मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 241–250
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 241–250
पृष्ठ 241
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १६७ विमर्श - यहाँ पर प्रात: काल आसन से उठकर खड़ा होकर तथा सायंकाल आसन पर बैठकर गायत्री जप का विधान जो किया गया है, उसमें गायत्री जप के प्रधान होने से आसन ( प्रात: काल खड़ा होकर तथा सायंकाल बैठकर जप करना ) गौण है । मेधातिथि ने आसन को ही प्रधान माना है । विशेष ज्ञान के लिये ' काशी सं ० सीरीज ' नं ० ११४ सङ्ख्या में प्रकाशित मनुस्मृति की मन्वर्थमुक्तावली पर ‘ नेने ’ शास्त्रकृत टिप्पणी देखनी चाहिए ॥१०१ ॥
सन्ध्योपासन से पापनाश-पूर्वां सन्ध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति ।
पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम् ॥ १०२ ॥
भाष्य — अयमत्राधिकार उच्यते । एनः प्रतिषिद्धसेवनाज्जातो दोषस्तं व्यपो-हत्यपनुदति । निशि भवं नैशं रात्रौ कृतम् । एवं मलमेनः शब्देन समानार्थम् । न च सर्वस्य दिवाकृतस्य नैशिकस्य चैतत्प्रायश्चित्तम् । तथा सति कृच्छ्राद्यु पदेशप्रायश्चित्तविशेषोऽनर्थकः स्यात् । “ अत्केचेन्मधु विन्देत किमर्थं पर्वतं व्रजेदिति ” लौकिकात्प्रवादात् । किं तर्हि यदनुचितं कृतं अशक्यपरिहारमनाम्नातप्रायश्चित्तविशो-लङ्घीय एनस्तदपैति । यथा सुप्तस्य हस्तचारशय्यापरिवर्तनादिना सूक्ष्मप्राणिवधो, गुह्याङ्गकण्डूकर्षणं ‘ नाकस्मात्स्पृशेदिति ' प्रतिषिद्धम्, लालास्रवादिना चाशुचित्व-मतत्कालकृतशौचस्यावस्थाने प्रतिषिद्धसेवनादि । एतदभिप्रायमेवेदं “ सर्वदैवाशुचिर्ज्ञेयः सन्ध्योपासन वर्जितः ” इति । न चानित्यतापत्तिः, एवंविधस्य दोषस्य सर्वदाभावात् । दिवा च पथि गच्छन्नन्यस्त्रीमुखसन्धानसम्पन्नं तज्जन्यचित्तविकारोन्मीलने क्रुद्धा-श्लीलसम्भाषणम् । तत्सन्ध्याविधी अपनुदतः ॥। १०२ ॥ हिन्दी — प्रात: काल की सन्ध्या में ( एकासन से ) बैठकर जप करता हुआ मनुष्य रात्रि में किये हुए पापों को नष्ट करती है; तथा सायंकाल की सन्ध्या में बैठकर जप करता हुआ मनुष्य दिन में किये हुए पापों को नष्ट करता है ॥१०२ ॥
प्रात: सायं सन्ध्योपासन के अभाव में शूद्रतुल्य बहिष्कार—
न तिष्ठति तु यः पूर्वां नोपास्ते यश्च पश्चिमाम् ।
स शूद्रवद् वहिष्कार्यः सर्वस्माद् द्विजकर्मणः ॥ १०३ ॥
भाष्य – अनेनाननुष्ठानप्रत्यवायं वदन्नित्यतामेव समर्थयति । यः प्रातः सन्ध्याया नोर्ध्व आस्ते, न च पश्चिमायामुपविष्टो भवति, स शूद्रतुल्यो
पृष्ठ 242
पाठ पढ़ें पाठ छिपाएँ
१६८ मनुस्मृतिः [ द्वितीयः वेदितव्यः । सर्वस्माद्विजकर्मणः आतिथ्यादिसत्कारसम्प्रदानादितो बहिष्कार्योऽ-पनोद्यः । अतः शूद्रसमानतानिरासार्थं नित्यमनुष्ठेया सन्ध्या । इदमधिकारवाक्यम् । अत्र च स्थानासन एवोपात्ते जपे । यस्य चाधिकारसम्बन्ध-स्तत्प्रधानम्, अन्यत्तत्सबद्धमङ्गम् ॥ १०३ ॥
२ हिन्दी – जो ( द्विज ) प्रात: काल तथा सायंकाल सन्ध्योपासन कर्म नहीं करता है, वह शूद्र के समान सम्पूर्ण द्विज कर्मों से ( अतिथिसत्कारादि कर्म से भी ) बहिष्कृत करने योग्य है ॥१०३ ॥
अशक्ति में सावित्री मात्र का भी जप -अपां समीपे नियतो नैत्यकं विधिमास्थितः ।
सावित्रीमप्यधीयीत गत्वाऽरण्यं समाहितः ॥ १०४ ॥
भाष्य — अयमपरः स्वाध्यायविधिः । प्रकरणान्तरेऽश्रुतत्वात्पूर्वस्माद्ग्रहणार्थाद्भिद्यते । बहिर्ग्रामान्निर्जनो देश अरण्यम् । तद्गत्वा प्राप्यापां समीपे नदीवाप्यादिस्थाने । तदभावे कमण्डल्वादिभाजनस्थानामपि । नियतः शुचिर्यत्नवान्वा । समाहितः परित्यक्तचित्तव्याक्षेपः । सावित्रीमप्यधीयीत | यदि बहुसूक्तानुवाकाध्यायादि कयाचित्कार्यातिपत्त्या न शक्यते । नैत्यकं विधिमास्थितः । नित्य एव नैत्येकः । नित्योऽयं विधिरित्येवं स्थितप्रज्ञः । ग्रहणार्थश्च स्वाध्यायाध्ययनविधिः प्रकृतिः, अयं विकारः संस्तदीयान्धर्मान्गृह्णाति । तेन ‘ ब्रह्मण: प्रणवं ’ “ प्राक्कूलान् " इत्यादिधर्मो भवति । तु अन्ये तु ‘ विधि’विधा - प्रकार- इतिकर्तव्यतेत्यादि चक्षते । नित्ये ब्रह्मचारिणाऽवश्य-कर्तव्ये स्वाध्यायाध्ययने विधेतिकर्तव्या तामाश्रितः । अस्य तु विधेस्तदा नित्यत्वं ‘ ब्रह्मसत्रं हि तत्स्मृत’मित्यादिवाक्येभ्योऽवसातव्यम् । आद्यमेव व्याख्यानं युक्तरूपं दृश्यते । न हि विधिशब्दः प्रकारवचनतया प्रसिद्धः । यदि च नैत्यकशब्देन ब्रह्मचारिणो विधिरुच्यते तदा " नैत्यके नास्त्यनध्यायः ” इत्यत्रापि नैत्यकशब्देन तस्यैवाभिधानं स्यात्ततश्चानध्ययननिषेधस्तत्रैव प्रसज्येत ॥१०४ ॥
हिन्दी - वन में ( बगीचा, फुलवाड़ी, उपवन आदि एकान्त स्थान में ) जाकर ( नदी; तालाब, वापी आदि के ) जल के समीप में जितेन्द्रिय तथा एकाग्रचित होकर नित्य विधि को करने का इच्छुक द्विज सावित्री का भी अध्ययन ( जप ) करे । ( यह ब्रह्मयज्ञ का स्वरूप है, विशेष वेदाध्ययन करने में असमर्थ द्विज को इतना तो करना आवश्यक ही है ॥ १०४ ॥।
पृष्ठ 243
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १६ ९
अनध्याय में भी अवर्जनीय कार्य-वेदोपकरणे चैव स्वाध्याये चैव नैत्यके ।
नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि ॥ १०५ ॥
भाष्य- —उपकरणमुपकारकं वेदाङ्गं कल्पसूत्रनिरुक्ताद्युच्यते । तस्मिन्पठ्यमानेऽन-ध्यायेऽष्वनुरोध आदरो नास्ति । स्वाध्याये होममन्त्रेषु चैव ह्यनध्याया नादरणीयाः । अनध्यायेष्वध्येतव्यम् । ‘ न निरोध ' इति वा पाठः । निवृत्तिरनध्यायेष्वध्ययनस्य नास्ति । यद्यप्यध्ययनविधिधर्मोऽनध्यायेष्वनध्ययनं, अध्ययनविधिश्च स्वाध्यायविषयः, स्वाध्यायश्च वेदो, न च वेदशब्दवाच्यान्यङ्गानि, तथापि वेदवाक्यामिश्रत्वात् तद्बुद्धिः-स्यादिति स्पष्टार्थमुच्यते । दृष्टान्तो वाऽयम् । वेदाङ्गेष्विव वेदेऽप्यनध्यायो नास्ति । होममन्त्रेषु अग्निहोत्रहोमे ये मन्त्रा अन्यस्मिन्वा सावित्रादिशान्तिहोमे । एतच्च प्रदर्शनार्थम् । शश्वज्जपप्रैषादिमन्त्राणां कर्माङ्गानां वैदिकवाक्योच्चारणमात्रधर्मोऽन-ध्यायानध्ययनं स्वध्यायाध्ययनविधिप्रयुक्त इति मन्यमानो होमादिमन्त्रेषु चतुर्दश्या-दिष्वनुच्चारणं प्रपद्येत यः, स न्यायसिद्धेनार्थेनानूद्यमानेन प्रतिबोध्यते । स्वाध्यायाध्ययन-विधिप्रयुक्तमनध्यायानुक्रमणं न वेदधर्मः, ततो नास्ति कर्माङ्गमन्त्रेष्वनध्यायः । नैत्यके स्वाध्याये पूर्वेण वाक्येन सर्वाश्रमिणां विहिते नित्ये स्वाध्यायविधौ ॥१०५ ॥
हिन्दी — शिक्षा आदि वेदाङ्गों में, नित्य किये जाने वाले ब्रह्मयज्ञरूप स्वाध्याय में और हवन कर्म में अनध्यायकृत निषेध नहीं है । ( ४ अध्यायोक्त अनध्याय में भी इन्हें करना चाहिए ) ॥ १०५ ॥
नित्य कर्म में अनध्याय का अभाव — नैत्यके नास्त्यनध्यायो ब्रह्मसत्रं हि तत्स्मृतम् । ब्रह्माहुत पुण्यमनध्यायवषट्कृतम् ॥ १०६ ॥
भाष्य – पूर्वविधिशेषोऽयमर्थवादः । -एतेन हेतुना नैत्यके नास्त्यनध्यायो यतो ब्रह्मसत्रं तत्स्मृतम् । सततप्रवृत्तं ‘ सत्रं ’ यथा सहस्रसंवत्सरादिसत्रं न कदाचिद् विच्छिद्यत इत्यतः सत्रमेवमिदमपि । ब्रह्माध्ययन-निर्वर्त्यं ‘ ब्रह्मसत्रम् ’, सत्रत्वाच्च न कदाचिद्विच्छेत्तव्यम् । विच्छेदे हि सत्रत्वं न स्यात् । सत्रत्वमिदानीं रूपकभङ्ग्या योजयति । ' ब्रह्म'अध्ययनम्, ‘ आहुतिहुतम् ’ अन्यत्सत्रं सोमाहुत्या हूयते । जुहोतिर्निर्वृत्तौ वर्तते । अनेकार्थात्वाद्धातूनाम् । ब्रह्मशब्देनं तद्विषया-ध्ययनक्रिया लक्ष्यते । ब्रह्माध्ययनमाहुतिरिव “ उपमितं व्याघ्रादिभिरिति ” ( व्या ० सू ०
पृष्ठ 244
पाठ पढ़ें पाठ छिपाएँ
१७० मनुस्मृतिः [ द्वितीय: २।१।५६ ) समास: । ‘ अनध्याये यदध्ययनं ' तेन ' वषट्कृतम् ' । यथा याज्यान्ते अविच्छेदो वषट्कारेण क्रियत एवं चतुर्दश्याद्यनध्यायाध्ययनं वषट्कारस्थानीयम् । वषट्शब्देन वौषट्शब्दो लक्ष्यते । तेन कृतं युक्तं संस्कृतम् । साधनंकृतेति समासः || १०६ ॥ हिन्दी – पूर्वोक्त नित्यकर्म में अनध्याय नहीं है, उसे ( मनु आदि महर्षियों ने ) ब्रह्मयज्ञ कहा है । ब्रह्मरूपी आहूति में हवन किया गया अध्ययनरूप अनध्याय का वषट्कार भी पुण्य ही होता है ॥ १०६ ॥
जपयज्ञ से इष्टसिद्धि-यः स्वाध्यायमधीतेऽब्दं विधिना नियतः शुचिः । तस्य नित्यं क्षरत्येष पयो दधि घृतं मधु ॥ १०७ ॥ ज
प्रकृतविधिशेषोऽयम् । स च नित्यः समधिगतः । नित्ये च फलश्रवणमर्थवादः । न च विधिविभक्तिर्विद्यते । येन “ एकस्य तूभयत्वे संयोगः पृथक्त्वमि ” त्यनेन न्यायेना-धिकारान्तरहेतुः पयःप्रभृतिः स्यात् । लब्धे च नित्येऽधिकारे रात्रिसत्रन्यायोऽपि नास्ति, येन पय आदीनि निष्फलत्वेन कल्पेरन् । तस्मादर्थवाद एवायं अधीयानस्य लोकपक्त्या प्रतिग्रहादिना गोलाभात्पयः प्रभृतेः प्रक्षरणानुवादस्यालम्बनम् । स्वाध्यायं वेदमधीतेऽब्दं संवत्सरं विधिना प्राक्कूलाध्यासनेन । नियतः संयते-न्द्रियः । शुचिः स्नानादिना । तस्य पुरुषस्य नित्यं यावज्जीवम् । क्षरति स्रवति ददाति, एषः स्वाध्यायः । ' पयो दधीति ' । अन्ये तु धर्मार्थकाममोक्षान् पयआदिभिः शब्दैरभिहितान्मन्यन्ते । पयः शुद्धि-सामान्याद्धर्मः, दधि पुष्टिहेतुत्वादर्थः, स्नेहसामान्यात्घृतं कामः, सर्वरसैक्यान्मधु मोक्षः । यावान्कश्चन पुरुषार्थः स सर्वो वेदाध्ययनात्संवत्सरेणैव प्राप्यते, किं पुनर्वहुना कालेन? अर्थवादत्वात्पय आदिशब्दानां कोऽर्थो युक्त इति नाभिनिवेष्टव्यम् ॥ १०७ ॥
हिन्दी — जो मनुष्य जितेन्द्रिय तथा पवित्र होकर एक वर्ष तक भी विधिपूर्वक वेदाध्ययन करता है, उसे यह सर्वदा दूध, दही, घृत तथा मधु देता है, ( जिनसे वह देवों तथा पितरों को तृप्त करता है और वे सब इच्छा तथा जपयज्ञ को पूर्ण करने वाले होते हैं ' ) ॥१०७ ॥
१. अत एव याज्ञवल्क्यः-मधुना पयसा चैव स देवांस्तर्पयेद् द्विजः । वितॄन् मधुघृताभ्याञ्च ऋचोऽधीते हि योऽन्वहम् ॥ —या ० स्मृ०-१।४२ इत्युपक्रम्य वेदचतुष्टयस्य पुराणानां जपस्य च देवपितृतृप्तिफलमुक्त्वा शेषे-“ ते तृप्तास्तर्पयन्त्येनं सर्वकालफलैः शुभै । ” ( या ० स्मृ ० १।४७ ) इत्युक्तवात् ।
पृष्ठ 245
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १७१
समावर्तन तक होमादि कर्तव्य-अग्नीन्धनं भैक्षचर्यामधः शय्यां गुरोर्हितम् ।
आ समावर्तनात्कुर्यात्कृतोपनयनो द्विजः ॥ १०८ ॥
भाष्य — सायम्प्रातः समिद्भिरग्नेरादीपनमग्नीन्धनम् ॥ अपर्यङ्कारोहणमधःशय्या । न तु स्थण्डिलशायित्वमेव । गुरवे हितमुदकुम्भाद्याहरणं शुश्रूषणलक्षणम् । यत्तु तदुप-कारकरणं तद्यावज्जीविकम् । एतत् आ ब्रह्मचर्यसमाप्तेर्गुरुकुलनिवृत्तिलक्षणात् स्नानात्-कर्तव्यं, स्वाध्यायाध्ययनविध्यर्थत्वात् । ब्रह्मचर्यस्य तद्धर्माणां च यावद्ग्रहणमनु-वृत्तिस्तन्निवृत्त्या च निवृत्तिः सिद्धैवेति । अग्नीन्धनादीनां पुनर्वचनं तद्व्यतिरिक्तस्यातिक्रान्तस्य धर्मकलापस्योत्तरेषामप्या-श्रमिणामनुष्ठानार्थम् । तथा च गौतमः ( अ ०३ सू ० ९ ) “ इतरेषां चैतदविरोधि ” इति । ‘ “ अथैवं कस्मान्न भवति— ' एते यावद्ब्रह्मचर्यभाविनः, अन्ये पुनरर्वागपि निवर्तन्त इति ' । स्मृत्यन्तरमत्र दर्शितम् । प्रधानकालानुवर्तिनश्च नियमा इत्येष न्यायः
सत्यां गतौ स्यात् ।
गुरवे हितमिति हितयोगे चतुर्थी ( पा ० सू ० २।१।३६ ) न्याय्या ॥१०८ ॥
हिन्दी — जिसका यज्ञोपवीत संस्कार हो गया है, ऐसा द्विज समावर्त्तन काल ( वेदाध्ययन समाप्त कर गृहस्थाश्रम में प्रवेश करने से पूर्वकाल ) तक प्रातः काल तथा सायंकाल समिधा का अग्नि में त्याग अर्थात् हवन, भिक्षावृत्ति ( २।४ ९ ) पृथ्वी पर शयन ( खाट - चारपाई पर सोने या चढ़ने तक का सर्वथा निषेध है ) और गुरुहित कार्य ( गुरु के लिए जल, पुष्प आदि लाकर हिताचरण ) को करे ॥१०८ ॥
आचार्यपुत्रः पढ़ाने योग्य शिष्य-शुश्रूषुर्ज्ञानदो शुश्रूषुर्ज्ञानदो धार्मिकः
शुचिः ।
आप्तः शक्तोऽर्थदः साधुः स्वोऽध्याप्या दश धर्मतः ॥ १० ९ ॥
भाष्य - वक्ष्यति ( श्लो ० २३३ ) ' सर्वेषामेव दानानां ब्रह्मदानं विशिष्यत ' इति । तत्र कीदृशाय विद्या दातव्या इति पात्रलक्षणार्थः श्लोकः । ब्रह्मचारिधर्मप्रसङ्गेनाध्या-पनविधिरयमुच्यते । आचार्यस्य पुत्रः । शुश्रूषा परिचर्या गृहोपयोगि शक्तितः कर्मकरणं शरीरसंवाहनं च । ज्ञानदः यः कश्चिद्ग्रन्थ आचार्यस्य न विदितः, शिष्येण कथञ्चिच्छिक्षितोऽर्थका-मकलाविषयो धर्मविषयो वा । विद्याविनिमयेनेदमध्यापनम् । धार्मिकः अग्निहोत्रादि-कर्मानुष्ठानप्रधानः । शुचिर्मृद्वारिशुद्धः अर्थशुद्धश्च । गोबलीवर्दवत्पदत्रयमपुनरुक्तं—
पृष्ठ 246
पाठ पढ़ें पाठ छिपाएँ
१७२ मनुस्मृतिः [ द्वितीयः ' धार्मिकः ' ' शुचिः ' ' साधुरिति ' । आप्तः सुहृद्वान्धवादिः प्रत्यासन्नः । शक्तः ग्रहणधारणसमर्थः । अर्थदः । स्वः पुत्रः उपनीतश्च । पूर्वे अन्योपनीता अप्यध्याप्याः | “ ननु च धर्मत इत्युच्यते, एतैरध्यापितैर्धर्मो भवति । अर्थदश्च दृष्टेनोपकरोति. तत्र कुतोऽदृष्टकल्पना ’ ’? इति । केनोक्तं कल्पनोति । श्रुते का कल्पना । साक्षादेव हि श्रुतं अध्याप्या दश धर्म उपाध्यायस्त्वाह धर्मशास्त्रव्यवस्थोच्यते I । एतैरध्यापितैर्धर्मातिक्रमो न भवति, न पुनरर्थदे अध्यापिते विद्यादानलक्षणो धर्मो भवति ॥ १० ९ ॥ हिन्दी - आचार्य पुत्र, सेवा करने वाला ', अन्य विषय की शिक्षा देने वाला ’, धर्मात्मा, पवित्र, बान्धव, ज्ञान के ग्रहण - धारण में समर्थ, धन देने वाला हिताभिलाषी और स्वजातीय ये दश ( गुरु के द्वारा ) धर्मानुसार पढ़ाने योग्य हैं ॥ १० ९ ॥ प्रश्नादि के बिना तत्त्वकथन का निषेध-नापृष्टः कस्यचिद्ब्रूयान्नचान्यायेन पृच्छतः । जानन्नपि हि मेधावी जडवल्लोक आचरेत् ॥ ११० ॥
भाष्य — अधीयानेनानुपसन्नेन यदि नाशितमपाक्षरं विस्वरं वाऽधीतं तदाऽपृष्टेन न वक्तव्यम् ‘ नाशितं त्वयैवमेतत्पठितव्यमिति । शिष्यस्य त्वपृच्छतोऽपि वक्तव्यम् । पृच्छमानोऽपि यद्यन्यायेन पृच्छति तथापि न वक्तव्यम् । प्रश्रयपूर्वकम्, ' अस्मिन्वस्तुनि मे सन्देहस्तदुपदेष्टुमर्हसीति ' शिष्यधर्मेण प्रश्नो न्यायेन । अन्यथा तु जानन्नपि जडवत् मूक इव लोके वर्तेत आचरेदज्ञ इव तूष्णीमासीत । शास्त्रविषयोऽयमपृष्टसन्देहापनयननिषेधः । व्यवहारे तु वक्ष्यति “ नियुक्तो वाऽ-नियुक्तो वा धर्मज्ञो वक्तुमर्हतीति । " अन्ये त्वविशेषेणेच्छन्ति ॥११० ॥
हिन्दी — वेदतत्त्व को जानता हुआ भी विद्वान् बिना पूछे किसी से ( तत्त्वज्ञान को ) न कहे ( अशुद्धोच्चारण करने पर भी किसी को न टोके, किन्तु यदि शिष्य अशुद्धो-च्चारण करे तो उसे अवश्य ही टोके और ठीक - ठीक बतलावे ), अन्याय से ( भक्ति, श्रद्धा - आदि का त्यागकर ) पूछने पर भी ( तत्त्वज्ञान को ) न कहे; किन्तु जड़ के समान आचरण करे ॥ ११० ॥
१.२.३. तदुक्तं नीतिकृद्भिः: -गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । अथवा विद्यया विद्या चतुर्थो नोपपद्यते ॥ इति ।
पृष्ठ 247
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता उक्त निषेध के नहीं पालन करने से हानि–
अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति ।
तयोरन्यतरः प्रैति विद्वेषं वाऽधिगच्छति ॥ १११ ॥
१७३ भाष्य— अस्य प्रतिषेधस्यातिक्रमे दोषमाह । अधर्मेण पृष्टोऽन्यायपृष्टश्च यः प्रब्रवीति ‘ एवमेतद्युक्तमध्येतुमिति ' । यश्च पृच्छति । तावुभावपि म्रियेते अप्राप्तकालौ । अथैको व्यतिक्रमकारी स एव म्रियते । यद्यन्यायेन पृष्टो न वक्ति तदा प्रष्टैव वाऽथ प्रतिवक्ति तदोभावपि । अनेनान्यायप्रश्ने दोषदर्शनेन प्रष्टुर्न्याय्यः प्रश्रविधिः । विद्वेषं वा द्वेष्यतां लोके प्राप्नोति ॥१११ ॥
हिन्दी — अधर्म से पूछने पर भी कहता है या अधर्म से जो पूछता है, उन दोनों में से एक ( व्यक्तिक्रम करने वाला ) मर जाता है, अथवा उसके साथ में वैर हो जाता है ॥१११ ॥
धर्मादि के अभाव में विद्यादान की निष्फलता-धर्मार्थौ यत्र न स्यातां शुश्रूषा वाऽपि तद्विधा । तत्र विद्या न वप्तव्या शुभं वीजमिवोषरे ॥ ११२ ॥
भाष्य — यदुक्तम् “ अध्याप्या दश धर्मत " इति तस्यैवायं प्रकारान्तरेण सङ्क्षेपतः प्रतिनिर्देशो, नापूर्वार्थाभिधानम्, प्रकृतानुवादत्वात् । अर्थशब्द उपकारमात्रलक्षणापरो द्रष्टव्यः, विद्याविनिमयेनापि पूर्वमध्यनस्योक्तत्वात् । तद्विधाऽध्यापनानुरूपा । महति महती स्वल्पे स्वल्पेति । तत्र विद्या । विद्यते ज्ञायते यया सर्वोऽर्थ इति सा ' विद्या ' पाठोऽर्थावबोधश्च । अनुपकारी नाऽध्याप्यः, न चास्यार्थविवरणं कर्तव्यम् । उषरो भूमिभाग उच्यते यस्मिन्नखिलेऽपि मृत्तिकादोषाद्वीजं न प्ररोहति । शुभं श्रेष्ठं व्रीह्यादिकं लाङ्गलादिनोप्यते । एवं विद्याऽपि क्षेत्रे व्युप्ता महाफला भवति । न चैतन्मन्तव्यम्, अर्थमादाय यदध्यापनं सा भृतिः । न हि पणपरिमाणसम्भाषणपूर्विका तत्र प्रवृत्तिः —— यदेयद्ददासि तदैतदध्यापयामीति ' । तदद्भृते रूपम् । न पुनरर्थोपकार-STS nSns4T4nT " I | गन्धमात्रेण । यत्तु ' न पूर्वं किञ्चिद्गुरवे उपकुर्वीतेति ' नासौ पूर्वोपकारप्रतिषेधः, किन्तु स्ना-स्यताऽवश्यमाज्ञप्तेन गुर्वर्थो यथाशक्ति सम्पाद्यः ', तच्छेष एव प्रतिषेधो न पृथग्-वाक्यम् ॥११२ ॥
-हिन्दी — जिस शिष्य में धर्म तथा अर्थ न हो अथवा शिक्षानुरूप सेवावृत्ति न हो; ऊसर में उत्तम बीज के समान उस शिष्य में विद्यादान न करे ॥ ११२ ॥
पृष्ठ 248
पाठ पढ़ें पाठ छिपाएँ
१७४ मनुस्मृतिः [ द्वितीयः
विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना ।
आपद्यपि हि घोरायां न त्वेनामिरिणे वपेत् ॥ ११३ ॥
भाष्य- - समं शब्दः सहार्थे । अप्रतिपादितया स्वदेह एव जर्जरितया युक्तं ब्रह्मवादिनो वेदाध्यायिनो मरणं, न पुनरपात्रे प्रतिपादनम् । अनेन च ज्ञायते अध्यापनमप्यधीतवेदेनावश्यं कर्तव्यं, न केवलं वृत्त्यर्थम् । नापि वार्यादिदानवत्फलकामस्यैवाधिकारः । तथा च श्रुतिः “ यो हि विद्यामधीत्यार्थिनं न ब्रूयात्स कार्यदा स्यात् । श्रेयसो द्वारमपावृणुयात् । अध्यापयेन्महदेतद्यशस्यं वाचो-ऽधिकारं कवयो वदन्ति । अस्मिन्योगे सर्वमिदं प्रतिष्ठितम् । य एवं विदुरमृतास् भवन्ति । ” स कार्यहा स्यादित्यनेनानध्यापने दोषमनुवदन्ती श्रुतिरेवावश्यकर्त-व्यतां ज्ञापयति । इरिणे । पूर्वोक्तप्रयोजनत्रयाभावो यत्र । आपद्यपि हि घोरायां कष्टायामपि । कष्टा आपदुक्तशिष्याभावः । एतच्चा-वश्यकर्तव्यं सत्युपपद्यते । “ नित्यत्वे हि मुख्याभावे प्रतिनिधिशिष्योपादानेनाध्यापन-निर्वृत्तिः प्राप्ता । व्रीह्यभाववन्नीवारैः ” । अतोऽस्यामवस्थायामध्यापनाधिकारनिवृत्तिरेव । यथोक्तलक्षणातिथ्यभावेऽतिथिपूजानिवृत्तिः । वपेदिति लक्षणया बीजधर्मेणाध्यापनमुच्यते । बीजं किल क्षेत्रोप्तं बहुफलं भवत्येवं विद्याऽपि ॥ अन्ये तु धनाभावनिमित्तामापदमाचक्षते । अत्यन्तदुर्गतेनापि नेरिणे वप्तव्येति वरं म्रियताम् । “ सर्वत एवात्मानं गोपायेद् ” इति नैष विधिरतिक्रान्तो भवति सत्यपि तथाविधाध्यापने वृत्त्युपाये । तदेतदयुक्तम् । अर्थदो नैवेरिणं, पूर्वोक्तानुवादत्वादिरिणशब्दस्य । यदि चार्थदोऽपि न भवति कथमापदि तत्र प्रवृत्तिः सम्भाव्यते, या निषिध्यते ॥११३ ॥
हिन्दी — वेदज्ञ विद्वान् विद्या के साथ में ( बिना किसी को पढ़ाये ) ही भले मर जाय, किन्तु घोर आपत्ति में भी अपात्र शिष्य को न पढ़ावें ॥।११३ ॥
ब्राह्मण से विद्या का कथन-विद्या ब्राह्मणमेत्याह शेवधिष्टेऽस्म रक्ष माम् ।
असूयकाय मां मादास्तथा स्यां वीर्यवत्तमा ॥ ११४ ॥
भाष्य - अयमप्यर्थवाद एव । विद्या मूर्तिमती कञ्चिदुपाध्यायमागत्याह प्रोक्त-वती । शेवधिर्निधिस्तवास्मि रक्ष माम् । का पुनस्ते रक्षा? असूयकाय कुत्साकराय
पृष्ठ 249
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १७५ निन्दकाय मां मादाः । निन्दकं माऽध्यापय । तथा चैवमहं वीर्य्यवत्तमाऽतिशयेन तव कार्यकारिणी भवामि । वीर्यं कार्यनिर्वृत्तौ सामर्थ्यातिशय: । ' शेवधिष्टेऽस्मीति ' कृतषत्वं पठितं तच्छान्दसप्रयोगानुकरणम् ॥११४ ॥
हिन्दी — विद्या ( विद्या की अधिष्ठात्री देवी ) ने ब्राह्मण के पास आकर कहा कि ' मैं तुम्हारा कोष ( खजाना ) हूँ, मेरी रक्षा करो । मेरी निन्दा करने वाले के लिए मुझे मत दो, इससे मैं अत्यन्त वीर्यवती होऊँगी ( बनूँगी ) ॥ ११४ ॥
यमेव तु शुचिं विद्या नियतं ब्रह्मचारिणम् ।
तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने ॥ ११५ ॥
भाष्य - यं शिष्यं शुचिं जानीया: नियतं संयतेन्द्रियं यत्नपरं ब्रह्मचारिणं तस्मै मां ब्रूहि । यो हि निधिं पाति रक्षति । यतोऽसावप्रमादी न प्रमाद्यपि न स्खलति, तत्परत्वात् । शक्ताप्तार्थदादीनां सर्वशिष्यामाणामेतद्गुणसंयोगे देयेत्यस्मादर्थवादाद्गम्यते ॥११४ ॥
हिन्दी - और जिसे तुम पवित्र, जितेन्द्रिय और ब्रह्मचारी समझो; विद्यारूपी कोष
रक्षा करने वाले अप्रमादी उस ब्राह्मण के लिये मुझे कहो । ( उसे पढ़ाओ ) ॥ ११५ ॥
बिना पढाये वेद ग्रहण का निषेध -ब्रह्म यस्त्वननुज्ञातमधीयानादवाप्नुयात् ।
स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते ॥ ११६ ॥
भाष्य — योऽभ्यासार्थमधीयानस्यान्यं चोद्दिश्यैवं व्याचक्षाणस्य तत्सन्निकर्षमन्य आगत्य तद्ब्राह्मापूर्वं गृह्णीयात्सन्देहं वाऽपनुदेत्तस्यैष दोष उच्यते । यावदनुज्ञामसौ न दाष्यते । ‘ यथैते त्वत्सकाशादधीयत एवमहमप्यधीयीयेत्यनुज्ञातुमर्हसीति ' लब्धानुज्ञां शिक्षेत् । अन्यथा तु यद्ब्रह्माध्ययनं तत्स्तेयमिव । सोऽध्येताऽनेन ब्रह्मचौर्येण संयुक्तो नरकं महायातनास्थानं प्राप्नोति । अधीयानादिति पञ्चमी " आख्यातोपयोगे " ( पा ० सू ० १।४।२ ९ ) इति । अपा-यस्य वा गम्यमानत्वाद् ब्रह्म ह्यध्येतुर्निष्क्रामतीव । ल्यब्लोपे वा कर्मणि । अधीयानं श्रुत्वाऽऽप्नोति शिक्षते ॥। ११६ ॥ हिन्दी — स्वयं अभ्यासार्थ वेदाध्ययन करते हुए या दूसरे शिष्य को पढाते हुए वेद कोगुरु की आज्ञा के बिना ही जो ग्रहण करता ( स्वयं पढ़ लेता ) है, वह ब्रह्म की चोरी करने का दोषी होकर नरकगामी होता है ॥ ११६ ॥
पृष्ठ 250
पाठ पढ़ें पाठ छिपाएँ
१७६ मनुस्मृतिः
अध्यापकों की मान्यता-लौकिकं वैदिकं वाऽपि तथाऽऽयात्मिकमेव वा ।
आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥ ११७ ॥
1 भाष्य- - अतिक्रान्तं प्रासङ्गिकम् । अभिवादनविधिरिदानी प्रक्रम्यते । [ द्वितीयः लोके भवं लौकिकं लोकाचारशिक्षणम् । अथवा गीतनृत्यवादित्रकलानां ज्ञानं वात्स्यायनविशाखिकलाविषयग्रन्थज्ञानं वा । वैदिकं विधिनोदितम् । वेदवेदाङ्गस्मृति-विषयम् । आध्यात्मिकविद्याऽऽत्मोपनिषद्विद्या । आत्मोपचाराद्वा शरीरस्य वैद्यकम् । एतज्ज्ञानम् यतः शिक्षेत तं पूर्वमुपदेष्टारं पुरुषमभिवादयेत् । प्रथमसङ्गमे यदाशी: विप्रयोगार्थं वक्ष्यमाणस्वरूपेण प्रयोगेण शब्देन सन्मुखीकरणं सोऽभिवादयतेरर्थः । पूर्वमिति प्रथमम् । तेनासौ सम्बोध्यो, न पुनस्तदीयं वचनमपेक्षितव्यम् । तदा हि प्रत्यभिवादयिता भवेत् । “ अभिवादयेदित्यनेनैव सिद्धत्वात् पूर्वशब्दोऽनर्थक " इति चेत्तन्न । सति ह्यस्मिन्नयमर्थो लभ्यते । धातूपसर्गार्थपर्यालोचनया ह्याभिमुख्येन वदनमात्रं प्रतीयते । अन्येनापि सम्बोधितस्य भवत्येव । ये तु ' पूर्व ' स्वयोनिगुरुभ्य इति व्याचक्षते, तदप्रकृतसंशब्दितमित्युपेक्ष्यम् ॥११७ ॥
हिन्दी — जिस ( गुरु ) से लौकिक ( अर्थशास्त्रादिविषयक ), वैदिक ( वेदविषयक ) और आध्यात्मिक ( ब्रह्मविषयक ) ज्ञान प्राप्त करे; उसे ( बहुत मान्यों के मध्य में ) पहले प्रणाम करे ॥ ११७ । विमर्श — इन तीनों गुरुओं से प्रथम की अपेक्षा द्वितीय को तथा द्वितीय की अपेक्षा तृतीय को श्रेष्ठ समझना चाहिए । [ जन्मप्रभृति यत्किंचिच्चेतसा धर्ममाचरेत् । तत्सर्वं विफलं ज्ञेयमेकहस्ताभिवादनात् ॥ ८ ॥ ]
[ हिन्दी - मनुष्य जन्म से लेकर जो कुछ धर्म, चित्त से करता है, वह सब एक हाथ से अभिवादन करने से निष्फल हो जाता है ( अतएव दोनों हाथों से गुरु का चरणस्पर्श कर ( २।७२ ) प्रणाम करना चाहिए ॥ ८ ॥ ]
अविहिताचार की निन्दा-सावित्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः ।
नायन्त्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी ॥ ११८ ॥
भाष्य — अभिवादनाद्याचारविधे: स्तुतिरियम् । सावित्रीमात्रं सारं प्रधानं यस्य स एवमुच्यते, सावित्रीमात्राध्ययनः । वरं श्रेष्ठो विप्रो यदि सुयन्त्रितो भवति शास्त्रनिगृही-