मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 301–310

मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 301–310

पृष्ठ 301

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 301 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २२७ " ननु चैवमपि नोपपद्यते । न हि देवतायाः पूज्यत्वं सम्भवति, स्वरूपहानि-प्रसङ्गात् । पूजाकर्मत्वे हि यागसम्प्रदानता न स्यात् । उक्तम् ' न क्रियान्तरस्य किञ्चिद्भवति ’ इति । शक्तिर्हि कारकं, सा च प्रतिक्रियं भिद्यते । कार्यावगम्यत्वाच्च तस्या यावत्कार्यं भेदो न्याय्यः । अतो यत्सम्प्रदानं तत्सम्प्रदानमेव न तस्य कर्मापत्तिः । कथं तर्हि ‘ पाचकाय देहि ’ पचे: कर्ता ददातेः सम्प्रदानम् । ' शरैः क्षताङ्गः प्रियया कटाक्षैर्निरीक्ष्य-माणो विवशो जगाम । ' उक्तोऽत्र परिहारः । शक्तिशक्तिमतोर्भेदस्यौपचारिकत्वात्सिद्धं ' व्रजति भुक्त्वेति ' । तस्माद्यदि पूजाविषयमेतत्, न देवतालाभः अथ देवता आदित्यादयः, न पूजाविधिः । न हि देवता सिद्धा यामुद्दिश्य पूजा विधीयते । न ह्यादित्यादीनां ' देवता ’ सामान्यशब्दः, गोशब्दवच्छागलेयादीनाम् ॥ ” अत्रोच्यते । सत्यं, नादित्यादयः स्वरूपतो ' देवताः ' । सम्बन्धिशब्दोऽयम् । विधित एव देवतार्थोऽवगन्तव्यः - " यस्य हविश्चोद्यते सा तस्य देवता " इति । स एवाग्निराग्नेयादन्यत्र न देवतेत्युक्तम्; किन्तु न पूजाविधिः पूज्यमानमन्तरेण सम्भवति । देवताश्च पूज्यत्वेन श्रुताः । तत्र यदि देवतार्थे मुख्येन पूजा सम्भवति तदा याग एव पूजा विज्ञेया । तस्य चारूपत्वादसति द्रव्यद्देवताश्रवणे पूर्वाह्वकालविध्यर्थोऽयमनुवादो विज्ञेयः । अतः पूर्वाह्णे दैवतानि कर्तव्यानी’त्युक्तं भवति । " किमुच्यते देवता न श्रूयते । " यावता न साक्षाद्देवताशब्दोऽस्ति । “ नायं सामान्यवचनो देवताशब्दः । यासामन्यत्र देवतात्वं दृष्टं तासामेतत्पूजावि-धानम् । तेनाग्निरादित्यो रुद्र इन्द्रो विष्णुः सस्स्वतीत्येवमादयः पूज्याः । पूजार्थं च धूपदीपमाल्योपहारादीनां निवेदनम् । तत्राग्नेस्तावत्साक्षात्सम्बन्धः । आदित्यस्य दूर-देशवर्तित्वाच्छुचौ देशे तदुद्देशेन गन्धादिप्रक्षेपः । इन्द्रादीनां स्वरूपस्याप्रत्यक्षत्वा-दिन्द्रादिशब्दोद्देशेनैव तथा विधानम् । यद्यपि पूज्यमानप्रधाना पूजा, तथापि हि पूज्य-मानानां कार्यान्तरशेषभावे पूजैव कर्तव्यतया विज्ञायते । द्रव्यप्रधाने हि न विधिविषय-त्वसम्भवः । “ तानि द्वैधं गुणप्रधानभूतानि ” ( मी ० सू ० २।१।६ ) " यैस्तु द्रव्यं चिकीर्ष्यते ” इति ( २।१।७ ) । ” न्याय्यं तु स्तुतिशस्त्रादिवत् । यथा न स्तुतिः स्तुत्यर्था एवमियमपि पूजा न पूज्यार्था । स्तौतिशंसत्योर्निर्देशो नास्तीति चेत्? अत्रोक्तम् — द्वितीया, सक्तुषु दर्शनात् । एवं ‘ मृदं गां दैवतं प्रदक्षिणानि कुर्वीतेति ' दक्षिणाचारता विधीयते । दक्षिणेन दैवानि कर्माणि कर्तव्यानि । न हि मृदादिवद्देवताया दक्षिणेन मार्गेण स्थानममूर्तत्वात् युज्यते ।

पृष्ठ 302

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 302 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२८ मनुस्मृतिः [ द्वितीय: एवं “ दैवतान्यभिगच्छेदिति ” । पादविहारव्यापारेण देवतासमीपप्राप्त्यसम्भवाद्गमेश्च ज्ञानार्थत्वादभिगमनं स्मरणात्किं विशिष्यते? देवता अभिगच्छेत्, कर्मकाले मनसा ध्यायेत् चित्तव्याक्षेपतामाकुलताख्यां परिहरेदित्यर्थः । तथा चोपलभ्य मानमूलैवेयं स्मृति-र्भवति । ‘ यस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायेदिति ' । “ ननु चैतदप्युद्देश्यत्वान्यथानुपपत्तेः प्राप्तमेव । ” सव्याक्षेपस्याकुलस्य च सम्भवाददोषः । एवं ‘ देवस्वं ’ ‘ देवपशवो ’ ‘ देवद्रव्यमित्यादयो व्यवहारास्तादर्थ्येनोपकल्पितेषु पश्वादिषु द्रष्टव्याः । दण्डाधिकारे तु प्रतिकृतिविषयमेव देवताव्यवहारमिच्छन्ति । अन्यथा व्यवस्था-भङ्गः स्यात् । कल्पितदेवतारूपाणां प्रतिकृतीनां कल्पितेनैव स्वस्वामिभावेन यत्सम्बन्धि तदेव “ देवब्राह्मणराज्ञां तु द्रव्यं विज्ञेयमुत्तमम् " इत्यादिषु ' देवद्रव्यम् ' । न हि देवतानां स्वस्वामिभावोऽस्ति, मुख्यार्थासम्भवाद्गौण एवार्थो ग्राह्यः । “ कः पुनरत्र गौणोऽर्थः? सर्वत्र हि साधारणगुणयोगाद्गौणार्थावगतिः । ” अग्निर्माणवक इत्यादिषु शुक्ले माणवके तद्गुणदर्शनात् । ते च गुणाः प्रत्यक्षाद्य-वसेयाः । इह तु देवतार्थस्य कार्यावगम्यत्वात् कार्यतः स्वरूपविशेषानवगमात् कुत: प्रतिकृतिषु साधारणगुणावसाय: । अत्रोच्यते । मन्त्रार्थवादेषु तथाविधरूपश्रवणात्तेषां च गुणवादेन व्याख्यानम् । तन्मूलमपश्यन्तो यथाश्रुतार्थग्राहिणस्ताद्रूप्यमिन्द्रादिषु प्रतिपद्यमानाः प्रतिकृतिषु सादृश्यं पश्यन्तीति युक्तैव गौणता । ये तु श्राद्ध एव वैश्वदेवब्राह्मणभोजनं देवदैवत्यमाचक्षते, तेषां पित्र्याङ्गत्वात् तस्य पित्र्यग्रहणेन गृहीतत्त्वादनर्थकं पुनर्वचनम् । सामान्यशब्दत्वाच्च कुतो विशेषावगतिः । साहचर्यादिति चेत् – यदि न पित्र्यशब्देन ग्रहणं भवेत् । गोबलीवर्दन्यायोऽप्यसति विषयभेदे भवति ॥ १८ ९ ॥ हिन्दी - देवतोद्देश्यक कर्म ( यज्ञादि ) में सम्यक् प्रकार से निमन्त्रित ( ब्राह्मण ) ब्रह्मचारी व्रत के योग्य एवं मधु - मांसादि से वर्जित एक व्यक्ति के भी अन्न को भोजन करे तथा पितरों के उद्देश्य वाले कर्म ( श्राद्धादि ) में सम्यक् प्रकार से निमन्त्रित ( ब्राह्मण ) ब्रह्मचारी ऋषितुल्य मधु - मांसादि से वर्जित एक मनुष्य के अन्न को भी भोजन करे; इस प्रकार इस ( ब्रह्मचारी ) का व्रत नष्ट नहीं होता है ॥ १८ ९ ॥ विमर्श- " व्रतमस्य न लुप्यते ” इस मनुवचन को देखते हुए विश्वरूप ने “ ब्रह्मचारी के लिये इस मनुवचन के द्वारा विधान किया गया है ” ऐसी व्याख्या की है;

पृष्ठ 303

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 303 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २२ ९ किन्तु उक्त वचन वास्तव में एकान्न भोजन - निषेधक होने से ब्रह्मचारी के लिए मांस-भक्षण का विधायक नहीं है ।

ब्राह्मणस्यैव कर्मैतदुपदिष्टं मनीषिभिः ।

राजन्यवैश्ययोस्त्वेवं नैतत्कर्म विधीयते ॥ १ ९ ० ॥

भाष्य- -यदेतदेकान्नभोजनकर्मादिष्टमेतद्ब्राह्मणस्यैव मनीषिभिर्विद्वद्भिर्वेदा-दुपलभ्योपदिष्टम् क्षत्रियवैश्ययोस्तु नैतदिच्छन्ति । न कदाचित्तयोरभैक्षभोजनम् । “ ननु च श्राद्धभोजने ब्राह्मणानामेवाधिकारः । ‘ ये तत्र भोजनीयाः स्युर्ये च वर्ज्या द्विजोत्तमाः । अर्हत्तमाय विप्राय ' इति वचनाद्ब्राह्मणस्यैव प्रतिग्रहाधिकारः । तत्र कुतोऽयं प्रतिषेधो राजन्यवैश्ययोरिति । प्रतिप्रसवश्चायं नापूर्वविधिः । प्राप्तिसव्यपेक्षाश्च प्रतिषेधा भवन्ति । " उच्यते । भुक्तवतां ब्राह्मणानामेव शिष्टस्यान्नस्य प्रतिपत्तिराम्नाता –‘ज्ञातिप्रायं प्रकल्प-येत् ' इति । न च तत्र जात्यपेक्षा, यस्य ज्ञातिः स तेन भोजयितव्यः । न च तत्र क्षत्रियादयः प्रतिग्रहीतृतया सम्बध्यन्ते, अपि तु ज्ञातयः । अतोऽस्याः प्राप्तेः प्रतिषेधः || १ ९ ० ॥ हिन्दी – पूर्वोक्त यह कर्म ( यज्ञ या श्राद्ध में सम्यक् निमन्त्रित होकर एक मनुष्य के अन्न को ( भोजन करने का विधान ) केवल ब्राह्मण ब्रह्मचारी के लिए ही विहित है, क्षत्रिय तथा वैश्य ब्रह्मचारी के लिये यह विधान ( यज्ञ या श्राद्ध में निमन्त्रित होकर एक मनुष्य के अन्न को भोजन करने का नियम ) नहीं है ॥ १ ९ ० ॥

अध्ययन तथा आचार्य हित में तत्परता-चोदितो गुरुणा नित्यमप्रचोदित एव वा ।

कुर्यादध्ययने योगमाचार्यस्य हितेषु च ॥ १ ९ १ ॥

भाष्य - नोदितो गुरुणाऽनियुक्तोऽपि कुर्यादध्ययने योगं यत्नम् । “ ननु चाहूतोऽधीयीत इत्युक्तम् । कथमप्रणोदितस्य योग उच्यते? ” गृहीतवेदैकदेशस्य परिशेषकगुणार्थमेतदुच्यते । न तत्राचार्यनियोगोऽपेक्षितव्यः । एवमाचार्याय हितं यदुदकुम्भाहरणादि श्रान्तसंवाहनादि तदप्यनियुक्तेन कर्तव्यम् ॥ १ ९ १ ॥ हिन्दी – आचार्य के करने पर अथवा नहीं करने पर भी ब्रह्मचारी अध्ययन और आचार्य हित में सर्वदा प्रयत्नशील रहे ॥ १ ९ १ ॥

गुरु की आज्ञा का पालन-शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च ।

नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणो गुरोर्मुखम् ॥ १ ९ २ ॥

मनु 1- 19

पृष्ठ 304

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 304 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२३० मनुस्मृतिः [ द्वितीयः भाष्य — कुतश्चिदागतो गुरोर्मुखं वीक्षमाणस्तिष्ठेन्नोपविशेत् । नियम्य च शरीरम् । पादहस्तचालनहसितानि न कुर्यात्, न किञ्चिद्वदेत्, अनुपयोगि । बुद्धीन्द्रियाणि नियच्छेत् । यदाश्चर्यरूपं किञ्चिद्गुरुसकाशे न तत्पुनः पुन-र्भावयेत् । श्रोत्रादीन्यपि । चक्षुर्नियमस्तु गुरुवक्त्रप्रेक्षणादेव सिद्धः । मनश्च नियच्छेच्छा-स्त्रीयान्विकल्पान्गृहकुशलाद्यारम्भान्मनसा वर्जयेत् । उक्तस्यु ' संयमे यत्नम् ' इति सक्तिप्रतिषेधार्थः स प्रतिषेधः । गुरुसन्निधौ स्वल्पेऽपीन्द्रियाणामप्रतिषिद्धेऽपि विषये प्रसरो

न देयः ।

प्राञ्जलिरूर्ध्वकृतकरकपोतः ॥१९ २ ॥

हिन्दी -- शरीर, वचन, बुद्धि, इन्द्रिय और मन को वशीभूत कर हाथ जोड़कर गुरु मुख को देखता हुआ स्थित होवे ( बैठे नहीं; किन्तु खड़ा रहे ) ॥१९ २ ॥

नित्यमुद्धृतपाणिः स्यात्साध्वाचारः सुसंवृतः ।

आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः ॥ १ ९ ३ ॥

भाष्य — न केवलं सूत्रकात्पाणिरुद्धर्तव्योऽपितु वाससोऽपि । नित्यग्रहणं — न तिष्ठत एवायं पाण्युद्धारः, नाप्यध्ययनवेलायाम्, किं तर्हि ततोऽन्यत्रापि । साध्वाचारः साधुः अनिन्द्यः आचारो वाग्व्यवहारादिः कार्यः । अश्लीलादि-भाषणमसन्निधानेऽपि गुरोर्नित्यग्रहणान्न कर्तव्यम् । सुसंवृतः वाङ्मनश्चक्षुर्भिः नियतात्मा । स्वल्पोऽपि यो दोषस्तं परिहरेत् । अना-वृतो लोक उच्यते यो यथाकामी; तद्विपरीतः सुसंवृतः । अन्ये तु मन्यन्ते — वस्त्रेणाच्छादितशरीरो गुरुसन्निधौ भवेत् नोत्तरीयमवतारयेत् । एवं तिष्ठेत् । यदा तु गुरुणा आस्यतामित्युक्तः - एतेन भ्रूविक्षेपादिना वा– विधेः प्रतिपादनार्थत्वात्, प्रतिपादनं च न शब्दव्यापार एव । तदा आसीत उप-विशेत् । अभिमुखं सम्मुखम् ॥१९ ३ ॥ हिन्दी — और सर्वदा दुपट्टे के बाहर दाहिना हाथ रखे, सदाचार से युक्त और अच्छी तरह संयत रहे ( वस्त्र से शरीर को ढका रखे, नंगे शरीर न रहे ) तथा " बैठो ” ऐसा गुरु के कहने पर उन ( गुरु ) के सामने बैठे ।१ ९ ३ ॥ गुरु से कम अन्नवस्त्रादि को रखना आदि-हीनान्नवस्त्रवेषः स्यात्सर्वदा गुरुसन्निधौ । उत्तिष्ठेत्प्रथमं चास्य चरमं चैव संविशेत् ॥ १ ९ ४ ॥

पृष्ठ 305

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 305 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २३१ भाष्य - हीनं न्यूनम् अन्नं भुञ्जीत गुरुसन्निधौ । न्यूनता च परिमाणतः क्व-चित्क्वचित्संस्कारतः । यदि संस्कृतमाज्यं दधिक्षीरादिव्यञ्जनं भिक्षातो लब्धं स्यात्तदा, यदि गुरुणा तादृशमन्नं न भुक्तं स्यादेककाले च गुरुणा सह भोजने, यदि गुरोस्तादृश-मन्नं गृहे न सिद्धं स्यात्, तदा तत्तेन नाशितव्यम् । अथ गुरोरपि तादृशमन्नं स्यात्तदाऽ-पचयः कर्तव्यः । वस्त्रं यदि गुरोरौर्णं स्यात्तदा न कार्पासादि शिष्येण प्रावरीतव्यम् । वेष आभरणमण्डनादिः । सोऽपि हीनः । सर्वदा ब्रह्मचर्यात्परेणापि । अतएव वेषग्रहणम् । न च ब्रह्मचारिणो मण्डनमिष्यते । उत्तिष्ठेत् प्रथमं चास्य शय्याया रात्र्युपरमे, आसनाद्वा उत्थानावसरं बुद्ध्वा,

प्रथमं पूर्व गुरोरुत्तिष्ठेत् ।

चरमं पश्चात्स्वापकाले सुप्ते गुरौ संविशेच्छय्यां समाश्रयेदासने चोपविशेत् ॥१९ ४ ॥

हिन्दी - सर्वदा गुरु की अपेक्षा अन्न ( भोज्य पदार्थ ); वस्त्र तथा वेष को हीन रखे और गुरु के सोकर उठने के पहले उठे तथा सोने के बाद सोवे ॥१९ ४ ॥ गुरु के आज्ञापालन का प्रकार—

प्रतिश्रवणसम्भाषे शयानो न समाचरेत् ।

नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः ॥ १ ९ ५ ॥

भाष्य – प्रतिश्रवणमाहूयमानस्य कार्ये नियुज्यमानस्य गुरुसम्बन्धिवचनाकर्णनम् । सम्भाषा गुरुणा सहोक्तिप्रत्युक्तिकरणम् । ते प्रतिश्रवणसम्भाषे । शयानः स्वे स्रस्तरे निक्षिप्तगात्र: । न समाचरेन्न कुर्यात् । नासीन आसने चोपविष्टः । न भुञ्जानः । न तिष्ठन्नेकस्मिन्नेव देशेऽविचलन्नूर्ध्वं स्थितः । न पुनः पराङ्मुखः । यस्यां दिशि गुरु-र्दृश्यते ततः परावृत्य स्थितिर्न कुर्यात् ॥१९ ५ ॥ हिन्दी - गुरु की आज्ञा को अस्वीकार या उनसे सम्भाषण ( बातचीत ) स्वयं सोये हुए, आसन पर बैठे हुए, खाते हुए, खड़े हुए या मुख फेरे ( गुरु के सामने पीठ किये ) हुए न करे ॥ १ ९ ५ ॥

आसीनस्य स्थितः कुर्यादभिगच्छंस्तु तिष्ठतः ।

प्रत्युद्गम्य त्वाव्रजतः पश्चाद्धावंस्तु धावतः ॥ १ ९ ६ ॥

भाष्य — कथं तर्हि 1 । आसीनो यदाऽऽज्ञां ददाति तदा स्थित आसनादुत्थाय प्रति श्रवणसम्भाषे कुर्यात् । अभिगच्छंस्तु तिष्ठतः । तिष्ठन्गुरुर्यदाऽऽदिशति तदाऽऽभिगच्छंस्तदभिमुखं

पृष्ठ 306

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 306 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२३२ कतिचित्पदानि गत्वा । मनुस्मृतिः

आव्रजत आगच्छत: प्रत्युद्गम्याभिमुखमेव गत्वा । प्रतिराभिमुख्ये ।

धावतो वेगेन गच्छतः पश्चाद्धावन् ॥। १ ९ ६ ॥

[ द्वितीयः हिन्दी — किन्तु गुरु के आसन पर बैठे रहने पर स्वयं आसन से उठकर, खड़े रहने परसामने जाकर, आते रहने पर कुछ आगे ( पास में ) बढ़कर और दौड़ते रहने पर दौड़कर गुरु की आज्ञा को स्वीकार करे या उनसे सम्भाषण ( बातचीत ) करे ॥१९ ६ ॥

पराङ्मुखस्याभिमुखो दूरस्थस्यैत्य चान्तिकम् ।

प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः ॥१९ ७ ॥

भाष्य – तथा पराङ्मुखस्य गुरोः सम्मुखोपविष्टः शिष्यः । यदि गुरुः परा-वृत्य कथञ्चित्स्थितः प्रेष्यति, तां दिशं गत्वाऽभिमुखीभूय पूर्वोक्तं कर्तव्यम् । दूरस्थस्य समीपं अन्तिकं एत्यागत्य प्राप्त ।

आसीनस्यापि शयानस्य प्रणम्य प्रह्वो भूत्वा गात्राण्यवनमय्य ।

निदेशे निकटे तिष्ठतोऽपि प्रणम्यैव यत्प्रागुक्तम् ' अभिगच्छन्निति ' ॥१ ९ ७ ॥

हिन्दी — और गुरु के पराङ्मुख ( पीठ फेरे रहने ) पर उनके सामने जाकर, दूर रहने पर स्वयं समीप जाकर, सोये ( लेटे ) रहने पर तथा निकटस्थ रहने पर प्रणाम कर ( नम्र होकर – झुककर ) उन ( गुरु ) की आज्ञा को स्वीकार करे तथा उनके साथ सम्भाषण करे ॥१ ९ ७ ॥ गुरुके समीप नीचे आसन रखना तथा चाञ्चल्य का निषेध-नीचं शय्यासनं चास्य नित्यं स्याद् गुरुसन्निधौ । गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥ १ ९ ८ ॥ भाष्य — नीचमनुन्नतम् गुरुशय्याद्यपेक्षया च नीचत्वम् । नित्यग्रहणाद्ब्रह्मचर्यादुत्तरकालमपि । गुरोश्च दृष्टिगोचरे, यत्र गुरुः पश्यति तत्र न यथेष्टमासीत्, पादप्रसारणाङ्गनिष-ङ्गादिना । आसनग्रहणं चेष्टामात्रोपलक्षणार्थम् । यथेष्टचेष्टो न भवेत् ॥। १ ९ ८ ॥ हिन्दी - गुरु के समीप इस ( ब्रह्मचारी ) का आसन सर्वदा ( गुरु की अपेक्षा ) नीचा रहे और ( ब्रह्मचारी ) गुरु के सामने मनमाने ( अस्त - व्यस्त ) आसन से न बैठे || १ ९ ८ ॥ गुरु नामग्रहण तथा चेष्टादि के अनुकरण करने का निषेध-नोदाहरेदस्य नाम परोक्षमपि केवलम् । न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥ १ ९९ ॥

पृष्ठ 307

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 307 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २३३ नोदाहरेत्रोच्चारयेदस्य गुरोर्नाम केवलं उपाध्यायाचार्यभट्टाद्युपपदरहितं, परोक्षमपि । न चैवास्यानुकुर्वीत सदृशं न कुर्यान्नाट्यकार इव । गतिः - एवमस्मद्गुरुरपक्रा-मति । भाषितं— द्रुतविलम्बितमध्यमत्वादि । चेष्टितम् —एवं भुङ्क्ते एवमुष्णीषं बध्नाति

एवं परिवर्तत इत्यादि ।

उपहारबुद्ध्याऽयमनुकरणप्रतिषेधः ॥१९९ ॥

हिन्दी – ( ब्रह्मचारी ) परोक्ष में भी गुरु के केवल ( उपाध्याय, आचार्य, गुरु आदि उत्तम एवं योग्य उपाधियों से रहित ) नाम को उच्चारण न करे तथा उनके गमन, भाषण तथा चेष्टा आदि का अनुकरण ( नकल ) न करे ॥ १ ९९ ॥ [ परोक्षं सत्कृपापूर्वं प्रत्यक्षं न कथंचन् । दुष्टानुचारी च गुरोरिह वाऽमुत्र चेत्यधः ॥ ११ ॥ ]

[ हिन्दी - गुरु के परोक्ष में ' शिष्टता पूर्वक गुरु का नामोच्चारण करे तथा प्रत्यक्ष में किसी प्रकार भी गुरु के नाम का उच्चारण न करे । गुरु के विषय में दुष्टाचरण करने वाला ( शिष्य ) इस लोक तथा परलोक में अधोगति पाता है । ११ ॥ ]

गुरु निन्दा सुनने का निषेध-गुरोर्यत्र परीवादो निन्दा वापि प्रवर्तते ।

कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोन्यतः ॥ २०० ॥

भाष्य - यत्र दुर्जनसम्पाते गुरोः परीवादः सम्भूतद्दोषानुकथनम् निन्दा अविद्य-मानानां दोषाणामभिधानम्, प्रवर्तते तत्र कर्णौ पिधातव्यौ अङ्गुल्यादिना संवरीतव्यौ । ततः प्रदेशाद्वाऽन्यत्र गन्तव्यम् ॥ २०० ॥

हिन्दी – जहाँ गुरु की बुराई ( गुरु में वर्तमान दोषों का वर्णन ) या निन्दा ( गुरु में नहीं रहने वाले दोषों का कथन ) होती हो, वहाँ ब्रह्मचारी कान बन्द कर ले या वहाँ से अन्यत्र चला जाय ॥ २०० ॥

गुरु की बुराई आदि करने का फल-परीवादात्खरो भवति श्वा वै भवति निन्दकः ।

परिभोक्ता कृमिर्भवति कीटो भवति मत्सरी ॥ २०१ ॥

भाष्य-- पूर्वप्रतिषेधशेषोऽयमर्थवादः । अत एवं व्याख्येयम् । परीवादाच्छ्रुत्वा खरो भवति I । हेतौ ल्यब्लोपे वा कर्मणि पञ्चमी – परीवादं श्रुत्वा ।

पृष्ठ 308

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 308 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मनुस्मृतिः २३४ निषेधादेव साक्षात्करणनिषेधसिद्धिः । परिभोक्ता यो गुरुमुपजीवति कुसृत्याऽनुवर्तते । स्वयं गुरुपूजा - विधान आदि-[ द्वितीयः गधा, निन्दा ( गुरु ॥ २०२ ॥

भाष्य — अत्र परप्रेषक्षणेन गन्धमाल्यादेरर्पणं प्रतिषिध्यते । स्वयंकृते च कारिते तुल्यं कर्तृत्वम् । प्रयोजकेऽपि कर्तृत्वस्मरणात् — इत्येतया बुद्ध्या प्राप्ते परमुखेनार्चने प्रतिषेधः । अशक्तौ ग्रामान्तरस्थस्य न दोष: । ' ग्रामान्तरं गच्छत्युपाध्याये भवानभि-वाद्रयतां ' स गत्वा तमभिवादयत इत्यादिव्यवहारदर्शनात् । न क्रुद्धः । गुरौ क्रोधासम्भवादन्यनिमित्तेऽपि क्रोधे पूजाकाले तत्त्यागेन चित्तप्रसादो-ऽभिधीयते । क्रुद्धमित्यन्ये पठन्ति । नान्तिके समीपे स्त्रियाः कामिन्याः स्थितम् । गुर्वाराधनपरत्वाच्छुश्रूषाकलापस्य येन चित्तखेद आशङ्क्यते स निषिध्यते । अतः स्त्रिया इत्येवं व्याख्यातम् । यानं गन्त्र्यादि । आसनं पीठिकामञ्चादि । ततोऽवरुह्यावतीर्य अभिवादयेत् । ‘ शय्यासनस्थ ’ ( २।११ ९ ) इत्यत्रासनादुत्थानमुक्तम्, अनेनावरोहणं विधीयते । मञ्चाद्वा-ऽऽसनादुत्थानमनवरोहतोऽपि सम्भवति । “ अवरोहणं तर्हि अनुत्थितस्य च न सम्भवति । अतोऽनेनैव सिद्धे शय्यासनेत्य-त्रासनग्रहणमनर्थकम् । ’ नानर्थकम् । यदि शिष्यः पराङ्मुखः प्रत्यग्देशादागतं गुरुं मन्येत तदासनस्थ एव सम्भ्रमपरावृत्तस्तदभिमुखीभूत उत्तिष्ठेत्र तूत्थायाभिपरावर्तेत । तथा ह्युत्थानक्रियया निन्दकः — निन्दाश्रावी उपचारान्निन्दक उच्यते । तथा संस्कर्ताऽवघातकः । श्रवण-मत्सरी गुरुसमृद्धिमभ्युच्चयं न सहतेऽन्तर्दह्यते । अनयोरप्राप्तत्वादपूर्वो विधिः । परिवादपरीवादयोः “ घञमनुष्ये बहुलमिति ' ( पा ० सू ० ६।३।१२२ ) दीर्घ-त्वादीर्घत्वे ॥२०१ ॥

हिन्दी - शिष्य गुरु के परीवाद ( बुराई - उनके दोषों के कहने ) से में नहीं रहने वाले दोषों के झूठमूठ कहने ) से कुत्ता, धन का भोग करने से कृमि ( विष्ठादि स्थित छोटा - छोटा कीड़ा ), मत्सर ( गुरु की उन्नति को असहन करने ) से कीट ( कृमि से कुछ बड़ा ) होता है ॥२०१ ॥

दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः । यानासनस्थश्चैवैनमवरुह्याभिवादयेत्

पृष्ठ 309

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 309 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ' मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २३५ सम्मुखीभवनं व्यवधीयेत । ततः कुप्येद्गुरुः । पराङ्मुखस्योत्तिष्ठतो गुरुरेवमपि मन्येत— ' नायं ममाभ्युत्थितो निमित्तान्तरकृतमेवास्याभ्युत्थानम् । तस्मादर्थवदुभयत्राप्यासन-ग्रहणम् ॥२०२ ॥

हिन्दी - शिष्य स्वयं दूर रहकर ( किसी अन्य मनुष्य के द्वारा ), स्वयं क्रुद्ध होकर ( झुझलाहट से ) और स्त्री के समीप बैठकर गुरु की पूजा न करे तथा सवारी ( रथ, गाड़ी, पालकी आदि ) और आसन पर बैठा हुआ शिष्य उससे उतर कर गुरु को प्रमाण करे ॥ २०२ ॥

विमर्श - पहले ( श्लो ० ११ ९ ) “ शय्यासनस्थैश्चैवैनं प्रत्युत्थायाभिवादयेत् ” इस वचन में शय्या और आसन पर स्थित होने पर उठकर अभिवादन करने के विधान में यहाँ पुनरुक्ति की शङ्का नहीं करनी चाहिये; क्योंकि इस ( श्लो ० २०२ ) में यान और आसन से उतरकर अभिवादन करने का विधान है । प्रतिकूलादि वायु में गुरु के साथ बैठने का निषेध आदि-प्रतिवातानुवाते च नासीत गुरुणा सह । असंश्रवे चैव गुरोर्न किञ्चिदपि कीर्तयेत् ॥ २०३ ॥

भाष्य - यस्यां दिशि गुरुर्व्यवस्थितस्ततो देशाद्यदा वायुः शिष्यदेशमागच्छति शिष्यदेशाच्च गुरुदेशं ते प्रतिवातानुवाते । एकं ' प्रतिवातम् ’ अपरम् ‘ अनुवातम् ’ तदपेक्षया गुरुणा सह नासीत — अपि तु तिर्यग्वातसेवी गुरोर्भवेत् । अविद्यमानः संश्रवो यत्र तस्मिन् असंश्रवे । न किञ्चिदपि गुरुगतमन्यगतं वा कीर्तयेत् । यत्र गुरुर्व्यक्तं न शृणोति, ओष्ठसञ्चलनादिना शिष्यसम्बन्धिना जानाति किञ्चिदयमेतेन सम्भाषते, तन्न कीर्तयेत् ॥२०३ ॥

हिन्दी – प्रतिवात ( प्रतिकूल वायु अर्थात् गुरु की ओर से शिष्य की ओर आने वाली हवा ) तथा अनुवात ( अनुकूल वायु अर्थात् शिष्य की ओर से गुरु की ओर जाने वाली हवा ) में गुरु के साथ न बैठे तथा जहाँ गुरु नहीं सुन सकते हों, वहाँ कुछ भी ) गुरु या दूसरे विषय में कोई बात ) न कहे ॥२०३ ॥

बैलगाड़ी आदि में गुरु के साथ बैठना-गोश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेशु च ।

आसीत गुरुणा सार्धं शिलाफलकनौषु च ॥ २०४ ॥

भाष्य — यानशब्दः प्रत्येकमभिसम्बध्यते । गोश्वोष्ट्रैर्युक्तं यानं गोश्वोष्ट्रयानम् । दधि-घटादिवत्समासे युक्तशब्दस्य लोपः । केवलेषु तु अश्वपृष्ठादिष्वारोहणं नास्ति । यदि स्वतन्त्रो यानशब्दो विज्ञायेत तदा स्यादप्यनुज्ञा । समाचारात्तु कदाचित्कमनुज्ञानं दृश्यते ।

पृष्ठ 310

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 310 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२३६ मनुस्मृतिः [ द्वितीय: प्रासाद उपरिगृहादीनां या भूमिस्तस्यां गृहादिभूमिवत्सिद्धं सहासनम् । प्रस्तरः दर्भादितृणाकीर्णः आस्तरः । कटस्तु शरवीरणादिकृतः प्रसिद्धः । शिला गिरिशिखरादावन्यत्र वा ।

फलकं दारुमयमासनं पोतवर्तादि ।

नौर्जलतरणसंप्लवः । तेन पोतादावपि सिद्धं भवति ॥ २०४ ॥

किसी हिन्दी – बैलगाड़ी, घोड़ागाड़ी, ऊँटगाड़ी, छत के ऊपर, बड़ी दरी आदि ( बिछौना ) शीतलपाटी, बेंत या ताड़ आदि की चटाई, पत्थर, लकड़ी का तख्ता और नाव पर शिष्य गुरु के साथ बैठ सकता है ॥ २०४ ॥

गुरु के गुरु में गुरुतुल्य आचरण-गुरोर्गुरौ सन्निहिते गुरुववृत्तिमाचरेत् ।

न चानिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत् ॥ २०५ ॥

भाष्य — उक्ता गुरुवृत्तिरिदानीमन्यत्रातिदिश्यते । अध्ययनधर्मत्वात्सर्वस्यास्य गुरुरन्नाचार्यो विज्ञेयः । तस्य यो गुरुस्तस्मिन्सन्निहिते गुरुवद्वर्तितव्यम् । सन्निहित इति न तद्गृहगमनमभिवादनाद्यर्थं कर्तव्यम् । गुरुगृहे वसन् गुरुणाऽनिसृष्टो अननुज्ञातः स्वान् गुरून् मातापितृप्रभृतीन्नाभि-वादयितुं गच्छेत्, न पुनर्गुरुगृहे स्थितस्य यदि स्वे गुरव आगच्छन्ति तदा तदभिवादने गुर्वज्ञाऽपेक्षितव्या । " कुत एतत्? ” मातापित्रोरत्यन्तमान्यत्वात् । पितृव्यमातुलादीनामप्यभिवादनप्रवृत्तस्य न कश्चिद्-गुरुवृत्तेर्विघ्नः । आराधनार्थ एवायं सर्वः प्रयासः । मातापितृगुरुसन्निपाते कः क्रमोऽभिवादनस्येत्युक्तं " सर्वमहती माता ” 1 । पित्राचार्य-योस्तु विकल्पः । यतः पितृत्वाध्यारोपेणाचार्यस्य गौरवं विहितम् । अतः पिता श्रेष्ठः, यतश्चोक्तं “ गरीयान् ब्रह्मदः पिता " ( श्लो ० १४६ ) इति तत आचार्य: । अतोऽयं विकल्पः ॥२०५ ॥

हिन्दी – गुरु के गुरु के पास गुरु के समान आचरण करे और गुरु के समीप में रहता ( निवास करता ) हुआ शिष्य ( ब्रह्मचारी ) गुरु की आज्ञा के विना ( माता, चाचा आदि ) गुरुजनों का अभिवादन न करे ॥२०५ ॥

विद्यागुरु आदि में आचरण-विद्यागुरुष्वेवमेव, नित्या वृत्तिः स्वयोनिषु ।

प्रतिषेधत्सु चाधर्माद्धितं चोपदिशत्स्वपि ॥ २०६ ॥