मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 321–330

मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 321–330

पृष्ठ 321

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 321 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

• अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता २४७ ( ( कल्याणकारक ) मानते हैं; किन्तु ( पुरुषार्थता के कारण ) त्रिवर्ग ( धर्म, अर्थ और काम ) ही श्रेय है, ऐसा निश्चय है । ( यह भोगाभिलाषियों के लिए उपदेश है, मोक्षाभिलाषियों लिए तो मोक्ष ही श्रेय है यह आगे कहेंगे ) ॥ २२४ ॥

आचार्यश्च पिता चैव माता भ्राता च पूर्वजः ।

नार्त्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ॥ २२५ ॥

भाष्य - अन्योऽपि न कश्चिदवमन्तव्यः, एते पुनर्विशेषतः । प्रायश्चित्ताधिक्यमत्रे-त्यर्थः । आर्त्तेन तैः पीडितेनापि । अवमानमवज्ञा, प्राप्तायाः पूजाया अकरणं न्यक्कार-श्चानादराख्यः । ब्राह्मणग्रहणं पूरणार्थम् ॥ २.२५ ॥ हिन्दी - आचार्य, पिता, माता, सहोदर बड़े भाई का अपमान दुःखित होकर भी न करे विशेषतः ब्राह्मण तो कदापि न करे ॥ २२५ ॥

आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।

माता पृथिव्या मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः ॥ २२६ ॥

— पूर्वस्यायमर्थवादः । भाष्य -यत्परं ब्रह्म वेदान्तोपनिषत्प्रसिद्धं तस्य आचार्यो मूर्तिः शरीरम् । मूर्तिरिव मूर्तिः । प्रजापतेर्हिरण्यगर्भस्य पिता । येयं पृथिवी सैव माता, भारसहत्वसामान्यात् । भ्राता च स्वः सोदर्यः आत्मनः क्षेत्रज्ञस्येति प्रशंसा । एते सर्वे देवतारूपाः महत्त्वयुक्ता अवमताघ्नन्ति, प्रसादिता अभिप्रेतैः कामैर्योज-यन्ति । एवं तत्समा आचार्यादय इति स्तुतिः ॥ २२६ ॥

हिन्दी – ( क्योंकि ) आचार्य परमात्मा की, पिता प्रजापति की, माता पृथिवी की और सहोदर बड़ा भाई अपनी मूर्ति है । ( अतएव देवरूप इन आचार्यादिक का अपमान नहीं करना चाहिये ॥२२६ ॥

माता, पिता से उद्धार पाना असम्भव-यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम् ।

न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥ २२७ ॥

भाष्य - भूतार्थानुवादेनेयमपरा प्रशंसा । क्लेशं दुखं माता च पिता च न नृणामपत्यानां सम्भवे गर्भात्प्रभृति यावद्दशमा-द्वर्षात् । मातुः क्लेशः गर्भधारणम् । प्रसवः प्राणहरः स्त्रीणाम् । जातस्य च संवर्धनयोगः क्लेशः । स सर्वस्य स्वयं संवेद्यः । पितुरप्युपनयनात्प्रभृति आ वेदार्थव्याख्यानात् ।

पृष्ठ 322

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 322 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२४८ मनुस्मृतिः [ द्वितीय: सम्भवशब्देनात्र गर्भाधानमुच्यते । तद्धि न क्लेशावहम्, किं तर्हि तदुत्तरकालभाविन्य एताः क्रियाः, ता हि क्लेशसाध्याः । न तस्य क्लेशस्य निष्कृतिरानृण्यं प्रत्युपकारसमत्वं शक्यं कर्तुं वर्षशतैर्जन्म-भिर्बहुभिः, किं पुनरेकेन जन्मना || असंख्यधनदानेन महत्या वाऽऽपद उद्धरणेन माता-पित्रोर्निष्कृतिरिति ॥२२७ ॥

हिन्दी — मनुष्यों के उत्पन्न होने में ( गर्भधारण, प्रसववेदना, पालन, रक्षण, वर्द्धन, संस्कार तथा वेद - वेदाङ्गादि का अध्यापनादि कर्म द्वारा ) माता - पिता जिस कष्ट को सहते हैं, सैकड़ों वर्षों ( या अनेक जन्मों ) में भी उनका बदला चुकाना अशक्य है ॥ २२७ ॥

माता, पिता और आचार्य की तुष्टि से तप: पूर्णता-त्योर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा । तेष्वेव त्रिषु तुष्टेषु तपः सर्वं समाप्यते ॥ २२८ ॥

भाष्य — तस्मात्तयोर्मातापित्रोराचार्यस्य च सर्वदा यावज्जीवं यत्प्रियं तेषां तत्कुर्यात्, न सकृद् द्विस्त्रिर्वा कृत्वा कृती भवेत् । तेष्वेवाचार्यादिषु त्रिषु तुष्टेषु भक्त्याराधितेषु तपः सर्वं बहून्यवर्षगणांश्चान्द्रायणादि तपस्तप्त्वा यत्फलं प्राप्यते तत्तत्परितोषादेव लभ्यत इति ॥२२८ ॥

हिन्दी – इस कारण माता, पिता और आचार्य का नित्य प्रिय करे ( उन्हें सन्तुष्ट करे ) उन तीनों के सन्तुष्ट होने पर सब तप ( चान्द्रायणादि व्रत ) पूरा होता है ( उन व्रतों का फल प्राप्त होता है ) ॥ २२८ ॥

माता - पितादि की आज्ञा के विना अन्य धर्माचरण का निषेध-तेषां त्रयाणां शुश्रूषां परमं तपः उच्यते । न तैरनभ्यनुज्ञातो धर्ममन्यं समाचरेत् ॥ २२ ९ ॥ भाष्य — ‘ “ कथं पुनस्तपः फलमतपसा मात्रादिशुश्रूषया? ” यस्मात् एतच्च सर्वोत्तमं तपो यत् तेषां पादसेवनम् । तैरननुज्ञातो माणवकः धर्ममन्यं तत्सेवाविरोधिनं तीर्थस्नानादिरूपं व्रतोपवासादि च शरीरशोषणयो तेषां चित्तखेदकरम् । ज्योतिष्टोमानुष्ठानेऽप्यनुज्ञा ग्रहीतव्या । यतोऽ-वमान्प्रतिषेधः कृतः । महारम्भेषु च कर्मसु बहुधनव्ययायाससाध्येषु मुह्यमाना अव-मन्तव्याः भवेयुः । नित्यकर्माऽनुष्ठाने त्वनुज्ञा नोपकारिणी ॥ २२ ९ ॥ -हिन्दी – उन तीनों ( माता, पिता और आचार्य ) की शुश्रूषा श्रेष्ठ तप कहा जाता है । उन तीनों से विना आज्ञा पाये किसी दूसरे धर्म का आचरण न करे ॥ २२ ९ ॥

पृष्ठ 323

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 323 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता

माता आदि तीनों लोकादि का स्वरूप-त एव त्रयो लोकास्त एव त्रय आश्रमाः ।

त एव हि त्रयो वेदास्त एवोक्तास्त्रयोऽग्नयः ॥ २३० ॥

भाष्य — कार्यकारणयोरभेदादेवमुच्यते । त्रयाणां लोकानां प्राप्तिहेतुत्वात्त एव त्रयो लोका उच्यन्ते । २४ ९ त एव च त्रयः प्रथमाद्ब्रह्मचर्यादन्ये त्रय आश्रमाः । गार्हस्थ्यादिभिस्त्रिभिराश्र-ग्मैर्यत्फलं प्राप्यते तत्तैस्त्रिभिस्तुष्टैः । त एव त्रयो वेदा वेदत्रयजपतुल्यफलत्वात् ।

त एव त्रयोऽग्नयः । अग्निसाध्यकर्मानुष्ठानफलावाप्तेस्तच्छ्रुश्रूषातः ।

एषाऽपि प्रशंसैव ॥ २३० ॥

हिन्दी — वे ( माता, पिता और आचार्य ) ही तीनों ( भूः, भुव:, स्व:) लोक हैं वे ही तीनों आश्रम ( ब्रह्मचर्याश्रम, गृहस्थाश्रम और वानप्रस्थाश्रम ) हैं, वे ही तीनों वेद ( ऋग्वेद, यजुर्वेद और सामवेद ) हैं और वे ही तीनों अग्नि ( गार्हपत्याग्नि, दाक्षिणाग्नि और आहवनीयाग्नि ) हैं ॥२३० ॥

विमर्श - यहाँ पर माता, पिता और आचार्य को तीनों लोकों की प्राप्ति का कारण होने से लोकत्रय का गार्हस्थ्यादि आश्रमों का दाता होने से तीनों आश्रमों का, तीनों वेदों के जप का फलोपाय होने से तीनों वेदों का और तीनों अग्नियों द्वारा सम्पादनीय यज्ञों का फल होने से तीनों अग्नियों का आरोप उनमें किया गया है I माता, पिता और आचार्यरूप त्रेताग्नि की श्रेष्ठता-पिता वै गार्हपत्योऽग्निर्माताऽग्निर्दक्षिणः स्मृतः । गुरुराहवनीयस्तु साऽग्निता गरीयसी ॥ २३१ ॥

भाष्य — केनचित्सामान्येनायं पित्रादीनां गार्हपत्यादिव्यपदेशः । साऽग्नित्रेता आधानाग्नित्रेता या गरीयसी महाफला । त्राणं त्राणार्थमिता प्राप्ता त्रेता इति शब्दव्युत्पत्तिः ॥२३१ ॥

हिन्दी - पिता गार्हपत्य अग्नि, माता दक्षिणाग्नि और गुरु ( आचार्य ) आहवनीयाग्नि है, यह ( माता, पिता और आचार्य रूप ) अग्नित्रय अत्यन्त श्रेष्ठ है ॥२३१ ॥।

माता, पिता और आचार्य के सेवा का फल-त्रिष्वप्रमाद्यन्त्रेतेषु त्रीन् लोकान् विजयेद्गृही । दीप्यमानः स्ववपुषा देववद्दिवि मोदते ॥ २३२ ॥

पृष्ठ 324

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 324 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२५० मनुस्मृतिः [ द्वितीयः भाष्य – एतेष्वप्रमाद्यन्नाराधनेऽस्खलन् । तथा च तदाराधनात्त्रीन् लोकाञ्जये-त्स्वकुर्यादाधिपत्यमाप्नुयात् । गृही । गृहस्थावस्थस्य हि पुत्रस्य पित्रादीनां तत्कृतमारा-धनमुपयुज्यते । तदा हि तौ वृद्धौ भवतः । दीप्यमानः शोभमानः प्रकाशमानो वा स्वेनैव तेजसा । देववदादित्यवद्दिवि लोके मोदते ॥ २३२ ॥

हिन्दी- — इन तीनों ( माता, पिता और आचार्य ) में प्रमादहीन ( ब्रह्मचारी तथा ) गृहस्थ तीनों लोकों को जीत लेता है और अपने शरीर से देदीप्यमान होता हुआ सूर्यादि देवताओं के समान स्वर्ग में आनन्द करता है ॥२३२ ॥

इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् ।

गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते ॥ २३३ ॥

भाष्य - अयं लोकः पृथिवी । भारसहत्वात्तुल्या माता पृथिव्याः । पितृभक्त्या मध्यमो लोकोऽन्तरिक्षम् । प्रजापतिः पितोक्तः । मध्यमस्थानश्च प्रजा-पतिर्नैरुक्तानाम् । स हि वर्षकर्मणां प्रजानां पाता वा पालयिता वा । ब्रह्मलोकमादित्यलोकम् । आदित्यो ब्रह्मेत्यादेशः । लोकः स्थानविशेषस्तमश्रुते प्राप्नोति ।

अर्थवादा एते । तत्र नाभिनिवेष्टव्यम् । न च लोकाधिपत्यकामस्य तदाराधनाधिकारः ।

नायं काम्यो विधिः । पितृत्वमेवात्र निमित्तम्, अकरणे शास्त्रातिक्रमः ॥ २३३ ॥

हिन्दी — माता की भक्ति से मृत्युलोक को, पिता की भक्ति से मध्यम ( अन्तरिक्ष ) लोक को और आचार्य की सेवा से ब्रह्मलोक को प्राप्त करता है ॥ २३३ ॥

सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः ।

अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ २३४ ॥

भाष्य — आदृताः सत्कृताः । आदृतवचनेन प्रत्युपकारपरत्वं लक्ष्यते 1 । यो ह्यादृतो भवति स परितुष्टः प्रत्युपकाराय यतते । अथवा आदृतः परितुष्ट उच्यते । धर्मस्य चानन्त्यात्परितोषानुपपत्तेः फलदानोत्सुकत्वं लक्ष्यते । सर्वाणि तस्य कर्माण्याशु फल-दायीनि भवन्ति । यस्यैते त्रय आदृताः शुश्रूषया परितुष्टाः । एतैस्त्वनाराधितैर्यत्फलकामेन किञ्चित्क्रियते शुभं कर्म तत्सर्वं निष्फलम् । सर्वाः क्रियाः सर्वाणि श्रौतस्मार्त्तानि कर्माणि । अर्थवादोऽयम् । पुरुषार्थो ह्याराधनविधिः । तदतिक्रमे पुरुष: प्रत्यवयन्महता पापेन कर्मोपार्जितेऽपीष्टफलभोगे प्रतिबध्यते । अत उच्यते सर्वास्तस्याफलाः क्रिया इति॥२३४ ॥

पृष्ठ 325

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 325 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २५१ हिन्दी - जिसने इन तीनों ( माता, पिता और आचार्य ) का आदर किया, उसने सब धर्मों का आदर किया ( उसके लिए सब धर्म फल देने वाले होते हैं ) जिसने उन तीनों का अनादर नहीं किया, उसकी ( श्रुति स्मृति - विधि - विहित ) सब क्रियायें निष्फल होती हैं ॥२३४ ॥

माता आदि की सेवा का प्राधान्य-यावत्त्रयस्ते जीवेयुस्तावन्नान्यं समाचरेत् ।

तेष्वेव नित्यं शुश्रूषां कुर्यात्प्रियहिते रतः ॥ २३५ ॥

भाष्य — उक्तार्थोऽयं श्लोकः । नान्यं समाचरेद्दृष्टमदृष्टं वा तदनुज्ञानमन्तरेणेत्युक्तम् । तेष्वेव नित्यं शुश्रूषां कुर्यात् । प्रियहिते रतः । प्रियं च हितं च तत् । यत्प्रीतिकरं तत् प्रियम् यत्पालनं तद् हितम् ॥ २३५ ॥

हिन्दी- - - जब तक वे तीनों ( माता, पिता और आचार्य ) जीते रहें तब तक किसी अन्य धर्म को स्वेच्छा से ( विना उनकी आज्ञा पाये ) न करे; किन्तु उन्हीं के प्रिय एवं हित में तत्पर रहते हुए नित्य सेवा करे ॥२३५ ॥

तेषामनुपरोधेन पारत्र्यं यद्यदाचरेत् ।

तत्तन्निवेदयेत्तेभ्यो मनोवचनकर्मभिः ॥ २३६ ॥

भाष्य - परत्र जन्मान्तरे यस्य फलं भुज्यते तत्पारत्र्यम् । छान्दसं रूपमेतत् । शुश्रूषाया अविरोधेनान्यं यं यं धर्मं समाचरेत्तं तं निवेदयेत्तेभ्यस्तान् ज्ञापयेत् । अनुपरोधग्रहणमेवमर्थं कृतम् । यत्तेषां विरोधि तत्र नवानुज्ञां दापयितव्याः । कश्चिदृजुप्र-कृतिरभ्यर्थ्यमान आत्मपराधर्ममवगण्य्यानुजानाति, तन्निवृत्त्यर्थमेतत् । मनोवचनकर्मभिः । न निवेदनमदृष्टार्थमपि तु यादृशमनुज्ञानं तादृशमेव कर्मणा दर्शयेत् । अथवैवं सम्बन्धः कर्तव्यः - मनोवचनकर्मभिः पारत्र्यं यद्यदाचरेत्तत्तन्निवेद-येत्तेभ्य इति ॥ २३६ ॥

हिन्दी – उन ( माता, पिता और आचार्य ) की सेवा के अविरुद्ध उनकी आज्ञा से जो कुछ परलोक के लिए कार्य करे, उसे मन, वचन और कर्म से उनके लिए अर्पित करे ( उनसे निवेदन करे ) ॥२३६ ॥

त्रिष्वेतेष्विति कृत्यं हि पुरुषस्य समाप्यते ।

एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते ॥ २३७ ॥

पृष्ठ 326

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 326 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२५२ मनुस्मृतिः भाष्य - इतिशब्दः समाप्तिवचनः कार्त्स्य गमयति । [ द्वितीयः यत्किञ्चन पुरुषस्य कर्तव्यं यावान्कश्चन पुरुषार्थः स एतेष्वाराधितेषु समाप्यते परिपूर्णमनुष्ठितो भवति । एष धर्मः परः श्रेष्ठः साक्षात्त्वेन । अन्यश्चाग्निहोत्रादिरूपधर्मः प्रतिहारस्थानीयो न साक्षाद्राजवत्, इति प्रशंसा । अवमानप्रतिषेधः, प्रियहितकरणं, तद्विरोधिनः कर्तव्यस्याननुष्ठानम्, अविरोधिनो-ऽप्यननुज्ञातस्य च । परिशिष्ट: श्लोकसङ्घातोऽर्थवादः ॥२३७ ॥

हिन्दी — इन तीनों ( माता, पिता और आचार्य की सेवा ) में ही मनुष्य का सम्पूर्ण ( श्रुति स्मृति विहित ) कृत्य परिपूर्ण हो जाता है । यही ( माता आदि की सेवा ही ) मनुष्य का श्रेष्ठ ( साक्षात् सब पुरुषार्थ का साधक ) धर्म है और अन्य ( अग्निहोत्रादि ) धर्म उपधर्म है ॥२३७ ॥

नीच आदि से भी विद्यादि का ग्रहण-श्रद्दधानः शुभां विद्यामाददीतावरादपि ।

अन्त्यादपि परं धर्मं स्त्रीरत्नं दुष्कुलादपि ॥ २३८ ॥

भाष्य — श्रद्दधान आस्तिक्योपगृहीतान्तरात्माऽभियुक्तो यः शिष्यः स शुभां विद्यां न्यायशास्त्रादितर्कविद्याम् । अथवा या शोभते केवलं सा विशदकाव्यभरतादि-विद्याविभूषिता — मन्त्रविद्या वा न धर्मोपयोगिनी – तामवरादपि हीनजातीयादण्या-ददीत शिक्षेत । न त्वत्र शुभा वेदविद्या वेदितव्या, आपदि विधिर्भविष्यति ( २४१ ), अना-पंदि तु नैवेष्यते । या त्वशुभा शाम्भवी मायाकुहकादि वा तां न क्वचित् । अन्त्यश्चाण्डालस्तस्मादपि यः परो धर्मः श्रुतिस्मृत्यपेक्षया परोऽन्यः लौकिकः । धर्मशब्दो व्यवस्थायामपि प्रयुज्यते । ' एषोत्र धर्म ' इति यदि चाण्डालोऽपि ब्रूते — ' अत्र प्रदेशे मा चिरं स्था: ’, ‘ मा वाऽस्मिन्नम्भसि स्नासी: ', एषोऽत्र ग्रामीणानां धर्मो, राज्ञा कृता वा मर्यादेति — न चैवं मन्तव्यम् – ' उपाध्यायवचनं मया कर्तव्यं धिक् चाण्डालं जाल्मं यो मां नियुङ्क्त ' इति । न पुनरियं बुद्धिः कर्तव्या – परो धर्मो ब्रह्मतत्त्वज्ञानम् । न हि चाण्डालादेस्तत्प-रिज्ञानसम्भवः, वेदार्थवित्त्वाभावात् । न चान्यतस्तत्सम्भवः । न हि वृश्चिकमन्त्राक्षर-वद्द्ब्रह्मोपदेशोऽस्ति । स्त्रीरत्नमिव । स्त्रीचासौ रत्नं च तदिति वा । “ उपमितं व्याघ्रादिभिः ” ( पा ० सू ०

पृष्ठ 327

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 327 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २५३ २।१।५६ ), “ विशेषणं विशेष्येणेति ' ( पा ० सू ० २।१।५७ ) वा । यदा यत्किञ्चिदुत्कृष्टं वस्तु तद्रत्नमुच्यते तदा विशेषणमिति । अथ तु मरकतपद्मरागादीन्येव रत्नशब्दवाच्यानि उत्कर्षसामान्यादन्यत्र प्रयोगः, तदोपमितमिति । या स्त्री कान्तिसंस्थानलावण्याति-शयवती अथ धान्यबहुधनसुतादिशुभलक्षणा सा दुष्कुलाद्धीनक्रियादेरप्यानेया ।

‘ अब्राह्मणा’दित्यस्य ( २४१ ) विधेरयमुपोद्घातः । अलाभेन तु प्रदर्शितः ॥२३८ ॥

हिन्दी - श्रद्धायुक्त होकर अपनी अपेक्षा नीच व्यक्ति ( शूद्र ) से भी श्रेष्ठ विद्या ( जिसकी शक्ति अनेक बार देखी गयी हो, ऐसी गारुडादि विद्या ) को सीखना चाहिये । चाण्डाल ( पूर्व जन्म के किसी दुष्कृत - विशेष से चाण्डालता को प्राप्त जातिस्मरत्व आदि विहित योग प्रकर्ष वाले आत्मज्ञानी चाण्डाल ) से भी उत्कृष्ट धर्म ( मोक्षोपायभूत आत्मज्ञान ) को प्राप्त करना चाहिये तथा अपने से नीच कुल से भी ( शुभ लक्षणों से युक्त ) स्त्री - रत्न को ( विवाह के लिये ) ग्रहण करना चाहिये ॥२३८ ॥

विमर्श - अत एव ' ब्राह्मण, क्षत्रिय, वैश्य तथा नीच शूद्र से भी बार - बार श्रद्धापूर्वक मोक्षधर्म ज्ञान को प्राप्त करना चाहिये ', कहा है । मेधातिथि का कथन है कि " श्रुति स्मृति - विहित धर्म की अपेक्षा अन्य लौकिक धर्म ( व्यवस्था ) चाण्डाल भी कहे तो उसे मानना चाहिये, यदि चाण्डाल भी ' इस स्थान पर बहुत देर तक मत रुको, इस पानी में स्नान मत करो ' आदि वचन कहे तो उसे मानना चाहिये ” ( वह चाण्डालोक्त वचन भी एक प्रकार का धर्म अर्थात् व्यवस्था है और मनूक्त धर्म ' शब्द ' व्यवस्था ' अर्थ में ही प्रयुक्त हुआ ) २ । चाण्डाल को वेदार्थज्ञानोपदेश का अविधान होने से तज्जन्य मोक्षज्ञान का अभाव होना ही यद्यपि सिद्धान्त - सिद्ध है, तथापि पुण्यातिशयादि से कुलूकभट्ट के कथानानुसार पूर्वजन्मगत जातिस्मरणादि के द्वारा मोक्षधर्म ( आत्मज्ञान ) का होना सम्भव होने पर भी ब्राह्मणादि से उसका ज्ञान प्राप्त करना उत्तम जान पड़ता है I स्पष्टता के लिए म ० मु ० देखिये ।

विष आदि से भी अमृत आदि की ग्राह्यता-विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् ।

अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम् ॥ २३ ९ ॥

भाष्य- पूर्वं इमौ चापद्यब्राह्मणादप्यध्येतव्यमित्यस्य विधेः शेषः । १..प्राप्य ज्ञानं ब्राह्मणात् क्षत्रियाद्वैश्याच्छूद्रादपि नीचादभीक्ष्णं श्रद्धातव्यं श्रद्धानेन नित्यम् । ’ ‘ न श्रद्धिनं प्रति जन्ममृत्युविशेषता । " इति म ० मु ० । २. मेधातिथिस्तु - श्रुतिस्मृत्यपेक्षया परो धर्मो लौकिकः । धर्मशब्दो व्यवस्थायामपि युज्यते । यदि चाण्डालोऽपि — “ अत्र देशे मा चिरस्था:, मा चास्मिन्नम्भसि । इति वदति तमपि धर्ममनुतिष्ठेत् । ” इति ( म ० मु ० ) ।

पृष्ठ 328

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 328 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२५४ मनुस्मृतिः [ द्वितीयः अनेन लोकप्रवादो दृष्टान्तीक्रियते । एवं हि लौकिका आहुः ' असतस्यदुपादेयम् । ' विषेऽपि यदमृतं तद्ग्राह्यमेव यथा हंस उदकात्क्षीरं गृह्णाति । रसायनेषु केषुचिद्विषं इत्येतदभिप्रेत्योक्तम् । बालोऽपि यत्किञ्चिदकस्मात्सुभाषितं माङ्गलिकं प्रस्थानादौ वक्ति तद्ग्राह्यम् । अभित्रादेरपि सतां यद्वृत्तम् शिष्टाचारः । न द्वेष्यः - तेनैतदाचरितमिति त्याज्यम् ।

प्रसिद्धतरोऽयं दृष्टान्तः– अमेध्यादपि काञ्चनं सुवर्णम् ।

असदाश्रयादप्येते यथा गृह्यन्ते तद्वदब्राह्मणादध्ययनमिति ॥२३ ९ ॥

हिन्दी — विष से ( यदि विष में अमृतयुक्त हो तो उस विष से ) अमृत को, कालक से भी सुभाषित को, शत्रु से सदाचार को और अपवित्र से भी सुवर्ण ( सोना ) को लेना चाहिए ॥२३९ ॥

स्त्री, रत्न आदि की सबसे ग्राह्यता-स्त्रियो रत्नान्यथो विद्या धर्मः शौचं सुभाषितम् । विविधानि च शिल्पानि समादेयानि सर्वतः ॥ २४० ॥

भाष्य – रत्नानि मणयः शम्बरपुलिन्दादिभ्योऽप्युपात्ताः शुद्धास्तद्वद्विद्याद्यपीति । शिल्पानि च विचित्रपत्रच्छेद्यादीन्यदुष्टान्यगर्हितानि चैलनिर्णेजनपटरञ्जनबन्धनादीनि । सर्वतो जातिविशेषमनपेक्ष्य समादेयानि स्वीकर्तव्यानि निश्चितातिधैर्यभावैः । विषाद-प्यमृतमित्येवमादिभिरनेकवाक्यत्वात् समानप्रक्रमत्वेन सर्व एतेऽर्थवादाः॥२४० ॥

हिन्दी - स्त्री, रत्न, विद्या, धर्म, शौच, सुभाषित और अनेक प्रकार के शिल्प ( कला - कौशल चित्र - लेखनादि ) सबसे लेना चाहिये ॥२४० ॥

आपत्तिकाल में अब्राह्मण से अध्ययन करना-अब्राह्मणादध्ययनमापत्काले विधीयते ।

अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरोः ॥ २४१ ॥

भाष्य - अयं त्वत्र विधिः । आपद् ब्राह्मणाध्यापकाभावः । आपदः काल आपत्कालः । आपदित्येव सिद्धे कालग्रहणं वृत्तपूरणार्थम् । पाठान्तर‘मापत्कल्प ' इति । कल्पनं ' कल्प: ' आपद्येषां कल्पना विधीयते उपदिश्यते । यदाचार्यः प्रारब्धाध्यापनः प्रायश्चित्तेनान्येन वा निमित्तेन शिष्यं हित्वा देशान्तरं व्रजेत्, न च ब्राह्मणोऽन्योऽध्यापकस्तस्मिन्देशे लभ्यते, बालत्वाद्दूरदेशगमनमशक्यम्, तदाऽब्राह्मणात् क्षत्रियात्तदभावे वैश्यादध्ययनम् । प्रकृतत्वात् – ' वेदः कृत्स्न ' इति— वेदग्रहणं विधीयते ।

पृष्ठ 329

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 329 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २५५ यद्यप्यत्राब्राह्मणशब्दो ब्राह्मणजातेरन्यत्र जातित्रये वर्तमानं पुरुषत्वमाचष्टे, तथापि नेह शूद्रस्य ग्रहणम्, तस्याध्ययनाधिकाराभावात् । सत्यध्ययनेऽध्यापकत्वम् । अथ “ शास्त्रातिक्रमेण शूद्रस्याप्यधीतवेदत्वस्य सम्भवः, क्षत्रियवैश्ययोरध्यापकत्वस्येव ” 1 तदपि न । यतो धारणे शरीरभेदस्तस्याम्नातः । ततो दण्डमहत्त्वात् महदेतदकार्यमनुमीयते । निन्दितकर्माभ्यासे पतनं तत्संसर्गाच्च ब्रह्मचारिणोऽत्यन्तदुष्टता स्यात् । “ क्षत्रियवैश्य-योरध्यापकत्वनिषेधात् तुल्यदोष ” इति चेदस्त्यत्र विशेषः । यत्र दण्डप्रायश्चित्ते गुरुणी तत्र महादोषता, स्वल्पयोस्तु स्वल्पदोषता । न च क्षत्रियवैश्ययोरध्यापने महती दण्डप्राय-श्चित्ते, शूद्रस्येव । किञ्च द्वे निन्दिते कर्मण्यध्ययनमध्यापनं च, क्षत्रियवैश्ययोस्त्वेकमेव । निषिद्धाध्यापनसंसर्गस्त्वनेनैवानुज्ञातः, नासौ दोषकरः । निषिद्धाध्ययनेन तु शूद्रेण संसर्गे न किञ्चित्प्रमाणमस्ति । अनुव्रज्या च शुश्रूषा । वन्दनपादप्रक्षालनादिशुश्रूषाप्रतिषेधार्थमनुव्रज्यैव शुश्रूषा, नान्येति । यावदध्ययनम् यावद्ग्रहणम् ॥ २४१ ॥

हिन्दी — आपत्तिकाल में अब्राह्मण ( ब्राह्मण के अभाव में क्षत्रिय और क्षत्रिय के अभाव में वैश्य ) से भी ब्रह्मचारी वेदाध्ययन करे तथा अध्ययनकाल तक ही उक्त उस अब्राह्मण गुरु का अनुगमन और शुश्रूषा करे ॥ २४१ ॥

विमर्श - ब्राह्मण आपत्तिकाल में अब्राह्मण द्विज से अध्ययन करने के समय में उक्त गुरु का पादप्रक्षालन तथा उच्छिष्ट भोजन न करे तथा अध्ययन के बाद विद्वान् होने से उक्त ब्रह्मचारी अब्राह्मण द्विजरूप अध्यापक का गुरु कहा जाता है । अत एव अध्ययन के बाद अनुगमन तथा सेवा का निषेध किया गया है ' । अब्राह्मणादि गुरु के पास आत्यन्तिक वास निषेध-नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेत् । ब्राह्मणे वाननूचाने काङ्क्षन्गतिमनुत्तमाम् ॥ २४२ ॥

भाष्य - अब्राह्मणे गुरौ वासोऽध्ययनाय पूर्वेणोक्तो नैष्ठिकस्यापि प्राप्तो विशेषेण निषिध्यते । आत्यन्तिकं वासं यावज्जीविकम् । न वसेन्न कुर्यात् । वासं वसेदिति । सामान्यविशेषभावाद्वासं वसेदिति सम्बन्धः कल्प्यः । गुरुविषयो वासस्तं वसेत् । समाप्ता-ध्ययनोऽन्यत्र गच्छेत् । “ ननु चाध्यायनमात्रमनुज्ञातमात्यन्तिकस्य वासस्य कुतः प्राप्तिः? " १. गुरुत्वमपि यावदध्ययनमेव क्षत्रियस्याह व्यासः-मन्त्रदः क्षत्रियो विप्रैः शुश्रूषानुगमादिना । प्राप्तविद्यो ब्राह्मणस्तु पुनस्तस्य गुरुः स्मृतः ॥ इति ( म ० मु ० )

पृष्ठ 330

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 330 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२५६ मनुस्मृतिः [ द्वितीयः नैष दोषः । गुरौ तस्य वास उक्तः । अध्यापयिता च ' गुरु'रुक्तः । अतो भवत्याशङ्का । ब्राह्मणे वाननूचाने । वाशब्दोऽप्यर्थः । ब्राह्मणोऽपि यदि अनूचानः वृत्ताभिजनसम्पन्नौ न भवति, न च व्याख्यानाध्ययनशीलः । अनुवचनेनैतेऽपि गुणा लक्ष्यन्ते यतोऽननुवक्तर्य-र्थाभावादेवावासः सिद्धः । गतिरत्र सुखातिशयप्राप्तिर्विवक्षिता । अनुत्तमा, यस्या अन्योत्तमा नास्ति, ता काङ्क्षन्परमात्मानन्दरूपं मोक्षम् ॥२४२ ॥

हिन्दी— उत्तम गति ( मोक्ष ) को चाहने वाला ब्रह्मचारी साङ्गवेद के ज्ञाता भी अब्राह्मण ( क्षत्रिय और वैश्य ) गुरु के पास तथा साङ्गवेद को नहीं जानने वाले ब्राह्मण गुरु के पास आत्यन्तिकवास ( जीवनपर्यन्त ब्रह्मचर्यावस्था में रहना ) न करे || २४२ ॥

आत्यन्तिक वास में रुचि होने पर -यदि त्वात्यन्तिकं वासं रोचयेत गुरोः कुले ।

युक्तः परिचरेदेनमा शरीरविमोक्षणात् ॥ २४३ ॥

भाष्य – अत्यन्तं भवमात्यन्तिकं वासं गुरोः कुले नैष्ठिकं ब्रह्मचर्यं यदि रोचयेत्तदा युक्तस्तत्परः परिचरेदेनं गुरुम् — आ शरीरस्य विमोक्षणात्पाताद् — यावच्छरीरं घ्रियत इत्यर्थः ॥२४३ ॥

हिन्दी - यदि गुरुकुल में ही नैष्ठिक ब्रह्मचर्यरूप आत्यन्तिकवास ( जीवनपर्यन्त ब्रह्मचारी कहकर वास करने ) की इच्छा हो तो शरीर छूटने ( मरने ) तक सावधान होकर गुरु की परिचर्या ( सेवा ) करे ॥२४३ ॥

गुरुकुल में आत्यन्तिक वास से ब्रह्मलोक प्राप्ति–

आ समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् ।

स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ॥ २४४ ॥

भाष्य — नैष्ठिकब्रह्मचर्यस्य फलविधिरयम् । शरीरस्य समाप्तिर्जीवितत्यागः । आ ततः कालाद्यो गुरुं शुश्रूषते परिचरति । स गच्छति विप्रः । ब्रह्मणः सद्य सदनं स्थानं शाश्वतं न पुनः संसारं प्रतिपदयत इति यावत् । अञ्जसाऽक्लिष्टेन मार्गेण । न गत्यन्तरेण तिर्यक्प्रेतमनुष्यादिजन्मना व्यवधीयते । ब्रह्मशब्देन चेतिहासदर्शने देविविशेषश्चतुर्वक्त्रः, तस्य सद्म, स्थानविशेष:, दिवि विद्यते । वेदांतवादिनो तु ब्रह्म परमात्मा, तस्य सद्म स्वरूपमेव, तद्भावापत्तिः॥२४४ ॥

हिन्दी — जो ब्रह्मचारी शरीर छूटने ( मरने ) तक गुरु की सेवा करता है, वह ब्राह्मण शीघ्र ही विनाश रहित ( नित्य ) ब्रह्मलोक को प्राप्त करता है ॥२४४ ॥