मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 311–320
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 311–320
पृष्ठ 311
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २३७ भाष्य - अयमप्यतिदेशः । आचार्यादन्ये उपाध्यायादयो विद्यागुरवः । तेष्वेवमेव वर्तितव्यं, ' शरीरं चैव ' ( २।१ ९ २ ) इत्यादिकृत्या । स्वयोनिषु ज्येष्ठभ्रातृपितृव्यादिषु । नित्या वृत्तिर्गुरुवृत्तिः । विद्यागुरूणां त्वाचार्य-व्यतिरेकेण यावद्विद्याग्रहणम् । अधर्मात् अकार्यात्परदारगमनादेः प्रतिषेधत्सु वयस्येष्वपि । अभ्यन्तरगत्यारूढतया-ऽकार्यं चिकीर्षन्यः सुहृदादिस्तम् “ आकेशग्रहणान्मित्रमकार्येभ्यो निवर्तयेत् ” इति—
तस्मिन्समहीनवयस्केऽपि गुरुवद्वर्तितव्यम् । हितं च विधिरूपमग्रन्थकम् उपदिशत्सु ।
अथवा हितस्योपदेष्टारोऽभिजना उच्यन्ते ॥ २०६ ॥
हिन्दी — उपाध्याय आदि अन्य ( आचार्य को छोड़कर दूसरे ) विद्यागुरुओं में, चाचा, मामा, मौसा आदि स्वबन्धुओं में, अधर्म का निषेध करने वालों ( धर्मोपदेश करने वाले ) हित के उपदेश देने वालों में गुरु के समान आचरण करे ॥२०६ ॥
विद्यादि में श्रेष्ठ लोगों के साथ आचरण-श्रेयस्सु गुरुवद्वृत्तिं नित्यमेव समाचरेत् । गुरुपुत्रे तथाऽऽचार्ये गुरोश्चैव स्वबन्धुषु ॥ २०७ ॥
भाष्य — श्रेयांस आत्मापेक्षया वित्तवयोविद्याद्यतिशययुक्ताः । तेषु गुरुवद्वृत्तिं यथासम्भवमभिवादनप्रत्युत्थानादि समाचरेत् । बहवोऽत्र शब्दा गतार्थाः प्रयुज्यन्ते । तेषां वृत्तवशात्प्रयोगो न दुष्यति । श्रेयस्स्वि-त्येतावद्वक्तव्यम् । गुरुवदित्याक्षिप्यते । वृत्तिमित्यादि प्राप्तमेव । तदेतत्सर्वस्मिन्नेवास्मि-न्ग्रन्थे स्वयमुत्प्रेक्ष्यम् । गुरुपुत्रे तथाचार्ये । आचार्यग्रहणेनाध्यापकत्वं लक्ष्यते । यद्यसन्निहिते गुरौ तत्पुत्रो-ऽध्यापयति कतिचिदहानि तदा तस्मिन्गुरुववृत्तिः । पाठान्तरम् ‘ गुरुपुत्रेष्वयार्येषु ’ । आर्यशब्दो गुणवद्ब्राह्मणजातिवचनः । शूद्राच्चार्यो ज्यायान् इति प्रयोगदर्शनात् । न च सर्वस्मिन्गुरुपुत्रे वृत्तिरेषा विधीयते । गुरोश्चैव स्वबन्धुषु । स्वग्रहणं गुरुवंश्यर्थम् । गुरुवंशसम्बन्धितैवात्र निमित्तम्, न वयोविद्याद्यपेक्ष्यते ॥२०७ ॥
हिन्दी — विद्या - तप आदि के द्वारा श्रेष्ठ लोगों में अवस्था में अपने से बड़े गुरु-पुत्र में औरगुरु के आत्मीय बान्धवों में ( शिष्य ) गुरु के समान आचरण करे ॥२०७ ॥
पृष्ठ 312
पाठ पढ़ें पाठ छिपाएँ
२३८ मनुस्मृतिः छोटे गुरुपुत्रादि के साथ आचरण-बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि । अध्यापयन् गुरुसुतो गुरुवन्मानमर्हति ॥ २०८ ॥
[ द्वितीयः भाष्य- - ये न पठन्ति गुरुपुत्रविशेषणार्थं पूर्वत्राचार्यग्रहणम्, तेषामध्यापयितरि गुणवति समानजातीये सर्वगुरुवृत्तिः प्राप्ताऽनेन विशेषेणावस्थाप्यते । अध्यापयन्गुरुसुतो गुरुवन्मानं पूजामर्हति, नानाध्यापयन् । “ ननु च विद्याग्रहणनिमित्तत्वाद्गुरुवृत्तिरध्यायपद्गुरुवद् गुरुपुत्रेऽप्यध्यापयितरि प्राप्तैव । शैशवब्राह्मणनिदर्शनात्कनीयसोऽपि सिद्धेत्यतो बालः समानजन्मा वा इत्येवमर्थमपि न वक्तव्यम् ” । सत्यम् । यो वेदं वेदैकदेशं वाऽध्यापयति तस्यानाचार्यस्याप्येषा वृत्तिरुक्ता । अयं तु न ग्राहकः, केवलं कतिचिदहान्यहर्भागं वाऽध्यापयति, अतो नाचार्यो नोपाध्यायः-इत्यप्राप्तौ, विधिरयम् । अस्मादेव वचनादन्यस्य भग्नमन्वादेरध्यापकस्य न सर्वा गुरुवृत्तिः कर्तव्येति विज्ञायते । ये च पूर्वत्राचार्यशब्दं पठन्ति तेषामुत्तरार्थमिदमनूद्यते । “ उत्सादनं चेति ” वक्ष्यति । शिष्यो वा यज्ञकर्मणि । यज्ञकर्मग्रहणं प्रदर्शनार्थम् । कचिदङ्गे वेदैकदेशे मन्त्रभागे कस्मिंश्चिद्ब्राह्मणभागे वा – तथापि गुरुवत्पूज्यः यदि तु गुरुपुत्रः, तस्मादनेन प्रकारेण काञ्चिद्विद्यां शिक्षेत, तदा तेन तस्मिन्गुरुवद्वर्तितव्यमित्युक्तम् —एवमर्थवादत्वादस्यारम्भस्य । ये तु व्याचक्षते— “ अध्यापयन्नित्यनेनाध्यापनसामर्थ्यं लक्ष्यते; अध्यापनसमर्थश्चे-दध्यापयतु, मा वाऽध्यापयेत्, गृहीतवेदश्चेद्गुरुवद्द्रष्टव्यः ” तेषां शाब्दमेतद्व्याख्यानं सत्यं भवति । शता लक्षणार्थ:, स तु क्रियायाः लक्षणहेत्वोः क्रियाया ( व्या ० सू ० ३।२।१२६ ) इति । क्रिया चात्र श्रुता — गुरुवन्मानमर्हति ॥२०८ ॥
हिन्दी – गुरु का पुत्र अवस्था में अपने से छोटा ( कम आयु वाला ) हो, समान ( या बराबर ) हो, अध्ययन या अध्यापन करता हो, यज्ञ कर्म में ऋत्विक् हो, या अऋत्विक् रूप में यज्ञ दर्शन के लिये आया हो तो वह गुरु के समान ( यजमान का ) पूज्य है ॥ २०८ ॥
गुरुपुत्र में अभ्यङ्गादि का निषेध-उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजने ।
न कुर्याद्गुरुपुत्रस्य पादयोश्चावनेजनम् ॥ २० ९ ॥
पृष्ठ 313
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] जनं प्रक्षालनम् । -' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २३ ९ गुरु की सवर्ण स्त्रियों के साथ व्यवहार-गुरुस्त्रियों में अभ्यङ्गादि का निषेध-अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च । गुरुपल्या न कार्याणि केशानां च प्रसाधनम् ॥ २११ ॥
भाष्य- -घृततैलादिना केशकायोपदेहनमभ्यञ्जनम् । गात्राणामुत्सादनमुद्वर्तनम् । कार्यसामान्यात्पादधावनमपि । सर्वथा शरीरस्पर्शसाध्या या काचिदनुवृत्तिः सा सर्वा प्रतिषिध्यते । वक्ष्यति च हेतुं " स्वभाव एष नारीणाम् ' इति ( २१३ ) । केशानां च प्रसाधनम् विन्यासरचनादिकरणम्, कुङ्कुमसिन्दूरादिना सीमन्तोत्था-पनम् । प्रदर्शनार्थं चैतदुक्तम् । तेन देहप्रसाधनमपि चन्दनानुलेपनानि निषिध्यन्ते ॥२११ ॥
हिन्दीं — गुरु की स्त्रियों को तेल की मालिश, स्नान कराना, उबटन, लगाना, उनका बाल झाड़ना या फूल आदि से उनका शृंगार करना; इन कर्मों को ( शिष्य ) न करे ॥२११ ॥
युवा शिष्य को युवती गुरुस्त्री का पादस्पर्श निषेध-गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयोः । पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥ २१२ ॥
भाष्य- -अभ्यक्तस्योद्वर्तनम् उत्सादनं न कुर्यात् । गुरुपुत्रस्य । पादयोश्चावने-अस्मादेव प्रतिषेधाद्गुरावेतदनुक्तामपि कर्तव्यतया प्रतीयते । यदा तु गुरुपुत्र एव गुरु: सम्पद्यते कृत्स्नवेदाध्यापनोपयोगितया, तदा स्वनिमित्तं तत्रोच्छिष्टभोजनाद्यस्ति;
तदनेन न प्रतिषिध्यते । आतिदेशिकस्यानेन निषेधो नौपदेशिकस्य ॥ २० ९ ॥
हिन्दी - शिष्य गुरुपुत्र के शरीर में उबटन लगाना, स्नान कराना, उसका जूठा भोजन करना और पैर धोना; इस कर्मों को न करे ॥ २० ९ ॥
गुरुवत्प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः ।
अवसर्णास्तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ॥ २१० ॥
भाष्य – गुरुयोषितो गुरुपत्न्यः । सवर्णाः समानजातीयाः । गुरुवत्प्रतिपूज्या आज्ञाकरणादिना । असवर्णास्तु केवलैः प्रत्युत्थानाभिवादनैः । बहुवचनादाद्यर्थोऽत्रा-न्तर्भवति । तेन हि प्रियहितादि गत्याद्यननुकरणाद्यप्यतिदिश्यते ॥२१० ॥
हिन्दी — गुरु की सवर्ण स्त्रियाँ गुरु के समान पूजनीय हैं और असवर्ण स्त्रियाँ प्रत्युथान तथा नमस्कार मात्र से ही पूज्य हैं ॥ २१० ॥
पृष्ठ 314
पाठ पढ़ें पाठ छिपाएँ
२४० मनुस्मृतिः [ द्वितीयः भाष्य - पूर्णविंशतिवर्षेण तरुणेनेत्यर्थः । बालस्य आ षोडशाद्वर्षाददोषः । पूर्णानि विंशति वर्षाणि यस्य स एवमुच्यते । अयं कालो यौवनोद्भेदोपलक्षणार्थः । अत एवाह – गुणदोषौ विजानतं । कामजे सुखदुःखे गुणदोषावभिप्रेतौ स्त्रीगतौ च
स्वाकृतिदुराकृतिलक्षणौ धैर्यचापले वा ।
सर्वथाऽतन्त्रा विंशतिसंख्या ॥ २१२ ॥
हिन्दी – बीस वर्ष की अवस्था वाला ( युवक ) गुण - दोष का ज्ञाता शिष्य गुरु की युवती स्त्री के चरण को स्पर्श कर अभिवादन न करे । ( अलग से मस्तक झुकाकर अभिवादन करे ) ॥ २१२ ॥
उक्त निषेध में स्त्रीस्वभाव कारण—
स्वभाव एष नारीणां नराणामिह दूषणम् ।
अतोऽर्थान्न प्रमाद्यन्ति प्रमदासु विपश्चितः ॥ २१३ ॥
भाष्य — एषा प्रकृतिः स्त्रीणां यन्नराणां धैर्यच्यावनम् । सङ्गादिद्ध स्त्रियः पुरुषान्त्रता-च्च्यावयेयुः । अतोऽर्थात् अस्माद्धेतोः न प्रमाद्यन्ति । दूरत एव स्त्रियः परिहरन्ति । प्रमादः स्पर्शादिकरणम् । वस्तुस्वभावोऽयं यत्तरुणी स्पृष्टा कामकृतं चित्तसङ्क्षोभं जनयति ।
तत्र चित्तसङ्क्षोभोऽपि प्रतिषिद्धः तिष्ठतु तावदपरो ग्राम्यधर्मसंरम्भः ।
प्रमदाः स्त्रियः ॥ २१३ ॥
हिन्दी - स्त्रियों का स्वभाव है कि इस जगत् में शृङ्गार चेष्टाओं के द्वारा व्यामोहित कर पुरुषों में दूषण उत्पन्न कर देती है, अतएव विद्वान् पुरुष स्त्रियों के विषय में असावधानी नहीं करते हैं ( किन्तु सर्वदा उनसे अलग ही रहते हैं ) ॥ २१३ ॥
अविद्वांसमलं लोके विद्वांसमपि वा पुनः ।
प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम् ॥ २१४ ॥
भाष्य — न चैतन्मन्तव्यं “ नियमितानि येन चिरमिन्द्रियाणि, ‘ अतिगुरुपातकं गुरुदारेषु दुष्टेन भावेन प्रेक्षणमपीति ' य एवं वेद तस्य न दोषः पादस्पर्शादाविति । ' यत एवंविधानपि दोषान् यो जानीते, यो वा न किञ्चिज्जानीते, तौ स्त्रीविषये समानौ । यतो नात्र विद्वत्ता प्रभवति । शक्नुवन्ति स्त्रियः सर्वम् उत्पथम् अमार्गं लोकशास्त्रविरुद्धं विषयं नेतुं प्रापयितुं - कामक्रोधवशानुगं सन्तम् । कामक्रोधाभ्यां यः सम्बध्यत इत्यर्थः । अवस्थाविशेषोपलक्षणार्थं चैतत् । अत्यन्तबालं अत्यन्तवृद्धं च प्राप्तयोगप्रकर्षणं च वर्जयित्वा, येन निरन्वयमुच्छिन्ना संसारपुरुषधर्मास्तद्व्यतिरेकेण, न कश्चित्पुरुषोऽस्ति यः स्त्रीभिर्नाकृष्यते — अयः कान्तेनेव लोहः । न चात्र स्त्रीणां प्रभविष्णुता; वस्तुस्वाभा-
पृष्ठ 315
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २४१ व्यात्तरुणीजनदर्शने पुंसामुन्यथ्यते वित्तम्, विशेषतो ब्रह्मचारिणाम् ॥२१४ ॥
हिन्दी — स्त्रियाँ काम तथा क्रोध के वशीभूत मूर्ख या विद्वान् पुरुष को भी कुमार्ग प्रवृत्त करने के लिये समर्थ होती हैं ॥ २१४ ॥
माता - बहन आदि के साथ एकान्तवास का निषेध-मात्रा स्वस्त्रा दुहित्रा वा न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ २१५ ॥
भाष्य- अतो विविक्तासन: निर्जने शून्ये गृहादौ नासीत । नापि निःशङ्कमङ्ग-स्पर्शादि कुर्यात् । अतिचपलो हीन्द्रियसङ्घातो विद्वांसमपि शास्त्रनिगृहीतात्मानमपि कर्षति हरति परतन्त्रीकरोति ॥२१५ ॥
हिन्दी - पुरुष ( युवती ) माता, बहन तथा पुत्री के साथ कभी एकान्त में न रहे; क्योंकि बलवान् इन्द्रिय - समूह विद्वान् को भी अपने वश में कर लेता है ॥२१५ ॥
युवती गुरुपत्नी की अभिवादन विधि-कामं तु गुरुपत्नीनां युवतीनां युवा भुवि ।
विधिवद्वन्दनं कुर्यादसावहमिति ब्रुवन् ॥ २१६ ॥
भाष्य — काममित्यरुचिं सूचयति । उत्तरेण चैतत्सम्बध्यते ' विप्रोष्य पादग्रहणमिति । ’ भुवि तु पादवन्दनमिष्यत एव । युवतीनां युवां द्वयोर्यूनोरयं विधिः । यदि बालो ब्रह्मचारी वृद्धा वा गुरुपत्नी तदा पादापसंग्रहमविरुद्धम् । असावहमिति प्रागुक्तस्य
विधेरनुवादः ।
विधिवदिति व्यस्तपाणिना ॥ २१६ ॥
हिन्दी - युवा शिष्य युवती गुरुपत्नी को " अमुक नाम वाला ' मैं अभिवादन करता हूँ ( अभिवादये शुभशर्माहं भोः! ) कहकर पृथ्वी पर ( उसका पादस्पर्श न कर ) विधिपूर्वक अभिवादन करे || २१६ ॥ प्रवास से लौटकर गुरुपत्नी का चरणस्पर्शपूर्वक अभिवादन-विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् । गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ॥ २१७ ॥
भाष्य — प्रवासादेत्य पादयोर्ग्रहणं ' सव्येन सव्य ' इति । अन्वहम् अहन्यहनि ।
अभिवादनं भूमौ । सतां शिष्टानां एष धर्म आचार इत्यनुस्मरन् ॥२१७ ॥
हिन्दी — सत्पुरुषों के धर्म को स्मरण करता हुआ शिष्य प्रवास से लौटकर गुरुपत्नी का चरण - स्पर्श करके तथा प्रतिदिन बिना चरणस्पर्श किये ही अभिवादन करे ॥ २१७ ॥
पृष्ठ 316
पाठ पढ़ें पाठ छिपाएँ
२४२ मनुस्मृतिः गुरु सेवा का फल-यथा खनन् खनित्रेण नरो वार्यधिगच्छति । [ द्वितीयः तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥ २१८ ॥
भाष्य — सर्वस्य शुश्रूषाविधेः फलमिदम् । गुर्वाराधनद्वारेण स्वाध्यायविध्यर्थवादः । यथा कश्चिन्मनुष्यः खनित्रेण कुद्दालादिना भूमिं खनन् वारि प्राप्नोति, नाक्लेशेन, एवमयं विद्यां गुरुगतां शुश्रूषुः गुरुसेवापरोऽधिगच्छति ॥२१८ ॥
हिन्दी — जिस प्रकार खनित्र ( कुदाल – जमीन खोदने का अस्त्र ) से ( जमीन ) को खोदता हुआ मनुष्य पत्नी को प्राप्त कर लेता है, उसी प्रकार गुरु सेवा करने वाला शिष्य गुरु की विद्या को भी प्राप्त कर लेता है ॥२१८ ॥
ब्रह्मचारी के तीन प्रकार तथा ग्रामवास निषेध-मुण्डो वा जटिलो वा स्यादथवा स्याच्छिखाजटः । नैनं ग्रामेऽभिनिम्लोचेत्सूर्यो नाभ्युदियात् क्वचित् ॥ २१ ९ ॥ भाष्य - मुण्डः सर्वत: केशवपनं कारयेत् 1 । जटिलो वा । जटा परस्परमत्यन्तं संलग्नकेशाः, तद्वान् जटिलः । शिखाजटः शिखैव वा जटा यस्य । जटाकारां शिखां धारयेत् परिशिष्टे मुण्डः । तथा च कुर्याद्यथा ग्रामे स्थितस्य सूर्यो नाभिनिम्लोचेत् नास्तं गच्छेत् । ग्रामग्रहणं नगरस्यापि प्रदर्शनार्थम् । अस्तमयसमयमरण्ये सम्भावयेत् । एवं ग्रामे नाभ्युदिया-दुदयोऽपि सूर्यस्य यथाऽरण्यस्थस्य ब्रह्मचारिणो भवति तथा कुर्यात् । एनं प्रकृतं ब्रह्मचारिणम् । अन्ये तु ग्रामशब्दं ‘ ग्राम्येषु धर्मेषु स्वापादिषु वर्तमानं न निम्लोचेत् ' इत्येवमर्थं वर्णयन्ति । तथा च उत्तरत्र, ' शयानम् ' इत्याह । ततोऽयं सन्ध्ययोः स्वप्नप्रतिषेधः, नारण्ये तत्कालावस्थानम् । बालो हि ब्रह्मचारी विभियात् । गौतमेन तु ( अ ०२, सू ० ९ ।१० ) बहिः - सन्ध्यत्वं परतो गोदानादुक्तम् । गोदानव्रतं च षोडशवर्षे, तदा च प्राप्तः शक्नोत्यरण्ये सन्ध्यामुपासितुम् ॥२१९ ॥
हिन्दी — ब्रह्मचारी ( शिखारहित ) मुण्डन करावे, जटायुक्त रहे ( बिल्कुल बाल न बनवावे ) या केवल शिखामात्र रखे ( शिखा को छोड़ शेष बाल बनवा ले ) और इस ब्रह्मचारी को किसी स्थान में सोते रहने पर न तो सूर्योदय हो औन न तो सूर्यास्त हो । ( सूर्योदय तथा सूर्यास्त के पहले ) ब्रह्मचारी ग्राम से बाहर जाकर अपना सन्ध्योपासना तथा अग्निहोत्रादि नित्य कृत्य करे ॥२१९ ॥
पृष्ठ 317
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २४३ उक्त कर्म के भङ्ग होने पर प्रायश्चित्त—
तं चेदभ्युदियात्सूर्यः शयानं कामचारतः ।
निम्लोचेद्वाऽप्यविज्ञानाज्जपन्नुपवसेद्दिनम् ॥ २२० ॥
भाष्य- अत्रेदं प्रायश्चितं चरेत् । ब्रह्मचारिणं शयानं निद्रावशं गतम् अभ्युदियात् स्वेनोदयेनाभिव्याप्तदोषं कुर्यात् । ‘ अभिरभाग ’ इति कर्मप्रवचनीयत्वम् । ततो द्वितीया शयानमिति । इत्थं भूतं सुप्तमिति-लक्षणं वा स्वापकाले यद्युद्येत । जपन्नुपवसेद्दिनम् | केचिदाहुः । ‘ प्रातरतिक्रमे दिनं जपोपवासौ, रात्रौ तु भोजनम्, पश्चिमातिक्रमे तु रात्रौ जपोपवासौ, प्रातर्भोजनमिति । दिनशब्द: प्रदर्शनार्थ: । " गौतमवचनं चाप्युदा-हरन्ति । “ तिष्ठेदहरभुञ्जानोऽभ्यस्तमितश्च रात्रिं जपन्सावित्रीमिति ” ( २३।२१ ) । तदयुक्तम् । उभयत्रापि दिवैव प्रायश्चित्तं युक्तम् । दिनशब्दस्य प्रदर्शनार्थत्वे प्रमाणा-भावात् । न ह्यस्य तत्सापेक्षस्य स्वार्थप्रतिपादनम् । निरपेक्षं चैतत् । तस्माद्विकल्पो युक्तः । तत्र यस्य सर्वां रात्रिं जाग्रतो न व्याधिः प्रवर्तते स रात्रौ जपिष्यति, अन्यस्तु दिवैव । जपश्च गौतमवचनात्सावित्र्या एव । " नन्वत्र कथं गौतमः प्रमाणीक्रियते? ” उच्यते । सापेक्षमिदं वाक्यं जपेदिति, जपनीयस्यानिर्द्देशात् । सत्यामपेक्षायां श्रुत्यन्त-राद्युक्ता विशेषावगतिः । इह तु कालस्य निर्देशः । नास्ति कालान्तरं प्रत्यपेक्षेति न गौतमोऽपेक्ष्यते । अथवा सन्ध्यातिक्रमे प्रायश्चित्ताभिधानात्सावित्रीजपः सिद्ध एव । युक्तं च — सावित्र्यास्तु परं नास्तीति । कामचारतः । ज्ञात्वैव सन्ध्याकाले यः स्वपिति । अविज्ञानात् । चिरसुप्तस्य सन्ध्याकालोऽयं वर्तत इत्यनवबोधोऽविज्ञानम् । एतदुक्तं भवति । इच्छया प्रमादकृते चातिक्रमे एतदेव प्रायश्चित्तम् । यः पुनरभ्युदितानस्तमितसन्ध्यामतिक्रामति ' तस्य
तर प्रायश्चि-त्तमभोजनं – नित्यानां कर्मणां समतिक्रम इति ।
अथवा यः कामचारेण शास्त्रातिक्रमणं करोति तस्य तदविज्ञानमेव ॥ २२० ॥
हिन्दी - इच्छापूर्वक ( रुग्णादि अवस्था में नहीं ) ब्रह्मचारी के सोते रहने पर यदि सूर्योदय हो जाय तो वह गायत्री जप करता हुआ दिनभर उपवास करे ( और रात में भोजन करे ) और भ्रम से ( बिना जाने सोते रहने पर ) यदि सूर्यास्त हो जाय तो वह गायत्री जप
पृष्ठ 318
पाठ पढ़ें पाठ छिपाएँ
२४४ मनुस्मृतिः [ द्वितीयः करता हुआ आगे वाले दिन में उपवास करे ( और रात में भोजन करे ) ॥ २२० ॥
विमर्श— “ सूर्योदय के बाद सोकर उठा हुआ ब्रह्मचारी सावित्री जप करता हुआ दिन में उपवास करे और सोते रहने पर सूर्यास्त होने से सावित्री जप करता हुआ रात्रि में उपवास करे ’ '? ऐसा गौतम के कहने से मनूक्त वचन का विरोध होता है, ( क्योंकि मनु भगवान् दोनों अवस्थाओं में दिन में जप तथा उपवास और रात्रि में भोजन का विधान करते हैं और गौतम के वचन से सूर्याभ्युदित ( प्रथमपक्ष में ) ब्रह्मचारी के लिये दिन में जपोपवास तथा अभ्यस्तमित ( द्वितीय पक्ष में ) ब्रह्मचारी को रात में जपोपवास करने का विधान है, ऐसी शङ्का नहीं करनी चाहिये । मनुक्तव्याख्या के सन्देहावस्था में दूसरे मुनि के अर्थ या अन्वय का आश्रय न कर मनु के द्वारा केवल ' मात्र का विधान होने से सन्देहोपस्थिति में उक्त गौतम - वचन से सावित्री के जप का ही ग्रहण करना है, किन्तु दोनों पक्षों में स्पष्ट कहे गये दिनोपवास विधायक मनु- वचन को अन्यथा नहीं करते, अतएव अभ्यस्तमित ( दूसरी अवस्था में ) ब्रह्मचारी के लिये मनु तथा गौतम के वचनों के विकल्प रूप से ग्रहण करना चाहिए । अभ्युदित ( प्रथमावस्था में ) वाले ब्रह्मचारी के लिए दोनों ऋषियों का ऐक्यमत्य है ।
उक्त प्रायश्चित न करने पर दोष-सूर्येण ह्यभिनिम्लुक्तः शयानोऽभ्युदितश्च यः ।
प्रायश्चित्तमकुर्वाणो युक्तः स्यान्महतैनसा ॥ २२१ ॥
भाष्य – पूर्वप्रायश्चित्तविधेरयमर्थवादः । निम्लोचनेनाभिदुष्टः अभिनिम्लुक्तः । एवमभ्युदितः । प्रायश्चित्तं पूर्वोक्तं न करोति । तदा महता पापेन सम्बध्यते, न स्वल्पेन । नरकादिदुःखोपभोगनिमित्तमदृष्टं ' पाप ' मुच्यते ॥२२१ ॥
हिन्दी — जिस ब्रह्मचारी के सोते रहने पर सूर्योदय या सूर्यास्त हो जाय और वह ब्रह्मचारी उक्त प्रायश्चित ( श्लो ० २२० ) न करे तो बड़े पाप से युक्त होता है ( अत: उसे उक्त प्रायश्चित अवश्य करना चाहिये ) ॥ २२१ ॥
सन्ध्योपासना की आवश्यकता-आचम्य प्रयतो नित्यमुभे सन्ध्ये समाहितः ।
शुचौ देशे जपञ्जप्यमुपासीत यथाविधि ॥ २२२ ॥
भाष्य — एवं महान्दोषोऽभ्युदयनिम्लोचनयोः तस्मात् आचम्य । प्रयतःतत्परः । १. “ सूर्याभ्युदितो ब्रह्मचारी तिष्ठेदहरभुञ्जानोऽभ्यस्तमितश्च रात्रिं जपन् सावित्रीम् ” इति गौतमवचनम् ।
पृष्ठ 319
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २४५ समाहितः परिहृतचित्तकर्मविक्षेपः । शुचौ देशे जपञ्जप्यं प्रणवव्याहृतिसावित्र्याख्यम् । उपासीत उभे सन्ध्ये । सन्ध्ययोरेवात्रोपास्यत्वम् । उपासनं च तत्र भावविशेषः । अथवोभे सन्ध्ये प्रत्युपासीत भगवन्तं सवितारम् । मन्त्रो हि तद्देवत्योऽतस्तमेवोत्पासीत । संहृतसकलविकल्पस्तद्गतैकमना भवेत् । प्रागुक्तस्य विधेः शेषोऽनुवादः । उपासनं केवलं विधेयम् । अन्ये तु “ शुचौ देश इत्येतद्विध्यर्थोऽयं श्लोक ' इत्याहुः । तेषां पौनरुक्त्यम् । सर्वस्यैव कर्तव्यस्य “ शुचिना कर्म कर्तव्यमिति ” विहितम् । अशुचिदेशसम्बन्धे च का शुचिता ॥ २२२ ॥
हिन्दी- - आचमनकर पवित्र तथा सावधान ब्रह्मचारी पवित्र स्थान में सावित्री को जपता हुआ दोनों समय सन्ध्या का विधिपूर्वक अनुष्ठान करे ॥२२२ ॥
स्त्री - शूद्रादि के भी उत्तम कार्य को करना-यदि स्त्री यद्यवरजः श्रेयः किञ्चित्समाचरेत् । तत्सर्वमाचरेद्युक्तो यत्र चास्य रमेन्मनः ॥ २२३ ॥
भाष्य – यदि स्त्री आचार्याणी । अवरजः कनीयान् । आचार्यादुपलभ्य श्रेयः धर्मादि त्रिवर्गसमाचरेत्तत्सर्वमाचरेत् । सम्भवति हि तयोस्तदाचार्यसम्पर्कात्परिज्ञानम् । शूद्रो वाऽऽचार्यभृतक अवरजः । स यद्युपदिशेत् ' एवं पायुलिङ्गौ मृद्वारिणा प्रक्षाल्येते, निपुणौ हस्तौ प्रक्षालय, विस्मृतस्ते मृद्वारिक्रमः, त्वदीय आचार्योऽसकृन्मया पायुप्रक्षालने जलं ददता दृष्टपूर्वः, पूर्वमद्भिः शौचं करोति ततो मृद्भिः ' इत्येवमादि समाचरेत्तत्समाचाराद्युपपन्न उपदिशेत् । तथा चाचार्याणी आचमनं शिक्षयेत् । तत्सर्व-माचरेद्युक्तः श्रद्धया । न स्त्रीशूद्राचरितमित्यवजानीत । समाचरेदिति च समाचारपूर्वक उपदेश एवात्राभिप्रेतः । वक्ष्यति च “ धर्मः शौचंस.... समादेयानि सर्वत " इति ( २४० ) । आचार्येणैव कदाचिदादिष्टं भवति – ' ब्राह्माण आचमय पुत्रस्थानीयमेतं यथाविधि-पूर्वकम्’– ब्रूयाञ्च ‘ अस्य मूत्रपुरीषशुद्ध्यर्थं मृद्वारिणी देये ' इति । तत्र तदीयवचनमनुष्ठेयम् एवं मृदो गृहाण एवमद्भिः प्रक्षालंयेति । अथवा गुरुगृहे लोहोपलजलशुद्ध्यादिः स्त्रीशूद्राभ्यां समाचर्यमाणः प्रणाणीकर्तव्यः । एतावदाचारस्य स्त्रीशूद्रसम्बन्धिनः प्रामाण्यार्थोऽयं श्लोको युज्यते । ननु सर्वस्याचारस्यावेदवित्सम्बन्धिनः प्रामाण्यं घटते । अयुक्तमेतत् । न हि स्वल्पोऽप्याचार अवेदविदां प्रमाणीभवति । अथास्ति मूलं वेदवित्सम्बन्धः स एव तर्हि मनु I- 20
पृष्ठ 320
पाठ पढ़ें पाठ छिपाएँ
२४६ मनुस्मृतिः [ द्वितीयः प्रमाण.... स्त्री ग्रहणेन । न चैवंविधे विषये स्त्रीशूद्राचारस्य प्रामाण्यमभिप्रेतम् । तथा हि सति प्रामाण्याभिधानप्रकरण एवावक्ष्यत् । तस्माच्छ्रेय: पदार्थनिरूपणार्थोऽयमुपोद्धात इति परमार्थः । यद्वाऽऽचार्यवचसां प्रामाण्यानुवादोऽयम् - यत् स्त्रीशूद्रावपि ब्रूयातां तदप्यनुष्ठातुं युक्तम्, किं पुनराचार्योपदिष्टम् ।
यत्र चास्य रमेत्परितुष्येन्मनः । एतदप्यात्मनस्तुष्टिरित्यत्र व्याख्यातम् ।
सर्वथा नास्य श्लोकस्यातीव प्रयोजनमस्ति ॥ २२३ ॥
हिन्दी - स्त्री या शूद्र भी जिस किसी अच्छे काम को करते हों, उसे तथा शास्त्रानु-कूल कर्मों में से जो कर्म रुचिकर हों उन्हें भी सावधान होकर करे ॥२२३ ॥
भिन्न - भिन्न आचार्यों के मत से त्रिवर्ग का स्वरूप-धर्मार्थावुच्यते श्रेयः कामार्थौ धर्म एव च । अर्थ एवेह वा श्रेयस्त्रिवर्ग इति तु स्थितिः ॥ २२४ ॥
भाष्य — यत्प्रशस्यं यदाचर्यमाणं दृष्टादृष्टे नोपहन्ति यच्छ्रेयो लोके उच्यते किं पुनस्तदिति सुहृद्भूत्वाऽन्वाचष्टे । नायं वेदमूलोऽर्थो नाचार्योदिशब्दवत्पदार्थकथनम् । किं तर्हि श्रेयोऽर्थी सर्वः पुरुषः प्रवर्तते । तत्रेदमुच्यते —– इदं श्रेयः एतदर्थं यत्नः कर्तव्यः । तत्र मतान्तराणि तावदुपन्यस्यति । केषाञ्चिन्मतं धर्मार्थौ श्रेयः । धर्मः शास्त्रविहितौ विधिप्रतिषेधौ 1 । अर्थः गोभूमि-हिरण्यादिः । एतदेव श्रेयः एतदधीनत्वात्पुरुषप्रीतेः । अपरं मतं कामार्थाविति । कामस्तावन्मुख्य एव पुरुषार्थः । प्रीतिर्हि श्रेयः । अर्थोऽपि तत्साधनत्वात् । एवं हि चार्वाका आहुः- - काम एवैकः पुरुषार्थस्तस्य साधनमर्थः धर्मोऽपि यद्यस्ति । धर्मं एव सर्वेभ्यः श्रेयान्तसर्वस्य तन्मूलत्वाच्च । उक्तं च “ धर्मादर्थश्च कामश्च " इति । अर्थ एवेति वणिजः प्रयोगजीविनः । सिद्धान्तस्तु त्रिवर्ग इति तु स्थितिः । अतो धर्माविरोधि-नावर्थकामावपि सेवितव्यौ न तद्विरोधिनौ । तथा च गौतम: ( अ ० ९, सू ०४६ ) । “ न पूर्वाह्णमध्यंदिनापराह्णानफलान्कुर्यात् यथाशक्ति धर्मार्थकामेभ्यः ” इति । त्र्यात्मको वर्ग-स्त्रिवर्गः । ‘ त्रिषु समुदितेष्वयं रूढः ' ॥२२४ ॥
हिन्दी – कोई आचार्य ( कामहेतुक होने से ) धर्म अर्थ को, कोई आचार्य ( सुख हेतुक होने से ) काम तथा अर्थ को, कोई आचार्य ( अर्थ और काम के उपायभूत होने से ) धर्म को और कोई आचार्य ( धर्म तथा अर्थ का साधन होने से ) अर्थ को ही श्रेय