मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 271–280

मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 271–280

पृष्ठ 271

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 271 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १ ९ ७

पिता से आचार्य की श्रेष्ठता-उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता ।

ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥ १४६ ॥

भाष्य — उत्पादको जनकः ब्रह्मदाताऽध्यापकः तौ द्वावपि पितरौ । तयोः पित्रो-र्गरीयान्पिता यो ब्रह्मदः । अतः पित्राचार्यसमवाये आचार्यः प्रथममभिवाद्यः । अत्र हेतुरूपमर्थवादमाह ब्रह्मजन्म हि ब्रह्मग्रहणार्थं जन्म ब्रह्मजन्म । शाक-पार्थिवादित्वात्समासः ( वार्तिकं पा ० सू ० २।१।६० ) । अस्मिन्समासे उपनयनं ब्रह्म-जन्म | अथवा ब्रह्मग्रहणमेव जन्म । तद्विप्रस्य शाश्वतं नित्यं प्रेत्योपकारकमिह चोप-कारकम् ॥१४६ ॥

हिन्दी – पैदा करने वाले पिता और ब्रह्मज्ञानोपदेशक ( आचार्य ) इन दोनों में से ब्रह्मज्ञान देने वाला ( आचार्य ) श्रेष्ठ है; क्योंकि ( ब्रह्मज्ञानरूपी फलवाला होने से ) ब्रह्मजन्म ( यज्ञोपवीत - संस्कार ) ही ब्राह्मण के लिए इस ' लोक तथा परलोक में कल्याण-प्रद है ॥ १४६ ॥

कामान्माता पिता चैनं यदुत्पादयतो मिथः ।

सम्भूतिं तस्य तां विद्याद्यद्योनावभिजायते ॥ १४७ ॥

भाष्य — श्लोकद्वयमर्थवादः । -मातापितरौ यदेनं दारकमुत्पादयतो जनयतो मिथो रहसि परस्परं तत्कामा-द्धेतोर्मन्मथपरवशौ । सम्भूतिं तस्य तां विद्यात् तस्य दारकस्य सम्भवोत्पत्तिर्यद्योनौ मातृकुक्षावभि-जायतेऽङ्गप्रत्यप्रत्यङ्गानि लभते । सम्भवश्च येषां भावानां ते तथैव विनश्यन्ति । अतः किं तेन सम्भवेन यस्यानन्तरभावी विनाशः ॥१४७ ॥

हिन्दी - काम के वशीभूत होकर माता - पिता जिस ( बालक को ) उत्पन्न करते हैं, उसकी उत्पत्ति को पश्वादि - साधारण समझना चाहिए; क्योंकि वह माता की कुक्षि में अङ्गप्रत्यङ्ग को प्राप्त करता है ॥ १४७ ॥

आचार्यस्त्वस्य · यां जातिं विधिवद्वेदपारगः ।

उत्पादयति सावित्र्या सा सत्या साऽजराऽमरा ॥ १४८ ॥

भाष्य – आचार्यात्तु यत्तस्य जन्म तदविनाशि । गृहीते वेदेऽवगते च तदर्थे कर्मा-नुष्ठानात्स्वर्गापवर्गप्राप्तिरित्यस्य सर्वस्याचार्यमूलत्वात्स श्रेष्ठः । यां जातिमुत्पादयति यं संस्कारमुपनयनाख्यं द्वितीयं जन्मेति जन्मसंस्तुतिं निर्व-मनु I - 17

पृष्ठ 272

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 272 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१ ९ ८ मनुस्मृतिः [ द्वितीय: र्तयति, सावित्र्या तदनुवचनेन सा जातिः सत्या साऽजरामरा । यद्यप्येतेऽभिन्नार्थाः शब्दास्तथापीहोपनयनाख्यस्य जन्मनो मातृजन्मनः सकाशाङ्गुणातिशयविवक्षायां प्रयुक्ता: । न हि जरामृत्यु प्राणिनामिव जाते: सम्भवतः । अविनाशित्वं त्वेकेनैव शब्देन शक्यते प्रतिपादयितुम् । न च तत्प्रतिपाद्यते । वेदपारग आचार्यो यां जातिं विधिवत्सावित्र्या उप-नयनाङ्गकलापेन - सावित्रीशब्दस्य तल्लक्षणत्वात् - उत्पादयति सा श्रेयसीति, पदयोजना । जातिर्जन्म ॥ १४८ ॥

हिन्दी – ( परन्तु ) वेद का पारङ्गत आचार्य उस बालक की जिस जाति को विधिपूर्वक उत्पन्न करता है; वह जाति सत्य, अजर तथा अमर है । ( क्योंकि सविधि यज्ञोपवीत संस्कार होने पर वेदाध्ययन द्वारा उसके अर्थ का ज्ञान प्राप्त करने से निष्काम होकर वह मोक्ष अधिकारी होता है ) ॥ १४८ ॥

अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः ।

तमपीह गुरुं विद्याच्छुतोपक्रियया तया ॥ १४ ९ ॥

भाष्य – य उपाध्यायो यस्य माणवकस्योपकरोति श्रुतस्य श्रुतेनेत्यर्थः । अल्पं वा बहु वा क्रियाविशेषणमेतत् । तमपि स्वल्पश्रुतोपकारिणं गुरुं विद्यात् । एवं तु योजना ज्यायसी - यस्य श्रुतस्य - समानाधिकरणे - वेदविषयस्य वेदाङ्गविषयस्य वा शास्त्रान्तरविषयस्य तर्ककलाशास्त्रस्य - यदल्पं बहु वा- - तेनोपकरोपीत्यध्याहारः । श्रुतं तदुपक्रिया चासौ श्रुतोपक्रिया तया, उपकारक्रियया तद्धेतुत्वाच्छ्रुतमुप-क्रियेति समानाधिकरण्यम् । गुरुवृत्तिस्तत्र कर्तव्या तद्व्यपदेशो वा तत्राचार्यादिशब्दवत्स्मर्यते ॥१४९ ॥

हिन्दी – जो थोड़ा या बहुत वेदोपदेश के द्वारा उपकार करता है, उसे भी उस वेदोपदेशक्रिया के कारण ' गुरु ' जानना चाहिए ॥ १४ ९ ॥

बालक भी आचार्य पिता के समान-ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता ।

बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः ॥ १५० ॥

भाष्य – ब्रह्मग्रहणार्थं जन्म ब्राह्मम् उपनयनम्, तस्य कर्त्ता । स्वधर्मस्य शासिता उपदेष्टा, वेदार्थव्याख्यानेन । स तादृशो बालोऽपि ब्राह्मणो वृद्धस्य ज्येष्ठस्य पिता भवति । पितृतुल्या तत्र वृत्तिः कर्त्तव्या ज्येष्ठेनापि । “ कथं पुनः कनीयाञ्ज्येष्ठमुपनयते । अष्टमे ह्युपनयनम् । यावच्च नाधीतश्रुतवेद-स्तावन्नाचार्यकरणविधावधिक्रियते ” ॥

पृष्ठ 273

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 273 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता १ ९९ एवं तर्हि नोपनयनमत्र ‘ ब्राह्मं जन्म ', किं तर्हि स्वाध्यायग्रहणमेव । तस्य कर्ता-ऽध्यापयिता । स्वधर्मस्य वेदार्थस्य शासिता व्याख्याता पिता भवति । धर्मतः पितृधर्मास्तत्र कर्तव्याः । धर्मत इति धर्मनिमित्तं तत्र पितृत्वम् । न च ते धर्मा अध्यापकव्याख्यात्रोः पितृसम्बन्धिनः सिद्धाः सन्ति, अतो विधीयन्ते - ब्राह्मणवत्-क्षत्रिये वर्तितव्यमिति यथा ॥ १५० ॥

हिन्दी - वेद श्रवण के योग्य जन्म ( यज्ञोपवीत संस्कार ) करने वाला और अपने धर्म का उपदेश देने वाला बालक भी ब्राह्मण धर्मानुसार वृद्ध का पिता होता है ॥ १५० ॥

उक्त विषय में आङ्गिरस का दृष्टान्त-अध्यापयामास पितॄन शिशुराङ्गिरसः कविः ।

पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥ १५१ ॥

भाष्य- -पूर्वस्य पितृवद्वृत्तिविधेरर्थवादोऽयं परकृतिनामा । अङ्गिरसः पुत्रः कवि-र्नाम शिशुर्बालः पितृतुल्यान्पितृव्यमातुलतत्पुत्रादीनधिकवयसोऽध्यापयाञ्चकाराध्यापित-वान् । स चाह्वाननिमित्तेषु तान्पुत्रका आगच्छत इत्याजुहाव । ज्ञानेन परिगृह्य तान्-स्वीकृत्य शिष्यान्कृत्वा ॥१५१ ॥

हिन्दी – अङ्गिरस के विद्वान् पुत्र ने अपने चाचा तथा ( अवस्था में ) बड़े भाइयों को पढ़ाया; इसलिए उनको ‘ पुत्र ' शब्द से सम्बोधित किया ॥१५१ ॥

ते तमर्थमपृच्छन्त देवानागतमन्यवः ।

देवाश्चैतान् समेत्योचुर्न्याय्यं वः शिशुरुक्तवान् ॥ १५२ ॥

भाष्य- -ते पित्रादिस्थानीया पुत्रका इत्याह्वानेनागतमन्यव उत्पन्नक्रोधास्तमर्थं पुत्रशब्दाह्वानं देवान्पृष्टवन्तः । ' अनेन बालेन वयमेवमाहूयामहे । किमेतद्युक्तम् । ' ते देवाः पृष्टाः सन्तः सर्वे समवायं कृतवन्तः ' समेत्य ' ऐकमत्यं स्थापयि-त्वैतान्कवेः पितॄनूचुर्रुक्तवन्तो ' न्याय्यं युक्तं वो युष्मान् शिशुरुक्तवान् ' ॥१५२ ॥

हिन्दी — इस पर क्रोधित होकर उन्होंने उसके अर्थ ( ' पुत्र ' - शब्दार्थ ) को देवताओं से पूछा तो उन देवताओं ने मिलकर ( एकमत होकर ) कहा कि हे ‘ अङ्गिरस ' पुत्र ने तुम लोगों को जो ‘ पुत्र ' कहा है, वह न्याययुक्त है ॥१५२ ॥

उक्त विषय में कारण-अज्ञो भवति वै बालः पिता भवति मन्त्रदः ।

अज्ञं हि बाल इत्याहुः पितेत्येव तु मन्त्रदम् ॥ १४३ ॥

भाष्य — न च वयसा स्वल्पेन बालो भवति किं तर्ह्यज्ञो मूर्खो वृद्धोऽपि यः ।

पृष्ठ 274

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 274 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२०० मनुस्मृतिः [ द्वितीयः मन्त्रद उपलक्षणम् । मन्त्रान्वेदान्यो ददात्यध्यापयति विवृणोति च स पिता भवति । वै शब्द आगमान्तरसूचकः । देवानामप्येष आगमः पुराण एव । तथा चैति-ह्यसूचकः परोपदेश आहुरिति । अज्ञं मूर्ख बाल इत्याहुस्मत्पूर्वेऽपि । पितेति मन्त्रदम् । इतिकरणं स्वरूपपरतां बोधयति । यतः परतः श्रूयते । बाल इत्येतेन शब्देनाज्ञमात्रः ।

अतश्च बालशब्दाद्वितीयाया अभावः ।

छान्दोग्ये शैशवं ब्राह्मणमेतद्वस्तुत: स्मृतिकारेण वर्णितम् ॥१५३ ॥

हिन्दी — अज्ञानी ही बालक होता है ( केवल थोड़ी आयु वाला ही नहीं ) और वेद मन्त्रों को पढ़ाने वाला ही ‘ पिता ' होता है; क्योंकि प्राचीन मुनियों ने भी अज्ञानी को बालक तथा वेदमन्त्रोपदेशक को पिता कहा है ॥ १५३ ॥

अवस्थादि की वेदज्ञान से श्रेष्ठता-न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः ।

ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥ १५४ ॥

भाष्य — इयमपराऽध्यापकप्रशंसा । -हायनशब्दः संवत्सरपर्याय: । न बहुभिर्वर्षैः परिणतवया महान्पूज्यो भवति, न पलितैः केशश्मश्रुरोमभिः शुक्लैर्न वित्तेन बहुना, न बन्धुभिः । प्रागुक्तानि मान्यस्था-नान्यापद्यन्ते । समुदितैर्न महान्भवति, किं तर्हि एकयैव विद्यया । यस्मादृषयश्चक्रिरे । ऋषिर्दर्शनात् । निःशेषवेदार्थदर्शिनो निश्चित्येमं धर्मं व्यवस्थापितवन्तः । योऽनूचानः, अनुवचनमध्यापनं कृत्स्नाङ्गस्य वेदस्य, स नोऽस्माकं महाञ्छ्रेष्ठः । करोतिर्व्यवस्थापने वर्तते, नाभूतजनने ॥१५४ ॥

हिन्दी — वर्षों से ( अधिक वर्षों की आयु होने से ), पके हुए बालों से, धन से, अधिक बान्धवों से कोई बड़ा नहीं होता; ( किन्तु ) जो साङ्गवेदों का ज्ञाता है, वही बड़ा है, ऐसा ऋषियों ने कहा है ॥ १५४ ॥

वर्ण के क्रम से ज्ञानादि की श्रेष्ठता-विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः । वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः ॥ १५५ ॥

भाष्य — अयमप्यर्थवाद एव । यदुक्तं ' वित्तादिभ्यः समुदितेभ्यः केवलाऽपि विद्याज्यायसीति ' तदेव सप्रपञ्चमनेन निर्दिश्यते । ब्राह्मणानां ज्ञानेन ज्यैष्ठ्यं, न वित्तादिभिः । क्षत्रियाणां वीर्यतः । वीर्यं द्रव्यस्य कौशलं, दृढप्राणता च । वैश्यानां धान्यधनतः । धान्यस्य पृथगुपादानाद्धनशब्दो

पृष्ठ 275

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 275 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २०१

हिरण्यादिवचन:, ब्राह्मणपरिव्राजकवत् । बहुधनो वैश्यः स ज्येष्ठः ।

आद्यादित्वात्तृतीयार्थे तसि:, हेतौ तृतीया ( पा ० सू ० २।३।२३ ) ॥ १५५ ॥

हिन्दी - ब्राह्मणों की विद्या से क्षत्रियों की बल ( शक्ति ) से, वैश्यों की धन से और शूद्रों की जन्म से श्रेष्ठता होती है ॥ १५५ ॥

अवस्था की अपेक्षा ज्ञान द्वारा वृद्धत्व-न तेन वृद्धो भवति येनास्य पलितं शिरः ।

यो वै युवाऽप्यधीयानस्तं देवा: स्थविरं विदुः ॥ १५६ ॥

भाष्य – न तेन वृद्ध उच्यते येनास्य पलितं धवलं शिरः शिरः स्थाः केशाः ।

कथं तर्हि यो वै युवाऽपि तरुणोऽपि अथ चाधीते तं देवाः स्थविरं विदुः ब्रुवते ।

देवा: किल सर्वस्य वेदितार इति प्रशंसा ॥ १५६ ॥

हिन्दी- - बाल पक जाने मात्र से कोई बड़ा नहीं होता, किन्तु युवा पुरुष भी यदि विद्वान् हो, तो उसे ही देवता लोग वृद्ध ( बड़ा - बूढ़ा ) कहते हैं ॥१६५ ॥

मूर्ख की निन्दा-यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।

यश्च विप्रोऽनधीयानस्त्रयस्ते नाम बिभ्रति ॥ १५७ ॥

भाष्य- –इयमध्ययनाध्येतृस्तुतिः । काष्ठमयः दारुणा यः क्रियते ककचादिना हस्त्याकृतिः, स यथा निष्फलः, न हस्तिकार्यं राज्ञां शत्रुवधादि करोति । एवं यो ब्राह्मणो नाधीते स काष्ठतुल्यः, न क्वचिदधिकारी । चर्ममयो मृगः चर्मविकारोऽन्योऽपि यो मृगः स निष्फलो नाऽऽखेटकादिकार्यं करोति । त्रय एते नाम मात्रं बिभ्रति, न तस्यार्थम् ॥ १५७ ॥

हिन्दी – लकड़ी का हाथी, चमड़े का मृग और मूर्ख ब्राह्मण – ये तीन केवल नाममात्र धारण करते हैं ॥ १५७ ॥

यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला ।

यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः ॥ १५८ ॥

भाष्य - षण्ढो नपुंसक उभयव्यञ्जनोऽशक्तः स्त्रीगमने, यथा स्त्रीष्वफलः ।

यथा गौर्गवि स्त्रीगौः स्त्रीगव्याम् । एवं तथा विप्रोऽनृचोऽनधीयानोऽफलः ।

सप्ताष्टश्लोकाः अध्येतृवेदित्रोः प्रशंसार्था अतिक्रान्ता: ॥१५८ ॥

हिन्दी – जैसे स्त्रियों में नपुंसक निष्फल है, जैसे गायों में गाय निष्फल है और

पृष्ठ 276

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 276 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२०२ मनुस्मृतिः [ द्वितीयः जैसे अज्ञानी में दान निष्फल है; वैसे ही वेदज्ञानहीन ब्राह्मण निष्फल है ॥ १५८ ॥

शिष्यों से मधुर भाषण-अहिंसयैव भूतानां कार्यं श्रेयोऽनुशासनम् ।

वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता ॥ १५ ९ ॥

भाष्य — इदानीमश्रद्धस्य शिष्यस्याधीयानस्येतस्ततश्चित्तं व्याक्षिप्यते । अध्यापयितुः क्रोधोत्पत्तौ ताडनपरुषभाषणाद्यमत्यर्थं प्राप्तं निषिध्यते । अहिंसया अताडनेन भूतानां भार्यापुत्रदासशिष्यसोदर्याणाम् । श्रेयोर्थमनुशासनं कार्य्यम् । भूतग्रहणान्मा शिष्यस्यैव विज्ञायि । दृष्टादृष्टफलावाप्तिः श्रेयः तदर्थमनु-शासनम्, अग्रन्थको वोपदेशः, शास्त्रध्यापनव्याख्याने वा । यथासम्भवमतिताडनं कोशनं चात्र प्रतिषिध्यते । ईषत्ताडनं त्वभ्यनुज्ञातमेव ‘ रज्ज्वा वेणुदलेन ' वेति । " " कथं तर्हि मार्गे स्थाप्याः ' ॥ वाक् चैव मधुरा सान्त्वपूर्विका । प्रियता वाचा श्लक्ष्णया नोच्चैरुद्धतेन काक-रुक्षेण स्वरेण — प्रियणाऽपि ' अधीष्व पुत्रक मा चित्तमन्यत्राबद्धाः श्रद्धया समापय शीध्रं प्रपाठकं तत्क्षणं विहरिष्यसि शिशुभिः सवयोभिः ' । यस्तु न तथा श्रद्धामुपैति तस्योक्तो विधि: ‘ वेणुदलेनेति ’ ।

प्रयोज्या वक्तव्या ।

धर्ममिच्छता । एवं सातिशयोऽध्यापनधर्मो भवति ॥ १५ ९ ॥

-हिन्दी – धर्माभिलाषी पुरुष ( आचार्य, गुरु आदि ) को शिष्यों की अहिंसा ( ८।९९ के अनुसार अल्पतम ताडनादि ) के द्वारा ही कल्याणार्थ उपदेश ( अध्यापनादि ) करना चाहिए तथा मीठा और मधुर वचन बोलना चाहिए ॥१५९ ॥

वचन तथा मन के संयम से वेदान्त फल की प्राप्ति-यस्य वाङ्मनसी शुद्धे सम्यग्गुप्ते च सर्वदा । स वै सर्वमवाप्नोति वेदान्तोपगतं फलम् ॥ १६० ॥

भाष्य — यस्याध्यापयितुरन्यस्य वा सङ्क्षोभहेतौ सति वाङ्गमनसी शुद्धे न कालुष्यं गच्छतः । सम्यग्गुप्ते चोत्पन्नेऽपि कालुष्ये न परद्रोहव्यवसायो न च तत्पीडार्थः कर्मारम्भ:, – एतत्सम्यग्गोपनं वाङ्मनसयोः । सर्वदाग्रहणं पुरुषमात्रधर्मार्थं, नाध्यापयितुरेव अध्यापनकाले । सवै सर्वमवाप्नोति । वेदान्ता वेदसिद्धान्ताः । सिद्धशब्दस्यात्यन्तं सिद्ध इति

पृष्ठ 277

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 277 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २०३ ‘ सिद्धे शब्दार्थसम्बन्धे ’ इत्यत्रात्यन्तशब्दस्येव लोपः । वैदिकेषु वाक्येषु यः सिद्धान्तो व्यवस्थितार्थोऽस्य कर्मण इदं फलमित्युपगतः, अभ्युपगतो वेदविद्भिः, तत्फलं सर्वं प्राप्नोति । एवं च वदता वाङ्मनससंयमस्यानेन वाक्येन क्रतुषु पुरुषोभयधर्मतोक्ता भवति । केवलपुरुषधर्मातिक्रमे ह्यसति क्रतुवैगुण्येऽसंयतोऽसि वाङ्मनसाभ्यां किमिति कृत्स्नं फलं न प्राप्नोति, येनोच्यते ' संयमी सर्वमाप्नोति ' इति । अन्ये तु वेदान्तान् रहस्यब्राह्मणान्व्याचक्षते । तेषु यदभ्युपगतं फलं, नित्यानां कर्मणां निष्फलानां च यमनियमानां तत्फलं ब्रह्मप्राप्तिलक्षणं सर्वमाप्नोति । “ कथं पुनर्नित्यानि ब्रह्मप्राप्त्यर्थानीति " चेदस्ति केषांचिद्दर्शनम् ।

अथवा वेदस्यान्तोऽध्यापनसमाप्तिस्ततो यत्फलमाचार्यकरणविधिस्तत्प्राप्नोति ।

एवं तु व्याख्यानेऽध्यापनविध्यर्थतैव स्यात् ॥ १६० ॥

हिन्दी — जिसके वचन तथा मन सर्वदा शुद्ध एवं वशीभूत हैं, वही वेदान्त के सम्पूर्ण फलों को प्राप्त करता है ॥ १६० ॥

परद्रोहादि का निषेध—

नारुन्तुदः स्यादार्त्तोऽपि न परद्रोहकर्मधीः ।

ययाऽस्योद्विजते वाचा नालोक्यां तामुदीरयेत् ॥ १६१ ॥

भाष्य - अयमपरः पुरुषार्थमात्रधर्मः । अरूषि मर्माणि तुदति व्यथयतीत्यय-रुन्तुदो मर्मस्पर्शिनीर्वाचोऽत्यन्तोद्वेजनकरीराक्रोशवाचो यो वदति । आर्त्तः पीडितोऽपि परेण न तादृशमप्रियं भाषेत । तथा परद्रोहः परोपकारः तदर्थं कर्म तद्धीश्च न कर्तव्या । अथवा परद्रोहश्चासौ कर्म च तत्र धीः बुद्धिरपि न कर्तव्या । यया वाचा नर्मप्रयुक्तयाऽपि पर उद्विजते अथ च तां वाचं नोदीरयेत् । वाक्यैक-देशमपि तादृशं नोच्चारयेद्यत एकदेशादर्थप्रकरणादिनाऽर्थान्तरसूचनं प्रतीयते । यतः सा वाक् अलोक्या स्वर्गादिलोकप्राप्तिप्रतिबन्धिनी ॥१६१ ॥

हिन्दी — स्वयं दुःखित होते हुए भी दूसरे किसी को दुःख न दे, दूसरे का अपकार करने का विचार न करे और जिस वचन से कोई दुःखित हो, ऐसा स्वर्ग प्राप्ति का बाधक वचन न कहे ॥१६१ ॥

अपमान होने पर क्षमा करना-सम्मानाद्ब्राह्मणो नित्यमुद्विजेत विषादिव ।

अमृतस्येव चाकाङ्गेदवमानस्य सर्वदा ॥ १६२ ॥

पृष्ठ 278

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 278 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२०४ मनुस्मृतिः [ द्वितीयः भाष्य— भिक्षमाणस्य ब्रह्मचारिणो गृहेवोपाध्यायस्य जीविकयाऽध्यापयतो यत्र सम्मानं न स्यान्न तेन चित्तसङ्क्षोभमाददीत, अपि तु सम्मानादेवोद्विजेत पूजयैव दीयमानं न बहु मन्येत । अमृतमिवाकाङ्क्षदभिलषेदवमानमवज्ञां सर्वदा । उत्कण्ठासामान्यात् अधीरार्थत्व-माकाङ्ग्रेरारोप्य षष्ठी कृता । “ ननु चानर्चितमभोज्यम् ” । सत्यं चित्तसङ्क्षोभप्रतिषेधार्थमेतत् । न तु तादृशस्य भोज्यतोच्यते । सम्मानाव-मानयोः समेन भवितव्यं न पुनरवमानं प्रार्थनीयम् । ब्रह्मचारिणस्त्ववमतमपि भिक्षाऽऽदानम् । न चायं प्रतिग्रहो, ' योऽर्चितं प्रति-गृह्णाती’त्येतस्य येन विषयः स्यात् ॥१६२ ॥

हिन्दी - ब्राह्मण विष के समान सम्मान से सर्वदा घबराता रहे ( सम्मान से न प्रेम करे ) तथा अमृत के समान अपमान की सर्वदा आकाङ्क्षा करे ( अपमान करने पर क्षमा करे । इस श्लोक से ब्राह्मण को मानापमान में सहिष्णुता धारण करने का विधान किया गया है ) ॥१६२ ॥

अपमान के सहन में कारण-सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते ।

सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति ॥ १६३ ॥

भाष्य - पूर्वस्य विधेरर्थवादोऽयं फलदर्शनार्थः । योऽवमानान्न क्षुभ्यति स सुखं शेतें । अन्यथा द्वेषेण दह्यमानो न कथंचिन्नद्रां लभते । प्रतिबुद्धश्च तच्चिन्तापरो न सुखं विन्दति । उत्थितश्च शयनात्कार्येषु सुखं चरति । यस्त्ववमानस्य कर्ता स तेन पापेन विनश्यति ॥ १६३ ॥

हिन्दी — अपमानित ( अपमान होने पर भी क्षमा करने वाला ) मनुष्य सूखपूर्वक सोता है, दुःखपूर्वक जागता है तथा इस लोक में विचरण ( विहार ) करता है और अपमान करने वाला ( मनुष्य उस पाप से ) नष्ट हो जाता है ॥१६३ ॥

अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः ।

गुरौ वसन् सञ्चिनुयाद्ब्रह्माधिगमिकं तपः ॥ १६४ ॥

भाष्य - संस्कृतात्मोपनीतो द्विजोऽनेन क्रमयोगेन तपः सञ्चिनुयात् । ‘ अध्येष्यमाण ’ इत्यत आरभ्य यद्ब्रह्मचारिणः कर्तव्यमुक्तं तस्यानेनेति प्रत्यवमर्शः । अनेन विधिसङ्घातेन क्रमयोगेन क्रमेणानुष्ठीयमानेन तप आत्मसंस्कारं निष्कल्म-षत्वलक्षणम् । यथा तपसा चान्द्रायणादिना निष्कल्पषत्वं भवत्येवमनेनापि वेदग्रहणार्थेन

पृष्ठ 279

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 279 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता यमनियमसमूहेन । अतः सञ्चिनुयात् शनैरत्वरयाऽर्जयेच्च वर्धयेच्च । २०५ क्रमः परिपाटी इदं कृत्वेदं कर्तव्यम्, ' ॐकारपूर्विका ' इत्यादिः, तेन योगः

सम्बन्धो यस्यानुष्ठानस्येति यावत् ।

ब्रह्मणः आधिगमिकमधिगमार्थम् । अध्ययनबोधावधिगमः ॥१६४ ॥

- आगे हिन्दी – इस क्रम से संस्कृत ( जातकर्म से लेकर उपनयन तक संस्कार प्राप्त ) द्विजगुरु के समीप ( गुरुकुल ) में वास करता हुआ वेदग्रहण के लिए ( वक्ष्यमाण-कहा जाने वाला ) तप का संग्रह करे ॥ १६४ ॥

तपो - व्रतादि के द्वारा सरहस्य वेदाध्ययन– तपोविशेषैर्विविधैर्व्रतैश्च

विधिचोदितैः ।

वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥ १६५ ॥

भाष्य — तपोविशेषैः कृच्छ्रचान्द्रायणादिभिर्विविधैर्बहुप्रकारैरेकाहारचतुर्थकाला-हारादिभिरभिक्षिण्वता शरीरम् । व्रतैश्चोपनिषन्महानाम्निकादिभिः । विधिनोदितैर्गृह्य-स्मृतिष्वाम्नातैरनुष्ठीयमानैर्वेदः कृत्स्नोऽधिगन्तव्यः | ये तु “ पूर्वश्लोके तप: शब्दो ब्रह्मचारिधर्मे प्रयुक्त, इहापि तपोविशेषास्त एवाभि-प्रेताः ” इत्याहुर्न ते सम्यङ्गन्यन्ते । व्रतशब्देनैव तेषां संगृहीतत्वात् । व्रतमितिहि शास्त्रतो नियम उच्यते । सामान्यशब्दत्वाच्च व्रतशब्दस्य महानाम्निकादीनामपि ग्रहणसिद्धिः । तस्मात्तपांस्युपवासादीन्यभिप्रेतानि । इह केचिद्वेद इत्यत्रैकवचनं विवक्षितं मन्यन्ते । यद्यपि तव्यप्रत्ययनिर्देशाद्विनि-योगतो वेदस्य प्राधान्यं संस्कार्यतया प्रतीयते, तथापि विधितो वस्तुतश्चार्थावबोधे गुण-भाव एव । गुणे च संविवक्षितेऽर्थावबोधपर्यन्तो ह्ययं वेदविषयो माणवकस्य व्यापारो विधिवृत्तपर्यालोचयनाऽवसीयते । अयं ह्यत्र विध्यर्थोऽधीतेन वेदेनार्थावबोध कुर्यात्’न संस्कार्यत्वमन्यथा निर्वहति । सर्वो हि कार्यान्तरे शेषभूतः संस्क्रियते । वेदस्य च दृष्ट-मेव कार्यमधीतस्य स्वार्थबोधजनकत्वमन्यथा ' सक्तूञ्जुहोति ' इतिवत्प्राधान्यं श्रुतमप्यु-त्सृज्येत । धातुरप्यत्रबोधार्थ एव । ' अधिगमनं ' हि ज्ञानमुच्यते । “ सर्वे गत्यर्था ज्ञानार्था ’ इति स्मृतम् । स्वरूग्रहणं च वेदस्य प्रागेव विहितं ' संहत्य हस्तावध्येयम् ' इत्यादिना । तस्यैवार्थग्रहणपर्यन्तताऽनेन प्रतिपाद्यते । विवक्षामेव मत्वाऽनेकवेदाध्ययनमप्राप्तं प्रति-प्रसविष्यते ‘ वेदानधीत्येति ' । “ यद्यनेकवेदाध्ययनमस्ति क्वैकत्वविवक्षोपयुज्यते ” । बाढ-मुपयुज्यते । एकस्यामेव शाखायामधीतायां ' स्वाध्यायोऽध्येतव्य ' इति विध्यर्थनिर्वृत्तिः । इच्छातस्त्वनेकवेदाध्ययनम् । “ यदि न विधिचोदितं क उन्मत्तो दन्तकलशिकयाऽऽत्मानं क्लेशयिष्यति ” । अस्त्येवाऽत्र विध्यन्तरं ' वेदानधीत्येति ' तत्र फलकामस्य । फलं च

पृष्ठ 280

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 280 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२०६ मनुस्मृतिः [ द्वितीयः स्वर्गः । अथास्य विधेर्वाक्यशेषे किञ्चिदाम्नायते, घृतकुल्यादयोऽन्यद्वा ततस्तदेव भवितुमर्हति । ब्रह्मचारिणो हि विधिरर्थावबोधविषयो दृष्टप्रयोजनश्च, अवबोधस्य कर्मा-नुष्ठानोपदर्शनाद्विदुषः कर्मण्यधिकारात् । अनेकवेदाध्ययनमदृष्टायैव I । अन्यथैकवेदाध्यय-नेनैव स्वाध्यायविधिनिर्वृत्तेरसति धर्माय विधौ वेदानधीत्येत्यादिवचनमनर्थकमेव स्यात् । अत्रोच्यते । कथमयं पक्षः सङ्गच्छेत यावतैकोऽयं विधिर्वेदोऽधिगन्तव्य इति, स चेत्संस्कारविधित्वाददृष्टकर्मानुष्ठानोपयोगाच्च नादृष्टार्थः कल्प्यते, तदनेकवेदाध्ययने-ऽपि तुल्यम् । तत्रापि ह्ययं प्रकारोऽस्त्येव । वैरूप्यं च स्यात् । क्वचिदाधानविधिवदव-बोधद्वारेण नित्यकाम्यकर्मसम्बन्धः, क्वचित्साक्षात्फलार्थतेति । अथ मतं ‘ “ वेदानधीत्येति विध्यन्तरमेतत्, न चाचार्यकरणविधिप्रयोज्यम् । तत्फल-काम एवात्राधिक्रियत " इति । तदसत् । न चैतद्विध्यन्तरम् । प्रकृतस्यैव विधेरसत्यां संख्याविवक्षायां पञ्चषट्-सप्तादिशाखाध्ययनं यावच्छक्ति प्राप्तं त्रयं नियमयति । न चाधीयोतेति विधिरत्र श्रूयते । अपि तु ‘ गृहस्थाश्रममावसेदि’त्ययमत्र विधिः । यदपि संख्याया विवक्षितत्वमुक्तं तदत्यन्तासम्बद्धम् । विनियोगतो हि संख्या-विवक्षा, नोपपादनतः । स च विनियोगः स्वाध्यायार्थमध्ययनमाह । नार्थेन गुणभावेन द्वितीयान्ताभ्यामवगतं प्राधान्यमुपैति । एवं ह्याश्रीयमाणे ग्रहेऽप्येकत्वं विवक्ष्येत ‘ ग्रहं सम्मष्टति ’ । प्रधानभूतस्यापि हि तस्य सम्मार्ग प्रत्यस्त्येव साधनभावः । न त्वसौ शब्देनाभिधीयते । यथा ग्रहैर्जुहोतीति होमेऽपि गुणभावः । तस्मादभिधानविनियोगाभ्यां प्राधान्यं स्वाध्यायस्य । सति च प्राधान्ये, न विवक्षितमेकत्वम् । “ हन्त तर्हि यद्येकेनापि वेदेन गृहीतेन निवर्तेत स्वाध्यायविध्यर्थो, वक्तव्यमनेक-वेदाध्ययनप्रयोजनम् ” । तृतीये वक्ष्यामः । “ ननु यद्यवबोधपर्यन्तोऽयं विधिस्तदा गृहीतेऽपि स्वरूपतो वेदे यावदर्थावबोधो न जातस्तावदन्तरा मधुमांसादियमनियमानुष्ठानमव्यावृत्तं स्यात् । ' तत्र को दोष: ' । शिष्टसमाचारविरोधः । न हि शिष्टा अधीते वेदे तदर्थमुपशृण्वन्तोऽपि मधुमांसादि वर्जयन्ति ” । नैष दोषः । अस्ति हि स्मृत्यन्तरं ' वेदमधीत्य स्नायात् ' इति । तत्राधीत्येति पाठ-मात्रमुच्यते । ‘ स्नायादिति ’ च सकलस्वाध्यायविध्यङ्गयमनिवृत्तिर्लक्ष्यते । यथैव मधुमांसे प्रतिषिद्धे एवं स्नानमपि । तत्र स्नानमनुज्ञायमानं साहचर्यान्मधुमांसादीन्यपि तुल्य-प्रकरणत्वादनुजानाति । स्त्रीसम्प्रयोगस्तु वचनान्तरेणाविप्लुतब्रह्मचर्य इति प्रतिषिद्धः । तद्व्यतिक्रमे च न स्वाध्यायविधेरर्थावबोधकाले किञ्चित्परिहीणम् । न हि तस्यामवस्थायां