मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 261–270
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 261–270
पृष्ठ 261
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १८७ अल्पेनापि कालेन स्वयोनिषु एकवंश्येषु कतिचिदहानि योऽधिकः स ज्येष्ठः । “ कियान्पुनः स्वल्पकालः । ” न तावत् त्र्यब्दः । त्र्यब्दपूर्वमिति निर्दिश्याल्पेनेत्युच्यमानस्ततो न्यूनः प्रतीयते । एकवचननिर्देशाच्च न वर्षद्वयम् । नाप्येकोऽब्दः, स्वल्पेनेति विशेषणानुपपत्तेः । परिच्छिन्न-परिमाणो ह्यब्दवाच्योऽर्थः तस्याहोरात्रमात्रेण न्यूनस्य नाब्दत्वमस्ति । तस्मादल्पेनेति कालसामान्यमपेक्षते । संवत्सरादवरश्च तस्य विशेषः । अपिशब्दश्चैवशब्दस्यार्थे द्रष्टव्यः । अल्पेनैव कालेन सख्यं, बहुना तु ज्येष्ठत्वमेव । एतच्च समानगुणानां समानजातीयानां च द्रष्टव्यम् । एतेन लौकिकं स्थविर-लक्षणं निवर्तितमापेक्षिकमाश्रितम् । अन्ये तु व्याचक्षते । नानेन स्थविरत्वं लक्ष्यते, किं तर्हि सखित्वमेव । यथाश्रुत-त्यागेन स्थविरलक्षणं स्यात्, ' इयता कालेन सखा परतस्तु ज्येष्ठ इति ' । अयं च
श्लोकार्थः । एकत्र पुरे वसन्ति दशवर्षाणि यावत्तानि मित्राणि । कलाश्चतुःषष्टिस्तद्विदां
सङ्गत्या पञ्चभिर्वर्षैः । स्वयोनिषु स्वल्पेनापि च कालेन सह वसतां मित्रत्वमेव । अतश्च न सर्वो वयसा तुल्यो वयस्यः; किं तर्हि एतदेव । समानवयस्त्वे चैतल्लक्षणम् । युक्तमेतत् । किन्तूत्तरश्लोको विरुध्यते । तत्र हि जाते: प्राधान्यं, न वयसः । यदि चात्रेयता कालेन ज्यैष्ठ्यमुक्तं भवति तदा विजातीयानामप्याशङ्कयामानं न निवर्त्यत इति युक्तम् । पूर्वे च व्याख्यातार आद्यमेव व्याख्यानं मन्यन्ते ॥१३४ ॥
हिन्दी - अपने नागरिकों या ग्रामवासियों के साथ दश वर्ष, गीत, चित्र आदि के कलाविदों के साथ पाँच वर्ष, श्रोत्रियों ( वैदिकों ) के साथ तीन वर्ष सख्यभाव समझना चाहिये ( उक्त काल तक बड़ाई - छोटाई का व्यवहार नहीं रखना चाहिये; किन्तु समान मित्रवत् व्यवहार रखना चाहिये और उक्त समय के बाद बड़े - छोटे का व्यवहार रखना चाहिये ) और अपने कुलवालों के साथ थोड़े समय का अन्तर रहने पर भी बड़ाई - छोटाई का व्यवहार रखना चाहिए ॥ १३४ ॥
सौ वर्ष के क्षत्रिय द्वारा दशवर्षीय ब्राह्मण की पूज्यता-ब्राह्मणं दशवर्षं तु शतवर्षं तु भूमिपम् । पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता ॥ १३५ ॥
भाष्य- दशवर्षाणि जातस्य यस्य स भवति ' दशवर्ष:, परिच्छेदकः कालः, तस्य परिच्छेद्यो ब्राह्मणः श्रुतः । न च तस्योच्चनीचतादि कार्श्यादि वा कालेन परिमातुं शक्यम्, किं तर्हि तदीया काचित्क्रिया । सा च जन्मनः प्रभृति नित्यसमवायिनी प्राणधारणलक्षणैव ।
पृष्ठ 262
पाठ पढ़ें पाठ छिपाएँ
१८८ ब्राह्मण: मनुस्मृतिः एवं शतवर्षमिति । पितापुत्रौ तौ द्रष्टव्यौ । [ द्वितीयः तयोः सम्प्रधार्यमाणयोर्ब्राह्मणः पिता । चिरवृद्धेनापि क्षत्रियेण स्वल्पवर्षोऽपि प्रत्युत्थायाभिवाद्यश्चेति प्रकरणार्थः ॥१३५ ॥
हिन्दी - दश वर्ष के ब्राह्मण और सौ वर्ष के क्षत्रिय को ( परस्पर में ) पिता - पुत्र समझना चाहिए, उनमें ब्राह्मण क्षत्रिय का पिता ( पिता के समान पूज्य ) होता है || १३५ ॥
उक्त वचन का अपवाद-वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।
एतानि मानस्थानानि गरीयो यद्यदुत्तरम् ॥ १३६ ॥
भाष्य — उक्तं जातेरुत्कर्षहेतुत्वम् । हीनजातीयेनोत्तमजातीयः पूज्यः । इदानीं समान-जातीयानां य अभिवादनादिपूजाहेतवस्तेषां बलाबलमुच्यते । तत्र वसयः पुनरभिधानं बलाबलार्थम् । वित्तादिसम्बन्धोऽत्र सर्वत्र पूजाहेतुः । वित्तवत्त्वं बन्धुमत्त्वं मानस्थानमिति । अय-मत्रार्थः । न विशिष्टबन्धुतैव पितृव्यमातुलादिरूपता मानकारणं, बन्धुमान्यो बहुबन्धुः स पूज्यः । वयः प्रकृष्टमिति ज्ञेयम् । ईदृश एव चार्थे प्रायेणायं प्रयुज्यते । “ पित्रा पुत्रो वय: -स्थोऽपि सततं वाच्य एव सः " इति । यावच्च वयः पूजाहेतुः तदुक्तमेव ' दशाब्दा-ख्यमिति । ' कर्म श्रौतं स्मार्तं तदनुष्ठानपरता । विद्या साङ्गसोपकरणवेदार्थज्ञानम् । " ननु विद्वान्यजते विद्वान्याजतीत्यविद्यस्य कर्मानुष्ठानानधिकाराद्विद्यया विना कथं कर्मणां मानहेतुता? ” नैष दोषः । प्रकर्षोऽत्राभिप्रेतः । अतिशयवती विद्या मानहेतुः । स्वल्पविद्यस्याप्य-नुष्ठानोपपत्तिः । यो यावज्जानाति स तावत्यधिक्रियते । न विद्याया वाचनिकमधिकारहेतु-त्वमपि तु सामर्थ्यलक्षणम् । “ अविदितकर्मस्वरूपो ह्यवैद्यस्तिर्यक्कर्मा क्वाधिक्रियताम्? ” शक्यं ह्यनेन कतिचित्स्मृतिवाच्यान्युपश्रुत्य जपतपस्यनुष्ठातुम् । अग्निहोत्रादिकर्मणां तु वेदवाक्यावबोध उपकरोति । तत्रापि यो यावज्जानाति स तावत्यधिक्रियते । अग्नि-होत्रवाक्यानां योऽर्थं वेत्ति स तत्राधिक्रियते । क्रत्वन्तरज्ञानं न तत्रोपकारकम् । अथोच्यते— “ ‘ वेदः कृत्स्नोऽधिगन्तव्यः ' इति कृत्स्नवेदविषयोऽयं विधिरव-बोधपर्यन्तः । तत्र कृत्स्नस्य वेदस्यावबोधे कर्तव्ये कुतोऽयं प्रतिभागावबोधसम्भवः ।
पृष्ठ 263
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १८ ९ येनोच्यते - ‘ याऽग्निहोत्रवाच्यस्यार्थं वेत्ति वाक्यान्तरार्थमविद्वानप्यधिक्रियत ' इति ॥ ” अत्रोच्यते । एकशाखाध्ययनं तावदवश्यं कर्तव्यम् । तत्र येनैकशाखाऽधीता तस्या-श्चार्थोऽवधृतः सोऽनवधृतशाखान्तरार्थोऽधिक्रियते । “ ननु च सर्वत्रैक एव शास्त्रार्थः । यदि नाम पदवर्णानुपूर्वीभेदः, शास्त्ररूपं त्वभिन्नम् । पदार्थन्यायव्युत्पत्त्या वाऽवबोधः । न च प्रतिशाखं पदार्था भिद्यन्ते । नाऽपि न्यायः । तत्र येनैव हेतुनैकस्याः शाखाया अर्थोऽवधार्यते शाखान्तरेऽप्यसावस्ति, न व्युत्पत्त्यन्तरमपेक्ष्यते । तत्र यद्येका शाखाऽवगता, सर्वा एवावगता भवन्ति ॥ ” सत्यम् । यान्येकस्यामग्निहोत्रादीन्युपदिष्टानि तेषां शाखान्तरेऽप्युपदिश्यमानानां मा भूद् भेदः; किन्तु कस्याञ्चिच्छाखायां कानिचित्कर्माणि नैवोपदिश्यन्ते । यथा बाह्वृचे आश्वलायनके दर्शपूर्णमासौ श्येनादिराभिचारिकः, अन्ये च सोमयागवाजपेयबृहस्पति-सवादयः । तत्र यत्तच्छाखाधीनमग्निहोत्रज्योतिष्टोमादि तत्राधिक्रियते । शाखान्तरं त्वनधीतमश्रुतं कथं तद्विहितानि कर्माण्यतच्छाखाध्यायी वेत्तु । न चैते सोमयागा नित्या, येनाननुष्ठानप्रत्यवायभयात्परिज्ञानाय शाखान्तरमन्विष्येत । आवानं तु यद्यपि तत्र न पठितं तत्रा — प्युद्धराहवनीयमित्याहवनीयस्य विधानम् । लोकात्तदर्थमनवबुध्यमानः कोऽयमाहवनीयो यस्याधानमिति शाखान्तरमन्विष्यति । ततः शाखान्तरे पठ्यमानमाधीन-प्रकरणं सर्वं पर्यालोचयति । एवमामावास्येन वा हविषेष्ट्वा पौर्णमासेन वेति श्रुत्वा कीदृशमनयोः कर्मणो रूपमिति तथैव शाखान्तरं गवेषयते । एवमन्यदपि यत्काम्यं नित्यं चानुष्ठेयं तस्य यत्किञ्चिदङ्गजातं तत्र नाम्नातमाध्वर्यवमौद्गात्रं वा तत्परिज्ञाय तथैव शाखान्तराधिगमः । यत्तु शाखान्तराधीतमनुष्ठेय तस्य न वेदनसम्भवः । अनेकशाखा-ध्यायिनस्तु तदर्थपरस्य सर्वमेतत्प्रत्यक्षमिति । अस्तीदृशीं विद्यामन्तरेणापि कर्मानुष्ठानम् । अथवा ईषद्व्युत्पत्त्याऽपि सम्भवत्यनुष्ठानम् । यस्य तु निर्मला विद्या, व्याख्येयानि विद्यास्थानानि, तस्य विद्या मान्यतास्थानम् । ‘ गरीय ’ इति द्वयोर्द्वयोः सम्प्रधारणेऽयमियसुन्प्रत्ययः । चतुर्दशविद्यास्थानज्ञः पङ्ग्वन्ध-निर्धनादिरनधिकृतोऽपि विद्ययैव पूज्यते । तेषां विरोधे बलाबलमाह- - गरीयोयद्यदुत्तरम् । एकस्य वित्तमन्यस्य बहुबन्धुता, तंत्र वित्तवतो बन्धुमान्मान्यः । यस्माच्च यत्पर तत्तस्माद् गुरुतरम् । तथा बन्धोर्वयः ततः पूर्वस्मादपि वित्तात्तद्गुरु सिद्धम् । अत उपपन्नम् " श्रुतं तु सर्वेभ्यो गरीयस्तन्मूल-त्वाद्धर्मस्येति ” गौतमवचनम् ( अ ०६ सू ० १ ९ ।२० ) । “ गरीय इति कथं प्रकर्षप्रत्ययो यावता नैव पूर्वस्य गुरुत्वम् । यदि हि द्वे गुरुणी तत्रोत्तरस्य गरीयस्त्वमस्ति । तर्हि पूर्वापेक्षया वित्तस्य नास्तीति ” चेत् ।
पृष्ठ 264
पाठ पढ़ें पाठ छिपाएँ
१ ९ ० मनुस्मृतिः [ द्वितीयः समुदाये सामान्येन गुरुत्वेऽपेक्षिते अपरस्य प्रकर्षविवक्षायां युज्यत ईयसुन् । मानः पूजा तस्य स्थानं कारणम् । ‘ मान्यस्थानानीति ’ वा पाठेऽन्तर्भूतभावार्थो द्रष्टव्यः, ' मान्यत्वस्थानानि ' मान्यत्व-कारणानि ॥१३६ ॥।
एकैकगुणसम्बन्धे परस्य ज्यायस्त्वमुक्तम् । यत्रेदानीं द्वौ पूर्वावेकस्य भवतोऽपर-स्यैक पर इति तत्र कथमित्यत आह । हिन्दी – तीनों वर्णों ( ब्राह्मण, क्षत्रिय और वैश्य ) में ( श्लो ० १३६ ) से पूर्वोक्त पाँच मान्य स्थानों में से आगे वाले की अपेक्षा पहले वाला यदि अधिक हो तो आने वाले द्वारा पहले वाला ही मान्य है तथा नब्बे वर्ष से अधिक आयुवाला शूद्र ब्राह्मणादि तीनों वर्णों का मान्य है ॥ १३६ ॥
विमर्श - धन और बन्धुरूप प्रथम दो गुणों से युक्त पुरुष वय में अधिक पुरुष का मान्य होता है; धन, बन्धु तथा अवस्था इन तीन गुणों से युक्त पुरुष श्रुति - स्मृति-प्रतिपादित कर्म से युक्त पुरुष का मान्य होता है; इसी प्रकार धन, बन्धु, आयु और श्रुतिस्मृति प्रतिपादित कर्म से युक्त पुरुष विद्यारूप पाँचवें गुण से युक्त पुरुष का मान्य है अर्थात् विद्या आदि गुण से युक्त पुरुषों में से अधिक गुणवाला पुरुष थोड़े गुणवाले पुरुष का मान्य है ।
धन, बन्धु आदि की उत्तरोत्तर मान्यता-पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च ।
यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः ॥ १३७ ॥
भाष्य- -पञ्चानामेतेषां मानस्थानानां यत्र भूयांसि बहून्यसर्वाणि स मान्य: । तत्र भरत्वन्नातीवादर्तव्यम् । एकस्य वित्तबन्धु द्वे अन्यो वृद्धवयाः तत्र पूर्वे बाधके I । सत्यपि बहुत्वे यदि न श्रेष्ठानि भवन्ति, एकं चैकस्यात्युत्कृष्टं, तदा साम्यम् । न पुनः पर-बाधकत्वम् । गरीय एकापेक्षया वरिष्ठत्वात् । यदि तु भूयांसि गुणवन्त्युत्कृष्टानि तदा साम्येऽपि संख्या परेषां, पूर्वाणि परैश्च समसङ्ख्यानि, तदा न पूर्वपरतया बाध्यबाधक-भावः, किं तर्हि सामान्यमेव । “ ननु च यत्र गुणवन्ति स्युः सोऽत्र मानार्ह इत्यभिधानेन समसङ्ख्यस्यापि पूर्वस्य बाधकत्वमेव युक्तम् ” । नैवम् । तुल्यत्वे गुणानामेतस्य चरितार्थत्वात् । यथैकोऽपि विद्यावानपरोऽपि, तयोर्यस्य गुणवती प्रकृष्टा विद्या स प्रशस्यते । एवं सर्वत्र । त्रिषु वर्णेषु ब्राह्मणक्षत्रियवैश्येषु । यद्येते गुणा भूयांसः प्रकृष्टाश्च क्षत्रियस्यापि
पृष्ठ 265
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १ ९ १ भवन्ति तदा हीनगुणेन ब्राह्मणेन जात्युत्कृष्टेनापि क्षत्रियः पूज्यः । एवं क्षत्रियेण वैश्यः । एवं त्रिभिरपि द्विजातिभिः शुद्रोऽपि दशमीमित: । ' दशमी ' अन्त्यावस्थोच्यते । अत्यन्त-वार्धकोपलक्षणमेतत् एवं च वित्तबन्धू शूद्रस्या माने न हेतू त्रैवर्णिकान्प्रति, दशमी ग्रहणात् । कर्मविद्ये तु नैव तस्य सम्भवतोऽनधिकारात् । भूयांसीत्याधिक्यमात्रं विवक्षितं न बहुत्वसङ्ख्यैव । तेन द्विविषयताऽपि सिद्धा भवति । न ह्ययं सङ्ख्यावाच्येव बहुशब्द इत्यत्र प्रमाणमस्ति । भूयः शब्दश्चायं न बहुशब्द आधिक्ये च तत्र तत्र दृष्टप्रयोगः । “ भूयाश्चात्र परिहारः ” “ भूयसाऽभ्युदयेन योक्ष्य ” इति । प्रत्ययार्थबहुत्वमपि न विवक्षितम् । “ जात्याख्यायाम् ” ह्येतद्बहुवचनम् । विवक्षायां हि एकस्य गुणतो मानहेतुत्वं न स्यात् । ततश्च पूर्वाऽवगतिर्बाध्येत । ‘ शूद्रोऽपि दशमी’-मित्यत्र च केवलस्यैव वयसः प्रकर्षे मानहेतुत्वं ब्रुवन्नविवक्षां दर्शयति । समा-चारश्चैवमेव ॥१३७ ॥
हिन्दी – न्यायोपार्जित धन, चाचा आदि बन्धु, अवस्था ( उम्र ), श्रुति और स्मृति में कथित कर्म तथा विद्या, ये पाँच मान्यता के स्थान ( पद ) हैं । ये क्रमशः उत्तरोत्तर ( पूर्व की अपेक्षा पर अर्थात् धन से बन्धु, बन्धु से वय, वय से कर्म और कर्म से विद्या ) श्रेष्ठ है ॥१३७ ॥
रथी आदि के लिये मार्ग देना-चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः ।
स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च ॥ १३८ ॥
भाष्य - अयमन्यः पूजाप्रकार: प्रासङ्गिक उच्यते । चक्री रथिको गन्त्रयादियानाधिरूढः । तस्य पन्थादेयः । येन भूमिभागेन ग्रामादि देशान्तरं गम्यते स पद्धति: ' पन्था ' उच्यते । तत्र यदि पृष्ठतः सम्मुखतो वा रथिक आगच्छेत्तदा तद्गमनोपरोधिनः पथाग्रदेशात्पदातिरक्रामेत् । दशमीस्थोऽत्यन्तपरिणतवयाः । रोगी व्याधिनाऽत्यन्तपीडितः । भारी गृहीतव्रीह्यादिगुरु द्रव्यः । सोऽपि यथोपसर्तुमशक्तोऽनुग्राह्यः । स्त्रियाः । अनपेक्ष्य जातिगुणभर्तृसम्बन्धान्स्त्रीत्वमात्रेणैव । राजा च विषयेश्वरोऽत्राभिप्रेतः, न क्षत्रिय एव । तथा चोत्तरत्र पार्थिवग्रहणन निगमने, पृथिव्या ईश्वरः पार्थिव: । " ननु चोपक्रमे राजशब्दश्रवणाद्वाक्यान्तरगतः पार्थिवशब्दस्तत्पर एव युक्तः ।
पृष्ठ 266
पाठ पढ़ें पाठ छिपाएँ
१ ९ २ मनुस्मृति: [ द्वितीय: राजशब्दो हि क्षत्रियजातिवचनो विज्ञातः । स तावदनुपजातविरोधित्वादुपक्रमगतो मुख्यार्थो ग्राह्याः । बलाबलादिवाक्ये तु तत्सापेक्षक्षत्रियजातिविहितेन धर्मेण पृथिवी-पालनाख्येन पार्थिवशब्दस्य प्रयोगसम्भवेन जात्यन्तरविषयत्वमयुक्तम् ” । अत्रोच्यते । मान्यताऽनश्रुता । स्नातको नृपमानभागीति । तत्र क्षत्रियजातीय-मात्रान्मान्यत्वं स्नातकस्य सिद्धमेव, ' ब्राह्मणं दशवर्षमिति ' । तत्र हि ' भूमिप ' शब्द: क्षत्रियजातिमात्रोपलक्षणार्थ ` इत्युक्तम् । उपलक्षणत्वाच्च राजजातेः क्षत्रियस्यापि प्रजेश्वर-स्यायं धर्मो विज्ञायते । वरो विवाहाय प्रवृत्त: । एतेषां पन्था देयः । त्यागमात्रं च ददात्यर्थः । त्यागश्च पथोऽपसरणम् । अतएव चतुर्थी न कृता ॥ १३८ ॥
हिन्दी — रथ ( गाड़ी, एक्का, ताङ्गा, बग्गी आदि ) पर बैठे हुए, नव्वे वर्ष से अधिक आयुवाले, रोगी, बोझ लिए हुए, स्त्री, स्नातक, राजा, वर ( दुलहा ) को मार्ग देना चाहिये ॥१३८ ॥
तेषां
सबको स्नातक के लिये मार्ग देना-तु समवेतानां मान्यौ स्नातकपार्थिव ।
राजस्नातकयोश्चैव स्नातको नृपमानभाक् ॥ १३ ९ ॥
तेषां तु समवेतानामेकत्र सन्निपतितानां मान्यौ स्नातकपार्थिवौ प्रकृतेन पथो दानेन । नृपमानभाक् नृपस्य सकाशान्मानं भजते लभते ।
षष्ठी निर्धारणे ( व्या ० सू ० २।३।४१ ) ।
चक्र्यादीनां त्वन्योन्यं विकल्पः । स च शक्त्यपेक्षः ॥१३९ ॥
हिन्दी – पूर्वोक्त ( श्लो ० १२८ से ) रथी आदि पुरुषों के स्नातक तथा राजा मान्य हैं ( रथी आदि को स्नातक तथा राजा के लिए मार्ग देना चाहिये ) और स्नातक तथा राजा में से राजा को स्नातक मान्य है ( राजा को स्नातक के लिए मार्ग देना चाहिए ) ॥१३९ ॥
आचार्य का लक्षण-उपनीय तु यः शिष्यं वेदमध्यापयेद्विजः ।
सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ॥ १४० ॥
आचार्यादिशब्दानामेवार्थनिरूपणार्थमिदमारभ्यते । सोपचारो हि लोके एषां प्रयोगः । न च शब्दार्थसम्बन्धस्य स्मर्तृभिराचार्य्यपाणिनिप्रभृतिभिरेतन्निरूपितम् । इयं चाचार्य-पदार्थस्मृतिर्व्यवहारमूला, न वेदमूला, पाणिन्यादिस्मृतिवत् । न ह्यत्र किञ्चित् कर्तव्य-मुपदिश्यते । अस्य शब्दस्यायमर्थ इति सिद्धरूपोऽयमर्थः, न साध्यरूपः ।
पृष्ठ 267
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १ ९ ३ उपनीयोपनयनं कृत्वा यो वदेमध्यापयति ग्राहयति स आचार्यः । ग्रहणं चात्रा-ध्येत्रन्तरनिरपेक्षं वाक्यानुपूर्वीस्मरणम् । कल्पशब्दः सर्वाङ्गप्रदर्शनार्थः । रहस्यमुपनिषदः । यद्यपि तेऽपि वेदशब्देनैव गृहीतास्तथापि “ द्वितीयस्तेषां व्यप-देशोऽस्ति, वेदान्ता इत्यन्तशब्दं समीपवचनं मान्यमानो नैते वेदा इति मन्येत ” तदाशङ्कानिवृत्त्यर्थं रहस्यग्रहणम् । तु अन्ये तु ‘ रहस्यं ' वेदार्थं वर्णयन्ति । तेन न स्वरूपग्रहणमात्रादाचार्यत्वनिष्पत्ति:, अपि तु तद्व्याख्यानसहितात् । तथा चाभिधानकोशेऽभिहितम् “ विवृणोति च मन्त्रार्था-नाचार्यः सोऽभिधीयते ” इति । मन्त्रग्रहणं वेदवाक्योपलक्षणार्थम् अस्मिंश्च व्याख्यानेऽर्थावबोधोऽप्याचार्यकरणविधिप्रयुक्तः स्यान्न केवलं सम्पाठमात्रम् । ततश्च सर्वस्य सर्वः स्वाध्यायविधेरनुष्ठापकः स्यात् । " अस्तु परप्रयुक्तेऽप्यनुष्ठाने स्वाध्यायविधेर्ब्रह्मचारिणः स्वार्थसिद्धिः " । यदा तर्हि काम्यत्वादाचार्यकस्णविधेराचार्यो न प्रवर्तते, तदा स्वाध्यायविध्यर्थानुष्ठाने न प्राप्नोति । ततश्च न नित्यः स्वाध्यायविधिः स्यात् । न च रहस्यशब्दो वेदार्थवचनतया प्रसिद्धः । तस्मात्पूर्वमेव रहस्यग्रहणस्य प्रयोजनम् | प्राधान्याद्वा पृथगुपादानम् । यत्तु ' विवृणोति च मन्त्रार्थान् ' इत्यस्मृतिरेवैषा । मन्त्रशब्दस्योपलक्षणत्वे प्रमाणाभावात् । तस्मात्पाठाभिप्रायमस्य विधेः प्रयोजकत्वम् । अतो वेदस्वरूपग्रहणे माणवकस्य जाते आचार्यकरणविधिनिर्वृत्तिः ॥१४० ॥
हिन्दी – जो ब्राह्मण, शिष्य का यज्ञोपवीत संस्कार कर उसे कल्प ( यज्ञविद्या ) तथा रहस्यों ( उपनिषदों के सहित वेदशाखा ) को पढ़ावे, उसे " आचार्य ” कहते हैं ॥१४० ॥
उपाध्याय का लक्षण-एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः ।
योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥ १४१ ॥
भाष्य - वैदस्यैकदेशो मन्त्रः ब्राह्मणं वा । वेदवर्जितानि वा केवलान्यङ्गान्येव योऽध्यापयतिः तथा सर्वमपि वेदम् । वृत्त्यर्थं जीविकार्थम्, नाचार्यकरणविधिवशेन, स उपाध्यायो नाचार्यः । अन्येनोपनीतं यः कृत्स्नमपि वेदमध्यापयति नासावाचार्यः । उपनीयापि यः कृत्स्नं वेदं नाध्यापयति सोऽपि नाचार्यः । “ यद्येवमेकदेशग्रहणमुपाध्यायलक्षणे कृतमाचार्यलक्षणे उपनयनग्रहणम्, यस्तर्ह्यनु-पनेता कृत्स्नवेदाध्यापकश्च, तस्य किं लक्षणम् । नासावाचार्यो नाप्युपाध्यायः । न चापि नामान्तरं तस्य श्रुतम् ” ।
पृष्ठ 268
पाठ पढ़ें पाठ छिपाएँ
१ ९ ४ मनुस्मृतिः [ द्वितीयः उच्यते । ‘ अल्पं वा बहु वा यस्य श्रुतस्ये ' त्यनेन गुरुरसावाचार्यान्यून उपाध्यायाद-प्यधिकः । अपि पुनः शब्दौ पादपूरणार्थी || १४१ ॥ हिन्दी – जो ब्राह्मण वेद के एकदेश ( मन्त्र तथा ब्राह्मण भाग ) को तथा वेदाङ्गों ( शिक्षा, कल्प, व्याकरण, निरुक्त, ज्योतिष और छन्द: शास्त्र ) को जीविका के लिए पढ़ाता है; उसे “ उपाध्याय ' कहते हैं ॥ १४१ ॥
गुरु ( पिता ) का लक्षण-निषेकादीनि कर्माणि यः करोति यथाविधि ।
सम्भावयति चान्नेन स विप्रो गुरुरुच्यते ॥ १४२ ॥
भाष्य — निषेकग्रहणात्पितुरयं गुरुत्वोपदेशः । निषेको रेतःसेकः स आदिर्येषां कर्मणाम् । आदिग्रहणात्सर्वे संस्कारा गृह्यन्ते । तानि यः करोत्यन्नेन च यः सम्भावयति संवर्धयति । चैवैनमिति वा पाठः । अर्थस्तु स एव, अन्नेनैव सम्भावनोपपत्तेः । अर्थान्तरनिर्देशः ‘ एनं ’ कुमारम् । “ ननु चान्वादेशः । न चेह कुमारस्य पूर्वमुपदेशः ” । नैवम् । कस्यान्यस्य निषेकादीनि क्रियन्ते । सामर्थ्यादपि निर्देशो न निर्देशत एव । तानि यः करोति । एवमाभ्यां गुणभ्यां हीनः केवलजनकत्वे पितैव भवति न गुरुः । न चैवंमन्तव्यमसति गुरुत्वे नासौ मान्यः । सर्वप्रथममसावेव मान्यः । तथा च भगवान्व्यासः -“ प्रभुः शरीरप्रभवः प्रियकृत्प्राणदो गुरुः
हितानामुपदेष्टा च प्रत्यक्षं दैवतं पिता ” इति ।
विप्रग्रहणं प्रदर्शनार्थम् ॥१४२ ॥
हिन्दी — जो शास्त्रानुसार गर्भाधानादि संस्कारों को करता है और अन्नादि के द्वारा बढ़ाता ( पालन - पोषण करता ) है; उस ब्राह्मण को “ गुरु ” ( यहाँ पर " गुरु " शब्द से पिता का ग्रहण है ) कहते हैं ॥ १४२ ॥
ऋत्विक् का लक्षण-अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान् ।
यः करोति वृतो यस्य स तस्यर्त्विगिहोच्यते ॥ १४३ ॥
आहवनीयादीनामग्नोनामुत्पादककर्माग्न्याधेयमुच्यते, ' वसन्ते ब्राह्मणोऽग्नीना-दधीत ' इति विहितम् । पाकयज्ञा दर्शपूर्णमासादयः । PE
पृष्ठ 269
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता अग्निष्टोमादयो मखाः सोमयागः । मखशब्दः कर्तुपर्यायः । १ ९ ५ एतानि कर्माणि यस्य यः करोति स तस्यर्त्विगित्युच्यते । यस्य तस्येतिशब्दौ सम्बन्धिता दर्शयतः । यस्यैवैतानि कर्माणि करोति तस्यैवासावृत्विगुच्यते नान्यस्य । सर्व एत आचार्यादयः सम्बन्धिशब्दाः । वृतः प्राथितः शास्त्रीयेण विधिना कृतवरणः ।
मान्यताप्रसङ्गादृत्विक्संज्ञोपदेशोऽत्र न हि ब्रह्मचारिधर्मेषु ऋत्विजामवसरः ।
आचार्यादिवत्पूज्य इत्यस्मिन्नवधौ तल्लक्षणमुच्यते ॥ १४३ ॥।
हिन्दी — जो ( ब्राह्मण ) वृत्त होकर ( वरण – सङ्कल्पपूर्वक पादपूजनादि कराकर ) अग्न्याधान ( आहवनीय आदि अग्नि को उत्पन्न करने का कर्म ), पाकयज्ञ ( अष्टकादि ) अग्निष्टोम आदि यज्ञों को करता है, उसे " ऋत्विक् ” कहते हैं ॥ १४३ ॥
अध्यापक की प्रशंसा-य आवृणोत्यवितथं ब्रह्मणा श्रवणावृभौ ।
स माता स पिता ज्ञेयस्तं न द्रुह्येत्कदाचन ॥ १४४ ॥
भाष्य - य उभौ श्रवणौ ब्रह्मणा वेदाध्यापनेनावृणोति स माता स पिता ज्ञेयः । नेदमध्यापकस्य मातापितृशब्दवाच्यताविधानम् । आचार्यादिशब्दवत्प्रसिद्धार्थौ हि पितृमातृशब्दौ । जनकः ‘ पिता ', जननी ' माता ' । उपचारेणाध्यापकस्तुत्यर्थं प्रयुज्येते । यथा गौर्वाहीक इति I । लोके ह्यत्यन्तोपकारकौ मातापितरौ प्रथितौ तौ हितं जनयतो-भक्तादिना च पुष्णीत:, स्वशरीरानपेक्षमपि पुत्रहिते प्रवर्तेते । अतो महोपकारकत्वात्ता-भ्यामुपाध्यायः स्तूयते । यो विद्यायामुपकरोति स सर्वोपकारकेभ्यः श्रेयान् । अवितथं क्रियाविशेषणमेतत् । अवितथेन सत्येन ब्रह्मणाऽनक्षरविस्वरवर्णितेन तन्त्र दुष्येत । अपकारो द्रोहस्तदुपरि अवज्ञानं च | कदाचन निष्पन्नग्रन्थग्रहणे तदुत्तरकालमपि न द्रुह्येत् । तथा च निरुक्तकारः “ अध्यापिता ये गुरून्नाद्रियन्ते विप्रा वाचा मनसा कर्मणावा " -‘ नाद्रियन्ते ’ अवज्ञां कुर्वन्ति - " यथैव ते शिष्या न गुरोर्भोजनीयाः’- ' न भोगाय कल्पन्ते— “ तथैव तान्न भुनक्ति श्रुतं तत् " । पाठान्तरमातृणत्तीति । अर्थात् कर्णौ भिनत्ति विध्यतीत्युपमयाऽध्यापनमेवोच्यते
“ अविद्धकर्ण किल स स्मृतो नरः श्रुतं न यस्य श्रुतिगोचरं गतम् ” इति ।
सर्वाध्यापकानामाचार्योपाध्यायगुरूणामयं कृतविद्यस्यापि द्रोहप्रतिषेधः ॥ १४४ ॥
पृष्ठ 270
पाठ पढ़ें पाठ छिपाएँ
१ ९ ६ मनुस्मृतिः [ द्वितीय: हिन्दी — जो दोनों कानों को अवितथ ( ठीक - ठीक अर्थात् स्वरादि दोषहीन ) वेद से परिपूर्ण करता ( वेद सुनाता पढ़ाता ) है, उसे माता - पिता के समान समझना चाहिये और उससे कभी भी वैर नहीं करना चाहिए ॥ १४४ ॥
उपाध्याय, आचार्य तथा पिता से माता की श्रेष्ठता-उपाध्यायान्दशाचार्य आचार्याणां शतं पिता । सहस्रं तु पितॄन्माता गौरवेणातिरिच्यते ॥ १४५ ॥
भाष्य — स्तुत्यक्रमेण प्रकृष्टपूर्वविधानम् । उपाध्यायाच्छ्रेष्ठ आचार्यस्तस्मात्पिता ततोऽपि मातेति । दशादिसङ्ख्यानिर्देशः स्तुतिमात्रम् । पूर्वस्मात् पूर्वस्मात्परस्य परस्याति-शयो विवक्षितः । अत एव सहस्रं पितॄनिति वचनम् । उपाध्यायान्दशातिरिच्यते । दशभ्य उपाध्यायेभ्योऽधिकः । “ कथं पुनरत्र द्वितीया ” । अतिरयं कर्मप्रवचनीयः । उपाध्यायानतिक्रम्यातिरिच्यते गौरवेण सातिशयेन युज्यते । अथवाऽऽधिक्यमतिरेकः तद्धेतुकोऽभिभवे धातुर्वर्तते । गौरवाधिक्येनोपाध्या-यानभिभवति । अतिरिच्यत इति कर्मकर्तरि द्वितीया चाविरुद्धा ' दुहिपच्यार्बहुलं सकर्म-कयो: ' ( वार्तिक पा ० सू ० ३।१।८७ ) इति बहुलग्रहणात् । “ ननु चानन्तरमेव वक्ष्यति ‘ गरीयान् ब्रह्मदः पिता ' इति, इह चाचार्यात्पितुराधि-क्यमुच्यते तदितरेतरव्याहृतम् ” । नैष दोषः । इहाचार्यो नैरुक्तदर्शने नाध्यापक:, संस्कारमात्रेणाचारोपदेशमात्रेण चाभिप्रेतः । ‘ आचार्य ’ आचारं ग्राहयतीति । न चैष नियमः स्वशास्त्रसिद्धाभिरेव संज्ञा-भिर्व्यवहारः । गुरुशब्दो ह्यत्र पितरि परिभाषितः, आचार्ये च तत्र तत्र प्रयुज्यते । तेन स्वल्पोपकारादुपनयनमात्रकरादाचारग्राहकादध्यापनरहितादिदं पितुर्ज्यायस्त्वम् । अस्मिश्चक्रमे विवक्षिते समवाय एतेषां माता प्रथमं वन्द्या ततः पिता तत आचार्य-स्तत उपाध्यायः ॥ १४५ ॥
“ मुख्याचार्यसन्निधौ पितरि च संस्कर्तरि सन्निहिते कः क्रमः । " अत आह— हिन्दी - दश उपाध्यायों की अपेक्षा आचार्य, सौ आचार्यों की अपेक्षा पिता और सहस्र पिताओं की अपेक्षा माता गौरव में अधिक है ॥ १४५ ॥
विमर्श – यहाँ यज्ञोपवीत संस्कार के साथ सावित्री मात्र का उपदेश देने वाला “ आचार्य ” इष्ट है । अतएव अग्रिम ( १४६ ) श्लोक से इस श्लोक का विरोध नहीं होता है ।