प्यं श्वबिडालादीनाम् । न ह्यत्र ददात्यर्थः परिपूर्णः स्वत्वनिवृत्तिमात्रं दातुः परस्य सत्वापत्तिर्नास्ति । अन्तराशब्दो मध्यवचन: । द्वौ भोजनकालौ सायं प्रातश्च । ततोऽन्यस्मिन्काले न भुञ्जीत । अथवा व्यवधाने अन्तराशब्दः । त्यक्तभोजनव्यापारः क्रियान्तरेण व्यवधाय

पृष्ठ 212

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 212 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३६ मनुस्मृतिः [ द्वितीयः पुनस्तदेव प्राक्पात्रगृहीतं न भुञ्जीत । स्मृत्यन्तरे तु विशेष: पठ्यते ' उत्थानाचमन-व्यापेतमिति ' । केचित्तु विच्छेदमन्तरमाचक्षते । ' सव्येन पाणिना पात्रमन्वालभ्य दक्षिणेना-वदाय प्राणायास्ये जुहोतीति ' श्रूयते । तत्र यः सव्येन पात्रस्यानुग्रहस्तदनन्तरम् । न चैवात्यशनमतिमात्रमशनं कुर्यात् । एतच्चानारोग्यकारणं गुरुविरुद्धादीनां प्रदर्श-नार्थम् । हेतूपदेशान्मात्राशितायाश्चायुर्वेदादतिमात्रता बोद्धव्या, यावदशितमन्नमुदरपूरं न करोति सम्यग्जीर्यति तावदशितव्यम् । त्रयः कुक्षेर्भागाः, अध्यर्धमन्त्रस्य भागार्धं पानस्य भागो दोषसञ्चाराय । अन्यथाऽनारोग्यम् । न चोच्छिष्टः क्वचिद्व्रजेत् । अतश्चोच्छिष्टमपनीय शुचित्वमापादिते तस्मिन्नेव देश आचान्तव्यम् ॥५६ ॥

हिन्दी --- उच्छिष्ट ( जूठा ) अन्न किसी को न दे तथा स्वयं भी न खावे, बीच में ( प्रात: -सायं भोजन के बीच में अर्थात् तीन बार ) न खावे, बहुत अधिक न खावे और जूठे मुँह ( बिना आचमन या कुल्ला किये ) कहीं न जावे ॥५६ ॥

अधिक भोजन का निषेध-अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।

अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ॥ ५७ ॥

भाष्य- -दृष्टमूलतामत्यशनप्रतिषेधस्याचष्टे अनारोग्यं व्याध्युत्पत्तिर्ज्वरोदरादिपीडा । विषूचिकादिना जीवितनाश अनायुष्यम् । सर्वत एवात्मानं गोपायेदिति शरीरपरिरक्षादिव्यतिक्रमादस्वर्ग्यम् । नरकप्राप्तिः स्वर्गा-भावेन प्रतिपद्यते । अपुण्यं दौर्भाग्यकरम् । लोकविद्वष्टं बहुभोजितया निन्द्यते । तस्मात्कारणादत्यशनं परिवर्जयेन्न कुर्यात् ॥५७ ॥

हिन्दी — अधिक भोजन करना आरोग्य, आयु, स्वर्ग और पुण्य के लिए अहितकर तथा लोक - निन्दित है; इस कारण उसे ( अधिक भोजन करने को ) छोड़ देना चाहिए ॥ ५७ ॥

आचमन के योग्य एवं अयोग्य तीर्थ-ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् ।

कायत्रैदशिकाभ्यां वा, न पित्र्येण कदाचन ॥ ५८ ॥

-भाष्य – तीर्थशब्देन पवित्रमुदकाधिकरणमुच्यते । तारणाय पापप्रमोचनाय च तिष्ठतीति तीर्थम् । क्वचित्तु तरन्त्यनेनेति तीर्थमुदकावतरणमार्गः । इह तूदकाधारकर-तलैकदेश उच्यते । स्तुत्या च तीर्थशब्दप्रयोगः । न हि तत्र नित्यस्था आपः । तेन उपस्पृशेदाचामेत् ।

पृष्ठ 213

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 213 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १३७ ब्राह्मेणेत्येतदपि स्तुत्यर्थमेव । ब्रह्मा देवताऽस्येति । न हि तीर्थस्य देवता भवत्य-यागरूपत्वादमन्त्रत्वाच्च । यागरूपतां च केनचिद्धर्मेण शुद्धिहेतुत्वादिनाऽध्यारोप्य देवता-तद्धित: । नित्यकालं शौचार्थे कर्माङ्गे च । कः प्रजापतिः, स देवताऽस्येति ' कायम् ' । एवं त्रिदशा देवता अस्येति ' वैदशिकम् ' । त्रिदशशब्दाद्देवताऽणिकृते स्वार्थे ' कः । देवतात्वं च पूर्ववत् । एभिस्तीर्थैरुपस्पृशेत् । विप्रग्रहणमविवक्षितम् । यत: क्षत्रियादीनां विशेषं वक्ष्यति । न चासत्यां सामान्यतः प्राप्तौ विशेषविधानमुपपद्यते, ' कण्ठगाभिस्तु भूमिप ’ इत्यादि । न पित्र्येण पितृदैवत्येन कदाचिदपि । स्फोटपिटकादिना ब्राह्मादितीर्थेष्वयोग्यता-मायातेष्वपि । “ ननु चाविधानादेव पित्र्यस्याप्राप्तिः ” । अस्त्यत्राशङ्का । पितृतीर्थज्ञापनार्थं तावत्पित्र्यं तयोरध इत्यवश्यं वक्तव्यम् । न च तस्येह कार्यं निर्दिश्यते । कार्याकाङ्क्षायाम् प्रकृतत्वात्तेन कार्येण सम्बन्ध आशङ्क्यते । अद्य पुनः प्रतिषेधे सति ' पित्र्य ' मिति समाख्ययैव कार्यावगतिः, उदकतर्पणादि पितृकर्म एतेन तीर्थेन कर्तव्यम् । एवं स्तुतिरन्वयिनी भवति । श्रुतिनोदितत्वाच्च ब्राह्मादीनां, तदभावे प्राप्तशङ्कानिवृत्त्यर्थं युक्तमस्याभिधानम् ॥५८ ॥

-हिन्दी – ब्राह्मण सर्वदा ब्राह्मतीर्थ से प्रजापति अथवा देवतीर्थ से आचमन करे, पितृतीर्थ से कभी भी आचमन न करे ( उक्त तीर्थों के लक्षण श्लो ० ५ ९ में वर्णित ) हैं ॥५८ ॥

ब्राह्म आदि तीर्थों के लक्षण-अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते ।

कायमङ्गुलिमूलेऽग्रे दैवं पित्र्यं तयोरधः ॥ ५ ९ ॥

भाष्य— अङ्गुष्ठस्य मूलमधोभागः । तस्य तलप्रदेशो ब्राह्मं तीर्थम् । हस्ताभ्यन्तरं तलमाह । महारेखान्तमभिमुखमात्मनो ब्राह्मं हस्तमध्ये । अङ्गुलीनां मूले दण्डरेखाया ऊर्ध्वं ' कायम् ' । अग्रे अङ्गुलीनां ' दैवम् ' । एवमुपसर्जनीभूतोऽपि मूले अङ्गुलिशब्दः सापेक्षत्वादग्रशब्दे सम्बध्यते । पित्र्यं तयोरधः । अत्रापि गुणीभूतस्याङ्गुलीशब्दस्याङ्गु-ष्ठस्य च सम्बन्धः । प्रदेशिनी चात्राङ्गुलिर्विवक्षिता । तयोरध अन्तरं‘पित्र्यम् ' । स्मृत्यन्तरशिष्टप्रसिद्धिसामर्थ्यादेवं व्याख्यायते । यथाश्रुतान्वयासम्भवात् । तथा च शङ्खः– “ अङ्गुष्ठस्याधरतः प्रागग्रायाश्च रेखाया ' ब्राह्यं ' तीर्थं, प्रदेशिन्यङ्गुष्ठयोरन्तरा

पृष्ठ 214

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 214 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३८ मनुस्मृतिः [ द्वितीयः ‘ पित्र्यं ’, कनिष्ठातलयोः पूर्वेणा पर्वण ' कायं ' अग्रमङ्गुलीनां दैविकमिति ’ ” ॥५ ९ ॥ हिन्दी – हाथ के अँगूठे के पास ' ब्रह्मतीर्थ ', कनिष्ठा अङ्गुली के मूल के पास प्रजापति तीर्थ ', अङ्गुलियों के आगे ‘ देवतीर्थ ' और अँगूठे तथा प्रदेशिनी ( तर्जनी ) अङ्गुली के बीच पितृतीर्थ होता है ॥५९ ॥

आचमन - विधि—

त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम् ।

खानि चैव स्पृशेदद्धिरात्मानं शिर एव च ॥ ६० ॥

भाष्य — अन्यतमेन तीर्थेन त्रिरप उदकमाचामेदास्येन जठरं प्रवेशयेत् । तत उदकभक्षणादनन्तरं द्विरभ्यासेन मुखम् ओष्ठद्वयं परिमृज्यात् ओष्ठश्लिष्टा-नामुदकावयवानां सोदकेन हस्तेनापनयनं ' प्रमार्जन’मंत्र । “ कुतः पुनर्हस्तेनेति । " समाचारात्तीर्थाधिकाराद्वा । ‘ तीर्थेनैवाद्भिरि’ति चोत्तरत्र श्रुतमत्राप्यपकृष्यते । दृष्टार्थ-त्वाच्च प्रमार्जनस्य मुखशब्द एकदेशे यथोक्ते वर्तते । खानि छिद्राणि चोपस्पृशेदद्भिर्हस्तगृहीताभिः स्पर्शनमेवोपस्पर्शनम् । मुखस्य च प्रकृतत्वान्मुख्यानामेव खानामेष स्पर्शनविधिः । गौतमश्चाह “ खानि चोपस्पृशेच्छी-र्षण्यानि ” । आत्मानमिति हृदयं नाभिं वा निर्दिशति । उपनिषत्सु हि “ अन्तर्हृदयमात्मानं पश्येदिति ” कथ्यते । अतो हृदयस्यायं स्पर्शः क्षेत्रज्ञस्यात्मनो विभोः । अमूर्तस्य न स्पर्शसम्भवः । ‘ नाभिमालभेतेति ' क्वचित्स्मर्यते; तेन नाभिं मन्यामहे । शिरः प्रसिद्धम् । स्मृतीनां चैकार्थ्यादा’मणिबन्धात्पाणी प्रक्षाल्ये ' त्येवमादि लभ्यते । तथा अशब्द-करणं वाङ्नियमः पादाभ्युक्षणम् । महाभारते प्रक्षालनमपि पादयोर्दर्शितम् ॥६० ॥

हिन्दी — पहले तीन बार आचमन कर दो बार मुख को ( ओष्ठ बन्दकर अङ्गुष्ठ मूल से ) स्पर्श करे और छिद्रों ( नाक, नेत्र और कान के २-२ छिद्रों ) का, हृदय का और सिर का जल से स्पर्श करे ॥ ६० ॥

अनुष्णाभिरफेनाभिरद्धिस्तीर्थेन

धर्मवित् ।

शौचेप्सुः सर्वदाऽऽचामेदेकान्ते प्रागुदङ्मुखः ॥ ६१ ॥

भाष्य — उष्णशब्दः क्वाथोपलक्षणार्थः । तथा हि पठ्यत ‘ अशृताभिरद्भिरिति ’ । एवं च ग्रीष्मोष्मतप्ताः स्वभावोष्णाश्च न प्रतिषिध्यन्ते । फेनग्रहणं बुद्बुदानामपि प्रदर्श-

पृष्ठ 215

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 215 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १३ ९ नार्थम् । पठितं च ‘ हीनाभिः फेनबुद्बुदैरिति ' । तीर्थेन धर्मविदिति वृत्तपूरणमेव । शौचमाप्तुमिच्छुः शौचेप्सुः । शुद्धिकाम इत्यर्थः । नान्यथा शुद्धो भवति । सर्वदा । न प्रकरणाद्भोजन एव, किं तर्हि रेतोविण्मूत्रादिशुद्धिष्वपि । अपां भक्षणे कर्मत्वात्तृतीयानिर्देशो, न भक्षमाणानामेवायं धर्मोऽपि तु कारणभूता-नामपि पादाभ्युक्षणादौ । वयं तु ब्रूमो भक्षणेऽपि करणमेवापो, न हि तासामाचमनं संस्कार: । एकान्ते शुचौ देशे । एकान्तो हि जनैरनाकीर्णः प्रायेण शुचिर्भवति । प्रागुदङ्मुखः । मुखशब्दः प्रत्येकमभिसम्बध्यते । “ प्राङ्मुख उदङ्मुखो वा ’ ” एवं हि गौतमेन पठितम् । विग्रहश्चैवं कर्तव्यः प्रागुदङ्मुखमस्येति । नायं द्वन्द्वगर्भो बहुव्रीहिरपि तु बहुव्रीहिरेव । द्वन्द्वगर्भतायां समाहारे समासान्तेनाकारेण भवितव्यम् । इतरेतरयोगोऽपि नैव । न हि युगपदुभयदिङ्मुखता सम्भवति । तत्र कश्चिदाचमनभागः प्राङ्मुखेन कर्तव्यः कश्चिदुदङ्मुखेनेत्यापतति, न चैकदेशे आचमनम् । न च दिगर्थ उपादेयो येन परस्परापेक्षे सम्बन्ध्येयाताम् । नापि दक्षिणपूर्वादिवत्प्रागुदक्शब्दोऽपराजिताया दिशो वाचकत्वेन प्रसिद्धो येन दिक्समासबहुव्रीहिर्ज्ञायेत । तस्मान्नायं वृत्त्यन्तरगर्भो बहु-व्रीहिः ॥ अतो विकल्पः । उदाहृतं च स्मृत्यन्तरे “ प्राङ्मुख उदङ्मुखो वा शौचमार-भेतेति ’ ” । यथा “ बृहद्रथन्तरसाम षडहे ” इति केषुचिदहःसु बृहत् केषुचिद्रथन्तरम्; न त्वेकस्मिन्नहनि समस्तोभयसामत्वम् ॥६१ ॥

हिन्दी – पवित्रता का इच्छुक धर्मात्मा पुरुष ठंडे और फेन - रहित जल से ब्राह्म आदि तीर्थों ( श्लो ० ५८ ) से एकान्त में पूर्व या उत्तर मुख बैठकर सर्वदा ( ब्रह्मचर्याश्रम त्याग के बाद भी भोजनान्त में ) आचमन करे ॥ ६१ ॥

आचमन में प्रत्येक वर्ण के लिए जल प्रमाण-हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः । वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः ॥ ६२ ॥

भाष्य — उक्तामाचमनं तीर्थेनापां भक्षणम् परिमाणं तु नोक्तमतस्तदवधारणार्थमाह— हृदयं गच्छन्ति प्राप्नुवन्ति ' हृद्गा: ' । ' अन्येष्वपि दृश्यत ' ( पा ० सू ० ६।२।१०१ ) इति गमेर्ड: । ‘ हृदयस्य हृदिति ' ( व्या ० सू ० ६।३।५० ) योगविभागाद्धृदादेशः । पूयते पवित्रतां प्राप्नोत्यशुचित्वं व्यावर्तते । आप ईषदूनचुलुकमात्रप्रमाणाः । कण्ठगाभिस्ताभिः कण्ठमात्रव्यानिनीभि: भूमिपः क्षत्रियः । भूमेराधिपत्यं क्षत्रि-

पृष्ठ 216

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 216 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४० मनुस्मृतिः [ द्वितीयः यस्य विहितम् । तेन प्रसिद्धेन कर्मणा क्षत्रियजातिर्लक्ष्यते । आधिपत्यविवक्षायां राज-धर्मेष्वेवावक्ष्यत् । वैश्यःप्राशिताभिरन्तरास्यप्रवेशिताभिः । कण्ठमप्राप्ता अपि शुद्धिहेतवो वैश्यस्य । शूद्रः स्पृष्टाभिरन्तत अन्तेनेति । आद्यादित्वात्तृतीयार्थे तसिः । अन्तशब्दोऽयं समीपवचनोऽस्ति । ' उदकान्तं गत ' उदकसमीपमिति गम्यते । अस्त्यवयववचनः । ‘ वस्त्रान्तो ’ ‘ वसनान्त ’ इत्युभयत्रापि वर्तमानः सम्बन्ध्यन्तरमपेक्ष्यते, कस्य समीपं कस्य वाऽवयव इति । तत्रेह येन स्थानेन वर्णान्तराणामाचमनं विहितम्, तीथैर्जिह्वोष्ठेन च तदन्तेनेति प्रतीयते । समीपवचनस्तु न सम्भाव्यः विधीयमानस्याचमनस्य तत्साध्य-त्वासम्भावात् । स्पर्शेति प्राशनमस्ति । जिह्वौष्ठेन हि स्पृश्यमानस्य रसास्वादनमवश्यम्भावि । तत्र वैश्यपरिमाणात्किश्चि-न्यूनताऽत्र विवक्षिता । जिह्वामूलं यावद्वैश्यस्य; जिह्वाग्रं शूद्रस्य । द्रवत्वादुदकस्यापरिहार्योऽवध्यतिक्रमः, अवध्यप्राप्तौ त्वशुद्धिः । सर्वश्चायं तीर्थविभागो दक्षिणहस्तस्य उपस्पर्शने हस्तस्यौचित्याद्दक्षिणाचारतायाश्च

पुरुषधर्मतया विहितत्वात् । एवमर्थमेव चास्मिन्नवधाविदमुच्यते ॥६२ ॥

हिन्दी – ( आचमन - काल में ) ब्राह्मण हृदय तक; क्षत्रिय कण्ठ तक, वैश्य मुख तक पहुँचे हुए तथा शूद्र ओष्ठ को स्पर्श किये हुए जस से शुद्ध होता है ॥ ६२ ॥

उपवीती ( सव्य ) आदि के लक्षण-उद्धृते दक्षिणे पाणावुपवीत्युच्यते द्विजः ।

सव्ये प्राचीन आवीती निवीती कण्ठसज्जने ॥ ६३ ॥

भाष्य — “ ननु च लोकतः सिद्धाः पदार्था धर्मशास्त्रेऽप्याश्रीयन्ते । न पदार्थसंविज्ञा-नार्थानि मन्वादिवाक्यानि, व्याकरणाभिधानकाण्डस्मृतिवत् ” उक्तमस्माभिर्यो नातिप्रसिद्धोऽर्थस्तं चेल्लक्षयन्ति किमुपालम्भमर्हन्ति । अस्ति चात्र किञ्चित्प्रयोजनमन्यदपि । आचमनक्रममुच्यमानमुपसंव्यानादिकमाचमनाङ्ग यथा विज्ञायेत् । यद्यप्युपवीतधारणं व्रतार्थतया पुरुषार्थतया वा सर्वदा प्राप्तं तथापि तेन विनाऽऽचमनं कृतमप्यपरिपूर्णमेव स्यात् । असत्यस्मिन्वचने व्रते वैगुण्यं पुरुषदोषश्च स्यात् । अथ पुनरन्तरेणोपवीतमाचमनं कृतमप्यकृतसमं, दोषश्च स्यादप्यशुचिना कृतमपां भक्षणमिति । “ कथं पुनः केवलस्योपवीतस्यैवाचमनाङ्गता यावताऽन्यदप्यत्र निर्दिष्टं प्राची-नावीति च । ” उच्यते । प्राचीनावीतं स्वशब्देनैव पित्र्ये कर्मणि विहितं, तत्रार्थवत्तायामुपयातायां

पृष्ठ 217

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 217 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १४१ नाकृतार्थेनोपवीतेन विकल्पितुमर्हति । निवीतमप्यभिचारेऽर्थवत् । यद्यप्यत्र निवीतस्य विनियोगो नास्ति, तथापि स्मृतीनां चैकार्थ्यादन्यत्र यो विनियोगस्तेनेहाप्यर्थवत्ता भवत्येव । पाणिग्रहणं बाहूपलक्षणार्थमुद्धृतबाहुर्यतो लोक उपवीतीत्युच्यते । सार्वकालिकं चोपवीतं वक्ष्यामः । न च केवलपाणावुद्धृत उपवीती । सव्ये उद्धृते प्राचीनावीती । समासपदान्नामधेयम् । असमासस्तु वृत्तानुरोधितया । कण्ठसज्जने । कण्ठे सज्जनं सङ्गः स्थापनम् । यदा वस्त्रस्य सूत्रस्य नान्यतरोपि बाहुरुद्भियते तदा निवीती भवति ॥६३ ॥

हिन्दी — द्विज दाहिना हाथ उठाकर पहने गये ( बायें कन्धे ऊपर से दाहिनी काँख के नीचे लटकते हुए ) यज्ञोपवीत होने पर ' उपवीती ' ( सव्य ), बाँया हाथ उठाकर पहने गये ( दाहिने कन्धे के ऊपर से बायें काँख के नीचे लटकते हुए ) यज्ञोपवीत होने पर “ प्राचीनावीती ” ( अपसव्य ) और ( मालाकी तरह ) कण्ठ में लटकते हुए यज्ञोपवीत होने पर ' निवीती ' कहलाता है ॥६३ ॥

पूर्व मेखलादि के नष्ट होने पर दूसरे का ग्रहण—

मेखलामजिनं दण्डमुपवीतं कमण्डलुम् ।

अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥ ६४ ॥

भाष्य – विनष्टानामप्सु प्रासनमन्येषां च ग्रहणमत्र विधीयते । प्रासनग्रहणयोः पौर्वापर्यं यथाश्रुतमेव । अस्माच्च पुनरुपादानान्नैषामुपनयनाङ्गतैव । तदङ्गत्वे हि तत्प्रयोगा-पवर्गितैव स्यात् । किं तर्हि? यावद्ब्रह्मचर्यं धारणम् । “ अथ किमुपनयनकाल एव प्राक्कर्मनिष्पत्तेः दैवान्मानुषाद्वा प्रतिबलाद्विनष्टानां प्रतिपत्तिर्न सम्भवति । प्रयोगसमाप्त्यर्थं च पुनरुपादानं, यथा कपालस्य; येनैवमुच्यते अस्मात् पुनरुपादानाद्धारणमनुमीयते ” । उच्यते । ग्रहणं तावद्दण्डस्य चोदितं, मेखलाया बन्धनम् । तत्र सूत्रस्य विन्यास-स्तावदुपनयनाङ्गत्वेनावश्यं कर्तव्यम् । कृते तस्मिन्कृतः शास्त्रार्थः । उत्तरकालं किं तैर्नष्टैरनष्टैर्वा । अङ्गनाशे च प्रतिपत्तिविशेषः कर्मोपकारको भवति । न च तेषां किञ्चन कार्यमाम्नातं येन तत्सिद्ध्यर्थं विशिष्टे काले वाचनिकमुपादानम् । अकृतत्वाच्च कार्यस्य तत्प्रयुक्तं पुनरुपादानमर्थसिद्धमुच्यते । तस्मात्प्रतिपत्तिविधानादुपादानवचनाच्च धारण-मङ्गं, न च प्रयोगापवर्गि । यतः कमण्डलुनोपनयनोत्तरकालानुवर्तिना तुल्यवन्निर्देशात्ते-षामप्युत्तरत्रानुवृत्तिः प्रतीयते । सा च व्रताङ्गम् । अत उभयार्था मेखलादयः प्रकरणादुप-नयनार्थाः । निवृत्ते चोपनयने दर्शनाद्यावद्ब्रह्मचर्यभाविनः । कमण्डलुश्चोदकार्थः कर्तव्यो-

पृष्ठ 218

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 218 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४२ मनुस्मृतिः [ द्वितीयः ऽस्मादेव प्रतिपत्तिविधानात् । अन्यथा यदा कमण्डलुस्तदेयं प्रतिपत्तिरिति पाक्षिक-त्वं स्यात् । तत्र दण्डधारणं प्रतिगृह्य दण्डं भिक्षां चरेदिति क्रमाद्भैक्ष्यचर्याङ्गत्वमेव प्राप्तं समाचारादभैक्षेऽर्थेऽपि भ्रमणे भवत्येव । न तु सर्वदैव करतलधृतदण्डस्य स्थाना-सनशयनभोजनादीनि । तथा च स्वाध्याये ब्रह्माञ्जलि वक्ष्यति ।

मन्त्रवदित्युपनयनविधिना ग्रहणमनुवदति । तत्र च मेखलाया मन्त्रो, न दण्डस्य ॥६४ ॥

हिन्दी – मेखला, मृग - चर्म, पालाशादि दण्ड, यज्ञोपवीत और कमण्डलु के नष्ट होने पर उन्हें जल में छोड़कर मन्त्रपूर्वक दूसरा धारण करना चाहिए ॥ ६४ ॥

केशान्त संस्कार का समय-केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते ।

राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके ततः ॥ ६५ ॥

भाष्य- केशान्तो नाम संस्कारः । स गर्भषोडशे वर्षे ब्राह्मणस्य कर्तव्यः । तस्य च स्वरूपपरिज्ञाने गृह्यमेव शरणम् । द्वे वर्षेऽधिके यस्य द्वाविंशस्य तस्मिन्द्र्यधिके द्वाविंशे अथवा कालमात्रमन्य-पदार्थः । ततो द्वाविशाद्वर्षाद्व्यधिके काले वैश्यस्येति । द्विशब्दस्य च वर्षाण्येव

सङ्ख्येयानि । प्रकृतानि हि तानि ॥६५ ॥

हिन्दी - गर्भ से सोलहवें वर्ष में ब्राह्मण का, बाईसवें वर्ष में क्षत्रिय का और चौबीसवें वर्ष में वैश्य का " केशान्त " संस्कार ( ब्रह्मचर्यावस्था में धारण किए केश का छेदन ) कराना चाहिए ॥ ६५ ॥

बिना मन्त्र के स्त्रियों के संस्कार का विधान-अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः । संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ॥ ६६ ॥

भाष्य- - इयमावृदशेषतः स्त्रीणामममन्त्रिका कार्या । जातकर्मण आरभ्येयं संस्काराणाम् आवृत् परिपाटी, सेतिकर्तव्यताकः संस्कारकलाप इति यावत् । संस्कारार्थं शुद्ध्यर्थं शरीरस्य । पुंसामिव स्त्रीणामपि प्रयोजनमाह । यथाकालम् ॥ यस्मिन्काले यः संस्कार उक्तस्तं कालमनतिक्रम्य । पदार्थानति-वृत्तौ ‘ यथाऽसादृश्ये ’ अव्ययीभावः ।

पृष्ठ 219

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 219 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता एवं क्रमेऽपि द्रष्टव्यम् । १४३ मन्त्रमात्ररहिताया आवृतो विहितत्वदयथाकालक्रमप्राप्तिरेव नास्ति । अत्यतो निषेधो

नित्यानुवादो वृत्तपूरणार्थः । एतावद्विवक्षितं स्त्रीणां चैते अमन्त्रका इति ॥६६ ॥

हिन्दी — शरीर - संस्कार के लिए पूर्वोक्त समय और क्रम से स्त्रियों के विवाह को छोड़कर सब संस्कारों को बिना मन्त्र के ही करना चाहिए ॥ ६६ ॥

पूर्वेणावृद्धचनेन जातकर्मादिवदुपनयनेऽप्यमन्त्रके प्राप्ते तन्निवृत्त्यर्थमारभ्यते । स्त्रियों के यज्ञोपवीतादि का निषेध तथा वेद मन्त्रों से विवाहसंस्कार का विधान-वैवाहिको विधि: स्त्रीणां संस्कारो वैदिकः स्मृतः । पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिक्रिया ॥ ६७ ॥

-भाष्य – वेदग्रहणार्थो वैदिकः संस्कार उपनयनाख्यो यः स स्त्रीणां वैवाहिको विधिः । विवाहे भवो विवाहविषयो विवाहसाध्यः । अतो विवाहस्योपनयनस्थाने विहित-त्वात्तदापत्तिवचनं विवाहस्य । तस्यच निवृत्तिर्यदि विवाहस्तत्कार्यकरः । हन्त प्राप्तं वेदाध्ययनं, प्राप्ता च व्रतचर्या । उपनयनं नाम मा भूत् । एतदुभयमपि निवर्तयति पतिसेवा गुरौ वासः । पतिं यत्सेवत उपचरत्याराधयति स एवास्या गुरौ वसतिः । गुरौ वसत्याऽध्ययनं कर्तव्यम् न चास्या गुरौ वासोऽस्त्यतः कुतोऽध्ययनम् । गृहार्थो गृहकृत्यानि रन्धनपारिणाह्यप्रत्यवेक्षणादीनि यानि नवमे वक्ष्यन्ते ( श्ले ० ११ ) “ अर्थस्य संग्रहे चैनाम् " इत्यादि । सायम्प्रातर्ब्रह्मचारिणो यत्समिदाधानं तदेवास्या गृहकृत्यम् । अग्निक्रियया च यावान्यमनियमसमूहो ब्रह्मचारिणः स सर्वं उपलक्ष्यते । एवं चैतदुक्तं विवाहस्योपनयनापत्त्यम् । यथैव पुरुषस्योपनयनात्प्रभृति श्रौताः स्मार्ता आचारप्राप्ताश्च विधयो भवन्ति, प्राक्तनं कामचार: कर्माक्षमत्वमेवं स्त्रीणां प्राग्विवाहात्कामचारः, परस्मात् श्रौतस्मार्तेष्वधिकारः । एवं वा पदयोजना | विवाह एव स्त्रीणां वैदिकः संस्कार उपनयनम् । अनुपनय-नेऽपि विवाहे भक्त्योपनयनत्वमुच्यते । किं तदुपनयनेन विवाहस्य साम्यं येनास्य तद्व्यपदेश अत आह — पतिसेवेत्यादि ॥ ६७ ॥

प्रकरणोपसंहारः-— हिन्दी — स्त्रियों का विवाह - संस्कार ही वैदिक संस्कार ( यज्ञोपवीतरूप ), पति - सेवा ही गुरुकुल - निवास ( वेदाध्ययन रूप ) और गृह - कार्य ही अग्निहोत्र कर्म कहा गया है । ) अतएव उनके लिए यज्ञोपवीत, गुरुकुल - निवास और अग्निहोत्र कर्म करने की शास्त्राज्ञा नहीं है ॥६७ ॥

पृष्ठ 220

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 220 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४४ मनुस्मृतिः [ अग्निहोत्रस्य शुश्रुषा सायमुद्वासमेव च । कार्यं पल्या प्रतिदिनमिति कर्म च वैदिकम् ॥७ ॥ ]

[ द्वितीयः [ हिन्दी - अग्निहोत्र की सेवा, सायंकाल पति के कार्यों में सहयोगदान स्त्रियों को प्रतिदिन करना चाहिए, यही उनका वैदिक कर्म है || ७ || ]

एष प्रोक्तो द्विजातीनामौपनायनिको विधिः ।

उत्पत्तिव्यञ्जकः पुण्यः, कर्मयोगं निबोधत ॥ ६८ ॥

भाष्य — एतावदुपनयनप्रकरणम् । अत्र यदुक्तं तत्सर्वमुपनयनार्थम् । " ननु केशान्तोऽप्येवं प्राप्नोति ” । न । अतिवृत्ते उपनयने स्वकाले तस्य विधानात् । प्रकरणेऽपि पठितस्य वाक्याद-न्यार्थता भवति । तथा च केशान्तः समावृत्तस्यापि कैश्चिदिष्यते । उपनयने भव औपनायनिकः । उत्तरपदस्य दीर्घत्वम् पूर्ववत् । उत्पत्तिः मातापित्रोः सकाशाज्जन्म तां व्यनक्ति प्रकाशयति सगुणतां करोती-त्युत्पत्तिव्यञ्जकः । जातोऽप्यजातसमोऽनुपनीतोऽधिकाराभावात् । अतोऽयं विधिरु-त्पत्तिव्यञ्जकः । पुण्य इत्युक्तार्थः । उपनीतस्य येन कर्मणा योगः सम्बन्धोऽधिकारो, यत्तेनोपनीतेन कर्तव्यं, तदिदानीं वक्ष्यमाणं निबोधत ॥ ६८ ॥

हिन्दी— ( भृगुमुनि महर्षियों से कहते है — ) द्विजों के ( द्वितीय ) जन्म का व्यञ्जक उपनयन - विधि तक पुण्यवर्द्धक संस्कार को मैंने कहा, ( अब उनके यज्ञोपवीतोत्तर कर्तव्यों को कहता हूँ — ) ॥६८ ॥

यज्ञोपवीत संस्कार के बाद कर्तव्य-उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः ।

आचारमग्निकार्यं च सन्ध्योपासनमेव च ॥ ६ ९ ॥

भाष्य- शिक्षयेद्व्युत्पादयेच्छौचमादितः । आदितं इतिवचनेनाचारादिभ्यः प्रागुपदेशः शौचस्य नेष्यते, किंतर्ह्यनियतक्रमकाः परस्परमेते । केवलमुपनयनानन्तरं व्रतादेशनं वक्ष्यति । आदिष्टवेदव्रतस्य च वेदाध्ययनम् । अतोऽग्नीन्धनसन्ध्योपासनयोः समन्त्रकत्वादकृते व्रतादेशे मन्त्रोच्चारणमप्राप्तं विधीयेत । शौचं चानियतकालं, तदवश्यं तदहरेवोपदेष्टव्यम् । एवमाचारोऽपि । अत इदमादित इति वचनमादरार्थं न प्रथमोपदे-श्यतां शौचस्य विधत्ते ।