मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 251–260
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 251–260
पृष्ठ 251
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १७७ तात्मा । अयन्त्रितस्त्रिवेदोऽपि शास्त्रविदपि । सर्वाशी सर्वमश्नाति लोकाचार-गर्हितं साक्षादप्रतिषिद्धमपि । एवं सर्वविक्रयी । प्रदर्शनार्थावशनविक्रयौ अन्यस्यापि प्रतिषिद्धस्य । एतदुक्तं भवति । यथाऽन्यनियमत्यागान्निन्द्यते एवं प्रत्युत्थानादित्यागादपि । “ अथ कथं ' वरं विप्र ' इति यावता ' वरो विप्र ' इति भवितव्यम् ” । केचिदाहुः सामान्योपक्रमस्य विशेषस्याभिधानात्, ' वरमेतत् ’ – किंतत् — ‘ यत्सु-यन्त्रितो विप्र ' इति । अन्ये त्वाहुराविष्टलङ्गो वरशब्दो नपुंसकलिङ्गोऽप्यस्ति ॥ ११८ ॥
हिन्दी — केवल सावित्री मात्र का ज्ञाता शास्त्रानुसार आचरण करने वाला ब्राह्मण मान्य है, किन्तु निषिद्ध अन्नादि खाने वाला सब कुछ बेचने वाला तीनों वेदों का ज्ञाता भी ब्राह्मण मान्य नहीं है ॥ ११८ ॥
गुर्वादि के आसनादि पर बैठने का निषेध तथा उठकर प्रणाम करने का विधान-शय्यासनेऽध्याचरिते श्रेयसा न समाविशेत् । शय्यासनस्थश्चैवैनं प्रत्युत्थायाभिवादयेत् ॥ ११ ९ ॥ भाष्य — शय्या चासनं चेति ' जातिरप्राणिनामिति ' ( व्या ० सू ० २।४।६ ) द्वन्द्वैक-वद्भावः । तस्मिन् श्रेयसा विद्याद्यधिकेन गुर्वादिना च न समाविशेन्न सहासीत । किं सर्वस्मिन्नेव नेत्याह अध्याचरिते कल्पिते शय्यात्वेनासनत्वेन च । यत्तुशिलाफलकादि-स्तत्र न दोषः । वक्ष्यति च ( श्लो ० २०४ ) " आसीत गुरुणा सार्धमिति ”, तस्यैवाय-मनुवादः । अन्ये व्याचक्षत ‘ अध्याचरिते ' अधिष्ठित इति । न समाविशेत्तत्रोत्तर कालमपि; न केवलं सहासनप्रतिषेधः । स हि वक्ष्यमाणेनैव सिद्धः । विधौ च सम्भवति नानु-वादो युक्तः । तत्र केचिदाचारतो भेदं व्याचक्षते । यद्गुरोरसाधारण्येन शय्यात्वेनासनत्वेन च विज्ञातं, यत्र गुरुः शेते आस्ते च, तत्र शिष्यः प्रत्यक्षं परोक्षं च नोपविशेत् । यत्र तु कथञ्चिदेते क्रिये गुरुणा कृते तत्र गुरोः प्रत्यक्षं प्रतिषेधः 1 । ईदृशमेवाध्याचरितमुच्यते, न स्वस्वामिसम्बन्धेन यदधिष्ठानम् । शय्यासनस्थस्य च यदि श्रेयानागच्छति तदा तत उत्थायाभिवादनं कर्तव्यम् । यत्तु ‘ यानासनस्थ इति ’ तद्गुरूद्दिष्टमवरोहणम् । शय्यासनत्याग एव भूमिष्ठेन कर्तव्य इति तस्यार्थः । इदं त्वगुरोः श्रेयसः प्रत्युत्थानमासनस्थस्यैव सम्भवति ॥११ ९ ॥ हिन्दी – बड़ों ( गुरु, माता, पिता आदि पूज्यजनों ) की शय्या ( खाट, गद्दी आदि )
पृष्ठ 252
पाठ पढ़ें पाठ छिपाएँ
१७८ मनुस्मृतिः [ द्वितीय: और आसन ( चटाई, कुर्सी, चौकी आदि ) पर स्वयं न बैठे तथा स्वयं आसन पर बैठा हो तो ( गुरुजनों ) के आने पर उठकर उन्हें प्रणाम करे ॥११९ ॥
वृद्धों के प्रणाम करने में कारण-ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति । प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥ १२० ॥
भाष्य – पूर्वस्यार्थवादः । स्थविरे वृद्धवयस्यायत्यागच्छति, यूनस्तरुणस्योर्ध्वं प्राणाः जीवितहेतवोऽन्तर्मरुत ऊर्ध्वमास्याद्वहिर्निष्क्रामन्ति । अपानवृत्तिं परित्यज्य जीव-विच्छेदं चिकीर्षन्ति । प्रत्युत्थाय यदभिवादनं क्रियते तेन यथापूर्वं जीवितस्थेम्ने कल्पन्ते । प्रतिपद्यते प्रत्युज्जीवति ॥१२० ॥
हिन्दी - युवा मनुष्यों के प्राण वृद्ध लोगों के आने पर ऊपर चढ़ते हैं और अभ्युत्थान तथा प्रणाम करने से वह युवा पुरुष उन्हें पुनः प्राप्त कर लेता है ॥१२० ॥
बड़ों को प्रणाम करने का फल-अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि सम्प्रवर्धन्ते आयुर्धर्मो यशो बलम् ॥ १२१ ॥
भाष्य — सर्वानेव प्रति पूर्वाभिभाषिता यथार्हाऽभिवादनशीलता न पुनरभि-वादनशब्दोच्चारणमेव । शीलशब्देन प्रयोजनापेक्षाभाव उच्यते । नित्यं वृद्धानुपसेवते प्रियवचनादिना, यथाशक्त्या ह्युपकारेण चाराधयते । तस्य चत्वारि सम्प्रवर्धन्ते । आयुर्धर्मोऽमुत्र स्वर्गादिफलपादपः । यशोबले च प्रागुक्ते । अर्थवादोऽप्ययं फला-वगमहेतुः ॥१२१ ॥
हिन्दी - उठकर सर्वदा वृद्धजनों को प्रणाम तथा उनकी सेवा करने वाले मनुष्य की आयु, विद्या, यश और बल ये चारों बढ़ते हैं ॥१२१ ॥
अभिवादन के विधि-अभिवादात्परं विप्रो ज्यायांसमभिवादयन् ।
असौ नामाहमस्तीति स्वं नाम परिकीर्तयेत् ॥ १२२ ॥
भाष्य - येन शब्देन परः सम्बोध्यते, आशिषं प्रति प्रयोज्यते, कुशलप्रश्नं वा कार्यते, सो‘ऽभिवादः ’ । अस्मादभिवादादभिवादनप्रतिपादकाच्छब्दात्परम् अव्यव-हितपूर्वं इमं शब्दमुच्चारयेत् असौ नामाहमस्मीति । असाविति सर्वनाम सर्वविशेष-प्रतिपादकम् । अभिमुखीकरणार्थोऽयमीदृशः शब्दप्रयोगः ' मया त्वमभिवाद्यसे आशी-र्वादार्थमभिमुखीक्रियसे ' । ततोऽध्येषणामवगम्य प्रत्यभिवादमाशीर्दानादि कर्तुमारभते ।
पृष्ठ 253
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १७ ९ न च सामान्यवाचिना सर्वनाम्ना प्रयुज्यमानेनैतुदुक्तं भवतीदं नामधेयेन मयाऽभि-वाद्यसे इत्यतोऽध्येषणामनवबुध्य कस्याशिषं प्रयुङ्क्ताम् । अपि च स्वंनाम परिकीर्तये-दिति श्रुतम् । तत्रासौ देवदत्तनामाऽहमि त्युक्तेनाभिवादनं प्रतिपद्येत । “ असावित्येतस्य पदस्यानर्थक्यादर्थानवसायः ” । स्मृत्यन्तरतन्त्रेणापि व्यवहरन्ति सूत्रकारा: । यथा पाणिनिः ( पा ० सू ० २।३।२ ) कर्मणि द्वितीयेति द्वितीयादिशब्दैः । इहाप्य साविति । ' स्वं नामातिदेशेनेति ' यज्ञसूत्रे ऽपि परिभाषितम् । “ यद्येवं स्वं नामेत्यनेनैव सिद्धेऽसौ नामेत्यनर्थकम् ” । नामशब्दप्रयोगार्थम् । कथम् । ' स्वं नाम कीर्तयेदिदन्नामाहमिति । अनेन स्वरूपे-णाहमस्मीति । समानार्थत्वाद्विकल्पं मन्यन्ते । अत्र श्लोकद्वये एतावदभिवादनवाक्यस्य रूपं सिद्धम् । ‘ अभिवादये देवदत्तनामा-ऽहं भोः ' । उत्तरेण श्लोकेन भोरित्येतद्विधास्यते । जयायांसमिति वचनात्समहीनानामप्यभिवादनमस्ति, न त्वयं, , न त्वय प्रकारः विषयत्वादस्य ॥ १२२ ॥
ज्यायो हिन्दी - वृद्धजनों को प्रणाम करता हुआ अभिवादक ( " अभिवादये ” इस शब्द ) के बाद ' मैं अमुक नाम वाला हूँ ' ( “ अभिवादयेऽमुकनामाऽहं भोः " ) ऐसा कहे ॥। १२२ ॥ उक्त अभिवादन विधि के अनभिज्ञों तथा स्त्रियों की अभिवादन विधि-नामधेयस्य ये केचिदभिवादं न जानते । तान्प्राज्ञोऽहमिति ब्रूयात् स्त्रियः सर्वास्तथैव च ॥ १२३ ॥
भाष्य - वित्ताद्याधिक्येनाविदुषोऽपि यथाविध्यभिवाद्यतायां प्राप्तायां तन्निवृत्त्यर्थ-मिदम् । ये केचिदविद्वांसो नामधेयस्य संस्कृतस्योच्चारितस्याभिवादमभिवादार्थम् । अभिवादिता एतेन वयमित्यवैयाकरण न जानते – संस्कृतं नावबुध्यन्ते — तान्प्राज्ञः नारीश्चाभिवाद्याः । एते न संस्कृतमुच्यमानं प्रतिपद्यन्ते, तत्र विध्येकदेशं स्वनामग्रहणं हित्वाऽभिवादयेऽहमित्येतावदेव ब्रूयात् तदपि चेन्नावबुध्यन्ते, लौकिकेनापभ्रंशेनाऽप्य-भिवाद्या इत्येवमर्थं प्राज्ञग्रहणम् । तदीयामबोधशक्तिं ज्ञात्वोहितव्योऽभिवादप्रयोगो, नोपदेश एवादर्तव्यः । स्त्रियोऽप्येवमेव । सर्वग्रहणं गुरुपत्नीनां संस्कृतप्रयोगज्ञानामपि । क्री 1 अन्ये तु य उपनामिकया प्रसिद्धो वनमालीवर्ण इति, पितृकृतं यत्तस्य नाम तन्न प्रसिद्धम्, यत्प्रसिद्धं न तन्नामेत्यतोऽसौ स्वनाम कीर्तयेत् ।
पृष्ठ 254
पाठ पढ़ें पाठ छिपाएँ
१८० मनुस्मृतिः [ द्वितीयः अन्ये तु प्रत्यभिवादं न जानत इति वर्णन्ति । “ प्रत्यभिवादेऽशूद्रे ” ( व्या ० सू ० ८।२।८३ ) इति नामान्ते प्लुतो विहितः । तं ये न विदुस्तेष्वहमित्येव वाच्यम् । व्याकरणप्रयोजनोपन्यासप्रसङ्गेन चैतन्महाभाष्यकारेण प्रदर्शितम् । “ अविद्वांसः प्रत्यभिवादे नाम्नो ये न प्लुतिं विदुः । कामं तेषु तु विप्रोष्य स्त्रीष्वि-वायमहं वदेत् ” । स्मृत्यन्तरसामर्थ्यादेवायमभिवादशब्दः प्रत्यभिवादे वर्तत इत्याहुः । यदि चैतदेवं न व्याख्यायते तदा ‘ नाभिवाद्यः स विदुषेति ' सर्वेण सर्वमभिवादप्रतिषेध आश्रीय-माणे ‘ ऽयमहं वदेदिति ’ स्मृत्यन्तरविरोधः । अस्मिंस्त्वेवं व्याख्याते स प्रतिषेधः स्तुत्या-लम्बनो न विधायक एतदर्थानुसारितया नीयते ॥ १२३ ॥
हिन्दी – जो ( संस्कृतज्ञानहीन होने से ) पूर्वोक्त नामोच्चारण सहित अभिवादन विधि को नहीं जानते हैं, उनको तथा सब स्त्रियों को “ मैं नमस्कार करता हूँ ” ऐसा कहकर विद्वान् मनुष्य अभिवाद करे ॥१२३ ॥
अभिवादन में स्वनाम के अन्त में " भोः " शब्द का कथन-भोः शब्दं कीर्तयेदन्ते स्वस्य नाम्नोऽभिवादने । नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः ॥ १२४ ॥
भाष्य – स्वस्य नाम्नोऽन्ते भोः शब्दं कीर्तयेत् । स्वग्रहणमभिवाद्यमानप्रति-षेधार्थम् । परिशिष्टोऽर्थवादः । न च नामाक्षराणामेवान्तेऽपि तु ततः परेषाम् अहमस्मीति । एष हि तत्रेतिकरणं प्रयोगावधारणार्थम् । एवमेव प्रयोक्तव्यः । अपि च देवदत्तो भो अहमति दुःशिष्टे प्रयोगे विलम्बितायां प्रतिपत्तौ सम्मुखीभावश्चिरेण स्यात्तत्र कार्यविरोधः । व्यवहितसम्बन्धे कश्चिन्नैवावधानवान्स्यात् । स्वरूपभावः स्वरूपस्य सत्ता । अथवाऽभिवाद्यनाम्नां ' स्वरूपे ' भवति, तत्स्थाने भवत्यतस्तन्नामनिवृत्तिः । भावसाधनः कर्तृसाधनो वा भावशब्दः । स्वरूपभाव इति सप्तम्यन्तो वा पठितव्यः भावः । भो इत्येतस्य यद्भवनं यत्स्वरूपं तन्नाम्नां स्वरूपम् । यथैव नाम गृहीत्वा कस्यचित्सम्बोधनं क्रियते— ' देवदत्त श्रूयमामि ' त्येवं भोः शब्दो-ऽप्यभिमन्त्रितविभक्त्यन्तः सम्बोधनायैवं ऋषिभिः स्मर्यते ॥१२४ || हिन्दी – अभिवादन में अपने नाम के बाद “ भोः " शब्द का उच्चारण करे ( यथा - अभिवादये शुभशर्माहं भो,....... ) । ऋषियों ने ' भो ' शब्द को नामों का स्वरूप कहा है ॥ १२४ ॥
पृष्ठ 255
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १८१
प्रत्यभिवादन विधि-आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने ।
अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥ १२५ ॥
भाष्य - अभिवादने कृते प्रत्यभिवादः पित्राऽभिवादयिता एवं वाच्यः आयु-ष्मान्भव सौम्येति । इतिशब्दः प्रकारे । आयुष्मानेधि दीर्घायुर्भूयाश्चिरञ्जीवेत्येवमादि-शब्दपरिग्रहः शिष्टाचारप्रसिद्धो भवति । अकारश्चास्य प्रत्यभिवाद्यस्य यन्नाम तदन्ते योऽकारः स प्लुतः कर्तव्य: । प्लुत इति त्रिमात्रस्य संज्ञा । अकारग्रहणमिकारादीनामपि प्रदर्शनार्थम् । अजपेक्षमेव चान्तत्वं द्रष्टव्यम् । व्यञ्जनान्तस्यापि योऽन्त्यः स्वरस्तस्य भवति । पूर्वाक्षर इति प्लुतभाविनो-ऽकारस्य विशेषणमेतत् । अक्षरमत्र व्यञ्जनम् । तत्र पूर्वश्लिष्टः स एवमुच्यते । एतदुक्तं भवति — पूर्व एव नागन्तुरकारः प्लुतः कर्तव्यः, किं तर्हि य एव नाम्नि विद्यते स एव प्लावयितव्यः । सर्वं ' चैतदेवं व्याख्यानं भगवतः पाणिनेः स्मृतिसामर्थ्येन । शब्दार्थप्रयोगे च मन्वादिभ्योऽधिकतरः प्रामाण्ये भगवान्पाणिनिः । स च ' प्रत्यभिवादेऽशूद्रे ' ( पा ० सू ० ८।२।८३ ) टे: प्लुतिं स्मरति । टिशब्देन योऽन्त्योच् तदादिशब्दरूपमुच्यते । विप्रग्रहणमविवक्षितम् । क्षत्रियादीनामप्येष एव विधिः । स्मृत्यन्तरसमाचारो
ह्येवमेव स्थितः । न चैषां विध्यन्तरमस्ति । अत्रोदाहरणमायुष्मान् भव देवदत्त ३ ।
व्यञ्जनान्तस्यायुष्मानेधि सोमशर्म ३ न्॥१२५ ॥
हिन्दी --- ( गुरु आदि श्रेष्ठ जन ) अभिवादन करने पर ब्राह्मण से ' हे सौम्य! आयुष्मान् होवो ' ( आयुष्मान् भव सौम्य! ) ऐसा कहे तथा अभिवादन कर्त्ता के नाम के अन्तिम अक्षर के पूर्व वाले अकार ( आदि ) स्वर को प्लुतोच्चारण करे ( यथा - ' आयुष्मान् भव सौम्य देवदत्त ३ । ' इसी प्रकार अभिवादनकर्ता क्षत्रिय और वैश्यों से भी कहे ) ॥१२५ ॥
विमर्श - नाम के अन्त में अकार स्वर होने का नियम न होने से तद्भिन्न स्वर का भी प्लुतोच्चारण ' करना चाहिये । क्षत्रिय तथा वैश्य के नामान्तर स्वर के उक्त प्लुतोच्चारण का नियम पाक्षिक ' है । शूद्रों तथा स्त्रियों के नाम के विषय में उक्त प्लुतोच्चारण का सर्वथा निषेध ' ही है । गोविन्दराजादि के मत को ' मन्वर्थमुक्तावली ' में देखना चाहिये । १. “ वाक्यस्य टेः प्लुत उदात्तः ” । ( पा ० सू ० ८।२।८२ ) इत्यधिकृत्य “ प्रत्यभिवादे-शूद्रे ( पा ० सू ० ८।२।८२ ) इति प्लुतत्वविधानात् । २. ' प्लुतो राज्यन्यविशां वा ' इति कात्यायनवचनात् क्षत्रवैश्ययोः पाक्षिकत्वम् । ३. पूर्वोक्तसूत्रे ‘ अशूद्रे ' इति प्रतिषेधात् " स्त्रियामपि निषेधः " इति कात्यायनस्मरणाच्च । मनु I- 16
पृष्ठ 256
पाठ पढ़ें पाठ छिपाएँ
१८२ मनुस्मृतिः
विद्वान् को मूर्खाभिवादन का निषेध-यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् ।
नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥ १२६ ॥
[ द्वितीय: “ यो न वेत्ति प्रत्यभिवादनमित्येवं वाच्यमरभवादस्येत्यतिरिच्यते, न सङ्गच्छते ॥ ” नैवम् । अभवादस्यानुरूपं प्रत्यभिवादनमित्येवं योजना क्रियते । येन स्वनामो-च्चार्याभिवादनं कृतं तस्य नामान्ते प्लुतिः कर्तव्या । यस्त्वहं भो यस्त्वहं भो इत्येवमभि-वदेन्न तस्य नामोच्चारणं नापि प्लुतिरिति । नाभिवाद्य इत्यभिवादनशब्दोच्चारणप्रतिषेधः । यथाविहितमभिवादनं कर्तव्यम्, न पुनरहं भो इत्यादि, तस्य प्राग्दर्शितत्वात् । यथा शूद्र इति च दृष्टान्तेनैतदेव ज्ञायते ।
शूद्रस्यापि वृद्धवयसोऽभिवाद्यत्वं पूर्वाभिभाष्यत्वमिष्यते ।
विदुषेति पादपूरणार्थम् ॥१२६ ॥
हिन्दी – जो ब्राह्मण अभिवादन के बाद प्रत्यभिवादन ( शास्त्रसम्मत अभिवादन का आशीर्वादरूप प्रत्युत्तर ) भी नहीं जानता हो, विद्वान् ब्राह्मण उसका अभिवादन भी न करे; क्योंकि जैसा शूद्र है, वैसा ही वह ( शास्त्रसम्मत प्रत्यभिवादन विधि का अनभिज्ञ ब्राह्मण ) भी है ॥ १२६ ॥
प्रतिवर्ण से कुशल प्रश्न विधि-ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् ।
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥ १२७ ॥
भाष्य — कृताभिवादनप्रत्यभिवादनयोः सौहार्दे प्राप्ते जिज्ञासाप्रश्ने जातिभेदाश्रयः-शब्दनियमोऽयमिष्यते । प्रष्टव्यानां जातिनियमोऽयं, न प्रष्टृणाम् । नात्यन्तभिन्नार्थ-त्वाच्च एतेषां स्वरूपनियमोऽयं विधीयते 1 । आरोग्यानामयशब्दौ समानार्थौ । एवं क्षेम-कुशलशब्दावपि नात्यन्तभिन्नौ । कुशलशब्दो यद्यपि प्रावीण्यवचनस्तथापीह संयोगिना-मर्थानां शरीराणां चानपाये वर्तते । एतेऽवश्यं प्रयोक्तव्याः । अन्येषामपि यथाप्रतिनं विशेषजिज्ञासयाऽप्रतिषेधः । तथा महाभारते कस्मिश्चिदध्याये दर्शितम् । केचिदिह ‘ समागम्येति ’ लिङ्गान्न गुर्वादिविषयोऽयं प्रश्नः, किं तर्हि सवयसा-मेव । अभिगमनं हि गुरौ विहितं, न यदृष्छया समागमः । अभिगमनेऽपि समागमोऽस्तीति यत्किञ्चिदेतत् ॥ १२७ ॥
हिन्दी — मिलने वाले ब्राह्मण से कुशल, क्षत्रिय से अनामय, वैश्य से क्षेम तथा शूद्र से आरोग्य पूछे ॥ १२७ ॥
पृष्ठ 257
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता
दीक्षित के नामोच्चारण का निषेध-अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् ।
भो भवत्पूर्वकं त्वेनमभिभाषेत धर्मवित् ॥ १२८ ॥
१८३ भाष्य- - प्रत्यभिवादनकाले अन्यत्र च दीक्षितो ज्योतिष्टोमादिषु दीक्षणीयातः प्रभृत्या अवभृथान्नाम्ना न वाच्यस्तस्य यन्नामधेयं तन्नोचारयितव्यम् । यवीयान्कनीया-नचिरकालजातः । अपिशब्दात् ज्येष्ठस्यादीक्षितस्यापि नामग्रहणनिषेधोऽनुमीयते । तथा च गौतम: ( अ ०२ सू ०२३ ) “ नामगोत्रे गुरोः समानतो निर्दिशेत् ' । ' मान: ' पूजा तत्पूर्वकं नाम ग्रहीतव्यं, तत्रेश्वरो जनार्दनमिश्र इति । “ कथं तर्हि दीक्षितेन कार्यार्थं सम्भाषः कर्तव्यः? ” – भोभवत्पूर्वकम् । भोः शब्दं पूर्वं प्रयुज्यैनं दीक्षितमभिभाषेत, दीक्षितयजमानादिशब्दैयौगिकैः । न तु भोः शब्दपूर्वकं नामग्रहणमभ्यनुज्ञायते । भोभवच्छब्दः पूर्वो यस्याभिभाषणस्य तदेवमुक्ते द्वयोश्चैतयोः शब्दयोरेकत्र वाक्ये प्रयोगाभावाद् व्यवस्थां व्याचक्षते । यदा तेन सह सम्भाषणं भवति तदाऽऽमन्त्रित-विभक्त्यन्तेन भोःशब्देन सम्बोध्यः । यदा तु तदीयगुणाख्यानं परोक्षं करोति, ‘ तत्र भवता दीक्षितेनैवं कृतं, ‘ तत्र भवानेवं करोतीत्येवं प्रयोक्तव्यम् । भवदिति च प्राति-पदिकमात्रमुपात्तं, यथा विभक्त्या सम्बन्धमुपैति तदन्तं प्रयोक्तव्यम् ॥१२८ ॥
हिन्दी —– यज्ञादि में दीक्षा लिये छोटे को भी नाम लेकर नहीं पुकारे, किन्तु धर्मज्ञ पुरुष ' भो ' या ' भवत् ' ( आप ) शब्द का प्रयोग कर इस ( यज्ञादि में दीक्षित छोटे ) से भी बातचीत करे ॥ १२८ ॥
परस्त्री के नामोच्चारण का निषेध-परपत्नी तु या स्त्री स्यादसम्बद्धा च योनितः ।
तां ब्रूयाद्भवतीत्येवं सुभगे भगिनीति च ॥ १२ ९ ॥
भाष्य- — अर्थप्रयुक्तं सम्भाषणं स्त्रिया सहं यदा भवति तदैवं कर्तव्यम् । या तावत्परस्य पत्नी सा ' भवति सुभगे ' अथवा ' भवति भगिनिं ' । भवच्छब्दोऽयं स्त्रीप्रत्ययान्तः सम्बुद्धौ कृतह्रस्वः । भवतीत्यत्रेतिकरणं पदार्थविपर्यासकृतस्वरूपं बोध-यति; सुभगे भगिनीत्यत्र प्रकारे । ब्रूमादित्यधिकाराच्छब्दस्वरूपग्रहणं सिद्धम् आचार्यतायां च मातर्यशस्विनि, कनीयसी च दुहितेरायुष्मतीत्येवमादिभिः शब्दैः सन्भाष्या ।
पृष्ठ 258
पाठ पढ़ें पाठ छिपाएँ
१८४ मनुस्मृतिः [ द्वितीयः पत्नीग्रहणात्कन्याया नैष विधिः । असम्बद्धा च योनितः । मातृपक्षपितृपक्षाभ्यां या ज्ञातित्वं नागता मातुलदुहि-त्रादिः तासामन्यं विधिं वक्ष्यति ( १३२ श्लोके ) ' ज्ञातिसम्बन्धियोषित ' इति । “ ननु च तेनैव तस्मिद्धम्, अस्योत्सर्गस्यान्यत्र चरितार्थत्वात्किमसम्बद्धा चेत्यनेन ” । नात्र पौनरुक्त्योद्भावने यतितव्यं, यद्यग्रन्थोऽयम् ॥१२९ ॥
हिन्दी – जो दूसरे की स्त्री हो तथा उससे अपना किसी प्रकार का यौन सम्बन्ध न हो ( वह वहन आदि न हो ), उससे भाषण करते समय ' आप या सुन्दरि या बहन ' ( भवति!, सुन्दरि!, भगिनि! ) कहे ॥१२९ ॥
विमर्श- - उक्त शब्दों से सम्बोधित कर भाषण करे । अविवाहित कन्यादि के लिये उक्त नियम नहीं है । अतः भानजी, भतीजी आदि को ' आयुष्मति या वत्से ' आदि शब्दों से सम्बोधित कर भाषण करना चाहिए । छोटे मामा आदि के अभिवादन का निषेध-मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून् । असावहमिति ब्रूयात्प्रत्युत्थाय यवीयसः ॥ १३० ॥
भाष्य - - गुरूनिति वचननिर्देशान्न य एवात्र गुरुरुतः स एव गृह्यते । किं तर्हि गौतमीय इव सामान्यशब्दो वित्तादिज्येष्ठवचनः । तान्यवीयसो भागिनेयादेः स्ववयो-पेक्षया हीनवयसः | असावहमिति स्वं नाम निर्दिश्यते । तत्परश्चाहंशब्दोऽभ्यनु-ज्ञायते । एतच्च प्रत्युत्थायागतानां कर्तव्यम् । अभिवादने भो: शब्दप्रयोगो निषिध्यते । उक्तं च गौतमीये “ प्रत्युत्थानमनभिवाद्याः ” इति ॥१३० ॥
हिन्दी— ( आये हुए ) छोटे मामा, चाचा, श्वशुर, ऋत्विज् और गुरूओं से उठकर ' मैं अमुक नाम वाला हूँ ' ( ‘ असावहम् ' – ' असौ ' पद नामग्रहण के लिये आया है ) ऐसा कहे ॥१३० ॥
विमर्श - सम्बन्ध में श्रेष्ठ रहने पर भी वय में मामा अति छोटे हो सकते हैं, इसी प्रकार ज्ञानवृद्ध, तपोवृद्ध होने के कारण गुरु भी वय में छोटे हो सकते हैं, इसलिये ‘ गुरु ’ शब्द प्रयुक्त हुआ ।
मौसी आदि को गुरुपत्नी के समान पूज्यता-मातृष्वसा मातुलानी श्वश्रूरथ पितृष्वसा ।
सम्पूज्या गुरुपत्नीवत्समास्ता गुरुभार्यया ॥ १३१ ॥
भाष्य — एताश्च गुरुपत्नीवत्सम्पूज्याः प्रत्युत्थानाभिवादनासनदानादिभिः ।
पृष्ठ 259
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १८५ गुरुपत्नीवत् इत्यनेनैव सिद्धे समास्ता इति वचनमन्यदप्याज्ञादि गुरुपत्नीकार्यं कदाचिदनुजानाति । इतरथा प्रकरणात्सम्पूज्या इत्यभिवादनविषयमेव स्यात् । परिवयसश्च
स्त्रियः स्मर्यन्ते । कनीयसीनामप्येष एवाभिवादनविधिः ॥१३१ ॥
हिन्दी – मौसी, मामी, सास और फूआ ( बुआ - पिता की बहन ) गुरु- स्त्री के समान ( अभिवादनादि से ) पूजनीय हैं; वे सभी गुरु- स्त्री जैसी हैं ॥ १३१ ॥
भौजाई आदि की अभिवादन विधि-भ्रातुर्भार्योपसङ्गाह्या सवर्णाऽहन्यहन्यपि ।
विप्रोष्य तूपसङ्गाह्या ज्ञातिसम्बन्धियोषितः ॥ १३२ ॥
भाष्य- - भ्रातुर्ज्येष्ठस्येति द्रष्टव्यम् । उपसङ्ग्राह्या पादयोरभिवाद्या । सवर्णा समानजातीया । क्षत्रियादिस्त्रीणां तु ज्ञातिसम्बन्धिधर्मो भ्रातुर्भार्याणामपि । विप्रोष्य ज्ञातिसम्बन्धियोषितः । ' विप्रोष्य ' प्रवासात्प्रत्यागतेन । न हि श्वषित-स्योपसङ्ग्रहणसम्भवः । ज्ञातयः पितृपक्षाः पितृव्यादयः, सम्बन्धिनो मातृपक्षाः पूशु-रादयश्च, तेषां ज्येष्ठानां याः स्त्रियः । पूजारूपत्वादुपसङ्ग्रहणस्य, न कनीयस्यः जामर्हन्ति ॥ १३२ ॥
हिन्दी - अपने बड़े भाई की स्त्री का प्रतिदिन चरणस्पर्शकर अभिवादन करना चाहिये और जाति वालों ( पिता के पक्ष वाले चाचा आदि ) तथा सम्बन्धियों ( माता के पक्षवाले मामा आदि तथा श्वशुर आदि ) की स्त्रियों का परदेश से आकर ( या प्रवास से वे आवें तब ) अभिवादन करना चाहिए ॥ १३२ ॥
मौसी आदि की पूज्यता तथा माता की पूज्यतमता-पितुर्भगिन्यां मातुश्च ज्यायस्यां च स्वसर्यपि । तातृववृत्तिमातिष्ठेन्माता ताभ्यो गरीयसी ॥ १३३ ॥
भाष्य – पितुश्च या भगिनी मातुश्च या भगिनी तस्यां स्वसरि चात्मीयायां ज्येष्ठायां भगिन्यां मातृवद्वृत्तिरतिदिश्यते । “ ननु च मातृष्वसुः पितृष्वसुश्चायमुक्त ( श्लो ० १३१ ) एव धर्मो मातृष्वसा ' मातु-लानी ’ इत्यत्र । अथोच्यते । ' तत्र गुरुपत्नीवादित्युक्तम् । इह तु मातृवद्वृत्तिरित्युच्यत इति । ' नैष भेदः । तुल्या हि गुरुपत्न्यां मातरि च वृत्ति: । ” केचिदाहुः माता ताभ्यो गरीयसीत्येतद्वक्तुमनूद्यते भगिन्योः पितुर्मातुश्च गरीय-स्त्वम् । यदा माताऽऽज्ञां ददाति स्वस्रादयश्च तदा मातुराज्ञा क्रियते न तासाम् । न चैतद्वाच्यमेतदपि सिद्धं " माता गौरवेणातिरिच्यत ” इति । अर्थवादत्वात्तस्य ।
पृष्ठ 260
पाठ पढ़ें पाठ छिपाएँ
१८६ मनुस्मृतिः [ द्वितीय: अन्ये तु गुरुपत्न्या मातुश्च वृत्तिभेदं मन्यन्ते । गुरुपत्न्याः पूजाज्ञाद्यावश्यकम् । मातुस्तु शैशवाद्वाल्लभ्येनान्यथात्वमपि । लालनात्तत्रोभयापदेशान्तातृष्वसुः पितृष्वसुश्च व्यवस्था । शैशवे लालनं तुल्यमेव स्वस्यां स्वसरि । अतीतशैशवस्य तु गुरुपत्नीवत्-संपूज्यत्वमिति । न चानेनैवैतत्सिध्यति । असति हि वाक्यद्वये मातृवद्वृत्तिरित्येतावता प्राकरणिकी अभिवादननिर्वृतिरेव विज्ञायेत ॥ १३३ ॥
अथ पुनः स्नेहवृत्तिरतिशिश्यते । हिन्दी — मौसी, फूआ तथा बड़ी बहन में माता के समान बर्ताव करे, किन्तु माता उनसे श्रेष्ठ है ॥१३३ ॥
विमर्श - “ मातृष्वसा. " " ( श्लो ० १३१ ) से ही मौसी आदि की गुरुस्त्री के तुल्य पूज्यता कहने से यहाँ पुनरुक्ति होने की आशङ्का नहीं करनी चाहिये; क्योंकि मौसी आदि की अपेक्षा माता की अधिक श्रेष्ठता बतलाने के लिए या माता मौसी आदि के द्वारा आज्ञा पाने पर प्रथम माता की आज्ञा का पालन करने के लिये अथवा मौसी आदि की पूज्यता ( श्लो ० १३१ ) से कहकर यहाँ स्नेहादि वृत्तिका अतिदेश करने के लिये इस
श्लोक का कथन समझना चाहिये ।
नागरिक आदि के साथ मैत्रीकाल का वर्णन-दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् । व्यब्दपूर्वं श्रोत्रियाणां स्पल्पेनापि स्वयोनिषु ॥ १३४ ॥
भाष्य – उक्तं पूर्वं “ प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयतीति ” । तत्र कियद्भि-वर्षैः स्थाविर्यं भवति । लोके हि शिरः पालित्ये स्थविरव्यवहारः तन्निरूपणार्थमिदम् । दशभिर्वर्षैर्जन्मनोऽधिकैरपि पौराणां संख्यमाख्यायते । तेन दशवर्षाधिको ज्येष्ठो भवति, अपि तु मित्रवद्व्यवहर्तव्यः । यथोक्तं ' भो भवन्निति वयस्य ' इति । दशभ्यो वर्षेभ्य ऊर्ध्वं ज्येष्ठः । आख्यानमाख्या । दशाब्दा आख्या यस्य सख्यस्य । त्रिपदो बहुव्रीहिः । आख्या-निमित्तत्वाद्वर्षाणां सामानाधिकरण्यं, निमित्तनिमित्तिनोर्भेदस्याविवक्षितत्वात् । एवावांश्च समासान्तर्भूतोऽर्थः - ‘ यः पूर्वजो दशवर्षाणि यावत्स सखैव भवति ' । पुरे भवा: ‘ पौराः ’ तेषाम् । पुरग्रहणं प्रदर्शनार्थं, ग्रामवासिनामपि एष एव न्याय: । ये केचिदेकस्मिन् ग्रामे वसन्ति तावत् यस्मिन् परस्परप्रत्यासत्तिहेतुर्विद्यते ते सखायः | ये तु कलां काञ्चन बिभ्रति शिल्पगीतवाद्यादिकां, तेषां पञ्चवर्षाणि योऽधिकः स सखा; तत ऊर्ध्वं ज्येष्ठः । त्रयोऽब्दाः पूर्वे यस्य तच्छोत्रियाणां सख्यम् ।