मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 221–230

मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 221–230

पृष्ठ 221

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 221 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १४५ शौचम्— ' एका लिङ्गे ' ( अ ० ५ श्लो ० १३६ ) इत्याद्याचमनान्तम् । आचारो गुर्वादीनां प्रत्युत्थानासनदानाभिवादनादि । अग्निकार्यमग्न्याधानकार्यं समित्समिन्धनम् । सन्ध्यायामादित्यस्योपासनं तत्स्वरूपभावनं सन्ध्याया उपासनम् । एवं वा ‘ पूर्वां

सन्ध्यामित्यादि ' ( अग्रे १०१ श्लो ० ) । एष व्रतधर्मः ॥६९ ॥

अध्ययनधर्मानिदानीमाह— हिन्दी - गुरु शिष्य का यज्ञोपवीत संस्कार कर उसे शौच पवित्रता ( ५।१३६ ), आचार - स्नान क्रिया आदि, अग्नि कार्य ( समिधा को लाना तथा प्रात: -सायंकाल हवन करना ) और सन्ध्योपासन कर्म को सिखलावे ॥ ६ ९ ॥

वेदाध्ययन - विधि-अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रमुदङ्मुखः ।

ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जितेन्द्रियः ॥७० ॥

भाष्य —– प्रत्यासन्ने भविष्यति ऌडयं द्रष्टव्यः । अध्ययने प्रवर्तमानः अध्ययन-मारभमाणः अध्येतुमिच्छन्निति यावत् । उदङ्मुखोऽध्याप्यः । गौतमीये तु " प्राङ्मुखो वा शिष्यः प्रत्यङ्मुख आचार्य ” इति ( अ ० १ सू ० ५५ ) । आचान्तो यथाशास्त्रमिति । प्रागुक्तमाचमनविधिं स्मारयति । ब्रह्माञ्जलिः कृतो येनेति । आहिताग्न्यादेराकृतिगणत्वान्निष्ठान्तस्य परनिपातः । ब्रह्माञ्जलिकृदिति वा पाठः । लघुवासा धौतवासाः । प्रक्षालनेन लघुनी वाससी भवतः । अतो लघुत्वेन वाससः शुद्धिर्लक्ष्यते । अथवाऽयं रोमादिस्थूलवसनः चित्तव्याक्षेपे ताड्यमानो न प्रहारं वेदयेत्ततश्च न युक्तः पठेत् । अपनीयमाने तु वाससि गुरोः खेदः स्यात् । निरावरणे च काये रज्ज्वादिना ताड्यमानो महतीं बालो वेदनामनुभवेत् । अतो दृष्टार्थं लघुवासस्त्वम् । जितानि नियमितानीन्द्रियाण्युभयान्यपि येन स जितेन्द्रियः । न इतस्ततो वीक्षेत, यत्किञ्चिन्न शृणुयादध्ययनेऽवहितो भवेदित्युक्तं भवति ॥७० ॥

हिन्दी – अध्ययन करने वाला, शास्त्रोक्त विधि से आचमन किया हुआ ब्रह्माञ्जलि ( श्लो ० ७१ में वक्ष्यमाण ) बाँधकर हल्के ( कौपीन आदि लघु ) वस्त्र को पहना हुआ और जितेन्द्रिय शिष्य पढ़ाने के योग्य होता है ॥ ७० ॥

पृष्ठ 222

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 222 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४६ मनुस्मृतिः ब्रह्माञ्जलि का लक्षण-ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा । [ द्वितीय: संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः ॥७१ ॥

भाष्य – ब्रह्मशब्दोऽयमनेकार्थोऽप्यध्ययनाधिकारादत्र वेदवचनः प्रतीयते । तस्या-रम्भे । निमित्तसप्तम्येषा । अध्ययनाधिकारादेव च तद्विषयाऽध्ययनक्रिया, तस्याय-मारम्भ:, प्रथमावृत्तिः पुरुषस्य । तत्रेदं पादग्रहणम् । वेदस्य तु यान्याद्याक्षराणि ' अग्नि-मीले ' ' इषेत्वा ' ' अग्न आयाहि ' इति न सोऽत्रारम्भ उच्यते । नहि तस्य निमित्तभावः सम्भवितः, नित्यत्वात् । कादाचित्कं हि निमित्तं भवति । तेनैतदुक्तं भवति — वेदा-ध्ययनमारिप्समानो गुरोः पादसङ्ग्रहणं कुर्यात् कृत्वा ततः स्वाध्यायाक्षराण्युच्चारयेन्न पुनः प्रवृत्ताध्ययनक्रियाः पादौ गृह्णीयात् । “ ननु चाद्यक्रियाक्षण आरम्भ:, स च निमित्तम् । विद्यमानस्य च निमित्तत्वं युक्तं जीवनस्येव । अत्र गेहदाहाद्यतीतमपि निमित्तं तत्र तथैव श्रवणम् । तस्मात्सहप्रयोग एवाध्ययनपादोपसङ्ग्रहणयोर्युक्तः ” । उच्यते । अध्यापनाध्यवसाय ' आरम्भ ' उच्यते, नाद्यः क्रियाक्षणः । यदैव गुरु-रधीष्वेत्याह तदैवाध्यवस्यति माणवकः । अतस्तदनन्तरं पादोपग्रहः । उपकारप्रवृत्तस्य गुरोश्चित्तप्रसादनमेतत् । यथा लोके कश्चिदुपकारप्रवृत्तं सभाजयति वाचा ' ननु त्वया वयमस्मात्पापान्मोचिता ' इति । अनक्षरा चेयमध्येषणा ' उपसन्नोऽस्म्यध्ययनायेति ' । न हि गुरुपरोध्योऽध्यापयेति । केवलमुपसदनमस्य कर्तव्यं सम्बोधार्थमवसरोऽध्ययनस्येति । अतः कृतोपसदनस्य वेदाक्षरोच्चारणम् । अपि च संहत्य हस्तावध्येतव्यमित्युच्यते । तत्राधीयानः पादोपसङ्ग्रहणविधिमतिक्रमेत । अवसानं समाप्तिरध्ययनादुपरमः । यद्यपि ब्रह्मशब्द आरम्भे गुणभूतस्तथाप्यव-सानस्य सापेक्षत्वात्सन्निहितत्वाद्ब्रह्मपदेनैव सम्बन्धः प्रतीयते, अन्यस्याश्रुतत्वात् । सदाग्रहणमन्वहं भाविप्रयोगारम्भावसानयोरेषविधिर्यथा स्यादितरथा य एव व्रतादेशान्तरो मुख्यप्रारम्भः तत्रैव स्यात् । यथाऽन्वारम्भणीया दर्शपूर्णमासारम्भे चोदिता य एवाधानानन्तरभावी दर्शपूर्णमासप्रयोगारम्भः तत्रैव भवति, न मासिकप्रयोगारम्भे । प्रातरारभ्य यावदाह्निकं न निवृत्तं प्रपाठकद्वयमात्रपरिमाणं, तावदेकैव साऽध्ययन-क्रियेति । अन्तरा कथञ्चिद्विच्छेदेऽपि पुनः प्रवृत्तौ नारम्भशब्दवाच्यताऽस्तीति, न पुनः पादोपसदनं क्रियते । स्मृत्यन्तरे च पठ्यते " पादोपग्रहणं गुरोः प्रातरन्वहमिति ’ ” । संहत्य - संलग्नौ संश्लिष्टौ परस्परं कृत्वाऽध्येयम् । कच्छप इव यः सन्निवेशो

हस्तयोः प्रसिद्धस्तथा कर्तव्यः । स हि ब्रह्माञ्जलिः । पदार्थकथनमेतत् ॥७१ ॥

हिन्दी — वेद पढ़ने के पहले और बाद में शास्त्रोक्त ( श्लो ० ७२ में वक्ष्यमाण )

पृष्ठ 223

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 223 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] विधि से ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १४७ गुरु के दोनों चरणों का स्पर्श करना और हाथ जोड़कर पढ़ना ही " ब्रह्माञ्जलि ’ ” कहलाता है ॥७१ ॥

गुरु के अभिवादन की विधि-व्यत्यस्तपाणिना कार्यमुपसङ्ग्रहणं गुरोः ।

सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः ॥७२ ॥

भाष्य — यदुपसङ्ग्रहणं पूर्वश्लोके गुरोरुक्तं तद्व्यत्यस्तपाणिना कार्य्यम् । कीदृशः पुनः पाण्योर्व्यत्यासः कर्तव्य इत्यत आह- सव्येन हस्तेन सव्यः पाद: स्प्रष्टव्यः स्पर्शः कर्तव्यो, न तु चिरं निपीड्यासितव्यम् । एष च व्यत्यासो युग-पदितरेतरदिक्सञ्चारेण हस्तयोर्भवति । अग्रतः स्थितेन सम्मुखेन गुरोरुपसङ्ग्रहणं कर्तव्यम् । तत्र वामो दक्षिणमार्गं नीयते, दक्षिणो वाममित्येवं सव्येन सव्यः स्पृष्टी भवति, दक्षिणेन च दक्षिण इत्येष पाणिव्यत्यासः । अन्ये तु विन्यस्तपाणिनेति पठन्ति । स्पर्शादेव च विन्यासे सिद्धे नाग्नितप्तायः पिण्डस्पर्शनवद्दाहभयादङ्गुल्यग्रमात्रेण स्पर्शनं कर्तव्यमपि तु हस्तौ विन्यसितव्यौ निधा-तव्यौ । पीडनं तू पीडाकरं निषिद्धमिति वर्णयन्ति ॥७२ ॥

हिन्दी - हाथों को हेरफेर कर गुरु के चरणों का स्पर्श करना चाहिए दाहिने हाथ से गुरु का दाहिना चरण और बाँयें हाथ से गुरु का बायाँ चरण स्पर्श करना ( छूकर प्रणाम करना चाहिये || ७२ ॥ विमर्श - गुरु की वन्दना करने में दाहिने हाथ से गुरु का दाहिना पैर तथा बाँयें हाथ से गुरु का बायाँ पैर स्पर्श करते समय हाथ को ' उत्तान रखना चाहिए अर्थात् तलहथी को ऊपर की ओर करके गुरु के चरणों का स्पर्श करना चाहिये । उसमें भी दाहिने हाथ को ऊपर तथा बायें हाथ को उसके नीचे रखना चाहिये ।

अध्ययन का आरम्भ तथा समाप्ति-अध्येष्यमाणं तु गुरुर्नित्यकालमतन्द्रितः ।

अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चारमेत् ॥ ७३ ॥

भाष्य - अध्येष्यमाणमित्यादीनि प्राग्व्याख्यातानि पदानि । गुरोरयं नियोगः । गुरोर्यदा माणवकोऽध्यापयितुमभिलषितस्तदा अधीष्व भो इत्यामन्त्रयितव्यः । अना-मन्त्रितेन न गुरुः खेदयितव्य ‘ उपदिशानुवाकमिति ’ । उक्तं च । “ आहूतश्चाप्यधीयीतेति ” । १. यदाह पैठीनभि— ‘ “ उत्तानाभ्यां हस्ताभ्यां दक्षिणं सव्येन सव्यं पादावभिवादयेत् । ” इति ( म ० मु ० )

पृष्ठ 224

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 224 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४८ मनुस्मृतिः [ द्वितीयः विरामोऽस्त्वित्येतं शब्दं समुच्चार्यारमेत् निवर्तेत । कः । गुरुदेव, प्रथमान्त-निर्देशात् । अथवा गुरुणोत्सृष्टो निवर्तेत, न स्वेच्छया । एवं चेदं व्याख्यायते, ‘ यदा गुरुर्विरामोऽस्त्विति ब्रूयात्तदा विरमेद्बह्मचारी । ' अन्ये त्वध्येतृमात्रस्य - शिष्याणामुपाध्यायस्य च - उपरमणकाले धर्ममिममिच्छन्ति । तथा च स्मृत्यन्तरम् । “ स्वाध्यायमधीत्य विरमणकाले प्रदेशिन्या पृथिवीमालभ्य स्वस्ती-तियजुब्रूयाद्विस्पष्टमिति सामसु, विरामः परमास्वृक्षु, आरमस्त्वथर्वसु ” । अतन्द्रितः अनलसः । तन्द्राऽऽलस्यम् । तद्योगात्पुरुषस्तन्द्रित इत्युच्यते । त्यक्त्-वाऽऽलस्यमतन्द्रितः । अनुवादश्चायम् । नात्र तन्द्रा श्रमः । न त्वियमाशङ्का कर्तव्या “ य अतन्द्रितस्तस्यायं विधिः, आलस्यवतस्त्वन्यः ” ॥७३ ॥

हिन्दी — अध्ययन करने वाले शिष्य से आलस्य - हीन गुरु सर्वदा ( प्रतिदिन अध्ययन आरम्भ करने के पहले ) ' भो अधीष्व ' अर्थात् ' हे शिष्य! पढ़ो ' ऐसा कहकर अध्ययन आरम्भ करावे तथा ( अन्त में ) ' विरामोऽस्तु ' अर्थात् ' अब पढ़ना समाप्त हो ' ऐसा कहकर अध्ययन को समाप्त करे ॥ ७३ ॥

वेदाध्ययन के आद्यन्त में प्रणवोच्चारण-ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा ।

स्स्रवत्यनोङ्ङ्कृतं पूर्वं पुरस्ताच्च विशीर्यति ॥ ७४ ॥

भाष्य – अत्रापि पूर्वोक्तेन न्यायेन ब्रह्मण आदावन्ते च प्रणवं कुर्यात्, ब्रह्मविष-याया अध्ययनक्रियाया इति द्रष्टव्यम् । प्रणवशब्द ॐकारवचन: । तथा च वक्ष्यति - स्त्रवत्यनोङ्कृतमिति । सर्वदाग्रहणमध्ययनविधिमात्रधर्मो यथा स्यादितरथा प्रकरणाद्ग्रहणार्थ एव ब्रह्म-चारिणः स्यात् । अस्मिंस्तु सति योऽप्यविस्मरणार्थो यच्च " अहरहः स्वाध्यायमधी-यीत " इति गृहस्थादीनां तत्र सर्वत्र सिद्धं भवति । सन्ध्याजपादौ तु स्वशब्देन विधास्यति — ‘ एतदक्षरमेतां चेति ' । न चायं वेदधर्मो येन यत्र कुत्रचिद्वैदिकवाक्यो-च्चारणमारभेत तत्र प्राप्नुयात् । अतो होम - मन्त्रजप - शास्त्रानुवचन - याज्यादीनामारम्भे नास्ति प्रणवः, अन्यत्राप्युदाहरणार्थे वैदिकवाक्यव्याहारे । तस्मात्स्थितं प्राकरणिकस्वा-ध्यायाध्यनविधिधर्मार्थं सर्वदाग्रहणम् । प्रवणप्रयोगस्यान्वाहिकारम्भार्थता तु नित्यकालग्रहणानुवृत्त्यैव सिद्धा । अस्यार्थवादः स्त्रवत्येनांकृतम् । पूर्वं प्रारम्भे अनोङ्कृतं ब्रह्म स्रवति । ओमा कृतं ॐ शब्देन संस्कृतम् । साधनं कृतेति समासः । अथवा ॐ कृत उच्चारितो यस्मिन्ब्रह्मणि तदोङ्कृतं सुखादित्वात्परनिपातः ।

पृष्ठ 225

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 225 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता परस्ताच्च समाप्तौ । चकारेणानोङ्कृतमिति सम्बध्यते १४ ९ स्रवति विशीर्यति इत्युभाभ्यामपि नैष्फल्यमध्ययनस्य प्रतिपाद्यते । अधीतं ब्रह्म यस्मिन्कर्मणि विनियुज्येत तन्निष्फलं भवतीति निन्दार्थवादश्च । पाकार्थं निषिक्तस्या-प्राप्तपाकक्षीरादेरवच्छिद्रिते भाजने य इतस्ततो विक्षेपः प्रक्षरणं तत् स्रवतीत्युच्यते । लब्धपाकस्य पिण्डीभूतस्य भोग्यतां प्राप्तस्य यो विनाशः स विशरणम् ॥ ७४ ॥

हिन्दी - शिष्य को वेदारम्भ ( वेद पढ़ने के प्रारम्भ ) में और अन्त में ॐ शब्द का उच्चारण करना चाहिये । पहले ' ॐ ' शब्द का उच्चारण नहीं करने से अध्ययन धीरे-धीरे नष्ट हो जाता है तथा अन्त में ' ॐ ' शब्द का उच्चारण नहीं करने से वह नहीं ठहरता ( स्थिर नहीं होता ) है ॥ ७४ ॥

तीन प्राणायाम के बाद प्रणवोच्चारण- विधान-प्राक्कूलान्पर्युपासीनः पवित्रैश्चैव पावितः । प्राणायामैस्त्रिभिः ः पूतस्ततॐकारमर्हति ॥ ७५ ॥

भाष्य — कूलशब्दो दर्भाग्रवचन: । तान्पर्युपासीनः तेषु प्रागग्रेषु दर्भेषूपविष्ट इत्यर्थः । शीस्थांसामिति ' ( पा ० सू ० १।४।४६ ) स्था आ आसामित्याङा प्रश्लेषा-त्कर्मत्वम् । परि उप आ आसीन इति इहाप्याङा श्लिष्टनिर्दिष्टो द्रष्टव्यः । पर्युपशब्दावनर्थकौ । पवित्रैर्दर्भैरेव पावितः शुचित्वमापादितः । अघमर्षणादिस्तु मन्त्रो नेह पवित्र-शब्देनोच्यते, ब्रह्मचारिणस्तदानीमनधीतत्वात्तेषाम् । न च दर्भाः स्वसत्तामात्रेण काञ्चित्-क्रियामकुर्वतः पावने करणं भवन्तीति । अवान्तरव्यापारापेक्षया स्मृत्यन्तरं प्राणोपस्पर्शनं प्रतीयते । आह च गौतम: ( अ ० १ सू ०४ ९ / ५० ) । “ प्राणोपस्पर्शनं दर्भैः । प्राक्कू-लेष्वासनं च ' । प्राणायामैस्त्रिभिःपूतः । मुखनासिकासञ्चारी वायुः प्राणः ' तस्यायामो निरोधः शरीरे धारणं, बहिर्निष्क्रमणनिषेधः, तस्य स्मृत्यन्तरे धारणकालस्य मानं समाम्नातम् । मन्त्रानुस्मरणं च । “ प्रतिप्रणवसंयुक्तां गायत्रीं शिरसा सह । त्रिर्जपेदायतप्राणः प्राणायामः स उच्यते ” । वसिष्ठेन भगवता महाव्याहृतयोऽप्युक्ताः । मन्त्रावसान एव निरोधावधिः अन्यस्यानाम्नातत्वात्सर्वस्मृतीनां चासति विरोध एकार्थत्वादिहाप्येवमेवानुष्ठानम् । “ नन्वेवमितरेतराश्रयः स्यात् कृतेषु प्राणायामेषु ओङ्कारो न कर्तव्यो, न चोङ्कारेण विना प्राणायामो निर्वर्तते ” । नैष दोषः । त्रिर्जपेदिति प्राणायामेषु मानसव्यापारेणोङ्कारस्य स्मरणमुच्यते । न हि निरुद्धप्राणस्य शब्दोच्चारणं सम्भवति । यद्यपि जपः कश्चिद्वाग्व्यापारसाध्यो भवति । स्वाध्यायाध्ययने तु पुनरुच्चारणं विवक्षितम् । अध्ययनक्रियाया एवंरूपत्वाच्छब्दक्रियायां मनु I- 14

पृष्ठ 226

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 226 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१५० मनुस्मृतिः ह्ययं धातुः, श्रोत्रग्राह्यश्च शब्दो न केवलेन मनसा गृह्यते । [ द्वितीय न चायमोङ्कारधर्मो येनान्यत्रापि तस्मिन्नुच्चार्यमाणेऽपि प्रसज्येत । उक्तं च “ स्वाध्या-यारम्भे कर्तव्य ” इति । ओङ्कारधर्मत्वे हि लौकिकेषु वाक्येष्वोमिति ब्रूम इत्यादिषु प्रसज्येत । गौतमेन तु पठितम् ( अ ० १ सू ०४ ९ ) - " प्राणायामास्त्रयः पञ्चदशमात्रा ” इति । मात्राशब्देन चाविकृतस्य स्वरस्याकारादेर्यावान्कालः स उच्यते । तत्र विरोधात्स्मृत्य-न्तरोक्त: कालो नास्ति, न च मन्त्रस्मरणं, तत्रानोङ्कारा अपि प्राणायामाः सन्तीति नेत-रेतराश्रयदोषापत्तिः । ततॐकारमर्हति कर्तुमिति शेषः, यदाऽयं समुदाय एव रूढिरूपेण प्रणववचनः । यदा तु करणं कारः । ॐमित्येतस्य ' कार ' उच्चारण ' मोङ्कार ' स्तदा नास्ति पदान्तरापेक्षा । प्रणवशब्देन कर्तव्यतामुक्त्वाऽत्रोङ्कारमित्यनुवदत्यत एतावेकार्थौ । तथा च दर्शितम् ॥६५ ॥

हिन्दी — कुशासन पर पूर्वाभिमुख बैठा हुआ द्विजशिष्य दोनों हाथों में ग्रहण किये हुए ( कुश निर्मित ) पवित्रों से शुद्ध तथा तीन प्राणायामों से ( अकारादि लघु मात्रा वाले १५ अक्षरों के उच्चारण - काल के बराबर ' प्राणायाम - काल ' जानना चाहिये ) शुद्ध होकर बाद में ‘ ॐ ' शब्द के उच्चारण करने के योग्य होता है ॥ ७५ ॥

प्रणय तथा व्याहृतियों की उत्पत्ति-अकारं चाप्युकारं च मकारं च प्रजापतिः । वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च ॥ ७६ ॥

भाष्य— पूर्वस्य विधेरर्थवादः । अक्षरत्रयसमाहाररूप ॐकारस्तत्रैकैस्य उत्पत्तिमाह । वेदत्रयान्त्रिभ्यो वेदेभ्य: निरदुहदुद्धृतवान्यथा दघ्नो घृतमुद्भियते । न केवल-मक्षरत्रयं यावदिदम् अपरं भूर्भुवः स्वरिति || ७६ ॥ हिन्दी — ब्रह्मा ने ऋक् आदि तीनों वेदों से क्रमश: “ अ, उ, म ” इन तीनों अक्षरों को तथा “ भूः, भुव:, स्व: " इन तीनों व्याहृतियों को निकाला है ॥ ७६ ॥

सावित्री की उत्पत्ति-त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् ।

तदित्यृचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥७७ ॥

भाष्य - अयं “ तत्सवितुर्वरेण्यम् " इत्येतस्याः गायत्राया उत्पत्त्यर्थवादो विधा-नार्थः । पूर्वश्लोके चार्थवादादेव वयाहृतीनामपि विधानम् । क्रमस्तु पाठावगम्यः । वक्षयति च- ' - " एतदक्षरमेतां च जपन्व्याहृतिपूर्विकाम् ” इति ।

पृष्ठ 227

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 227 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १५१ अदूदुहदुद्धृतवानिति । यद्यपि तदित्येतत्प्रतीकेन ' तत्सविर्तुवृणीमह ’ इति वा शक्यते लक्षयितुम् । न तु सा त्रिपदेति । त्रिपदा च ग्राह्या । त्रिपदा चैव सावित्रीति । कश्यपादयोऽपि प्रजापतयः सन्त्यतो विशिनष्टि परमेष्ठीति हिरण्यगर्भः । स हि परमे स्थानेऽनावृत्तिलक्षणे स्थितः । आदरातिशयार्थं चैतत्सावित्र्याः । साक्षात्किलेयं सर्व-मुख्येन प्रजापतिना वेदेभ्यः समुद्धृतेति ॥७७ ॥

हिन्दी — परमेष्ठी ब्रह्माने ऋक् आदि तीनों वेदों से " तत् ” इस सावित्री का १-१ पाद निकाला है ॥७७ ॥

सावित्री जप का फल-एतदक्षरमेतां च जपन् व्याहृतिपूर्विकाम् ।

सन्ध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते ॥७८ ॥

भाष्य — सत्यपि स्वाध्यायविधिप्रकरणे वाक्यात्सन्ध्याजपविधिरयम् । तत्र गायत्र्या अनुवादः प्रणवव्याहृतीनामप्राप्तविधिः । अत्र कश्चिदाह । “ नायं सन्ध्याविधिरप्रकरणात् । विधिर्हि भवन्ब्रह्मचारिणः स्यात्तस्य प्रकृतत्वात् । न च तस्य सम्भवति । इह हि वेदविदित्युच्यते । न च तस्य प्रथमो-पनीतस्य वेदवित्त्वमस्ति । अपि च फलमत्र श्रूयते - वेदपुण्येन युज्यते । नित्यश्च सन्ध्योपासनविधिः न फलार्थः । न चैतद्विद्मः किमिदं वेदपुण्यं नाम फलं, येन योगोऽयं जप उच्यते । यदि तावद्वेदाध्ययनात्पुण्यमभिप्रेतं तदवाप्तिर्वेदपुण्येन ‘ योगो’ऽभिप्रेत-स्तत्र यस्तावदयं प्रकृतः स्वाध्यायविधिस्तस्य नार्थावबोधादृते किञ्चित्फलमस्त्यश्रुत-त्वात् दृष्टत्वाच्चार्थाववोधस्य कल्पनाऽपि नास्ति । यश्च गृहस्थादीनां विधिः “ अहरहः स्वाध्यायमधीयीत ” इति सोऽपि नित्य एव । यत्तत्र फलश्रवणं ' पयो दधि घृतं मधु ' इति-सोऽर्थवाद एव । तस्मान्नायं विधिः । विधौ हि सर्वमेतद्विवक्षितव्यम् । यदा त्वयमर्थवाद-स्तदा ‘ जपन्नि’ति प्रकृतमध्ययनमुच्यते, ' वेदपुण्येने'त्येतदपि यथाकथञ्चिन्नीयते ” । अत्रोच्यते । वाक्येन प्रकरणं बाध्यत इत्युक्तमेव । यत एव वेदवित्पदं सन्ध्यापदं च न प्रकृतविषयताऽन्वेति, तत एवान्यत्रायं विधिः । सन्ध्ययोरेतत्त्रयं जपेदित्येता-वान्विधिः । वेदवित्पदमनुवदिष्यते । “ गृहस्थादीनां वेदवित्त्वस्य सम्भवात् ब्रह्मचारिणो वेदवित्त्वं न सम्भवतीति ” चेत् किं तदीयेन सम्भवेन । यथा प्राप्तानुवादे हि सर्वा-श्रमिणामधिकारः । कर्तृविशेषणे हि वेदवित्पदे ब्रह्मचारिणो नाधिकारः स्यात् । “ कथं पुनरस्यानुवादः ” । वाक्यभेदप्रसङ्गात् । विधौ सन्ध्याविधौ प्राप्ते प्रणवव्याहृतयस्तावद-प्राप्तास्तत्र विधातव्याः । तत्र यद्यपरं वेदविदिति विधीयते तदा वाक्यभेदः स्यात् । प्राप्ते हि कर्मणि नानेकार्थविधानं सम्भवति । प्रणवव्याहृतीनां तु नानुवादः सम्भवति ।

पृष्ठ 228

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 228 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१५२ मनुस्मृतिः [ द्वितीयः तेनायमत्र वाक्यार्थः ‘ सन्ध्ययोर्यत्सावित्रीं जपेदित्युक्तं तत्रायमपरो गुणः प्रणव-व्याहतिपूर्विकां तां जपेत् ' । विप्रग्रहणं च तदा प्रदर्शनार्थमेव । यदप्युक्तं - " फलमत्र श्रूयते नित्यश्च विधिः सन्ध्यायाः ' I को नामायं विरोध:? नित्य एव तस्मिन्गुणे कामो भविष्यति । प्रणवव्याहृतिगुणकात्तस्मादिदं फलमिति । यथा गोदोहनप्रणयनकादग्निहोत्रात्पशवः फलम् " गोदोहनेन पशुकामस्य प्रणयेत् ” इति । वाक्यसामर्थ्येनाध्यारुह्यैतदुक्तं, न त्वयं काम्यो विधिः । स्मृत्यन्तरे हि नित्य एवायं विधि: स्पष्ट एवोक्तो “ गायत्री शिरसा सार्धं जपेद् व्याहृतिपूर्विकाम् ” इति । फलानव-गमो भवतैवोक्तः । अयं ह्यर्थो वेदपुण्येनेति । ' वेदे यत्सन्ध्योपासनात्पुण्यमुक्तं तेन त्रिकमेतज्जपन्युज्यते, न केवलं गायत्रीम् ' । पुण्यं च धर्मः, वेदमूलत्वात्स्मृतीनां स्मृत्युक्तमपि वेदपुण्यतय व्यपदिश्यते, वेदस्य पुण्यं ' वेदपुण्यम् ' । किञ्च वेदस्य पुण्यम् । यत्तेन प्रतिपाद्यते । पठ्यमानाद्वेदाद्यज्जायते तदपि शक्यते तस्येति वक्तुम्, किंत्वसाधारणत्वात्प्रतिपाद्यमेव युक्तं व्यपदेष्टुं नोत्पाद्यम् । यागादयो धर्ममुत्पादयन्ति, प्रतिपादकस्तु वेद एव । येऽप्यन्त्यस्य पादस्य सामर्थ्यमाहुः “ यदुक्तं ' नित्यः स्वाध्याय ' इति तत्र सन्ध्यायां त्रिकजपादेव कृतार्था भवन्तीति ” – तदप्यसत् । एवं सति तेन विधिना विकल्पेत । तत्र च पाक्षिको नित्यस्वाध्यायताया बाधः स्यात् । न चाबाधे सम्भवति बाधोऽभ्युपगन्तव्यः । एतदक्षरमि त्योङ्कारस्य प्रतिनिर्देशः । “ ननु च नैतदेकमक्षरम् । द्वे वा त्रीणि वा ” । उच्यते । अक्षरशब्देन केवलं स्वर उच्यते, व्यञ्जनसंयोगश्च । तत्रेह यादृशः प्रकृतः तादृशस्याभिधानम् । एतां च “ तत्सवितुर्वरेण्यमिति ” सावित्रीम् । व्याहृतयः पूर्वाः यस्यास्तां व्याहृति-पूर्विकाम् | तिस्रः प्रकृता एव ता व्याहृतयो गृह्यन्ते, प्रकृतपरत्वादस्य, न सप्त सत्यान्ताः ॥६८ ॥

हिन्दी — इस अक्षर ( ॐ ) को तथा तीनों व्याहृतियों ( भूः भुवः स्वः ) के सहित सावित्री ( ‘ “ तत् ” को दोनों सन्ध्याओं ( प्रात: -सायंकाल ) में जपता हुआ वेदवित् द्विज वेद के पुण्य से युक्त होता है ॥७८ ॥

सहस्रकृत्वस्त्वभ्यस्य वहिरेतत्त्रिकं द्विजः ।

महतोऽप्येनसो मासात् त्वचेवाऽहिर्विमुच्यते ॥७९ ॥

पृष्ठ 229

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 229 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १५३ बहिरित्यनाबृतो देश उच्यते । तेनैतदुक्तं भवति, ग्रामनगराभ्यां बहिररण्यं नदी-पुलिनादौ । सहस्रवारान् अभ्यस्य आवर्त्य | “ ननु कृत्वसुचोऽप्यावृत्तिः प्रतिपाद्यते, अभ्यस्येत्यनेनापि । तत्र पौनरुक्त्यम् ” । सामान्यविशेषभावाददोषः । अभ्यस्येत्यनेन सामान्यतोऽभ्यास उक्तस्तत्र विशेषा-पेक्षायां सहस्रकृत्वेति । न च कृत्वसुजन्तादेवोभयाऽवगतिस्तस्य क्रियाविशेषा-` पेक्षत्वात् । न हि देवदत्तः पञ्चकृत्वोऽह्न इत्युक्ते - यावद्भुङ्ग इति नोच्यते - तावद्वाक्यार्थः समाप्यते । “ ननु चाभ्यस्येत्यनेनापि न काचिद्विशिष्टा क्रियोपात्ता ” । सत्यम् । जपः प्रकृतस्तमभ्यस्येति प्रतीयते । ' आवृत्तिः ' पौनःपुन्येन सेवा । महतोऽप्येनसः । महत्पापं च ब्रह्महत्यादि, ततोऽपि मुच्यते, किं पुनरुपपातकेभ्यः । अपिः सम्भावने, न समुच्चये । भेदोपादानेन समुच्चयावगमो यथा देवदत्तस्यात्र प्रभुत्वं यज्ञदत्तस्यापि । इह न तथा निर्देशः । “ केभ्यः पुनरुपपातकेभ्योऽयं मोक्ष उच्यते । गोवधादीन्युपपातकानि । तानि च प्रतिपापमाम्नातप्रायश्चित्तानि सरहस्यानि । यानि वा संवेत्ति न कृतान्यनुक्तपरिहाराण्य-वश्यम्भावितया च ज्ञायते कृतानीति, तेषामपि नित्यानि सन्ध्योपासनादीन्यपनोदकानि । यदि चैतत्प्रायश्चित्तंस्यात्तदा तत्रैवावक्ष्यत्, “ जपेद्वै नियताहारः त्रिर्वै वेदस्य संहिता-मिति ’ ’ - वत् । प्रायश्चित्ते चास्मिन्प्रायश्चित्तप्रकरणमेवानर्थकं स्यात् । को हि दैवशप्तो जपमात्रसाध्यां निष्कृतिं हित्वा कृच्छ्रेषुशरीरप्राणहरेष्वध्यवस्येत् । उक्तं च- “ अत्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् । इष्टस्यार्थस्य संप्राप्तौ को विद्वान्यत्नमाचरेत् ” । तथा “ पणलभ्यं हि न प्राज्ञः क्रीणाति दशभिः पणैः ” इति । न च प्रकृतेनैकवाक्यताबीजं किञ्चिद्विभज्यमानसापेक्षत्वाद्यस्ति येन तच्छेषतयाऽर्थवाद उच्येत ”! अत्रोच्यते । विधिरेवायम् । पापप्रमोचनार्थ एवायं प्रयोगः । यत्तूक्तं " विषमशिष्टै-र्विकल्पो न सिद्ध्यतीति ’ - जपप्रायश्चित्त एवास्मिन्विकल्पार्थो भविष्यति । अघमर्षणा-दिभिः सर्वपापापनोदनमुक्तं, तेनास्य विकल्पः । अघमर्षणे हि त्यहमुपवास उक्तः । इहाश्नत्रेव मासिकेन प्रयोगेण शुध्यति । ततो न दूरविप्रकृष्टेन तपसा समीयते, येन विषमशिष्टता स्यात् । अथवा पूर्वकृतस्यैनसः शुद्धिरेषा ग्रहदौस्थित्यादिसूचिते दैवे दोषे । तस्मान्मोक्षः । अनष्टिम् ‘ एन ’ उच्यते । तस्मान्मुच्यते । तत्फलेन न सम्बध्यत इत्यर्थः । त्वचेवाहिः । जीर्णया त्वचा मुक्तः सर्पो यथा भवति । निरवशेषेण पापनाश

पृष्ठ 230

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 230 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१५६ मनुस्मृतिः “ कथं पुनः सर्वा वागोङ्कारेण सन्तृण्णा ” । [ द्वितीयः वैदिक्यास्तावदोङ्कारपूर्वकत्वमुक्तम् । लौकिक्या अपि, ' तदादीनि वाक्यानि स्युरि ’ त्यापस्तम्बवचनात् । उपनिषद्भाष्ये चैतदन्यथा व्याख्यातम् । तत्त्विहानुपयोगान्न प्रदर्शितम् । प्राणायामशब्द आचमनवद्विशिष्टेतिकर्तव्यताके प्राणनिरोधे वर्तते । ' परं तपः ' चान्द्रायणादिभ्यः । “ किं पुनस्तस्य श्रैष्ठ्यम् ”? भक्तिरेषा । सावित्र्याः परं मन्त्रज्ञानं नास्ति । एषामिति प्रशंसा । मौनात्सत्यं विशिष्यते । मौनं वाङ्नियम उच्यते । तस्य च यत्फलं ततोऽधिकं सत्यवचनात्प्राप्यते । सत्यवचने विध्यर्थोऽपि तथाऽनुष्ठिते । भवति ।

मौने तु केवलमनृतप्रतिषेधानुष्ठानमेव ।

अर्थवादोऽयं श्लोकः ॥८३ ॥

हिन्दी — केवल एक अक्षर ( ॐ ) ही ( ब्रह्म - प्राप्ति का साधक होने से ) सर्वश्रेष्ठ है, तीन प्राणायाम ही ( चन्द्रायण आदि व्रतों से भी ) श्रेष्ठ तप है, सावित्री से श्रेष्ठ कोई दूसरा मन्त्र नहीं है और मौन की अपेक्षा सत्य - भाषण श्रेष्ठ है ॥८३ ॥

प्रणव की प्रशंसा-क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः ।

अक्षरं त्वक्षरं ज्ञेयं ब्रह्म चैव प्रजापतिः ॥ ८४ ॥

भाष्य — यावन्तः केचन वैदिका ' होमा ' अग्निहोत्रादयो, ये च ' यागा ' ज्योतिष्टो-मादयः, ते सर्वे क्षरन्ति न परिपूर्णफला भवन्ति, फलं वा तदीयं स्रवत्याशु विनश्यति । अक्षरं त्वेतदोङ्काराख्यमक्षरं ज्ञेयमक्षयफलम् । ब्रह्मीभूतस्य न पुनः संसारा-पत्तिः । अतोऽक्षयफलत्वादक्षरमुच्यते । एकोऽक्षरशब्द उद्देश्यः संज्ञाशब्दो द्वितीयो यौगिकः क्रियाशब्दः । ब्रह्म च तदेव । प्रजापतिश्चोङ्कार एव । स्तुतिरेषा । जुहोतियजतीति धातुनिर्देशस्तयोः क्रियाः प्रतिपाद्यार्था यागहोमाः । व्यक्त्यपेक्षं बहुत्वम् । अथवा धात्वर्थनिर्देश एवायं जुहोतियजतीति । ' क्रिया ' स्तद्व्यतिरिक्ता दानाद्याः । द्वन्द्वश्चायम्, ‘ जुहोतियजतीति च क्रियाश्च ' । होमयागौ प्राधान्यत्पृथगुपादीयेते । अत्रोक्ता ॐकारस्य स्तुतिः केवलस्यापि जपविधानार्थेति केचित् । न हि प्रकृत-विधिशेषतैवात्र, पुनः परामर्शाभावात् । वैश्वानरे ह्यष्टत्वादीनां “ यदष्टाकपालो भवति,