मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 231–240
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 231–240
पृष्ठ 231
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १५७ गायत्र्या चैनं ब्रह्मवर्चसेन पुनाति यन्नवकपालस्त्रिवृतैवाऽस्मिंस्तेजो दधाति " इति । सर्वत्र वैश्वानरपदापेक्षया तदेकवाक्यत्वे सम्भवति न वाक्यभेदकल्पनया विध्यन्तर-सम्भव: । इह त्वक्षरं ज्ञेयमिति न पूर्वापेक्षा, नापि सावित्र्यादीनां पुनः परामर्शोऽस्ति । अतः स्वपदार्थैरेव वाक्यार्थपरिसमाप्तेर्नान्यशेषता । ज्ञेयमित्यत्र कृत्यो विधायकः । ब्रह्म-पदेन च सम्बन्धाद्ब्रह्मरूपतया ज्ञेयमुपास्यं भावनीयम् ॥ भाव्यमाने च तस्मिन्मानसजप उक्तो भवति ॥ ८४ ॥
हिन्दी - वेद विहित हवन तथा यज्ञ आदि क्रियायें, स्वरूप से तथा अपना - अपना फल देकर नष्ट हो जाती हैं, ( एकमात्र ) अक्षर ( ॐ ) ही दुष्कर ब्रह्म एवं प्रजापति है अर्थात् ॐ कार के द्वारा ब्रह्म - प्राप्ति होती है ॥ ८४ ॥
मानस जप की सर्वश्रेष्ठता-विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः ।
उपांशुः स्याच्छतगुणः साहस्त्रो मानसः स्मृतः ॥८५ ॥
भाष्य - विधिविषयो यज्ञो विधियज्ञो ज्योतिष्टोमादिः । यत्कर्म यजेतेति चोदितं, वाह्येन व्यापारेण ऋत्विगादिसर्वाङ्गसम्पत्त्या क्रियते स ' विधियज्ञ ' इहोच्यते । जपस्तु न यज्ञः, प्रशंसया यज्ञ उपचारेणोच्यते । अतो नासौ विधियज्ञः । स विशिष्टः प्रकृष्टः श्रेष्ठो यज्ञो, ज्योतिष्टोमादेर्दशभिर्गुणैः । महाफलत्वमेतेन जपस्योच्यते । यदेव यागात्फलं तदेव बहुतरञ्जपात्प्राप्यते । न च यागेभ्यः श्रौतेभ्यो जपस्याधिकफलत्वं युक्तम् । तथाहि सति कः शरीरधनपरिक्षयरूपेषु यागेष्वध्यवस्येत् । तस्मात्प्रशंसैषा । पूर्णाहुत्या सर्वान्कामानवाप्नोतीतिवत् । एतावद-स्यार्थः — तदेव स्वर्गादिफलमवाप्यते, किन्तु लोकवत्प्रयत्नविशेषात् । फलपरिमाण-विशेषः अविशेषित्वात् यज्ञस्य, स्वर्गग्रामपुत्रपश्वादि यस्य यज्ञस्य यत्फलं तत्तज्जपात्प्राप्यते । उपांशुः शतगुणः, यदन्यो न शृणोति समीपस्थोऽपि । सहस्रगुणः साहस्रो मानसः मनोव्यापारमात्रेण यश्चिन्त्यते । जपमात्रविषय उपांशुत्वादिगुणः, प्रकृतस्य योऽधीतेत्यनेन विच्छेदात्, तेन यः प्रायश्चित्तादौ जपो यः शान्तिको यश्चाभ्युदयिकः सर्वत्रैते गुणाः 1 सहस्रमस्यास्तीति साहस्रः । गुणानां प्रकृतत्वात्सहस्रगुणसद्भावः प्रतीयते । गुण-शब्दश्चावयववचनः । फलभूमा च सम्बन्धादवगम्यते ॥८५ ॥
हिन्दी - विधि - यज्ञों ( अमावस्या तथा पूर्णिमा आदि तिथियों में किये जोने वाले यज्ञों ) से जपयज्ञ ( गायत्री अर्थात् प्रणवादि का जपरूप यज्ञ ) दश गुना श्रेष्ठ है, उपांशु जप सौगुना श्रेष्ठ है और मानस जप सहस्र गुना श्रेष्ठ है ॥८५ ॥
पृष्ठ 232
पाठ पढ़ें पाठ छिपाएँ
१५८ मनुस्मृतिः [ द्वितीय: विमर्श - ' वाचिक, उपांशु तथा मानस ' भेद से ' जप - यज्ञ ' तीन प्रकार का होता है; उसमें — स्पष्ट स्वरों से, पदों एवं वर्णों से उच्चारण किये हुए जप को ' वाचिक ’ जप कहते हैं । जिस जप में वर्णादि का धीरे - धीरे उच्चारण करने से कुछ ओष्ट हिलते हों तथा थोड़ा - थोड़ा सुनायी पड़े, उस जप को ' उपांशु ' जप कहते हैं तथा बुद्धि से पद - वर्ण आदि का विचारकर अर्थ ज्ञान - -पूर्वक प किए जाने वाले जप को ' मानस ' जप कहते हैं । '
ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः ।
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥८६ ॥
भाष्य — महायज्ञाः पाकयज्ञा उच्यन्ते, ब्रह्मयज्ञं वर्जयित्वा चत्वारो यज्ञा भवन्ति । ‘ विधियज्ञा ' उक्तास्तैः समन्विताः सहिताः । कलामंशं षोडशीं नार्हन्ति । षोडशेन भागेन न समा भवन्ति । अथवाऽर्हतिः प्राप्त्यङ्गे मूल्यपणने वर्तते । अर्हशब्दात्तिपं कृत्वा अर्हन्तिरूपम् ॥८६ ॥
हिन्दी — दर्श - पौर्णमास ( अमावस्या एवं पूर्णिमा को किये जाने वाले ) आदि विधियज्ञों के सहित भी ( पञ्च - महायज्ञान्तर्गत ) जो चार पाक - यज्ञ हैं, वे भी जपयज्ञ के सोलहवें भाग के बराबर नहीं हैं ॥ ८६ ॥
जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः ।
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ ८७ ॥
भाष्य - जप्येनैव सिद्धिं काम्यफलावाप्तिं ब्रह्मप्राप्तिं वा प्राप्नुयात् । नात्र हृदि शङ्का कर्तव्या यत्‘ज्योतिष्टोमादिभ्यो महाप्रयासेभ्यो भावनाभ्यश्च यल्लब्धव्यं तज्जपेन कथं सिध्यती'ति । सिद्ध्यत्वेव । कुर्यादन्यत् अनित्यं ज्योतिष्टोमादि । अथवा तदपि न कुर्याद्यतो मैत्रोब्राह्मण १. तदुक्तं हारीतस्मृति — “ त्रिविधो जपयज्ञः स्यात्तत्त्वं तस्य निबोधत । वाचिकश्चाप्युपांशुश्च मानसश्च त्रिधाकृतिः । त्रयाणामपि यज्ञानां श्रेष्ठः स्यादुत्तरोत्तरः ।
यदुच्चनीचोच्चारितैः शब्दैः स्पष्टपदाक्षरैः ।
मन्त्रमुच्चारयेद्वाचा जपयज्ञस्तु वाचिकः ॥
शनैरुच्चारयेन्मन्त्रं किञ्चिदोष्ठौ प्रचालयेत् ।
किञ्चिच्छ्रवणयोग्यः स्यात्स उपांशुर्जप स्मृतः ॥
धिया पदाक्षर श्रेण्या अवर्णमपदाक्षरम् । शब्दार्थचिन्तनाभ्यां तु तदुक्तं मानसं स्मृतम् ॥ ” इति ४।४०-४४
पृष्ठ 233
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १५ ९ उच्यते । मित्रमेव मैत्रम् । सर्वभूतमैत्रीरतेन ब्राह्मणेन भवितव्यम् । अग्निषोमीयपशु-हिंसायां च कुतो मैत्री । अयमर्थवाद एव, न पुनः पश्वङ्गकर्मप्रतिषेधः, पूर्वशेषत्वावगतेः । प्रत्यक्षश्रुति-विहितत्वाच्च तेषाम् । अतिक्रान्तो जपविधिः || ८७ ॥ हिन्दी —– ब्राह्मण जप से ही सिद्धि को पाता है इसमें सन्देह नही है, अन्य कुछ करे या न करे, वह जप मात्र से ही ब्रह्म में लीन हो जाता है तथा सबका मित्र बन जाता है ॥ ८७ ॥
इन्द्रिय- संयम-इन्द्रियाणां विचरतां विषयेष्वपहारिषु ।
संयमे यत्नमातिष्ठेद्विद्वान् यन्तेव वाजिनाम् ॥ ८८ ॥
भाष्य - इन्द्रियाणां संयमे यत्नमातिष्ठेदित्येतावाञ्छास्त्रार्थः । परिशिष्टोऽर्थ-वाद:, आसन्ध्योपासनविधेः । ' संयमः प्रतिषिद्धेषु विषयेषु प्रवृत्तिपरिहारोऽप्रतिषिद्धेष्वप्यतिसक्तिवर्जनम् । तत्र प्रतिषिद्धपरिहारस्तैरेव प्रतिषेधैः सिद्धः । अप्रतिषिद्धेष्वप्यतिसक्तिनिषेधार्थोऽयं श्लोक-सङ्घातः । एतदेवाह । विचरतां विषयेषु स्वातन्त्र्येण वस्तुशक्तया प्रवर्तमानानाम् । अपहारिषु विषयेषु - अपहरन्त्याकर्षन्त्यात्मसात्कुर्वन्ति पारतन्त्र्यमापादयन्ति पुरुषं त अपहारिणो विषया मनोहरा य उच्यन्ते । तत्र विचरतां विविधं विशेषेण चरताम् । यदीन्द्रियाणि विशेषेण न चरेयुरपरिहारिणोऽपि तदा विषयाः किं कुर्युः । भवन्तु वा निरङ्कुशानीन्द्रियाणि, यदि विषयाः प्रत्याख्यायिकास्तथाऽपि सुसंयमः पुरुषेणात्मा यतस्तूभयं सापराधमतो यत्न आस्थेयो, दुर्नियमानि ह्येतानि । यन्तेव वाजिनाम् । यन्ता सारथिरश्वानां यथा रथयुक्तानां स्वभावतो विचलन-शीलानां संयमे नियमे यत्नं करोति, ते न तदाऽनिच्छया उन्मार्गेण वहन्ति, विधेयतां तस्य भजन्ते, एवमिन्द्रियाणि विधेयीकर्तव्यानि ॥ ८८ ॥
हिन्दी – विद्वान् चित्त को आकर्षित करने वाले विषयों में भ्रमण करने वाली इन्द्रियों का संयम ( वश में ) करने का वैसा ही प्रयत्न करे, जैसे इधर - उधर भागने वाले घोड़े को सारथि अपने वश में रखने का प्रयत्न करता है ॥८८ ॥
ग्यारह इन्द्रियाँ—
एकादशेन्द्रियाण्याहुर्यानि पूर्वे मनीषिणः ।
तानि सम्यक्प्रवक्ष्यामि यथावदनुपूर्वशः ॥ ८ ९ ॥
पृष्ठ 234
पाठ पढ़ें पाठ छिपाएँ
१६० मनुस्मृतिः [ द्वितीयः भाष्य — सङ्ख्यानिर्देशोऽयं प्रमाणान्तरगम्यो न शास्त्रार्थः, सौहार्देन तु व्युत्पाद्यते । तानि पूर्वे मनीषिण आहुः । परस्तान्नामतः कर्मतश्च वक्ष्यामि । आनुपूर्व्यमनाकुलता । पूर्वग्रहणान्नेयं तार्किकैरेव व्यवस्था कल्पिता, किन्तु पूर्वेषामप्याचार्याणां स्थितैव । एताम-जानन्तो नागमिका इति लौकैरुपहस्यन्ते, इत्यतोऽयं वेदितव्यः । प्रसिद्धाः पदार्था व्याख्याताश्च प्राक् ॥ ८ ९ ॥ हिन्दी— ( भृगु मुनि: महर्षियों से कहते हैं कि ) पूर्व विद्वानों ने जिन ग्यारह इन्द्रियों को बतलाया है, उन्हें अच्छी तरह क्रम से कहता हूँ ॥८९ ॥
प्रथम दश इन्द्रियों के नाम-श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी ।
पायूपस्थं हस्तपादं वाक्चैव दशमी स्मृता ॥ ९ ० ॥
भाष्य- - श्रोत्रादीनि प्रसिद्धानि । अधिष्ठानभेदाच्चक्षुषी इति द्विवचनम् । अन्यत्र तदाधारायाः शक्तेरेकत्वादेव वचनम् । उपस्थः शुक्रोत्सर्जनः पुंसो रजस्तदाधारश्च स्त्रियाः । द्वन्द्वनिर्दिष्टयोः ‘ प्राण्यङ्गत्वादेकवद्भावः ' ( पा ० सू ० २।४।२ ) । वाक् ताल्वादिः शब्दाभिव्यञ्जकः शरीरावयवनामनिर्देशोऽयम् ॥ ९ ० ॥ हिन्दी – कान, चर्म, नेत्र, जीभ, पाँचवीं नाक; गुदा, लिङ्ग, हाथ, पैर और दशवीं वाणी, ये दश इन्द्रियाँ कही गयी हैं ॥ ९ ० ॥ ज्ञानेन्द्रिय और कर्मेन्द्रिय का विभाग—
बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्वशः ।
कर्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते ॥ ९ १ ॥
भाष्य- -कार्यमिदानीमेषामाह स्वरूपावधारणार्थम् । न हि तानि प्रत्यक्षानि । बुद्धीन्द्रियाणि बुद्धेरिन्द्रियाणि जनकानि कार्यकरणानि । कार्यकरणसम्बन्धे षष्ठी । श्रोत्रादीन्यनुपूर्वशः । आदिशब्दस्य प्रकारार्थता मा विज्ञायीति अनुपूर्वशः क्रमेण-त्यर्थः । क्रमश्च सन्निवेशापेक्षो भवत्यतः पूर्वश्लोकोक्ता व्यवस्थाऽऽश्रीयते । कर्मेन्द्रियाणि । परिस्पन्दात्मकमत्र कर्म विवक्षितम् ॥९ १ ॥ हिन्दी— ( इनमें ) कान आदि पाँच इन्द्रियाँ “ ज्ञानेन्द्रिय " हैं और गुदा आदि पाँच इन्द्रियाँ “ कर्मेन्द्रिय ” हैं ॥९ १ ॥
ग्यारहवीं इन्द्रिय मन-एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम् ।
यस्मिन् जिते जितावेतौ भवतः पञ्चकौ गणौ ॥ ९ २ ॥
पृष्ठ 235
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १६१ भाष्य — एकादशसङ्ख्यापूरकं मन इन्द्रियाणाम् । स्वो गुणो मनसः सङ्कल्पः । तेनोभयं शुभमशुभं वा सङ्कल्प्यते । अथवा बुद्धीन्द्रियेषु कर्मेन्द्रियेषु स्वविषयप्रवृत्तौ सङ्कल्पमूलत्वात् उभयात्मकमुच्यते । यस्मिञ्जिते एतौ बुद्धीन्द्रियवर्गः कर्मेन्द्रियवर्गश्च पञ्चकौ प्राक्प्रदर्शितपरिमाणौ जितौ भवतः । तत्त्वाख्यानमेतत् ॥९ २ ॥ हिन्दी — दोनों प्रकार की इन्द्रियों ( ज्ञानेन्द्रिय और कर्मेन्द्रिय ) के गुणवाला मन ग्यारहवीं इन्द्रिय है, इसके जीत लेने ( वश में कर लेने ) पर वे दोनों पाँच - पाँच इन्द्रियाँ ( ५ ज्ञानेन्द्रियाँ और ५ कर्मेन्द्रियाँ ) जीत ली जाती हैं ॥ ९ २ ॥
इन्द्रिय- संयम से सिद्धि-इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् ।
सन्नियम्य तु तान्येव ततः सिद्धिं निगच्छति ॥ ९ ३ ॥
भाष्य — प्रसङ्गः तत्परता । तेन हेतुभूतेन दोषं दृष्टमदृष्टं च ऋच्छति प्राप्नोति । नात्र संशयो निश्चितमेतत् । सन्नियम्य तानीन्द्रियाणि ततः सिद्धमभिप्रेतार्थावाप्तिं श्रौतस्मार्तकर्मणामनुष्ठान-फलं निःशेषं गच्छति प्राप्नोति ॥९ ३ ॥ हिन्दी – इन्द्रियों के विषयों ( शब्द, स्पर्श, रूप, रस और गन्ध आदि ) में आसक्त होकर मनुष्य अवश्य ही दोषभागी होता है और इन ( इन्द्रियों ) को वश में करके सिद्धि को प्राप्त करता है ॥९ ३ ॥ विषयोपभोग में इच्छा की पूर्ति न होने का दृष्टान्त-न जातु कामः कामानामुपभोगेन शम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ ९ ४ ॥ भाष्य — तिष्ठतु तावद्विषयाभिलाषः, शास्त्रोपदेशात्र क्रियते । किन्तु दृष्टमेव सुखं तावन्निवृत्तेर्भवति । तथाहि सेव्यमाना विषया अपि अधिकं गर्द्धमुत्पादयन्ति उदरपूरं भुक्तवतस्तृप्तस्यातिसौहित्यमपि गतवतो भवति हृदयसमीहा ' किमिति न शक्नोमि अन्यद्भोक्तुम् ', अशक्त्या तु न प्रवर्तते । ततो नैषा भोगेन शक्या निवृत्तिर्न कदा-चित्कामोऽभिलाषः कामानां काम्यमानानां स्पृहणीयानामर्थानामुपभोगेन सेवया शाम्यति निवर्तते । भूयोऽधिकतरं वर्धते । हविषा घृतेन कृष्णवर्त्माऽग्निरिव । दुःखरूपश्चाभिलाषः । अनुपभुक्तरसस्य त्वभिलाषानुत्पत्तिः । तत्त्वप्रसङ्ख्यानमेतत् । उक्तञ्च “ यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत् ” ॥९ ४ ॥।
पृष्ठ 236
पाठ पढ़ें पाठ छिपाएँ
१६२ मनुस्मृतिः [ द्वितीय: हिन्दी – विषयों के उपभोग से इच्छा कभी शान्त ( पूरी ) नहीं होती, बल्कि घी में अग्नि के समान वह इच्छा बढ़ती ही जाती है ॥ ९ ४ ॥ विषयोपभोग की अपेक्षा उनकी उपेक्षा की श्रेष्ठता-यश्चैतान्प्राप्नुयात्सर्वान् यश्चैतान्केवलांस्त्यजेत् । प्रापणात्सर्वकामानां परित्यागो विशिष्यते ॥ ९ ५ ॥ भाष्य - पूर्वोक्तं हेतुत्वेनोपजीव्यायं निगमश्लोकः पठितः । यदा सेवया वर्धते काम: अतो य एतान्कामान्कामी सर्वान्प्राप्नुयात्सेवेतानेकमण्डलेश्वर इव तरुण:, यश्चैतांस्त्यजति केवलानि ईषदपि न स्पृशति नैष्ठिक एव बालः । तयोर्यः प्रापको भोक्ता तस्मात्स विशिष्यते । अतिशयेन श्रेष्ठो भवति यः परित्यजेदिति । एतच्चा-त्मप्रत्यक्षम् ॥९ ५ ॥ हिन्दी — जो मनुष्य इन सब विषयों को प्राप्त कर ले और जो मनुष्य इन सब विषयों का त्याग कर दे उन दोनों में सब विषयों को प्राप्त करने वाले मनुष्य की अपेक्षा सब विषयों का त्याग करने वाला मनुष्य श्रेष्ठ है ॥ ९ ५ ॥ इन्द्रिय संयम के उपाय—
न तथैतानि शक्यन्ते सन्नियन्तुमसेवया ।
विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः ॥ ९ ६ ॥
भाष्य — यद्येवमरण्यवास एव तर्हि प्राप्तम् । न हि तत्र विषया सन्निधीयन्ते । असन्निहिताश्च न सेविष्यन्ते । तदर्थमाह - नासेवया इन्द्रियाणि नियन्तव्यानीति । निःसुखः स्यात् । अथ च स्मरन्ति न पूर्वाह्णमध्यन्दिनापराह्णानफलान्कुर्याद्यथाशक्ति धर्मार्थकामेभ्यः । न च शरीरधारणमसेवया भवति । किं तु गर्धनिषेधोऽयमुच्यते । स च गर्द्ध: - सत्या-मपि सेवायां — ज्ञानेन — विषयगतदोषज्ञानेन – अस्थिस्थूणस्नायुयुतमित्यादिशास्त्रोक्तेन, स्वसंविदा च विपाकविरसतया, किं विपाकफलमेवादिदोषभावनया वैराग्याभ्यासेन क्रमेण स्पृहा निवर्तते । न तु सुहसैव त्यक्तुं शक्यते । किन्तु नित्यशः नित्यकालं, ज्ञान-विशेषणमेतत् । ' प्रदुष्टानि ' प्रवृत्तानि । दोषवत्त्वात् प्रवृत्तान्येव प्रदुष्टान्युच्यन्ते । अयं शस्तत्र तत्र नित्यशः अनुपूर्वशः सर्वशः पूर्वश इति व्यासमनुप्रभृतिभि-र्महामुनिभिः प्रयुज्यते । तस्य साधुत्वे यत्नः कर्तव्यः । तत्र शस्विधौ । " एकवचनाच्च वीप्सायामिति ” ( व्या ० सू ० ५।४।४३ ) पठ्यते । तत्र वीप्सार्थः कथञ्चित् द्योतयितव्यः । अन्ये तु शसस्तिष्ठत्यर्थस्य क्विपि रूपं वर्णयन्ति । क्रियाविशेषणं चैतत् नपुंसकम् । नित्यस्थितेन ज्ञानेनेत्यर्थः ॥९ ६ ॥
पृष्ठ 237
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि ' भाष्य'मणिप्रभा’हिन्दीटीकासहिता १६३ हिन्दी - विषयों में आसक्त इन्द्रियाँ सर्वदा ज्ञान से जिस प्रकार रोकी जा सकती हैं, उस प्रकार विषयों को बिना सेवन किये नहीं रोकी जा सकतीं ( अत: विषयों के दोषज्ञान आदि के द्वारा बहिरिन्द्रियों को वश में करें ) ॥ ९ ६ ॥
अनियमित मन की विकार हेतुता-वेदास्त्यागश्च यज्ञाश्च नियमाश्च तपांसि च ।
न विप्रदुष्टभावस्य सिद्धिं गच्छन्ति कर्हिचित् ॥ ९ ७ ॥
भाष्य - अयमत्र विधिरेव । वेदास्तद्विषयमध्ययनजपादि । त्यागो दानं लक्षणया । अथवाऽप्रतिषिद्धस्यापि मधुमांसभक्षणादेर्निवृत्तिः फलदेत्यनेन वर्जनम् । विप्रदुष्टो भाव-श्चित्तं यस्य तस्य । सिद्धिं न गच्छन्ति फलसाधकानि न भवन्ति, कस्मिंश्चिदपि काले । अतोऽनुष्ठानकाले नाभिप्रेतादिगतमानसेन भवितव्यम् । शक्यं तर्हि सर्वेतरविकल्पतिर-स्कारेण कर्मणि मन आधेयम् । अङ्गं हि कर्मसु विषयचिन्तात्यागोऽनेन वाक्येन विहितः । तदभावे कर्म-नैष्फल्यं स्यात् । एष हि भावदोषो यत्कर्मानुष्ठाने प्रवृत्तस्य तत्परतात्यागेन व्यसनेषु मनोऽवधानम् ॥९ ७ ॥ हिन्दी – दुष्ट स्वभाव वाले ( सर्वदा विषय भोग की भावना में आसक्त ) मनुष्य की वेदाध्ययन, दान, यज्ञ, नियम और तपस्यायें कभी सिद्ध नहीं होती हैं ॥ ९ ७ ॥ जितेन्द्रिय का स्वरूप-श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः । न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥ ९ ८ ॥ भाष्य - श्रुत्वा वंशगीतादिध्वनिं, ' त्वं बृहस्पति ' रित्यादिवचनं श्रुत्वा - न हृष्यति । रुक्षपरुषाक्रोशवाचः श्रुत्वा न ग्लायति न मनोदुःखं भजते । ग्लानिः खेदः । स्पृष्ट्वा राङ्कवकौशेयादिवस्त्रं अजलोमकृतञ्च समत्वेनानुभवति । एवं सुवेषतरुणीजननटप्रेक्षासु शत्रुदर्शने च समः । बहुघृतं क्षीरषष्टिकां कोद्रवांश्च समं भोजने । देवदारुतैलं कर्पूरादि च तुल्यं जिघ्रतः । तथाकर्तव्यं यथा केवलैर्मानसैः सुखदुःखैर्न स्पृश्यते । एवं तेन जितानीन्द्रियाणि भवन्ति । न त्वप्रवृत्त्यैव । इयत्पर्यन्तः संयमः आश्रयणीयः ॥९ ८ ॥ “ ननु च ब्रह्मचारिणा स्त्रीसम्बन्धो यत्नेन वर्ज्यः, संस्कृतभिक्षालाभस्तु किमिति निषिध्यते ' । अत आह— हिन्दी - जो मनुष्य ( प्रशंसा या निन्दा की बात को सुनकर, ( चिकने एवं कोमल रेशमी वस्त्रादि तथा रूखे कम्बल आदि को ) छूकर ( सुन्दर या कुरूप को ) देखकर
पृष्ठ 238
पाठ पढ़ें पाठ छिपाएँ
१६४ मनुस्मृतिः [ द्वितीय: ( स्वादयुक्त या स्वादहीन वस्तु को ) खाकर और ( सुगन्धित तथा दुर्गन्धित वस्तु को ) सूँघकर न तो प्रसन्न होता है और न खिन्न होता है, उसे “ जितेन्द्रिय ” जानना चाहिये ॥९ ८ ॥ एक भी इन्द्रिय के असंयम से प्रज्ञाहानि-इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम् । तेनास्य क्षरति प्रज्ञा दृतेः पादादिबोधकम् ॥ ९९ ॥
भाष्य - निर्धारणे षष्ठी । एकमेव यदीन्द्रियं क्षरति स्वातन्त्र्येण स्वविषये वर्तमानं न निवार्यते । ततोऽस्य क्षरति प्रज्ञा धैर्यमिन्द्रियान्तरविषयमपि । दृतिश्छा-गादिचर्मोदकाद्याहरणभाजनं, तस्य संवृतेष्वपीतरेषु यद्येकस्मादुदकं पादात्स्त्रवति, सर्वं रिच्यते । ज्ञानाभ्याससम्भृतं धैर्यं सम्यक्ज्ञानमेव वा । विषयगृह्रुतया तद्गतमानसस्य न तत्त्वतो युक्तिशास्त्रगम्या अर्थाः सम्यक् प्रतिभासन्ते ॥९९ ॥
हिन्दी — इन सब इन्द्रियों में से एक भी इन्द्रिय विशयासक्त रहती है तो उससे उस मनुष्य की बुद्धि वैसे ही नष्ट हो जाती है, जैसे चमड़े के वर्तन ( मशक आदि ) के एक भी छिद्र से सब पानी बहकर नष्ट हो जाता है ॥ ९९ ॥
इन्द्रिय संयम की सर्वपुरुषार्थ हेतुता-वशे कृत्वेन्द्रियग्रामं संयम्य च मनस्तथा ।
सर्वान्संसाधयेदर्थानक्षिण्वन् योगतस्तनुम् ॥ १०० ॥
भाष्य — उपसंहरति । सत्यपीन्द्रियत्वे मनसः प्राधान्यात्पृथगुपादानम् । ग्रामः सङ्घातः । विधेयीकृत्येन्द्रियाणि तथा मनः । सर्वानर्थाञ्श्रौतस्मार्तकर्मसाध्या-न्संसाधयेन्निष्पादयेत् । तनुं शरीरमक्षिण्वन्नपीडयन् । योगतः युक्त्या । सहसा कस्यचित्कठिनासनकृष्णाजिनादिप्रावरणात् पीडा भवति सुकुमारप्रकृते:, तदर्थमिदमुच्यते । येषां सुशीलितं सुसंस्कृतं भोजनं मृदुशय्यादि, न तै: सहसा तत्त्यक्तव्यमपि तु क्रमेण सात्म्यतामानेतव्यं तद्विपरीतम् । ' योगः ' क्रमेण प्रवृत्ति-रुच्यते । तत्र च योगतो वशे कृत्वेति सम्बन्धः । यथास्थानमेव वा योगत इति योज-नीयम् । युक्त्या औचित्यतः शरीरं नापनयेत् । यदुचितं शरीरस्य न तज्झटिति निवर्तयेत् ।
तात्पर्यं वा ‘ योग: ’ । तृतीयार्थे तसिः । तात्पर्येण शरीरं रक्षेत् ॥१०० ॥
हिन्दी – बहिरिन्द्रयसमूह तथा मन को वश में करके उपाय से अपने शरीर को कष्ट देता हुआ मनुष्य सम्पूर्ण पुरुषार्थों को सिद्ध करे ॥ १०० ॥
सन्ध्योपासन की अवधि-पूर्वां सन्ध्यां जपंस्तिष्ठेत्सावित्रीमाऽर्कदर्शनात् ।
पश्चिमां तु सदाऽऽसीत सम्यगृक्षविभावनात् ॥ १०१ ॥
पृष्ठ 239
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १६५ भाष्य — सम्मुखे प्रातः ‘ पूर्वा ' सन्ध्या । आदित्यास्तमये ‘ पश्चिमा ’ । तां तिष्ठेत् जपन्सावित्रीम् । आसनादुत्थाय निवृत्तगतिरेकत्र देशे स्यात् । सावित्री उक्तैव— ‘ तत्सवितुर्वरेण्यमिति ' । तस्या ह्यनुवादः । ॐ कारादिविधिः श्लोके सन्ध्याजपार्थं ‘ एतदक्षरमेतां चेति ’ । आऽर्कदर्शनादिति । यावद्भगवानादित्योदृष्टः । जपस्थानयोरय-मेव विनिर्देश:! " ननु किमवधिना । अर्कोदय एव सन्ध्या निवर्तते । तथाहि । ' न सर्वं तमः क्षीणं नापि परिपूर्णः प्रकाश एषा सन्ध्या ' । उक्तं च ' दिवि प्रकाशो भुवि चान्धकारः कालः स सावित्र इति प्रदिष्टः ' । निरुक्तेऽप्युक्तं ' अधोभागः सावित्र ' इति । पशुसमाम्नाये विज्ञायते ‘ कस्मात्सामान्यादधस्ताद्रामोऽधस्तात्कृष्ण ' इति । आदित्योदये च सर्वत-स्तमो निवर्तते । उभयधर्मानिवृत्तौ च सन्ध्या- -रात्रिधर्मेऽहर्धर्मे च । अत्यन्तसंयोगे चैषा द्वितीया सन्ध्यामिति 1 । तेन यावत्सन्ध्याकालं तिष्ठेदित्युक्तं भवति । ततः परं स्वा-तन्त्रयं स्थितमेव । केचिदाहुर्नैवेयमत्यन्तसंयोगे द्वितीया, किं तर्हि “ कालश्चाकर्मकाणां कर्मसंज्ञो भवतीति ” वार्तिककारस्तत्र ' कर्मणि द्वितीये ' त्येव द्वितीया । यत्तु ‘ कालाध्वनोरत्यन्त-संयोग ” इति तद्यत्र क्रियावाची शब्दो न प्रयुज्यते । ' क्रोशं कुटिला नदी ' ' सर्वरात्रं कल्याणी ' । यत्र च सकर्मको धातुः, ' मासमधीयत ' इति स तस्य विषयः । इह पुन: ‘ सन्ध्यां ’ तिष्ठेदिति तिष्ठतिरकर्मकः । अतो विधिनिर्देशः कृत्स्नसन्ध्याप्राप्त्यर्थं स्थाना-सनयोः कर्तुम् । आरम्भकालस्त्विह नोक्तः, सन्ध्याशब्देनैव समर्पितत्वात् । य एव हि सन्ध्याकालस्यारम्भः स एव तद्विधेः न हि पूर्णमास्यादिकालवद्दीर्घः सन्ध्याकालो, यदि विलम्बः स्याद्दुर्लक्षो ह्यसावतिसूक्ष्मत्वात्तुलान्तरयोरिव नामोन्नामौ । अलक्ष्यपौर्वापर्यो रात्रेर्विरामोऽह्नश्च प्रारम्भः । अतिशीघ्रगतिर्भगवान्भास्करस्तस्य यथा निर्मुक्ते राशौ राश्यन्तसंक्रमणं त्रुटिमात्रकालमिच्छन्ति ज्यौतिषिकाः । एवं दिवसारम्भावसानयोर-प्युदयास्तमयौ । प्रागुदयाद्रात्रिरुदितेऽहः । अनेन च नास्ति ‘ सन्ध्या ' । आदित्योदयेनैव रात्रिविरामात् । अत एवोदयास्तमयसमीपयोरनुष्ठानप्रवृत्तिः । स्पष्टे च सूर्ये नक्षत्रेषु च निवृत्तिर्यतो च इयन्तं कालमुपास्ते तेनावश्यं मुख्ये काले विधिर्निर्वर्तितो भवति । अत एव च यावान्सावित्रः कालः सेह सन्ध्याऽभिप्रेता न ज्योतिःशास्त्रगणिता । सा चोक्ता पुरस्तात् । “ यद्येवं, येषामयमेवाग्निहोत्रकालस्तेषां सन्ध्याविधेरभावः प्रसक्तः ” । केयं परिचोदना । श्रौतेन स्मार्तस्य बाधो युक्त एव । नैव चात्र विरोधः । तिष्ठता-ऽपि शक्यं होतुमासीनेन च । “ ननु च न केवले स्थानासने सन्ध्ययोर्विहिते, किन्तु त्रिकजपोऽपि । तच्च मनु I- 15
पृष्ठ 240
पाठ पढ़ें पाठ छिपाएँ
१६६ मनुस्मृतिः सावित्रीं जपन्कथं होममन्त्रमुच्चारयेत् ” । [ द्वितीयः अस्तु जपस्य बाधः । प्रधाने तावत्स्थानासने न विरुध्येते । ‘ गुणलोपे च मुख्यस्ये ’ त्यनेन न्यायेन जपस्याङ्गत्वाद्वाधो युक्तः । तयोश्च प्रधानत्वं साक्षाद्विधिसम्बन्धात्तिष्ठेदा-सीतेति च । जपस्य तु गुणत्वं, शत्रन्तत्वाज्जपतेर्लक्षणत्वावगमात् । अधिकारसम्बन्धश्च स्थानासनयोरेव, “ न तिष्ठति तु यः पूर्वां ” तथा “ तिष्ठन्नैशमेनो व्यपोहतीति ” । यत्तु केनचिदुक्तं— “ तिष्ठतिरत्र गुणः, प्रधानं जपकर्म । ततो हि फलमश्रौष्मेति ” । तत्रोच्यते । नैवायं कामिनोऽधिकारः । कुतः फलश्रवणम् । यत्तु प्रणवादिवाक्ये ‘ वेदपुण्येन युज्यत ’ इति फलानुवादभ्रमः, स तत्रैव निर्णीतः । तस्मात्स्थानासने प्रधाने । अथवा अग्निहोत्रिणः सकृत्सावित्रीं जपिष्यन्ति त्रिरावर्तयिष्यन्ति वा । न तावता-ऽग्निहोत्रस्य काल।तिपत्तिः । अश्नन् सायं विनिर्मुक्त इति न तावता विहन्यते । अश्नशब्दः चिरकालवचन: । तावता च कृतः सन्ध्यार्थो भवति । अर्कदर्शनपर्यन्तता ह्यङ्गमेव । उदितहोमिनां कृतसन्ध्यानामेवाग्निहोत्रहोमः । तु गौतमेन तु ‘ सज्योतिष्याज्योतिषो दर्शनादिति ' ( अ ०२ सृ ०१७ ) सूत्रस्यार्थः । ‘ एतावान्कालः सन्ध्योच्यते ' । न विध्यङ्गम् । तत्रैतावति काले नास्त्यावृत्तिः । यथा ‘ पौर्णमास्यां यजेतेति ’ न कालानुरोधेन कर्मण आवृत्तिः, तथा ‘ पूर्वां सन्ध्यां सनक्षत्रां पश्चिमां सदिवाकरामिति ' तदपि काललक्षणं ' एतावान्काल इह सन्ध्याशब्देनोच्यते, तत्र सान्ध्यो विधिरनुष्ठेयः ' । तत्रेयति सन्ध्याशब्दवाच्यं काले च मुहूर्तमात्रे यदि त्रिचतुरासु कालकलासु स्थानासनजपान्कुर्यात् सम्पन्न एव विध्यर्थः । न ह्यत्र कृत्स्नकालव्याप्तिः श्रुता मानोरिव । सर्वथाऽग्निहोत्रसन्ध्याविधी समानकालावपि शक्यावनुष्ठातुम् । सदाशब्दो नित्यतामाह । उभयसन्ध्याशेषः । आसीत आसनमनूर्ध्वतावस्थानमुपविष्टो भवेत् । ' ऋक्षं ' नक्षत्रम् । ‘ आ ’ तद्विभाव-नात् । आऽर्कदर्शनादिति य आकारः स इहानुषक्तव्यः । सम्यक्शब्दो दर्शनविभावनयोर्विशेषणम् । सम्यग्यदा परिपूर्णमण्डल आदित्यो भवति, नक्षत्राणि च भास्वन्ति स्वभासा युक्तानि नादित्यतेजोभिभूतानि ॥१०१ ॥
हिन्दी — प्रात: काल के सन्ध्योपासन कर्म में एकासन से खड़ा होकर सूर्योदय तक सावित्री का जप करता रहे तथा सायंकाल का सन्ध्योपासन कर्म अच्छी तरह ताराओं के उदय तक बैठकर करे । शास्त्रों में दो घड़ी का सन्ध्याकाल कहा गया है ) ॥ १०१ ॥
१. तदुक्तं याज्ञवल्क्येन— “ ह्रासवृद्धौ तु सततं दिवसानां यथाक्रमम् । सन्ध्यां मुहूर्तमात्रन्तु ह्रासे वृद्धौ च सा स्मृता ॥ ” इति । 21 1