मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 291–300

मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 291–300

पृष्ठ 291

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 291 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता

वर्जयेन्मधु मांसं च गन्धं माल्यं रसान् स्त्रियः ।

शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम् ॥ १७७ ॥

२१७ भाष्य — मधु सारघम् । माध्वीकस्य तु मद्यत्वात्प्रागप्युपनयनात्प्रतिषेधो ‘ नित्यं मद्यं ब्राह्मणो वर्जयेत् ' इति ( गौतम २।२० ) । मांसं प्रोक्षिताद्यपि । गन्धशब्देन सुरभित्वातिशययुक्तानि कर्पूरागरुप्रभृतीनि द्रव्याणि सम्बन्धिलक्षणया प्रतिषिध्यन्ते । तेषामनुलेपनाद्युपभोगप्रतिषेधः, गन्धस्तु स्वदेशान्निर्गत आगच्छतीत्य-शक्यो निषेद्धुम् । तत्राप्याकस्मिकस्याप्यप्रतिषेधात्, भोगेच्छया त्वगरुधूपादौ दोष एव । अत उपाध्यायेन चन्दनवृक्षादिच्छेदने नियुक्तस्य तद्गन्धस्याघ्राणे वस्तुस्वभाव उत्पद्य-माने न दोषः । माल्यसाहचर्याच्चेदृशो गन्धः प्रतीयते । यस्तु नेदृशो हृदयोन्मादकरः कुष्ठघृतपूतिदार्वादिगन्धस्तस्याप्रतिषेधः । माल्यं कुसुमं ग्रथितम् । रसाः मधुराम्लादयः । “ ननु च नीरसस्य भोज्यत्वासम्भवात्प्राणवृत्तिरेव न स्यात् । ” सत्यम् । उद्रिक्तरसाः केवला गुडादयो निषिध्यन्ते । संस्कारकरणे द्रव्यान्तर्गता-नामपि प्रतिषेधः । अथवाऽत्यन्तरसिनः संस्कृतस्यान्नस्य सक्तिप्रतिषेधोऽयम् । यथोक्तम्— " योऽहेरिव धनाद्भीतो मिष्टान्नाच्च विषादिव - राक्षसीभ्य इव स्त्रीभ्यः स विद्यामधि-गच्छति ' इति । अन्ये तु शृङ्गारादीन्मन्यन्ते । नाटकादिप्रेक्षणेन काव्यश्रवणेन वा रसपुष्टिर्न कर्त्तव्या । अन्येषां तु दर्शनम् — इक्ष्वामलकादीनां योऽन्तर्द्रवरूपोदकवत् स रसस्तस्य निष्पी-डितस्य पृथक् कृतस्य प्रतिषेधो न पुनस्तदन्तर्गतस्य । तच्चैतदयुक्तम् । न हि रसशब्दो द्रवपर्यायः प्रसिद्धः । यत्र च यस्योचितमुपभोगान्तत्वं तदेव तस्य निषिध्यते । तेन मधुमांसयोर्भोजने प्रतिषेधः, न दर्शनस्पर्शनयोः । गन्धमाल्यस्यापि शरीरमण्डनाभिमानतयोपादानं निषि-ध्यते, न तु कथञ्चिद्धस्तादिना ग्रहणम् । एवं स्त्रियो मैथुनसम्बन्धेन । तदाशङ्कयैव च प्रेक्षणालम्भौ निषेत्स्यति । तथा च गौतमः ( अ ० २, सू ० १६ ) ' स्त्रीप्रेक्षणालम्भने मैथुनशङ्कायाम् ' इति । शुक्तानि प्राप्ताम्लरसानि केवलात्परिवासाद्द्रव्यान्तरसंसर्गाद्वाऽम्लतामापन्नानि । तेषां च द्विजातिधर्मत्वादेव सिद्धः प्रतिषेधः । पुनर्ग्रहणं गौणशुक्तपरिग्रहणार्थम् । तेन

पृष्ठ 292

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 292 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२१८ मनुस्मृतिः [ द्वितीयः रुक्षपरुषा वाचो निषिद्धा भवन्ति । यदुक्तं गौतमेन ( अ ० २, सू ० १ ९ ) ' शुक्तावाच ' इति । तदिदं ‘ सर्व ’ ग्रहणं चास्यैवार्थस्याविष्करणार्थम् । रसशुक्तान्यनूद्य सर्वाणीति विधीयते । ततो गौणपरिग्रहः सिद्धो भवति । ये त्वेवं व्याचक्षते— “ शुक्तशब्देन रसप्रतिषेधः सर्वशब्देनामानसानि वचांसि ’; -त इदं प्रष्टव्याः । अर्थप्रतिषिद्धानां प्रतिषेधार्थं सर्वग्रहणं कस्मान्न भवति? तथा सति च दध्यादेः शुक्तीभूतस्य प्रतिषेधः प्राप्नोति । यदि तु प्राप्तिमाश्रित्य पुनः प्रतिषेध उक्तार्थो व्याख्यायते तथा सति न कश्चिद्दोषः । प्राणिनां मशकमक्षिकादीनां बाल्यात् हिंसने प्राप्ते यत्नतः परिहारार्थं पुनः प्रतिषेधः | स्वाध्यायविध्यङ्गत्त्वार्थो वा । न केवलं हिंसायां पुरुषार्थप्रतिषेधातिक्रमो यावत्स्वाध्याय-विध्यर्थातिक्रमोऽपि । “ शुक्तादिष्वष्येवं कस्मान्न कल्प्यत ” इति चेदस्ति तत्र विषयान्तरे सावकाशम्, एकंरूपस्य विषयस्य व्यर्थत्वं सति गत्यन्तरे गरीयः ॥ १७७ ॥

हिन्दी —– ( ब्रह्मचारी ) मधु ( शहद ), मांस, सुगन्धित ( कपूर, कस्तूरी आदि ) पदार्थ, फूलों की माला, रस ( गन्ना, जामुन आदि का सिरका आदि ), स्त्री, अचार आदि और जीवों की हिंसा ( किसी भी प्रकार के जीवों को कष्ट पहुँचाना ) छोड़ दे ॥ १७७ ॥

अभ्यङ्गमञ्जनं चाक्ष्णोरुपानच्छत्रधारणम् ।

कामं क्रोधं च लोभं च नर्तनं गीतवादनम् ॥ १७८ ॥

भाष्य — घृततैलादिनां स्नेहेन शिरः शरीरम्रक्षणमभ्यङ्गः । अञ्जनं चाक्ष्णोः । अक्षिग्रहणं वृत्तपूरणार्थम् । अनयोश्चापि देहमण्डनार्थतया प्रतिषेधो नौषधार्थतया । गन्धमाल्यादिसाहचर्यात् । उपानहौ चर्मपादुके, न केवले । छत्रधारणं च स्वहस्तेन परहस्तेन वोभयस्यापि निषेधः । कामो रागः । मन्मथस्य स्त्रीप्रतिषेधादेव सिद्धः । क्रोधो रोषः । लोभो मोहः । अहङ्कारममकारौ चित्तधर्मावेते । नर्तनं प्राकृतपुरुषाणां हर्षाय गात्रविक्षेपो भरतादिदृष्टाभिनयप्रयोगश्च । गीतं षड्जादिस्वरप्रदर्शनम् । वादनं वीणावंशादिभिः स्वरवच्छब्दकरणं, पणव-मृदङ्गाद्यभिघातश्च तालानुवृत्त्या ॥१७८ ॥

हिन्दी - ( ब्रह्मचारी ) सिर से पैर तक ( सर्वाङ्ग में ) तैल की मालिश या उबटन लगाना, आँखों में अञ्जन लगाना, जूता और छाता धारण करना, काम ( विषयाभिलाष ) क्रोध, लोभ, नाचना, गाना, बजाना छोड़ दे ॥ १७८ ॥

पृष्ठ 293

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 293 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता

द्यूतं च जनवादं च परिवादं तथानृतम् ।

स्त्रीणां च प्रेक्षणालम्भादुपघातं परस्य च ॥ १७ ९ ॥

२१ ९ भाष्य - द्यूतम् अक्षक्रीडा समाह्वयः कुक्कुटादिभिः प्रतिषिद्धः, द्यूतशब्दस्य सामान्य-शब्दत्वात् । जनैर्वादः । अकारणेन लौकिकेष्वर्थेषु वाक्कलहः, देशवार्ताद्यन्वेषणं प्रश्नो वा । परिवादः असूयया परदोषकथनम् । अनृतम् अन्यथा दृष्टमन्यथा च श्रुतं यदन्यथोच्यते । सर्वत्र वर्जयेदित्यनुषङ्गाद्वितीया । स्त्रीणां च प्रेक्षणालम्भौ अवयवसंस्थाननिरूपणम् प्रेक्षणम् इदमस्या: शोभते-ऽङ्गमिदं नेति | आलम्भः आलिङ्गनम् । मैथुनशङ्कायां चैतौ प्रतिषिध्येते । बालस्य यथातथम् । परस्योपघातोऽपकारः कस्याञ्चिदर्थसिद्धौ प्रतिबन्धः । कन्यालाभादौ पृच्छमानेन अयोग्यस्याप्ययोग्यत्वं न वक्तव्यम्, तूष्णीमासितव्यम्, अनृतप्रतिषेधात् ॥१७ ९ ॥ हिन्दी - ( ब्रह्मचारी ) जुआ, लोगों के साथ निरर्थक बकवाद, दूसरों की निन्दा, असत्य, अनुराग में स्त्रियों को देखना तथा उनका आलिङ्गन करना और दूसरों को हानि पहुँचाना छोड़ दे ॥१७९ ॥

इच्छा से वीर्यपात करने का निषेध-एकः शयीत सर्वत्र न रेतः स्कन्दयेत्क्वचित् ।

कामाद्धि स्कन्दयन् रेतो हिनस्ति व्रतमात्मनः ॥ १८० ॥

भाष्य – एकः शयीत सर्वत्र न रेतः स्कन्दयेत्क्वचित्, अयोनावपि I । योनौ स्त्रीप्रतिषेधादेव सिद्धत्वात् । अत्रार्थवादः कामाद्धि स्कन्दयन् । इच्छाऽत्र ‘ काम: ' । हस्तव्यापारादिना, अयोनौ मैथुनेन च, रेतः शुक्रं स्कन्दयन् क्षरयन्हिनस्ति नाशयति ब्रह्मचर्यव्रतमात्मनः ॥ १८० ॥

हिन्दी - ( ब्रह्मचारी ) सर्वत्र अकेला ही सोवे, ( इच्छापूर्वक ) वीर्यपात न करे; क्योंकि इच्छापूर्वक वीर्यपात करता हुआ ( ब्रह्मचारी ) अपने व्रत से भ्रष्ट हो जाता है ॥ १८० ॥

स्वप्न में वीर्यपात होने पर स्नानादि कार्य-स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः । स्नात्वाऽर्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ॥ १८१ ॥

भाष्य — कामाद्व्रतलोपेनावकिर्णिप्रायश्चित्तम्, अकामात्विदमाह ।

पृष्ठ 294

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 294 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२० मनुस्मृतिः [ द्वितीयः स्वप्नग्रहणमविवक्षितम्, अकामत इत्येतदेव निमित्तम् । न हि स्पप्ने काम-सम्भव:। अतो यद्यसुप्तस्यापि कथञ्चिदनिच्छया स्वमलासृगवयववत्प्रक्षरति शुक्रं तत्रा-प्येतदेव प्रायश्चित्तम् । अकामतो रेतः सिक्त्वेदं प्रायश्चित्तं कुर्यात् – पुनर्मामिति ऋचं जपेत् ॥१८१ ॥

-हिन्दी – ( ब्रह्मचारी ) विना इच्छा के स्वप्न में वीर्यपात हो जाने पर स्नान तथा सूर्य का पूजन कर तीन बार “ पुनर्मामैत्विन्द्रियम् ” – मन्त्र का जप करे ॥१८१ ॥

आचार्य के लिये जलादि लाना-उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान् ।

आहरेद्यावदर्थानि भैक्षं चाहरहश्चरेत् ॥ १८२ ॥

भाष्य — यावद्भिः अर्थः प्रयोजनमुपाध्यायस्य सिद्ध्यति तावदुदकुम्भादि आहरेत् । प्रदर्शनार्थं चैतत् । अन्यदपि गृहोपयोगि यदगर्हितं कर्म तत्कुर्यात् । गर्हितं गुरुव्यति-रेकेणोच्छिष्टापमार्जनादि न कारयितव्य इत्येवमर्थोऽयं श्लोकः । यतः सामान्येन शुश्रूषा गुरौ विहिता । यावानर्थ एषमिति विग्रहः । भैक्षं चाहरहश्चरेत्सिद्धमन्नमत्यन्ताल्पं यात्राविषयं ' भैक्ष ' मत्रोच्यते । नैकान्ना-दीति प्रतिषेधेऽन्नशब्दोपादानादन्नं प्रतीयते । ' समाहृत्य भैक्षं निवेद्याश्नीयात् ' इति सामा-नाधिकरण्यात्सिद्धान्नप्रतिपत्तिः । शुष्के ह्यन्ने भिक्षिते कुतस्तस्याशनम् । समाहृतस्य गुरुगृहे पच्यमानस्य भैक्षप्रकृतिता, स्यान्न भैक्षता । प्रसिद्ध्या चेदृशमेव भैक्षमुच्यते । अहरहः । “ ननु ‘ भैक्षेण वर्तयन्त्रित्यम् ( १८८ ) इत्येतस्मादेव सिद्धमहरहश्चरणं सिद्ध्यति । " वृत्तिविधानार्थं ‘ नित्य’ग्रहणम् । पर्युषितेनापि घृतादिस्नेहसंयुक्तेन स्याद्वृत्तिस्तद-र्थमिदम् — अहरहर्भिक्षित्वाऽशितव्यम्, न पुनरेकस्मिन्नहनि भिक्षितमपरेद्युः परिवास्य यत्किञ्चित्स्नेहयुक्तमिति प्रतिप्रसवेन भुञ्जीत ॥१८२ ॥

॥ येभ्यो भैक्षमासादयितव्यं तान् वक्ति-हिन्दी— ( ब्रह्मचारी ) पानी का घड़ा, फूल ( देवपूजन के लिये ) गोबर, मिट्टी और कुशों को आचार्य की आवश्यकता के अनुसार ही लाये । ( एक बार ही अत्यधिक लाकर सञ्चय न करे ) और प्रतिदिन भिक्षा ( भोजन के लिये ) माँगे ॥१८२ ॥

भिक्षायोग्य गृह-वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु ।

ब्रह्मचार्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ॥ १८३ ॥

पृष्ठ 295

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 295 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता २२१ भाष्य - वेदयज्ञैश्च ये अहीना वेदाध्ययनेन संयुक्ता:, यज्ञानां च सत्यधिकारे कर्तारः । अहीना अवर्जिताः तदुपेता इति यावत् । स्वकर्मसु च प्रशस्ताः । येषां यज्ञेऽधिकारो नास्त्यन्तस्मिन् शस्ते कर्मणि तत्पराः । अथवा स्वकर्मप्रशस्तास्त उच्यन्ते ये स्ववृत्तावेव सन्तुष्टा न वार्द्धषिकादिवृत्त्युपजीविनः ।

तेषां गृहेभ्यो भैक्षमाहरेद्याचित्वा गृह्णीयात्प्रयतः शुचिः ।

अन्वहमित्यनुवादः ॥ १८३ ॥

हिन्दी – वेदाध्ययन तथा पञ्चमहायज्ञों से अहीन ( इनको नित्य करने वाले ) और अपने कर्म में श्रेष्ठ लोगों के घरों से जितेन्द्रिय ब्रह्मचारी प्रतिदिन भिक्षा लावे ॥ १८३ ॥

गुरु के कुल तथा अपनी जाति आदि में भिक्षा याचना - निषेध-गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु । अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ॥ १८४ ॥

भाष्य-- सत्यप्येतद्गुणयोगे गुरुगृहे न भिक्षेत । पूर्वं कुलं वंशः ततो गुरोर्ये पितृव्यादयस्तेभ्योऽपि न ग्रहीतव्यम् । ज्ञातयः, ब्रह्मचारिणः पितृपक्षा:, तेषां कुले । बन्धुषु च मातृपक्षेषु मातुलादिषु । नैवमभिसम्बन्धः कर्तव्यः— ' गुरुज्ञात्यादिष्विति ' । गुरोः कुल इति कुल शब्दे-नैव तेषां सङ्ग्रहीतत्वात् । “ कुतस्तर्हि भिक्षेत? ” एतद्व्यतिरेकेणान्यगेहेभ्यः । अलाभेऽसम्भवेऽन्यगेहानाम् । सर्व एव यदि ग्रामो गुरुज्ञातिबन्धुभिर्व्याप्तोभव-त्यन्ये नैव सन्ति, सन्तो वाऽन्नं न ददति । एतेष्वपि गृहेषु भिक्षितव्यम् । अन्याभावे प्रथमं बन्धुं भिक्षेत, तदभावे ज्ञातिं, तदभावे गुरुकुलम् ॥१८४ ॥

हिन्दी— ( ब्रह्मचारी ) गुरु के कुल में, अपनी जाति वालों में, कुल बान्धव ( मामा, मौसा आदि ) में भिक्षा - याचना न करे । यदि भिक्षा - योग्य दूसरे घर नहीं मिले तो पूर्व-पूर्व का त्याग कर दे ( योग्य गृह के अभाव में कुलबान्धव में, उसके अभाव में अपनी जाति वालों और उसके अभाव में गुरु के कुल ( सपिण्ड ) में भिक्षा - याचना करे ) ॥१८४ ॥

योग्य गृहाभाव में सम्पूर्ण ग्राम में भिक्षा- याचना-सर्वं वाऽपि चरेद्ग्रामं पूर्वोक्तानामसम्भवे । नियम्य प्रयतो वाचमभिशस्तांस्तु वर्जयेत् ॥ १८५ ॥

पृष्ठ 296

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 296 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२२ मनुस्मृतिः [ द्वितीयः भाष्य – पूर्वोक्तानां वेदयज्ञैरहीनानामसम्भवे सर्वं ग्राममनपेक्षवर्णविभागं विचरेत् भ्राम्येत् जीवनार्थम् । केवलमभिशस्तान्कृतपातकत्वेन प्रसिद्धान् अदृष्टपातकानपि वर्जयित्वा । तथा च गौतम: ( अ ० २, सू ० ३५ ) “ सार्ववर्णिकं भैक्ष्यचरणमभिशस्त-पतितवर्जम् । ” नियम्य वाचं भिक्षावाक्यं वर्जयित्वा आ भैक्षलाभादन्यां वाचं नोच्चरेत् ॥ १८५ ॥

हिन्दी — अथवा पूर्वोक्त ( श्लोक ० १८० - १८४ ) योग्य गृहों के अभाव में मौन धारणकर तथा पवित्र होकर पूरे ग्राम में भिक्षा - याचना करे, किन्तु महापातकियों

( ९ ।२३४ ) के घरों को छोड़ दे । ( उनके यहाँ भिक्षा- याचना कदापि न करे ) ॥१८५ ॥

समिधा का लाना तथा प्रातः - सायं हवन करना-दूरादाहृत्य समिधः सन्निदध्याद्विहायसि ।

सायंप्रातश्च जुहूयात्ताभिरग्निमतन्द्रितः ॥ १८६ ॥

भाष्य-- दूरग्रहणमपरिगृहीतदेशोपलक्षणार्थम् । ग्रामात्किल दूरमरण्यं, न च तत्र कस्यचित्परिग्रहः । अनुपलक्षणे हि दूरार्थे कियद्दूरमित्यनवस्थितः शास्त्रार्थः स्यात् । आहृत्य आनीय | सन्निदध्यात्स्थापयेत् । विहायसि गृहस्योपरि । न हि निरालम्बनेऽन्तरिक्षे निधानं सम्भवति । ताभिः सायंप्रातर्जुहूयात् । आहरणं तु तात्कालिकमन्यदा वेच्छया । विहायसि निधानमदृष्टार्थमित्याहुः । अन्ये तु ब्रुवते सम्प्रत्यानीयमानं वृक्षाद्दारु आर्द्रं भवतीति, गृहस्योपरि अन्यस्य वा प्राकारादेः तन्निधातव्यम् ॥१८६ ॥

हिन्दी - दूर से समिधा लाकर खुले स्थान में ( जहाँ छप्पर आदि न हों ) उन्हें रख दे और समिधाओं से प्रातःकाल तथा सायंकाल हवन करे ॥ १८६ ॥

भिक्षा- याचना तथा हवन के त्याग से अवकीर्णिव्रत करना-अकृत्वा भैक्षचरणमसमिध्य च पावकम् । अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ॥ १८७ ॥

भाष्य— अग्नीन्धनभैक्षचरणे नैरन्तर्येण सप्तरात्रं सप्ताहमकृत्वा । अनातुरः अव्याधितः सन् अवकीर्णिव्रतं नाम प्रायश्चित्तमेकादशे ( श्लो ० ११८ ) वक्ष्यमाण-स्वरूपं चरेत्कुर्यात् । दोषगुरुत्वख्यापनार्थं, न त्वेतदत्र प्रायश्चित्तमेव । स्मृत्यन्तरे ह्यत्राल्प-मन्यत्प्रायश्चित्तमुक्तम्, ‘ आज्यहोमः सवितुर्वा रेतस्यास्याम् ' इति । इहापि च लिङ्गं—

पृष्ठ 297

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 297 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २२३ यदि प्रायश्चित्तमिदमभविष्यत्तदा स्त्रीगमनमिवावकीर्णिप्रायश्चित्तप्रकरणे निमित्तत्वेनापठिष्यत । ये तु व्याचक्षते “ सप्तरात्रमेतदुभयमवश्यकर्तव्यम् । अकरणात्तत्र दोषः । कृत-सप्तरात्रस्य तु परतोऽक्रियायां न दोषः । तानि च सप्ताहानि प्राथम्यादुपनयनात्प्रभृति गृह्यन्ते ’ ’ – तदेतदयुक्तम् ‘ आ समावर्तनात्कुर्यादिति ' विरोधात्, उपरितनानन्तरश्लोक-विरोधाच्च ॥१८७ ॥

हिन्दी - नीरोग रहता हुआ भी ब्रह्मचारी यदि विना भिक्षा माँगे तथा विना हवन

किये सात दिन तक रहे तो ' अवकीर्णि ' व्रत ( ११।११८ ) करे ॥ १८७ ॥

भिक्षा- याचना के विना भोजन निषेध -भैक्षेण वर्त्तयन्नित्यं नैकान्नादी भवेद्व्रती । भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता ॥ १८८ ॥.

भाष्य — ‘ “ ननु च भैक्षमहरहश्चरेदिति श्रुतमेवैतत् ” । एवं हि भैक्षचर्या दृष्टार्था भवति । उक्तं च “ निवेद्य गुरवेऽश्नीयात् ” इति । न च तदशनं भैक्षसंस्कारः येन न वृत्त्यर्थः स्यात् । केचिदाहुः– “ अनूद्यते नैकान्नादी भवेद्व्रतीति वक्तुम् । ” एतदप्यसत् । भैक्षशब्देनैवैकान्नादनस्य निषेधात् । भिक्षाणां समूहो भैक्षमुच्यते । ततः कुत एकान्नादनप्राप्तिः? तस्य पित्र्येभ्योऽनुज्ञानार्थं सर्वमेतदनूद्यते । भैक्षेण वर्तये-दात्मानं भैक्षभोजनेन पालयेत् । जीवितस्थितिं कुर्यान्नैकस्य सम्बन्धि अन्नमद्यान्नैक-भिक्षान्नं भुञ्जीत । न पुररियमाशङ्का कर्तव्या " नैकस्वामिकं भुञ्जीत, अपि तु बहुस्वामिकम्, अविभक्त-भ्रातृसम्बन्धि ” । एकस्यान्नमेकं वाऽन्नमेकान्नं, तदत्ति भुङ्क्ते एकान्नादी । व्रती ब्रह्मचारी । प्रकरणादेव लब्धः, श्लोकपूरणार्थो व्रतीशब्दः । अत्रार्थवादः । भैक्षेणैव केवलेन व्रतिनो या वृत्तिः शरीरधारणमुपवासतुल्यफला सा वृत्तिः स्मर्यते ॥ १८८ ॥

हिन्दी — ब्रह्मचारी प्रतिदिन भिक्षावृत्ति करे, किसी एक के अन्न का भोजन न करे ।

भिक्षान्न भोजन करने से ब्रह्मचारी की वृत्ति उपवास के समान कही गयी है ॥ १८८ ॥

[ न भैक्ष्यं परपाकः स्यान्न च भैक्ष्यं प्रतिग्रहः । सोमपानसमं भैक्ष्यं तस्माद् भैक्षेण वर्तयेत् ॥ ९ ॥ ]

[ हिन्दी – भिक्षान्न दूसरे के द्वारा पकाया गया और प्रतिग्रह ( दान ) लेना नहीं माना जाता, भिक्षान्न सोमपान के समान है, इस कारण ( ब्रह्मचारी ) भिक्षावृत्ति करे || ९ || ]

पृष्ठ 298

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 298 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२४ मनुस्मृतिः [ भैक्षत्यागमशुद्धस्य प्रोक्षितस्य हुतस्य च । यांस्तस्य ग्रसते ग्रामांस्ते तस्य क्रतुभिः समाः ॥ १० ॥ ]

[ हिन्दी - आगम से शुद्ध, प्रोक्षित ( जल छिड़के हुए ) तथा हवन किये हुए के जिन ग्रासों को ब्रह्मचारी खाता है; वे ग्रास यज्ञों के समान हैं ॥ १० ॥ ]

पूर्वोक्त निषेध अपवाद -व्रततद्देवदैवत्ये पित्र्ये कर्मण्यथर्षिवत् ।

काममभ्यर्थितोऽश्नीयाद्व्रतमस्य न लुप्यते ॥ १८ ९ ॥

अयमपवादो निमित्तविशेषे भैक्षवृत्त्युपदेशस्य । [ द्वितीयः भिक्षान्त्र देवदैवत्ये देवोद्देशेन ब्राह्मणभोजने क्रियमाणे, पित्र्ये च पितृनुद्दिश्याभ्यर्थितोऽ-ध्येषितः, काममेकान्नमश्नीयात् । न तु स्वयं याचेत । तच्च व्रतवद् व्रताविरुद्धं मधुमांसवर्जितमित्यर्थः । व्रतवदृषिवदिति च शब्दद्वयेनैक एवार्थ उच्यते, न पुनर्ग्रामारण्ययोः कर्मभेदेन व्यवस्था । वृत्तानुरोधात्तु द्विरभिधानम् । ऋषिर्वैखानसस्तदशनाभ्यनुज्ञाने मांसमपि ब्रह्मचारिणोऽनुज्ञानं स्यात् । तस्य हि ' वैष्कव-वमप्युपभुञ्जीत ' इति मांसाशनमप्यस्ति । देवा देवता यस्य तद् देवदैवत्यम् । तच्चाग्निहोत्रदर्शपूर्णमासादिषु दैवेषु कर्मसु ब्राह्मणभोजनमाम्नातम्, आग्रहायण्यादिषु चाम्नातं ' ब्राह्मणान्भोजयित्वा स्वस्त्ययनं वाचयेदिति ' । तत्रेयमनुज्ञा । अन्ये तु सप्तम्यादावादित्यादिदेवोद्देशेन यत्क्रियते ब्राह्मणभोजनं तद्देवदैवत्यं मन्यन्ते । तदसत् । न हि भुजेर्देवतासम्बन्धोऽस्ति, अयागसाधनत्वात्तस्य । न तूद्देश्यमात्रं देवता । ‘ उपाध्यायाय गां ददाति ', ' गृहं संमाष्टत्यु'पाध्याये गृहेऽपि प्रसङ्गात् । भुजेर्हि प्रत्यक्षो भोक्ता सम्बन्धः | आदित्यस्तु न कारकं, न चोद्देश्यो गृहवत्, न तदर्थं भोजनम् । द्वितीया हि भोक्त्रर्थतां ज्ञापयति, नादित्यार्थताम् । न चैतत्क्वचिन्नोदितम् ‘ आदित्याद्युद्देशेन ब्राह्मणान्भोजयेदिति ’ । “ समाचाराद्विधिः कल्प्यत " इति चेत्? न । तस्योपलभ्यमानमूलत्वात् । “ अस्ति हि मूलं, बाह्या: स्मृतयः ॥ ” तत्र तर्हि ब्राह्मणभोजनेन देवताः प्रीणयेदिति शास्त्रार्थः । न चायमर्थः शक्यः कल्पयितुम् । न हि देवताप्रीतिप्रधानः शास्त्रार्थः, किं तर्हि विध्यर्थप्रधानः । न चास्मि-

पृष्ठ 299

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 299 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २२५ न्विध्यर्थ आदित्यादीनां देवताभिमतानां विषयद्वारकः सम्बन्ध:, नाप्यधिकारद्वारकः । न हि भेदनादिवन्निमित्तम् । नापि पश्वादिवत्स्वसम्बन्धितया काम्यते । अभोग्यरूपत्वात् । अथ तद्गता तुष्टिः काम्यते । साऽप्यात्मसिद्धौ प्रमाणान्तरमपेक्षते । न च तदस्ति । न ह्यादित्यादितुष्टिः प्रत्यक्षादिसिद्धा पश्वादिवद्येन काम्येत परेष्टिविधिना युज्येत । अथ तु ‘ मत्प्रभुरिति स्वाभिप्रेतेन फलेन योजयिष्यतीति ' । एतदपि प्रमाणाभावादुपेक्षणीयम् । न चास्मिन्नर्थे विधिः प्रमाणम् । स हि ज्ञातस्या-नुष्ठातृविशेषणस्य स्वसम्बन्धितया पुरुषं नियुङ्क्ते, न पुनः काम्यमानस्य सद्भावमवगमति । प्रमाणान्तरावगतं हि काम्यमनुष्ठातृविशेषणम् – अनुष्ठानसाध्यमनुष्ठातृसम्बन्धीति विधिः प्रमाणमिति मीयते । “ अथायं यागस्तस्य च भोजनं प्रतिपत्तिः ", – भवतु, यदि शिष्टसमाचारः । भोजनं तावन्न देवतासम्बन्धि साक्षादिति न साध्यम् । यागव्यवहितस्तु सम्बन्धो न निवार्यते । न चात्र यागबुद्ध्या प्रवर्तते, किं तर्हि ब्राह्मणेषु भोजितेषु देवता तुष्यतीति । अतो न देवता भोजनकारकं न कारकविशेषणम् । ततो न विषयत्वेन सम्बन्धः । उद्देश्यत्वमप्यादित्यादीनां नास्ति । भोजने हि स उद्दिश्यते यस्मै भोजनं दीयते । तच्च ब्राह्मणेभ्यः । न चोद्देश्यमात्रं देवता उपाध्यायाय गां ददाति गृहं सम्माष्टति गृहोपाध्याय-योरपि प्रसङ्गात् । " ननु च पित्र्ये कथं ब्राह्मणभोजनम्? तत्रापि हि न पितरौ देवताः स्युः । न च होमस्य पित्र्यत्वम्, देवतान्तरश्रवणात् । आदित्यादिप्रातेरिव पितृप्रीतेः प्रमाणान्तरा-सिद्धत्वान्न विधेः सम्बन्धः साध्यतया । " अत्र वदन्ति । सिद्धा ह्यत्र पितृप्रीतिः । आत्मनामविनाशित्वात् पितरः सिद्धास्तेषां च शरीरसम्बन्धः क्रियते कर्मभ्यः । तद्भोजनं ह्यत्र प्रधानम् । तस्य हि फलं श्रुतम्— ‘ भोजयन्पुष्कलं फलमाप्नोति । ' तच्च फलं पितॄणां तस्य तृप्तिः स्यादिति तृप्तिश्च प्रीति-मात्रम्, न मनुष्याणामिव भुजिक्रियाफलं सौहित्यलक्षणमुत्पद्यते । काचित्पितॄणां प्रीतिः स्वकर्मवशतो यत्र तत्र जातावुत्पन्नानाम् । प्रीतिमात्रवचनोऽयं धातुः सौहित्यं तु विशेषः । स प्रमाणान्तरावसेयः । न चात्रैतच्चोदनीयम् — “ पुत्रः कर्ता, पितृषु कथं कर्तृगामिफलम्? न हीमानि कर्माणि वैदिकानि परस्य फलदानीति न्यायविदो वदन्ति । ” यतः पितर एवात्राधिकारिण: कर्तारश्च । अपत्योत्पादननैव सर्वमेतत्पितृभिः कृतम् । एवमर्थमेवासावुत्पादितो ‘ दृष्टादृष्टमुपकारं करिष्यतीति । ” ततश्च यथा सर्वस्वारेऽभावा-दौत्तरकालिकेष्वंगेषु ‘ ब्राह्मणाः संस्थापयत मे यज्ञमिति ' प्रैष्य मृतस्य कर्तृत्वम् । एव-

पृष्ठ 300

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 300 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२६ मनुस्मृतिः [ द्वितीयः मत्रापि द्रष्टव्यम् । एतावान्विशेषः । तत्राधिकारान्तरप्रयुक्ता जीविकार्थिनो भृतिपरिक्रीता ऋत्विजः ‘ कर्तारः ’ । इह तु तद्विधिप्रयुक्त एव पुत्रः । यथैवापत्योत्पत्तिविधिप्रयुक्तस्य पुत्रार्थेषु पितुः संस्कारेषु अधिकारोऽनुशासनपर्यन्तत्वात्तस्य विधेः, एवं पित्रर्थे श्राद्धादौ पुत्रस्य । तथैव जीविनः पितुः " वृद्धौ तु मातापितरौ ” इत्यवश्यं कर्तव्यम् । एवं दिष्टं गतं तस्यापि । न चायं वैश्वानरवत्काम्योधिकारः । “ वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते । यस्मिन् जात एतामिष्टि निर्वपति, पूत एव स तेजस्व्यन्नाद इन्द्रियवान् न भवति ” इति । एवमादिपुत्रफलार्थिनोऽधिकारः पितुर्वैश्वानरे न चूडादिष्विवावश्यकः । इह तु ‘ मित्र्यमानिधनात्कार्यमिति ' यावज्जीविकः । न कर्तुर्वैदिकं फलमित्येतदन्यथा परिष्क्रियते । यथैव वैश्वानरविशिष्टपुत्रवत्तालक्षणं पितुरेव फलं, नाकर्तृगामिता फलस्य, एवमिहापि पुत्रस्यैव तत्फलं या पितुः प्रीतिः । उभयथा पितृकर्तृगामिता फलस्य न विरुध्यते । अपत्योत्पादनेनैवैतादृशस्य फलस्येष्ट-त्वात् पितॄणामपि नाकामितफलापत्तिः । " यदि न श्राद्धे पितरो ' देवता: ' कथं तर्हि पित्र्यमेतत्कर्मेति देवतातद्धितः । ” उद्देश्यत्वसामान्यादिति वदामः । ' युष्मदुपकारार्थमिदं ब्राह्मणभोजनमिति ' पितर उद्दिश्यन्ते । पिण्डपितृयज्ञे तु पितरो ' देवता ' एव । न श्राद्धे पितॄणां देवतात्वं मन्यन्ते यत्तु ब्राह्मणा भोज्यन्ते तद्यथाऽग्नौ होम आज्यपुरोडाशादीनामवदानस्य, तादृशमेतत् । तथा च ब्राह्मणाः पितृत्वमापद्यन्ते । अतोऽन्नपरिवेषणकाले पितर एवोद्देश्या: – ‘ युष्म-भ्यमिदं न ममेति ' ब्राह्मणास्त्वाहवनीयस्थानीयाः । एतावान्विशेषो यदाहवनीये हविः प्रक्षिप्यते, ब्राह्मणानां तु सन्निधाप्यते, ते तु स्वयमुपाददत इति । न च “ श्राद्धं न यागो न तत्र देवतार्थः स्वाहाकारः ” स्विष्टकृदादिषु दर्शनात् । अतो यागोऽपि सन् श्राद्धकर्म पित्र्यर्थं भविष्यति । पितॄणां देवतात्वं फलभावित्वं न विरोत्स्यते । तृतीये किञ्चिदनुक्तमेव तत्सम्बद्धं वक्ष्यामः । तस्मान्नादित्यादयो ब्राह्मणभोजने देवता इति स्थितम् । “ ननु चाव्यापकमेतदपि लक्षणम् —'यागे उद्देश्य: देवतेति ', अन्तरेणापि याग-सम्बन्धं देवताव्यवहारदर्शनात् – ' देवतानां च पूजनम् ' ' दैवतान्यभिगच्छेदिति ’ न पूजा नाप्याभिमुख्येन गमनं पादविहारात्मकं देवताः प्रति सम्भवति । ” नैष दोषः । यत्र देवताचोदना तत्रैतत्पूजाविधानं भविष्यति, वैश्वदेवदेवता-स्वग्निहोत्रादिसम्बन्धिनीषु वा ।