मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 281–290
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 281–290
पृष्ठ 281
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २०७ तदङ्गं, सर्वेषां यमनियमानां ग्रहणान्तत्वात् । पुरुषार्थस्त्वयं प्रतिषेधः । अतएव कथञ्चि-द्विप्लवेनावकीर्णि प्रायश्चित्तम् । व्रतस्थस्य हि रेतःसेको विकारः, न च व्रतस्थश्चान्द्रा-याणादिनाऽनेनोपपातकप्रायश्चित्तेनाधिक्रियते । “ किं पुनः स्नायादिति लक्षणात्वे कारणम्? ” उच्यते । न तावदिदं स्नादिदं स्नानमद्भिः शरीरक्षालनरूपमदृष्टार्थत्वप्रसङ्गात् । ब्रह्मचारिनियमानां चावध्यपेक्षत्वादस्य चावधिसमर्पकत्वेनापेक्षितार्थविधिनोपपत्तेः । “ न पुनरेवं तेषामवध्यन्तरापेक्षा । स्वाध्यायविध्यर्था हि तेऽतस्तन्निवृत्तिरेव तेषाम-वधि: । तस्य च निवृत्तिर्विषयनिवृत्त्या । अध्ययनं च तस्य विषयः । तन्निवृत्तिः प्रत्यक्षैव ” । सत्यं - यद्यस्य श्रुतविषयनिष्ठतैव स्यात् । अश्रुतोऽप्यस्य विषयः फलभूतोऽर्थाधिग-मोऽपि संस्कारविधित्वान्यथानुपपत्त्या विषयतामापन्नः । यतः श्रुताध्ययननिष्ठत्वे विधि-त्वमेवास्य व्याहन्येत । विधेर्हि स्वार्थानुष्ठापकत्वं रूपम् । स्वार्थश्च कार्यकरणेतिकर्त-व्यतात्मकः । तच्च विध्यर्थव्यतिरेकेण नान्यत्किञ्चित् । न कार्यं करण विषय:, एक-पदोपादानात् । अधीयीतेत्यध्ययनादिधात्वर्थावच्छिन्नो भावार्थः । यमनियमानुष्ठानमिति-कर्तव्यता । न तत्र तावदस्य विधेः स्वार्थानुष्ठापकत्वसम्भव: । यतो विषयानुष्ठानद्वारिका सर्वा विधीनां स्वार्थानुष्ठानसम्पत्तिः । तस्यास्य विषयानुष्ठानं विध्यन्तरवशादेव सिद्धम् । आचार्यस्य हि विधिरस्ति ' उपनीय शिष्यं वेदमध्यापयेत् ' इति । न चाध्ययनमन्तरेणाध्यापन-सिद्धिः । अत आचार्यः स्वविधिसम्पत्त्यर्थमध्ययने माणवकं प्रवर्तयति स्वयं च ज्ञात्वा नाचार्येणप्रवर्तितस्यानुष्ठानसम्भवः । अतोऽवश्यमाचार्यविधिप्रयुक्तता एषितव्या । तत्प्रयुक्त-त्वे सति सिद्धमनुष्ठानमिति न स्वाध्यायाध्ययने माणवकस्य विधिना कश्चिदर्थः । अतः प्रयोक्तृत्वासम्भवात्कीदृशी विधिरूपताऽस्य विधेः । स्वरूपनाशे प्रसक्ते स प्रकारोऽ-न्विष्यते, यथाऽस्य प्रयोक्तृत्वं लभ्यते । तत्र निश्चितत्वावदयं संस्कारविधिः । न च निष्फलः संस्कारः | अध्ययने सति यादृशस्य तादृशस्यार्थ बन्धस्य दर्शनात्तस्य च सकलतत्कर्मानुष्ठानोपयोगित्वात् । अतः श्रुताध्ययनविषयसम्बद्धावबोधकर्तव्यताऽतो विधेः प्रतीयते । यद्यपि च वस्तुस्वाभाव्येन वाक्यग्रहणसमनन्तरमवबोधो जायते, न तु निश्चितरूपो भवति । अतो येन प्रकारेण निश्चयो भवति तस्मिन्नंशे विधेः प्रयोक्तृत्वम् । निश्चयो विचार्य संशयादिव्युदासेन भवति । न च विचारोऽन्यतः प्राप्तः । नाचार्यविधेः, तस्याध्ययनमात्रेण निर्वृत्तेः । नापि दृष्टकार्यप्रयुक्तः, किं विचारमन्तरेण पुरुषस्य न सिद्धयेद्यदर्थं प्रवर्तेत । “ यदृच्छया ग्रामादिकामस्येव विचारोऽपि प्राप्त ” इति चेत् - एवं तर्ह्यनियतत्वत्-पुरुषेच्छायाः कश्चिन्न विचारयेत् । यदि विचारयेन्नाध्ययनसमनन्तरम् । अतोऽस्यांशस्या-
पृष्ठ 282
पाठ पढ़ें पाठ छिपाएँ
२०८ मनुस्मृतिः [ द्वितीयः प्राप्तत्वाद्यावदप्राप्तं विधेर्विषय इत्यस्ति विधेर्व्यापारः । तस्मादध्ययनस्यान्यतः प्राप्त-त्वात्तत्सम्बन्धस्यावबोधस्यानिश्चितरूपस्य वस्तुस्वाभाव्येनोत्पत्तेस्तादृशस्य न क्वचिदर्थ-वत्त्वात्सत्यपि तस्मिन्संस्कारकत्वान्निर्व्यूढे निश्चितस्यैव फलवत्कर्मानुष्ठानोपयोगित्वा-निश्चयस्य विचारसाध्यत्वात्तस्य च नियतकालावश्यकर्तव्यताप्राप्तेस्तन्निवृत्त्यर्थं विचार-पर्यवसायी विधिरयमवतिष्ठते । अतो भवत्याकाङ्क्षा नियमानाम् — किं श्रुताध्ययनपर्यवसानावधिरुताऽऽक्षिप्तनिश्चि-तावबोधजननार्थविचारपर्यवसानः । अतोऽस्यामपेक्षायां ' वेदमधीत्य स्नायादि'त्यनेना-वधिसमर्पणं क्रियते । तत्र प्रकृतस्यापेक्षायाश्चाविशेषाद्युक्ता लक्षणा । “ ननु किमिदमुच्यतेऽश्रुतोऽवबोधः, यावता ' अधिगन्तव्य इति ' श्रूयत एव । वेदे स्मृतिषु चान्यासु ‘ वेदमधीते ' ' स्वाध्यायोऽध्येतव्यः ' इति च पठ्यते । मानव्या अपि स्मृतेरेतत्स्मृतिमूलत्वादभिन्नार्थतैव " । आक्षिप्तावबोधाभिप्रायोऽयमधिगमः । यदि वा स्वरूपग्रहणमेवाधिगमः । अवबोध-पर्यन्तता तु तेनैव न्यायेन लभ्यते । न च विसमञ्जसमेकोऽयं विधिस्तस्य च विषयांशः कश्चिदाचार्यविधिना प्रयुज्यते, कस्यचिदंशस्य स एव प्रयोजक इति वैरूप्यम् । किमत्रा-नुपपन्नम्, अर्थभूतस्यैवावगमात् । -यत्तूक्तं “ अनेकवेदाध्ययनमदृष्टार्थं युक्तमिति ” – तस्य ‘ षट्त्रिंशदाब्दिकम् ' इत्यत्र परिहारं वक्ष्यामः । वेदशब्दो मन्त्रब्राह्मणवाक्यसमुदायात्मिकां शाखामाचष्टे । तदवयवेऽपि वाक्ये वेदशब्दस्य प्रयोगदर्शनात् तदाशङ्कानिवृत्त्यर्थः कृत्स्नशब्दः । यद्यप्येकस्मिन्वाक्ये-ऽधीते वाक्यान्तरस्यापि वेदशब्दवाच्यत्वादनिवृत्तमध्ययनं संस्कारकर्मत्वाद्ग्रहवत्तथापि विस्पष्टार्थं कृत्स्नग्रहणम् । अन्ये त्वङ्गविषयं कृत्स्नशब्दं वर्णयन्ति । वेदशब्दो ह्युक्तपरिमाणस्य वाक्य-समुदायस्य वाचक: । तत्र ऋङ्गात्रेणापि न्यूने न स्वाध्यायोऽधीतो भवति । तस्मात्कृत्स्न-शब्दोऽङ्गाध्ययनप्राप्त्यर्थः । तथा च स्मृत्यन्तरम् " ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येय ” इति । " ननु यो ' वेद: ' स कृत्स्न इत्येतदत्र प्रतीयते । न चाङ्गानि वेदशब्दवाच्यानि । तत्र कुतोऽङ्गैः साहित्यम् । या त्वेषा स्मृतिः ‘ षडङ्गो वेदोऽध्येय ' इति तत्र स्वशब्दे-नाङ्गान्युपात्तानि । इह तु वेदविशेषणत्वात्कृत्स्नशब्दस्य कथमिवाङ्गानि गृह्येरन् ” । उच्यते 1 । स्वाध्यायोऽध्येतव्य इतिमूलैवैषा स्मृतिः । सा चावबोधपर्यन्ता व्यव-स्थापिता । अवबोधश्च नान्तरेणाङ्गानि कल्पत इत्यर्थसिद्धमङ्गानामुपादानम् । अतो
पृष्ठ 283
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २० ९ निगमनिरुक्तव्याकरणमीमांसावेदनमपि विध्याक्षिप्तम् । एवमर्थमङ्गानामुपादानमङ्गीकृत्य कृत्स्नशब्दो द्योतकत्वेन युक्त उपादातुम् । तत्र यथाऽऽरम्भकाणि पुरुषस्य हस्तपादादी-न्यङ्गान्युच्यन्ते, नैवं वेदस्य निरुक्तादीन्यारम्भकाणि । अथ च भक्त्याऽङ्गत्वेन वेद-स्योच्यन्ते । न किल तैर्विना वेदः स्वार्थाय प्रभवत्ययोऽङ्गानीवाध्यासोऽत्र । एवमध्या-रोपितदत्वेन कृत्स्नशब्द उपपद्यते ।
सरहस्य इति रहस्यमुपनिषदः । सत्यपि वेदत्वे प्राधान्यात्पृथगुपादानम् ॥१६५ ॥
हिन्दी — द्विज को शास्त्रोक्त विधि से बतलाए गए तथा अनेक प्रकार के व्रतों ( नियम - श्लो ० ७०, ७५ इत्यादि में कथित ) से रहस्य ( उपनिषदों ) के साथ सम्पूर्ण वेदों का अध्ययन करना चाहिए ॥ १६५ ॥
वेदाभ्यास की श्रेष्ठता-वेदमेव सदाभ्यस्येत्तपस्तप्स्यन् द्विजोत्तमः ।
वेदाभ्यासो हि विप्रस्य तपः परमिहोच्यते ॥ १६६ ॥
भाष्य - प्रकृतशेषतया प्राप्त एव ग्रहणार्थोऽभ्यासोऽनूद्यते स्तुत्यर्थम्; न पुन-र्विध्यन्तरम् । सदाशब्दो ग्रहणकालापेक्ष एव । तपः शब्दः शरीरक्लेशजननेष्वाहारनिरोधादिषु शास्त्रीयेषु वर्तते । इह तु तज्जन्या-त्मसंस्कारो वराभिशापादिसामर्थ्यं लक्षणयोज्यते । तत्तपस्तप्स्यन् तपसाऽर्जयितुमिच्छन्, अर्जनाङ्गे सन्तापे धातुर्वर्तते । कर्मकर्तृत्व-स्याविवक्षितत्वात्परस्मैपदम् । हेतुरूपी द्वितीयश्लोकार्थोऽर्थवादः । वेदाभ्यासो हि यावत्किञ्चित्प्रकृष्टं तपः, ततः परं श्रेष्ठम् वेदाभ्यासस्तत्तुल्यफलतामारोप्य स्तूयते ॥१६६ ॥
हिन्दी - तपस्या को ( भविष्य में ) करने वाला ब्राह्मण सर्वदा वेद का ही अभ्यास करे; क्योंकि ब्राह्मण के लिए वेदाध्ययन ही इस लोक में उत्कृष्ट तप कहा गया है ॥१६६ ॥
वेदाभ्यास की प्रशंसा-आ हैव स नखाग्रेभ्यः परमं तप्यते तपः ।
यः स्रग्व्यापि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्यहम् ॥ १६७ ॥
भाष्य — अयमपरो वाजसनेयकस्वाध्यायविधिर्ब्राह्मणेऽर्थवादानुवादः । आ नखाग्रेभ्य एवेति सम्बन्धः । हशब्द ऐतिह्यसूचक: । फीट परमशब्दात्तपसः प्रकर्षे प्रतिपत्रे नखाग्रग्रहणं प्रकृष्टस्यापि प्रकर्षमाह । नखाग्राणि
पृष्ठ 284
पाठ पढ़ें पाठ छिपाएँ
२१० मनुस्मृति: [ द्वितीय: निर्जीवानि तान्यपि तपसाऽनेन व्याप्यन्ते । तपो हि कृच्छ्रादिकं नखाग्राणामव्यापकत्वान्न निःशेषफलप्रदम्, इदं तु तान्यपि व्याप्नोतीति प्रशंसा । तप्यते तप इति । ‘ “ तपस्तपःकर्मकस्यैव ' ( पा ० सू ० ३ । १।८८ ) इति यगात्मनेपदे । यः स्रग्व्यपि । स्रगस्यास्तीति स्रग्वी, कृतकुसुमदामा पुरुष उच्यते 1 । अनेन च ब्रह्मचारिनियमत्यागं दर्शयति । परित्यज्यापि ब्रह्मचारिधर्मान् यदि शक्तितो यावच्छक्नोति
स्वल्पमप्यन्वहं प्रत्यहं वेदमधीते सोऽपि प्रकृष्टेन पुरुषार्थेन युज्यते ।
स्तुतिरियं न पुनर्नियमत्यागेऽध्ययनमुच्यते ॥ १६७ ॥
हिन्दी – पुष्पमाला को धारण करता हुआ भी ( ब्रह्मचर्यावस्था में पुष्पमाला पहनने का निषेध है, तथापि वैसा करता हुआ भी ) जो ब्राह्मण प्रतिदिन शक्ति के अनुसार स्वाध्याय ( वेदाभ्यास ) करता है, वह नख के अग्र भाग तक ( सिर से पैर के नखाग्र भाग तक अर्थात् सम्पूर्ण शरीर में ) श्रेष्ठ तपस्या को तपता ( करता ) ही है ॥१६७ ॥
वेदाभ्यास के विना अन्य शास्त्राभ्यास का निषेध—
योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् ।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ १६८ ॥
भाष्य – येषां तावत्कृत्स्नशब्दोऽङ्गपरिग्रहार्थस्तेषामनियतक्रमेऽध्ययने प्राप्ते क्रमो नियम्यते । प्रथमं वेदोऽध्येतव्यस्तोऽङ्गानि । येषां तु वेदस्यैवासाकल्याशङ्कानिवृत्त्यर्थं, तेषां त्रैविद्यव्रतानन्तरं वेदस्यैव प्राप्तमध्ययनम् । अगृहीते वेदेऽङ्गानामध्ययनन्नाभ्यनुज्ञायते । यो द्विजो वेदमनधीत्यान्यत्र शास्त्रे अङ्गेषु तर्कशास्त्रग्रन्थेषु वा श्रममभियोगा-तिशयं कुरुते स जीवन्नेव शूद्रत्वमाप्नोति । आशु क्षिप्रम् । सान्वयः पुत्रपौत्रादि-सन्तत्या सह । ' श्रमो ' यत्नातिशयस्तन्निषेधायोगात्तत्समाप्तौ यथावसरमन्यान्यपि विद्यास्थानानि पठ्यन्ते । शूद्रत्वप्राप्तिवचनं निन्दातिशयः । द्विज इति वचनादुपनीतस्यायं क्रमनियमः । प्राक्चोपनयनादङ्गाध्ययनमनिषिद्धं शिक्षाव्याकरणादि यद्वेदवाक्यैर्न मिश्रितम् । “ ननु च स्वाध्यायविधिनाऽङ्गान्याक्षिप्यन्ते । तं च विधिमाचार्यप्रयुक्तो माणवको-ऽनुतिष्ठति । प्रागुपनयनादसत्याचार्यो कुतोऽङ्गाध्ययनसम्भवः? ” नैष दोषः । ‘ तस्मादनुशिष्टं पुत्रं लोक्यमाहुरिति ' ( बृहदारण्यक १।५।१७ ) पित्राऽयं संस्कर्तव्य: । स एनं प्रागुपनयनाद्व्याकरणाद्यध्यापयिष्यति ॥१६८ ॥
पृष्ठ 285
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २११ हिन्दी – जो द्विज वेद का विना अध्ययन किये ही दूसरे शास्त्र ( अर्थशास्त्र आदि ) में परिश्रम करता है, वह जीता हुआ ही वंशसहित ( पुत्र - पौत्रादि के साथ ) शीघ्र शूद्रत्व को प्राप्त करता है ॥ १६८ ॥
विमर्श — वेद का विना अध्ययन किये ही स्मृति तथा वेदाङ्गों के अध्ययन करने में उक्त दोष नहीं है, अतएव " वेद का विना अध्ययन किये वेदाङ्ग तथा स्मृतियों को छोड़कर अन्य विद्या ( राजनीति, अर्थशास्त्र आदि ) का अध्ययन न करें " ऐसा शङ्ख तथा लिखित ' का वचन है । द्विजत्वनिरूपण–
मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धने ।
तृतीयं यज्ञदीक्षायां द्विजस्य, श्रुतिचोदनात् ॥ १६ ९ ॥
भाष्य- मातुः सकाशादग्रे आदावधिजननं जन्म पुरुषस्य । द्वितीय मौञ्जिबन्धने उपनयने । ‘ ड्यापोर्बहुलम् ' ( पा ० सू ० ६।३।६३ ) इति ह्रस्वः । तृतीयं ज्योतिष्टो-मादियज्ञदीक्षायाम् । दीक्षाऽपि जन्मत्वेन श्रूयते - " पुनर्वारं तदृत्विजोगर्भं कुर्वन्ति
यद्दीक्षयन्तीति ” । त्रीणि जन्मानि द्विजस्य श्रुतिनोदितानि ।
“ नन्वेवं सति त्रिजः प्राप्नोति ' ॥
अस्तु । द्विजव्यपदेशे तावदुपनयनं निमित्तम् । तद्व्यपदेशनिबन्धश्च श्रौतस्मार्त-सामयिकाचारिककर्माधिकारः । प्रथमतृतीयजन्माभिधानं द्वितीयजन्मस्तुत्यर्थम् । सर्व-जन्मश्रेष्ठं तत् । अदीक्षितो हि यज्ञ एव नाधिक्रियते, अनुपनीतस्तु न क्वचिदेव | अन्ये त्वाद्यत्वसामान्यादाधानं यज्ञदीक्षां मन्यन्ते । तस्यापि जन्मसम्भवोऽस्ति-' अजात एवासौ योऽग्नीन्नाधत्त ' इति ॥ १६ ९ ॥ द्विजातीनां तत्र तत्राधिकारः श्रुतः । तत्राचार्यादिशब्दवत्सुहृत्त्वात्तदर्शनिरूपणार्थमाह-हिन्दी - वेदवाक्यानुसार द्विज का प्रथम जन्म माता से, द्वितीय जन्य यज्ञोपवीत संस्कार से और तृतीय जन्म ज्योतिष्टोमादि यज्ञों की दीक्षा से होता है । विमर्श – यहाँ प्रथम, द्वितीय और तृतीय जन्म का कथन द्वितीय जन्म ( द्विजत्व ) की प्रशंसा के लिये है; क्योंकि द्विज ही यज्ञ - दीक्षाग्रहण में अधिकारी होता है ॥ १६ ९ ॥ द्वितीय जन्म में आचार्य पिता तथा सावित्री - माता-तत्र यद् ब्रह्मजन्मास्य मौञ्जीबन्धनचिह्नितम् । तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ १७० ॥
१. “ अत एव शङ्खलिखितौ – न वेदमनधीतयान्तां विद्यामधीयीतन्यत्र वेदाङ्गस्मृतिभ्यः ” इति । ( म ० मु ० )
पृष्ठ 286
पाठ पढ़ें पाठ छिपाएँ
२१२ मनुस्मृतिः [ द्वितीय: तत्र एतेषु त्रिजन्मसु यदेतद्ब्रह्मजन्म उपनयनं मौञ्जीबन्धनचिह्नितं मेखलाबन्धे-नेनोपलक्षितम् । तत्रास्य माता सावित्री । तया ह्यनूक्तया तन्निष्पन्नं भवति । अनेन च सावित्र्यनुवचनमुपनयने प्रधानं दर्शयति तदर्थं ह्यसौ समीपमानीयते । पिताऽऽचार्यः । मातापितृनिर्वर्त्यं जन्म । अतो रूपकभङ्गया तत्राप्याचार्यसावित्र्यौ मातापित-रावुक्तौ ॥१७० ॥
मौञ्जीबन्धनचिह्नितमित्युक्तम् । तत्र रज्ज्वासञ्जनादाचार्यः पितृवन्मान्यः स्यात्तदर्थ-मुच्यते-हिन्दी – पूर्व श्लोकोक्त उस तीनों जन्मों में द्विज का यज्ञोपवीत से चिह्नित जो द्वितीय जन्म होता है, उसमें इसकी माता - सावित्री ( गायित्री ) तथा पिता आचार्य हैं । ( इस प्रकार माता तथा पिता के द्वारा यज्ञोपवीत संस्कार में द्विजत्व रूप द्वितीय जन्म होता है ) ॥ १७० ॥
बिना यज्ञोपवीत संस्कार के द्विजकर्म का अनधिकार-वेदप्रदानादाचार्यं पितरं
परिचक्षते ।
न ह्यस्मिन् युज्यते कर्म किञ्चिदामौञ्जिबन्धनात् ॥ १७१ ॥
भाष्य — वेदप्रदानादाचार्यं पितरं परिचक्षते । कृत्स्नवेदाध्यापनान्नोपनयनाङ्ग-भूतसावित्र्यनुवचनमात्रादेव । प्रदानं माणवकस्य वेदाक्षरोच्चारणे स्वीकारोत्पादनम् । “ यद्येवं, यावन्नाचार्येण पितृत्वं प्राप्तं तावन्न माणवको द्वितीयं जन्म समश्रुते । अप्राप्तद्विजभावश्च प्रागिवोपनयनात्कामचारःस्यात्'- ' - अत आह न ह्यस्मिन्प्राङ्-मौञ्चिबन्धनादस्य माणवकस्य किञ्चित्कर्म श्रौतस्मार्तमाचारप्रतिष्ठं वाऽदृष्टार्थं प्रयुज्यते— न तत्राधिक्रियते — उपनयनसमनन्तरमेव सर्वैर्द्विजातिपुरुषधर्मैरधिक्रियते । “ नन्ववैद्यत्वात्तस्यामवस्थायां कथमधिक्रियताम् ” । एतदर्थमेवोक्तं “ गुरौ शिष्यश्च याज्यश्चेति ” । आचार्येणासौ शिक्षयितव्यः । तदुक्तं ' शौचाचारांश्च शिक्षयेत् ' ( मनु ० २।६ ९ ) । यथा च गौतम: ( अ ०२ सू ०६ ) – ' उप-नयनादिर्नियम ' इति । आचार्यस्य तु वेदसमापनान्तो व्यापारः ॥१७१ ॥
हिन्दी - मनु आदि महर्षि वेदोपदेश करने के कारण आचार्य को पिता कहते हैं; क्योंकि इसे ( ब्राह्मण बालक को ) यज्ञोपवीत संस्कार के पहले किसी श्रौत तथा स्मार्त कर्म को करने का अधिकार नहीं है ॥१७१ ॥
पृष्ठ 287
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता यज्ञोपवीत के पूर्व वेदमन्त्रोच्चारण का निषेध-नाभिव्याहारयेद् ब्रह्म स्वधानिनयनादृते । २१ ३ शूद्रेण हि समस्तावद्यावद्वेदे न जायते ॥ १७२ ॥
भाष्य — आमौञ्जिबन्धनादित्यनुवर्तते । यदि वा यावद्वेदे न जायत इत्यर्थवादत्तो-ऽवधिपरिनिश्चयः । ब्रह्म वेदस्तन्नोच्चारयेत् । पितुरयमुपदेशः । यथा मद्यपानादिभ्यो रक्षेत्तथा वेदा-क्षरोच्चारणात् । केचित्त्विममेव ब्रह्माभिव्याहारनिषेधं प्रागुपनयानाद्व्याकरणाद्यङ्गाध्ययने ज्ञापकं वर्ष्ण-यन्ति, णिजर्थं व्याचक्षते - ' पित्रा न वाचनीय: बाल्यात्तु कानिचिदव्यक्तानि वेद-वाक्यानि स्वयं पठतो न दोष: ' । एतत्तु न युक्तम् । स्मृत्यन्तरे हि पठ्यन्ते ' न ब्रह्माभि-व्याहरेदिति ' ( गौ ० अ ० २ सू ० ५ ) । अर्थवादे च श्रुतं शूद्रेण हि समस्तावदिति । यथा शूद्रो दुष्यति तद्वदयमपीत्युक्तं भवति । ' स्वधा ' शब्देन पितृभ्यः कल्पितमन्नमिहोच्यते । अथवा पित्र्यं कर्म ' स्वच्या ' शब्देनोच्यते । तन्निनीयते त्यज्यते प्राप्यते येन मन्त्रेण स ' स्वाधानिनयन: ', “ शुन्धन्तां पितरः ” इत्यादिः तं वर्जयित्वाऽन्यमन्त्रो नोच्चारयितव्यः । अनुपनीतेनोकदाननवश्राद्धादि पितुः कर्तव्यमित्यस्मादेव प्रतीयते । पार्वणश्राद्धादौ त्वग्निमत्त्वाभावादनधिकारः । पिण्डा-न्वाहार्यके हि तद्वक्ष्यते । तृतीये चैतन्निपुणमुपपादयिष्यामः ॥१७२ ॥
हिन्दी — ब्राह्मणादि विना यज्ञोपवीत संस्कार हुए श्राद्धकर्म के अतिरिक्त कर्म में वेदमन्त्र का उच्चारण न करे; क्योंकि वह जब तक वेद में अधिकारी ( यज्ञोपवीत संस्कार युक्त ) नहीं होता; तब तक वह ( द्विज ) शूद्र के समान है ॥१७२ ॥
यज्ञोपवीत संस्कार युक्त का वेदाधिकार-कृतोपनयनस्यास्य
व्रतोदेशनमिष्यते ।
ब्रह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम् ॥ १७३ ॥
भाष्य —— उपनीय गुरुः शिष्यम् ' इत्यनेन शौचाचाराध्ययनानां क्रम उतः । अतश्च तेनैव क्रमेण पठेत् । उपनयनानन्तरमध्ययने प्राप्ते क्रमान्तरार्थमिदमारभ्ययाते उपनीतस्य त्रैविद्यादिव्रतं च कर्तव्यम् । ततः स्वाध्यायोऽध्येतव्यः । कृत्याप-। नयनस्य ब्रह्मचारिणो व्रतादेशनमिष्यते क्रियते चाचार्यैः । शास्त्रांशेनैवमिष्यते अतश्च कर्तव्यतैवैषणा प्रतिपाद्यते 1 । ततो ब्रह्मणो वेदस्य । विधिक ग्रहणम् । क्रमेणानेन मित्यनुवादः श्लोकपूरणार्थः ॥ १७३ ॥
मनु I- 18
पृष्ठ 288
पाठ पढ़ें पाठ छिपाएँ
२१४ मनुस्मृतिः [ द्वितीयः हिन्दी – यज्ञोपवीत संस्कार होने पर व्रतों का ( हवन के लिये समिधा का लाना, दिन में सोने का निषेध ) वेद का उपदेश तथा ग्रहण ( अध्ययन ) क्रमश: विधिपूर्वक इष्ट है । ( अत: यज्ञोपवीत के पहले इनका उपदेशादि नहीं करना चाहिये ) ॥१७३ ॥
गोदानादि व्रत में यज्ञोपवीतोक्त दण्डादिधारण-यद्यस्य विहितं चर्म यत्सूत्रं या च मेखला । यो दण्डो यच्च वसनं तत्तदस्य व्रतेष्वपि ॥ १७४ ॥
भाष्य — गृह्यकारैर्व्रतमानधेयकानि कर्माण्युपदिष्टादि । ‘ संवत्सरं वेदं भागं वा किञ्चिज्जिघृक्षत ' । इयं व्रतचर्या यो यमनियमसमूहः । तत्र पूर्वव्रतसमाप्तौ व्रतान्तरारम्भे उपनयने ये विधयस्तादृश एव व्रतादेशेषु । " अथ प्रागुपात्तानां का प्रतिपत्तिः? ” अप्सु प्रासनम् । “ ननु च तदुक्तं प्रागुपात्तानाम् । विनष्टानां का प्रतिपत्ति:? ' ' विनाशे शास्त्रनोदितं चैषां कार्यमन्योपादानाच्च तेषां निवृत्तिः । यच्चर्म यस्य ब्रह्मचारिणो विहितं यथा “ कार्ष्णं ब्राह्मणस्य रौरवं क्षत्रियस्य ” इति । एवं दण्डादिष्वपि द्रष्टव्यम् । तस्य व्रतेष्वपि । प्रकृतत्वाद् व्रतशब्दो व्रतादेशे वर्तते ॥१७४ ॥
हिन्दी – ब्रह्मचारी के लिये जो कर्म, सूत्र, मेखला, दण्ड और वस्त्र यज्ञोपवीत में बतलाये गये हैं ( श्लो ० ४१-४७ ), इनको उसे ( गोदानादि ) व्रतों में भी ग्रहण करना चाहिये ॥१७४ ॥
तपोवृद्धि के लिये नियम पालन-सेवेतेमांस्तु नियमान् ब्रह्मचारी गुरौ वसन् ।
सन्नियम्येन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः ॥ १७५ ॥
भाष्य — वक्ष्यमाणस्य यमनियमसमूहस्य पृथक्प्रकरणत्वेन श्लोकोऽयं गौरव-ख्यापनार्थः । एवं तु यत्पूर्वमुक्तं तदवश्यकर्तव्यम् – इदं तु ततो गुरुतरमनुष्ठीयमानं महते फलाय । ________ ब्रह्मचारिग्रहणं प्रकरणान्तरत्वेनातद्धर्माशङ्क्याऽनुसन्धानार्थम् । “ यदि ब्रह्मचारिधर्म एव आसीत्किंतर्हीदमुच्यते प्रकरणान्तरमिति? ” पूर्वेभ्य एतेषामतिशयात्समानधर्मत्वादेतावता वैलक्षण्येन प्रकरणान्तरत्वव्यव-हारः । परिशिष्टानि पदानि श्लोकपूरणार्थतयाऽनूद्यन्ते ।
पृष्ठ 289
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २१५ सेवेत अनुतिष्ठेत । इमान्वक्ष्यमाणान् । बुद्धौ सन्निहितत्वादिदमा निर्दिश्यन्ते । गुरौ वसन् गुरुसमीपे विद्याध्ययनार्थम् वसन् इति नित्यसन्निधानमाह । सन्नियम्येन्द्रियग्रामं प्रागुक्तेन मार्गेण । तपोवृद्ध्यर्थम् अध्ययनविध्यनुष्ठानजन्यात्मसंस्कारार्थम् ॥१७५ ॥
को वश में हिन्दी - गुरु के समीप में निवास करता हुआ ब्रह्मचारी इन्द्रिय - समूह करके अपनी तपोवृद्धि के लिये नियमों का पालन करे ॥१६५ ॥
तानीदानीं पूर्वेण प्रतिज्ञातान् नियमानाह—
नित्य स्नान, तर्पण तथा हवनादि-नित्यं स्नात्वा शुचिः कुर्याद्दिवर्षिपितृतर्पणम् ।
देवताभ्यर्चनं चैव समिदाधानमेव च ॥ १७६ ॥
भाष्य – प्रत्यहं स्नात्वा शुचिः स्नानेनापनीताशुचिभावो देवर्षिपितृतर्पणं कुर्यात् । यदि पुनः शुचिः न तदाऽवश्यं स्नायात् । शुचिग्रहणेन शुद्धिहेतुतयाऽत्र स्नानस्योपदिष्ट-त्वान्न स्नातकंव्रतवत्तदनुष्ठेयम् । अत एव स्मृत्यन्तरे च स्नानं प्रतिषिद्धम् । स प्रति-षेधो मृदा स्नानस्य प्रसाधनलक्षणस्य । गौतमेन तु स्नानमेव विहितम् — दण्ड इवाप्सु परिप्लवेत, मलापकर्षणं करनिघर्षणादिना कर्तव्यम् । असत्यमेध्यादिसंसर्गे, यत्स्वेदजं वस्त्ररेणुसंयोगादिसहजं मलं न तदशुचित्वमापादयति । तद्धि नियतरूपमेव । तथा च ब्राह्मणं ‘ किं नु मलं, किमजिनं, किमु श्मश्रूणि किं तप ' इति धर्मसाधनतामेवंविधस्य मलधारणस्य दर्शयति । “ कथं पुनः स्नानस्य शौचार्थता प्रतीयते? ” न पुनः स्नातः शुचिश्चोभयविशिष्टो देवकार्ये विनियुज्यते । स्नातस्याशुचित्वा-भावात्कृतशौचाचमनादेः स्नानविधानात्, ' स्नात्वा चाऽऽचान्तः पुनराचामेदिति ' च स्नातस्यापि शुचिरित्येतावता यादृशी शुद्धिस्तस्यां विज्ञायमानायां स्नानमपि सति निमित्ते प्राप्तं पुनरुच्यते । स्मृत्यन्तरं चेदमसत्यशुचित्वे निमित्ते प्रतिषेधार्थम् । तथा च ' वेदम-धीत्य स्नायादिति ' समाप्ते स्वाध्यायविधौ प्रतिप्रसविष्यति । कुयद्दिवर्षिपितृतर्पणम् । उदकदानं देवादिभ्यो गृहस्थधर्मेषु यदुक्तं तादृशमेव प्रतीयते, तर्पणशब्दसाहचर्यात् । ' यदेव तर्पयत्यद्भिरिति ', तथा “ देवतास्तर्पयति ” ( आश्व ० गृ ० ३।४।३ ) इति गृह्यकारैरुदकसाधनोऽयं विधिरुक्तः । उदकतर्पणमिति चैतत्संविज्ञायते । ते ‘ देवा ’ गृह्यकारैः पठिताः अग्निप्रजापतिब्रह्मेत्यादयः । तेषां च ‘ तर्पणं ' न सौहित्योत्पादनं, किं तर्हि तदुद्देशेनोदकाञ्जलिप्रक्षेपः । अतोऽयमुदकद्रव्यको याग एवोक्तो भवति । न ह्यन्यथा देवतात्वं भवति । यागसम्प्रदानं हि सेति स्मर्यते, न तृप्तेः कर्त्री ।
पृष्ठ 290
पाठ पढ़ें पाठ छिपाएँ
२१६ मनुस्मृतिः [ द्वितीयः एतावद्धि देवतालक्षणम्— ' सूक्तभाजो हविर्भाजश्च देवता: ' । तत्र सूक्तं स्तुत्यतया भजन्ते, हविः सम्प्रदानतया । तर्त्यत्वेन चोदकदानसम्प्रदानतामेव गुणवृत्त्या वक्ति । गुर्वादिसम्प्रदानं गवादिना तदुद्दिश्यमानस्वास्येन प्रतीयते । देवताऽपि सम्प्रदानभूतः । सम्प्रदानत्वसाम्यात् ‘ तृप्यन्ति ' इत्युच्यते । यदि देवतातृप्त्यर्थमेतत्स्यात्तदा संस्कारकर्मों-दकतर्पणं स्यात् । न च देवतानां संस्कार्यत्वोपपत्तिः । न हि ताः क्वचिदुपयुक्ता उप-योक्ष्यन्ते वा । न चाकृताकरिष्यमाणकार्यस्य संस्कारतोपपत्तिः । ऋषयो ये यस्यार्षेयाः । यथा पराशराणां वसिष्ठशक्तिपाराशर्या इति । गृह्य-कारैस्तु मन्त्रदृश ऋषयस्तर्पणोयत्वेनोक्ताः, मधुच्छन्दो गृत्समदो विश्वामित्र इति । अविशेषाभिधानादृषिशब्दस्योभयेऽपि प्राप्ताः । विशेषस्मृतित्वात् गृह्यस्मृतेस्त एव ग्रहीतुं न्याय्याः । पितरः पूर्वप्रेताः पितृपितामहाः सपिण्डाः समानोदकाश्च । पितॄणां तर्पणं तर्पण-मेव । एतच्च श्राद्धविधौ प्रत्यक्षेण वक्ष्यते । देवताभ्यर्च्चनम् । अत्र केचिच्चिरन्तना विचारयांचक्रुः– “ का एता देवता नाम यासामिदमभ्यर्चनमुच्यते । यदि तावच्चित्रपुस्तकन्यस्तः चतुर्भुजो वज्रहस्त इत्याद्या: - -' प्रतिकृतय ' इति लौकिका व्यवहरन्ति; अतो गौणस्तत्र देवताव्यवहारः । अथ याः सूक्तहविःसम्बन्धिन्यो वैदिकीभ्यश्चोदनाभ्यो मन्त्रवाक्येभ्यश्चावगम्यन्ते – शब्दार्थसम्बन्ध-विदश्च स्मरन्ति ‘ अग्निः अग्नीषोमौ मित्रावरुणौ इन्द्रो विष्णुः ' इति, – यद्येवं तत्क्रिया-सम्बन्धितयैव तेषां देवतात्वं नार्थसम्बन्धितया । तत्रापि यस्यैव हविषो या देवता तेन चोदिता तस्यैव सा भवति । तथा हि आग्नेयोऽष्टाकपाल इत्याग्नेये पुरोडाशे देवता, न सौर्ये चरौ । ” अयं च तेषां निर्णय:, – ' मुख्यासम्भवाद्गौणस्यैव ग्रहणं न्याय्यं, समाचाराच्च अतः प्रतिमानामेवैतत्पूजाविधानम् ।
यच्चात्र तत्त्वं तद् ‘ व्रतवद्देवदैवत्य ' ( श्लो. १८ ९ ) इत्यत्र वक्ष्यामः ।
समिदाधानं सायंप्रातरग्नौ दारुशकलप्रक्षेपणम् ॥१७६ ॥
हिन्दी - ब्रह्मचारी नित्य स्नानकर देवताओं, ऋषियों तथा पितरों का तर्पण, शिव और विष्णु आदि देव प्रतिमाओं का पूजन तथा प्रातः एवं सायंकाल हवन करे ॥ १७६ ॥
विमर्श — गौतम ने ब्रह्मचारी के लिये जो स्नान - निषेध किया है, वह सुखपूर्वक ( जल क्रिडादि के साथ ) स्नान विषयक निषेध है; इसी से " नाप्सु श्लाघमानः स्नायात् " अर्थात् ' जल में श्लाघापूर्वक स्नान न करे ' ऐसा कहा है, विष्णु ने तो प्रातः - सायं दो बार स्नान करने को कहा है । १. “ कालद्वयमभिषेकाग्निकार्यकरणमप्सुदण्डवन्मज्जनम् । ” इति ( म ० मु ० )