मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 331–340

मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 331–340

पृष्ठ 331

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 331 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता न पूर्वं गुरवे किञ्चिदुपकुर्वीत धर्मवित् । २५७ स्नास्यंस्तु गुरुणाऽऽज्ञप्तः शक्त्या गुर्वर्थमाहरेत् ॥ २४५ ॥

भाष्य - नैष्ठिकस्यायं गुरवेऽर्थदानं प्रतिषिध्यते । स्नास्यतो गुर्वर्थविधानात् । न च नैष्ठिकस्य स्नानमस्ति । प्रकृतश्च नैष्ठिक एव । उपकुर्वाणस्य तु उपनयनात्प्रभृति यावत्स्नानमस्त्येव सति सम्भवे यथाशक्त्या दानम् । पूर्वं स्नानाद् गुरवे किञ्चिदुपकुर्वीत दद्याद् ददात्यर्थे धातुः सोपसर्गोऽतश्च स्वसाध्या चतुर्थी । अथवा क्रियाग्रहणमपि कर्तव्यमिति, ततः सम्प्रदानत्वम् । धर्मवित्पदमनुवादः । स्नास्यंस्तु स्नानकाले प्राप्ते गुरुणा आदिष्टम् ' अमुमर्थमाहरेति ' । ततः शक्त्या यावन्तं शक्नोति तावन्तम् । गुर्वर्थम् । गुरोरिदं गुर्वर्थम् । गुरौर्येन प्रयोजनं तमाहरे-दुपनयेत् । “ नन्वयं नैष्ठिकस्य गुर्वर्थकरणप्रतिषेधः । ” न ह्येते द्वे वाक्ये, एकेन प्रतिषेधः, अपरेण गुर्वर्थविधिः । स्नाने गुर्वर्थोऽवश्यं कर्तव्यं इत्ययं विधिः । प्रतिषेधस्तच्छेषः । उपकारप्रतिषेधे च सर्वशुश्रूषाविधिरनर्थकः

स्यात् । न च दानमेवोपकारो, येन धनोपकार एव निषिध्येत, नान्यः प्रियहितादिः ।

अर्थवादत्वे त्वयथार्थता न दोषः । गम्यते चात्रैकवाक्यता ॥२४५ ॥

हिन्दी — धर्मज्ञ ( ब्रह्मचारी ) पहले ( अध्ययनकाल में ) गुरु का कोई उपकार ( गौ, वस्त्र, धनादि को देकर ) न करे ( स्वयं प्राप्त होने पर तो देवे हीं ) । व्रतपूर्तिकाल में ( समावर्तन संस्कार निमित्तक ) स्नान करने के पहले गुरु से आज्ञा पाया हुआ ब्रह्मचारी ( गुरु के लिए किसी धनिक ' व्यक्ति से याचना कर ) यथाशक्ति गुरुदक्षिणा दे ॥ २४५ ॥

क्षेत्र, सुवर्ण आदि गुरुदक्षिण-क्षेत्रं हिरण्यं गामश्वं छत्रोपानहमन्ततः ।

धान्यं वासांसि शाकं वा गुरवे प्रीतिमाहरन् ॥ २४६ ॥

= भाष्य – उक्तमुद्दिष्टं ' गुर्वर्थं कुर्यात्तत्र न सर्वं कर्तव्यमित्येवमर्थोऽयं श्लोकः । यदि गुरुर्विरुद्धमादिशेत् — ' अमुष्य स्त्रियमाहरेति ’, ‘ सर्वस्वं वा देहीति ’ – तन्न कर्तव्यम् । किं तर्हि क्षेत्रं धान्यानां भवनभूमिः क्षेत्रमुच्यते । हिरण्यं सुवर्णम् । वा शब्दो विकल्पार्थः । न समुदितानि देयानि । १. एतदर्थं रघुवंशस्य पञ्चमसर्गस्थो रघुकोत्सयोः कथाभागो द्रष्टव्यः । २. तथा चापस्तम्ब: - ' मदन्यानि द्रव्याणि यथालाभमुपहरति दक्षिणा एव ताः स एव ब्रह्मचारिणो यज्ञो नित्यव्रतम् । ” इति

पृष्ठ 332

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 332 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२५८ मनुस्मृतिः अन्ततः अन्याभावे छत्रोपानहमपि । द्वन्द्वनिर्देशात्साहित्यदानम् । वासांसीति सर्वत्र संख्या न विवक्षिता । [ द्वितीय: प्रीतिमाहरन्निति । एतदाहरेदिति पूर्वसम्बन्ध: । ' प्रीतिमाहरेदिति ' वा पाठे अत्रैव क्रियापरिसमाप्तिः । ‘ प्रीतिमावहेदिति ' वा । प्रीतिमुत्पादयितुं धान्याद्याहरेत् । स्वतन्त्रैव वा प्रीतिराहार्यतयोच्यते । ततश्च द्रव्योपदेशस्य प्रदर्शनार्थता सिद्धा भवति । अन्यदपि यदेवंविधं प्रीतिजनकम्, मणिमुक्ताप्रवालहस्त्यश्वतरीरथादि, तदपि देयमिति गम्यते ।

तथा च गौतमः ( अ ० ३, सू ० ४८ ) “ विद्यान्ते गुरुमर्थेन निमन्त्र्यः ” ।

आहरेद्यदि स्यादात्मीयं शक्त्यागतं तदा — न चेद् याच्ञादिनाऽर्जयेत् ॥२४६ ॥

हिन्दी — उक्त ( व्रतसमाप्ति का स्नान कर गृहस्थाश्रम में प्रविष्ट होने का इच्छुक ) ब्रह्मचारी भूमि, सुवर्ण गौ, घोड़ा, छाता, जूता, आसन, शाक और कपड़ों को देकर गुरु की प्रसन्नता को प्राप्त करे ॥ २४६ ॥

विमर्श - अपनी शक्ति के अनुसार उक्त सब वस्तुओं को दे या पृथक् किसी एक वस्तु को ही दे । विकल्प पक्ष में अन्य वस्तुओं के अभाव में छाता और जूता - -दोनों ही ( एक नहीं ) दे । यह दिङ्मात्र निर्देश है, शक्ति होने पर अन्य वस्तु भी दी जा सकती है; क्योंकि अधिक से देने पर भी शिष्य गुरु के ऋण से मुक्त नहीं हो सकता । यदि कुछ न दे सके तो केवल शाक ' देकर ही उस शिष्य को गुरु को प्रसन्न करना चाहिये । आचार्य के मरने पर गुरुपुत्रादि में गुरुतुल्य व्यवहार—

आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते ।

गुरुदारे सपिण्डे वा गुरुवद्वृत्तिमाचरेत् ॥ २४७ ॥

भाष्य — नैष्ठिकस्यायमुपदेशः । असत्याचार्ये, तत्पुत्रे श्रोत्रियत्वादिगुणयुक्ते – गुरुपल्यामाचार्याण्यां वा — सपिण्डे वा- — गुरोरेव - वसेत् तत्र च गुरुववृत्तिमाचरेद् भैक्षनिवेदनादि सर्वं कुर्यात् । दारशब्दो बहुवचनान्तो भार्यावचनो वैयाकरणैः स्मर्यते । स्मृतिकारास्त्वेकवचनान्त-मपि प्रयुञ्जते । “ ‘ धर्मप्रजासम्पत्रे ' दारे नान्यां कुर्वीतेति ’ ” इति ॥२४७ ॥

हिन्दी — आचार्य के मरने पर गुणयुक्त गुरुपुत्र में; गुरुपत्नी में और गुरु के सपिण्ड ( सात पीढ़ी तक के परिवार ) में गुरु के समान व्यवहार करे ॥२४७ ॥

१. तथा च लघुहारीत: -“ एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् ।

पृथिव्यां नास्ति तद् द्रव्यं यद्दत्त्वा चानृणी भवेत् ॥

असम्भवे शाकमपि दद्यात् ॥ ” इति म ० मु ० ।

पृष्ठ 333

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 333 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २५ ९

उक्त गुरुपुत्रादि के अभाव में कर्तव्य-एतेष्वविद्यमानेषु स्थानासनविहारवान् ।

प्रयुञ्जानोऽग्निशुश्रूषां साधयेद्देहमात्मनः ॥ २४८ ॥

भाष्य — अविद्यमानता सर्वेषामभाव:, यदि वा गुणहीनता । एतेष्वसत्स्वग्नि-शुश्रूषां प्रयुञ्जीत अग्निशरणोपलेपनं अग्नीन्धनं आचार्यवत्सन्निधाननियमाद्भृत्यवद-होरात्रासनम् एषाऽग्नेः शुश्रूषा तां कुर्वन्देहं साधयेत् शरीरं क्षपयेत् । यथाऽन्धश्चक्षुष्मानु-च्यत एवं साधयेदिति । स्थानासन एव विहारः तद्वान् - न कदाचिदासीत एवं विहरेत् । अन्ये तु मन्यन्ते — स्थानाय स्वस्तिकादिना यत् आसनं ध्यानकाले तत् स्थानासनं, विहारोऽन्यो भिक्षाचरणादिः ॥ २४८ ॥

हिन्दी - इन ( विद्वान् गुरुपुत्र, गुरुपत्नी और गुरु के सपिण्ड ) के नहीं रहने पर आचार्य की अग्नि - समाधि के समीप ही स्नान, आसन तथा बिहार में युक्त ब्रह्मचारी अग्निशुश्रूषा ( प्रात: सायं विधिवत् अग्निहोत्र ) करता हुआ अपने शरीर को साधे ( ब्रह्मप्राप्ति के योग्य बनावे ) ॥२४८ ॥

जीवनपर्यन्त गुरुकुल सेवा का फल-एवं चरति यो विप्रो ब्रह्मचर्यमविप्लुतः ।

स गच्छत्युत्तमस्थानं न चेह जायते पुनः ॥ २४ ९ ॥

इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां द्वितीयोऽध्यायः ॥ २ ॥

भाष्य- - एवमिति नैष्ठिकवृत्तिं प्रत्यवमृशति । एवं यो ब्रह्मचर्यं चरत्यविप्लुतः । अस्खलः स प्राप्नोत्युत्तमस्थानं धाम परमात्मप्राप्तिलक्षणम् । न चेह पुनर्जायते न संसारमापद्यते । ब्रह्मरूपं सम्पद्यत इति ॥ २४ ९ ॥ इति श्रीभट्टमेधातिथिविरचिते मनुभाष्ये द्वितीयोऽध्यायः ॥ २ ॥

हिन्दी— ( आचार्य के मरने पर भी ) गुरु - पुत्रादि से लेकर अग्नि तक की शुश्रूषा करने वाला अखण्डित व्रतवाला जो ब्राह्मण नैष्ठिक ब्रह्मचर्य का आचरण करता है, वह उत्तम स्थान ( ब्रह्मपद - मोक्ष ) को पाता है और फिर इस संसार में ( कर्मवश से ) जन्म नहीं पाता है ॥२४९ ॥

मानवे धर्मशास्त्रेऽस्मिन् संस्कारादिकवर्णनम् ।

भागीरथ्याः कृपादृष्ट्या द्वितीये पूवर्णतां गतम् ॥ २ ॥

पृष्ठ 334

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 334 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

॥ अथ तृतीयोध्यायः ॥

ब्रह्मचर्य पालन की अवधि-षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् ।

तदर्धिकं पादिकं वा ग्रहणान्तिकमेव वा ॥ १ ॥

भाष्य — द्विविधो ब्रह्मचारी पूर्वत्र प्रतिपादितः, नैष्ठिक उपकुर्वाणश्चेति । “ आ समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् " ( अ ० २, श्लो ० २४४ ) इत्यनेन नैष्ठिक-ब्रह्मचर्यमुक्तम् । “ आ समावर्तनादिति ” ( २।१०८ ) पक्षान्तरमपि सूचितम् । तत्र नैष्ठिकस्य नामधेयस्य प्रतिलम्भेनैव निमित्तवता अवधिशेषः सुगमितः । निष्ठां समाप्तिं गच्छति ‘ नैष्ठिकः ’ । श्रुत्यैव कालो विहितः “ आ समाप्तेरिति ” । उपकुर्वाणस्य “ अनेन क्रमयोगेन ” ( अ ० ६, श्लो ० ८५ ) - “ तपोविशेषैर्विविधैर्व्रतैश्च विधिचोदितैः, वेदः कृत्स्नोऽधिगन्तव्यः ” ( अ ० २, श्लो ० १६५ ) इति संख्याया अविवक्षायां चैकद्वित्रिचतुःपञ्चषट्सप्तादिशाखाध्ययनं यथाशक्ति प्राप्तं नियम्यते । त्रैवेदिकं व्रतं चर्यम् । त्रयाणां वेदानां समाहारस्त्रिवेदी, तद्ग्रहणप्रयोजनं त्रैवेदिकम् । ग्रहणक्रिया वृत्तावन्तर्भवति वेदाधिगमस्य प्राग्विहितत्वात् 1 । व्रतं ब्रह्मचारिधर्मकलापः । चर्यं चरित-व्यम् । कृत्यो विधौ । एवमाहरणादीनां ग्रहणान्ततायां प्राप्तायामाह – षट्त्रिंशदाब्दिकमिति । गृहीतेऽपि वेदे कालः पूरयितव्यः । ‘ “ यदि स्वाध्यायाध्ययनविध्यर्थो धर्मः, तस्य च स्वाध्यायविधेर्ग्रहणे निवृत्तिः, किमर्था तर्हि द्वादशवार्षिकी ग्रहणोत्तरकालं व्रतचर्यानुवृत्तिः? ” अत्यल्पमिदमुच्यते । दर्शपूर्णमासादिष्वप्याग्नेयादियागेभ्यः पराञ्चि यान्यङ्गानि तत्रा-प्येतद्वक्तव्यम् । समस्ताङ्गानुष्ठान एवारादुपकारकाद्यङ्गयुक्ताद्विशिष्टक्रमाद्विध्यर्थसम्पद्य-वगतायां परिचोदनाशब्दादेव विधिः सम्पद्यते । अथ “ महतो लघीयांसस्तदर्धिकपादिकग्रहणावधयः पक्षाः सन्ति । तेषु सत्सु कः खलु महाप्रयासमतिचिरकालं तावद् द्वादशवार्षिकं व्रतचरणमाद्रियेतेति ” चेत् । फलभूमार्थनोऽङ्गभूयस्त्वमनुष्ठास्यन्ति । तदुक्तम् ' प्रयत्नविशेषात्फलविशेषेण भवितव्यमिति ।

पृष्ठ 335

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 335 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २६१ “ ननु च नार्थावबोधादृते ग्रहणद्वारेण स्वाध्यायाध्ययनस्य किञ्चिदपरं फल-मस्ति । एवं ह्याहुः — ‘ न तस्याध्ययनमात्रं तत्र भवन्तो याज्ञिकाः फलं समामन-न्तीति ' । तथा “ दृष्टो हि तस्यार्थः कर्मावबोधनं नामेति " शाबरभाष्ये । तस्य च न कश्चिद्विशेषो दृश्यते ॥ ” यद्येवं ग्रहणकालेऽप्यन्तरेण व्रतधर्मानुष्ठातुं ग्रहणानुष्ठानप्रसङ्गः । कश्चैवमाह— ‘ अर्थावबोधार्थः स्वाध्यायविधिरिति ' । स्वाध्यायविधिः स्वार्थ एव । नान्यस्यान्यार्थतायां प्रमाणमस्ति । अर्थावबोधो हि ग्रहणे सति वस्तुस्वभावत उत्पद्यते न विधितः । “ अथ किं स्वर्गादिफलार्थिनोऽयं विधिः " । एतदपि कथं भविष्यति? “ का तर्हीयं वाचोयुक्तिः - फलविशेषेणेति ” ॥ एषा वाचोयुक्तिः । संस्कारविधिस्तावदयं स्वाध्यायप्रधानः तस्य स्वाध्याये कर्मण्यु-त्पन्नत्वात् । संस्कारविधयश्च न साक्षादधिकारमर्हन्ति किन्तु संस्कार्यद्वारेण साधिकार-विध्यन्तरमनुप्रविशन्ति । यथा ब्रीहिमवहन्तीति दर्शपूर्णमासाधिकारविषयाग्नेयादियाग-साधनभूतपुरोडाशप्रकृतिब्रीहितुषकणविप्रमोचनादिसंस्कारद्वारेण दर्शपूर्णमासापूर्वसम्बन्ध-मनुभवति अवघातः, न तन्निरपेक्षः, स एव कर्तव्यतया प्रतीयते । एवमिह वेदस्य संस्कार्यत्वं नान्यत्राशेषभूतस्य निर्वहति । दृष्टः स्वाध्यायाध्ययनानन्तरमर्थावबोधः । अत इदमध्ययनमर्थावबोधपर्यन्तमवघात इव तण्डुलनिष्पत्तिपर्यन्तः । एतावांस्तु विशेषः । प्रकरणेऽधीतत्वादवघातो झटिति लब्धाधिकारविध्यन्तरसम्बन्धः । अयं त्वनारभ्याधीत-त्वादवबोधपर्यवसायी सकलफलकर्मानुष्ठानोपयोगितया गम्यमानोऽधिकारः । तथा विध्यर्थनिर्वृत्तिरेव फलविशेषोऽभिप्रेतः । विधेर्हि पुरुषार्थत्वं व्युत्पन्नावगमम्, तत्साक्षा-द्भवतु वा परम्परया वेति न विशेषः । गम्यमानाधिकारत्वाच्च स्वतन्त्र एवायं विधिः स्वात्मानमनुष्ठापयति, यद्यपि नित्यकामश्रुतिष्वर्थावबोध उपयुज्यते । ये त्वर्थावबोधद्वारेण ज्योतिष्टोमादिविध्येककार्यत्वमिच्छन्ति तत्फलस्यैव च प्रयत्नविशेषादतिशयमाहुस्तेषामाचार्यकरणविधिना किमपरार्द्ध, येन महता यत्नेन तदेककार्यता निषिध्यते । अप्रामाण्यं वेदस्य भवतीति चेदस्तु । न प्रयोजनवशेन युक्तिसामर्थ्यायातोऽर्थो हातुं शक्यते । युक्तिस्तु युक्त्यन्तरेण बलीयसा बाध्यते । “ आचार्यकरणविध्येककार्यत्वे त्वस्य विधिरूपतैव हीयते, स्वार्थस्याविव-क्षितत्वात् ” । तत्तुल्यं ज्योतिष्टोमाद्यनुप्रवेशेऽपि । यदा तु स्वतन्त्रोऽयं विधिः स्वार्थानुष्ठापकस्तत्समानस्कन्धस्तदा स्वयमेवेति-कर्तव्यतया युक्तोऽनुष्ठीयते । मनु I- 21

पृष्ठ 336

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 336 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

1-31 २६२ मनुस्मृतिः [ तृतीय: तत्र ये विकल्पिताः कल्पा लघीयांसो गरीयांशश्च तेषां लघीयसा सिद्धे गरीयसामनुष्ठानं विध्यर्थ एव विशेषमावहति । यथाऽऽधाने ‘ एका देया तिस्रो देया ’ इत्यादि । अनुष्ठिते चास्मिन्विधौ स्वसामर्थ्याच्छुतो वा भवतु प्रतीयमानो वा कल्प्यो वा, प्रमाणभेदोयं न सम्बन्धभेदः, सर्वथोभयतः स्पर्शतो न मुच्यामहे - यद्यस्य विधिः स्वार्थानुष्ठापको ज्योतिष्टोमाद्युपकारकत्वञ्च । “ ननु किमिदं पूर्वापरविरुद्धं प्रलप्यते? प्रागुक्तम् — न साक्षात्संस्कारविधयोऽ-धिकारसम्बन्धिनः इदानीं तु स्वतन्त्र एवायं विधिः स्वार्थानुष्ठापक इति । यथायं-विशेषश्रुतेनान्वयिना न सम्बध्यते, गम्यमानस्त्वधिकारः संस्कारविधीनामप्यविरुद्ध ’ इति । नायं विशेषो यद्यस्य विधिप्रयुक्तमनुष्ठानमर्थावबोधांश इष्यते । पाठमात्रस्या-चार्यविधिप्रयुक्तत्वात्संस्कारविधीनामधिकारसम्बन्धोऽभ्युपगतः स्यात् । अथ विध्यन्त-रोपकारकत्वात्तत्प्रयुक्तमनुष्ठानं, तथा सत्यधिकृतस्याध्ययनं स्यान्नाधीतवेदस्याधि-कारः । तदा च शूद्रस्याधिकारो दुर्निवारः । न चाध्ययनानन्तरं वेदार्थश्रवणं प्राप्नोति । यदैव हि यदृच्छया कुतश्चिदधिगतं भवति ' ज्योतिष्टोमनाम कर्म वैदिकं स्वर्गफल-मिति ', तदैव तदितिकर्तव्यतां शिक्षेत्, तत्काल एव च तदुपयोगिनो मन्त्रान्याजमाना-नधीयीत । ” अत्र केचिदाश्रयिन्यायेन ( मी ० सू ० ४।१।१८ ) परिहरन्ति । यथैव हि स्विष्ट कृदादय उभयरूपाः संस्कारार्थकर्मतया, एवं स्वाध्यायाध्ययनमप्यभिधानविनियोगा-नुसारितया क्रियाफलावबोधदर्शनेन च संस्कारकर्म फलवत्कर्मार्थकर्म । अतः साधि-कारत्वसिद्धिः । “ कः पुनरधिकारी ” । उपनीतस्त्रैवर्णिको माणवक इति ब्रूमः । ब्रह्म-चारिधर्मेषु ह्येतदाम्नायते । लिङादयो ह्यविनाभूतनियोज्यार्थप्रतिपादकाः । तत्र विशेषा-काङ्क्षायां क्वचिच्छ्ब्दसमर्पितो विशेषो भवति - ' स्वर्गकामो यावज्जीवमग्निहोत्रं जुहोति ' । क्वचिदश्रुतोऽप्यन्विताभिधानसामर्थ्यबलेन कल्प्यो, विश्वजिदादिषु क्वचित्प्रकरणाद्वस्तु-सामर्थ्याद्विध्यन्तरपर्यालोचनयाऽपि च प्रतीयते । तदेतदिह सर्वमस्ति । प्रकृतो ब्रह्मचारी । वस्तुसामर्थ्येन चार्थावबोध उपजायते । स च सर्वविधिषूपयुज्यते, विदुषोऽधिकारात् । तदिदमपरे न मृष्यन्ति । संस्कारविधित्वेनैवास्य प्रतीयमानाधिकारता । यतः संस्कारकर्माणि संस्कार्यार्थतयाऽनुष्ठीयन्ते । यदि च संस्कार्ये न दृश्येत विशेषस्ततः सक्तुवत्संस्काररूपता हीयेत । अस्ति चात्र फलवत्कर्मावबोधलक्षणो विशेषः । यत्तु “ स्विष्टकृदादिवदिति ”, तत्प्रकृतिप्रत्ययविज्ञानागम्यत्वरूपहानितया युक्तोभयरूपता । तस्मात्स्थितं स्वतन्त्रोऽयं विधिर्माणवकस्येति । अतश्च स्वत एवानुष्ठेयो नाव-घातादिवद्दर्शपूर्णमासाद्यधिकारनियोगाक्षेपेण ।

पृष्ठ 337

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 337 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २६३ एवमनेकवेदाध्ययनमपि द्रष्टव्यम् । तत्रापि ह्येकेन वेदेन निर्वृत्ते विध्यर्थे किमित्यने-कवेदाध्यययनम् । फलभूम्ना तु युज्यते । फलं च पूर्ववत्, न तु वाक्यशेषाधीतं पयोदध्यादि । एवं स्थित एकवेदाध्यायिनः स्वशाखानधीतानां मन्त्राणां कर्मोपयोगिनां कर्मानुष्ठानकाले सामर्थ्यात्तदाक्षिप्तमध्ययनमनुज्ञातं भवति । यद्यप्यधीतवेदस्याधिकारे " अधीत " इति । अन्ये तु ‘ ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येय ' इति निष्कारण इत्येतस्याधिकारपदतां मन्यन्ते । ' निष्कारण: ', कारणं प्रयोजनमनुद्दिश्य, नित्यकर्म-वत्कर्तव्यम् । न ह्यस्याधिकारसमर्पकत्वमन्तरेण विषयद्वारेण क्रियाकारकतद्विशेषण-त्वादिनाऽन्वयः सम्भवति । तस्मात्सत्यपि संस्कारविधित्वे गम्यमानाधिकारत्वं श्रूय-माणाधिकारत्वं वाऽविरुद्धम् । अपरे तु संस्कारविधित्वादनधिकारतामेव ज्यायसीं मन्यन्ते । अनुष्ठानविशेषला-भार्थो ह्यधिकार उपास्यते । स चेह संस्कार्यविशेषदर्शनादेव सिद्धः । संस्कारविधयः प्रयोजनापेक्षाः । क्रियाफलमेवात्र विधिसाध्यम् । तच्च कर्मस्थं ग्रहणलक्षणं दृश्यत एवाविरुद्धम् । अश्रुते विभागे स्मृत्यन्तराद्विभागावगतिः “ प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानीति ” । “ के पुनरत्र त्रयो वेदा अभिप्रेताः ” । ऋग्वेदो यजुर्वेदः सामवेद इति । " अथ किं नाथर्वणो वेद इति ” । क एवमाह । किंत्वत्र यथाश्रुतसंस्कार्यत्वनिबर्हणायामर्थावबोधनिष्ठतया तस्य विधेरनुष्ठानलाभः । अवबोधो हि सकलकर्मानुष्ठानोपयोगीति । आथर्वणश्चाभिचाराद्यु-पदेशबहुलः । तस्मान्न ज्योतिष्टोमादिकर्माणि विधीयन्ते । नापि तेषां किञ्चिदङ्गम् । त्रय्यैव हौत्राध्वर्यवौद्गात्रादिसकलतदङ्गपरिसमाप्तिः । प्रधानोत्पत्तिविधयश्च त्रय्यामेव ज्योतिष्टोमादीनां सन्ति । ब्रह्मत्वमपि त्रय्यामेव विद्यते । त्रिशब्दश्च संख्यावचन: । न च संख्याशब्दाः कञ्चिद्धर्ममेकमनपेक्ष्य प्रवर्तन्ते । अतो येषामेवेह कार्योपदेशपरता त एव त्रिशब्देनाभिगदितुं शक्यन्ते । न चाथर्वणस्य तत्कार्यानुप्रवेशः । न तत्र प्रधान-विधयो ज्योतिष्टोमादीनां, नाङ्गविधयः । श्येनादिष्वभिचारयज्ञेषु त एवत्र्त्विजः सैवान्या-ऽपीतिकर्तव्यता । विशेषोऽपि यः सोऽपि त्रय्यामेवोपदिष्टः । अत ऋग्यजुर्भ्यामृक्सामभ्यां चैकत्र कर्मणि समावेशाभावात्रिवेदीव्यपदेशानुपपत्तेर्नाथर्वणस्येह ग्रहणम् स्वाध्याय-शब्दवाच्यत्वात्त्वध्ययनविधेस्तद्विषयत्वमविरुद्धम् । तदर्धिकम् । षटत्रिंशत्संख्या प्रत्यवमृश्यते । ततोऽर्धमष्टादशवर्षाणि । अत्रापि विभागकल्पना षड्वर्षाणि ।

पृष्ठ 338

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 338 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२६४ मनुस्मृतिः [ तृतीयः अत्रापि पादिकम् । पादश्चतुर्भागभागिनी सैव संख्या । नव वर्षाणि । तेषां चतुर्थो भागः । प्रतिवेदं त्रीणि । “ कथं पुनस्त्रिभिर्वर्षैर्वेदः शक्यो ग्रहीतुम् " । भवति कश्चिन्मेधावितमः अपर आह । न ग्रहणस्वरूपप्रयुक्ता धर्माः, किं तर्हि तद्विषयेण विधिना प्रयु-ज्यन्ते । तत्रानिवृत्ते । ग्रहणे यदि कानिचिदहानि नियमानुपालनमध्ययनकाले क्रियते तावत्सम्पाद्यत एव शास्त्रार्थः । भवेत्स्वाध्यायविध्यर्थं तावतैवाङ्गकलापानुष्ठानम् । असमाप्तग्रहणस्य तद्व्रतनिवृत्तौ व्रतस्नातकव्यपदेशः । अतः कालविशेषविधानं युक्तम् । त्रिभिर्वर्षैः विना न व्रतस्नातको भवति । तद्यद्यपि “ स्नानं वेदसमाप्ताविति ’ ” केचित्स्म-रन्ति, तथापि तदर्थव्रतसमाप्तावपि प्रयोग उपचाराद्युक्त एव । तदयुक्तम् । सत्यपि विधिप्रयुक्ते यावदध्ययनभावितैव व्रतानां युक्ता । अध्ययन-संयोगेन हि तानि चोद्यन्ते । यावदध्ययनं भवितुमर्हन्ति । वचनादेव हि त्रिसांवत्सरी व्रतचर्या प्रागपि ग्रहणाद्यद्येतत्पृथग्वाक्यम् । अथ तु ग्रहणान्तिकमेवेत्येकं वाक्यं, ततो नास्त्यगृहीते वेदे व्रतनिवृत्तिः । एवकारेणैवमेव पक्षमनुमन्यते । “ यदि नास्त्यगृहीते वेदे तन्निवृत्तिः कथं तर्हि ' व्रतस्नातको ' ' वेदस्नातक ' इति भेदेन व्यपदेशः ” । चतुर्थे वक्ष्यामः । षट्त्रिंशदब्दाः समाहृताः ' षट्त्रिंशदब्दं, ' तत्रभवं षट्त्रिंशदाब्दिकम् । एवं त्रैवेदिकम् । तदधिपरिमाणं तदर्धिकम् । एवं पादिकं ग्रहणान्तिकमिति । सर्वत्र " अत इनि ठनाविति ” ( पा ० सू ० ५। २ । १४५ ) मत्वर्थीयः । न तु यस्य यत्परि-माणं तत्तस्यास्तीति शक्यतेऽपदेष्टुम् ॥१ ॥

हिन्दी — ब्रह्मचारी गुरु के समीप में ३६ वर्ष ( प्रतिवेद के क्रम से १२-१२ वर्ष ) तक या उसका आधा १८ वर्ष तक ( प्रतिवेद के हिसाब से ६-६ वर्ष तक ) अथवा उसका चतुर्थांश ९ वर्ष तक ( प्रतिवेद के हिसाब से ३ - ३ वर्ष तक ) अथवा वेदों के ग्रहण ( अध्ययन ) करने की अवधि तक तीनों वेदों का अध्ययनरूप व्रत ( ब्रह्मचर्यपालन व्रत ) करे ॥१ ॥

वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम् । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥ २ ॥

भाष्य — त्रैवेदिकमध्ययनमुक्तम् । एकद्विवेदाध्ययनमप्राप्तं विकल्प्यते । वेदशब्दः शाखावचनो व्याख्यातः । तिस्रः शाखा अधीयीत द्वे एकां वैकैकस्माद्वेदान्न त्वेकस्मा-देव । त्रयी त्रिविद्येति पठ्यते ।

पृष्ठ 339

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 339 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता अधीत्य, गृहीत्वा, वेदमुक्तया व्रतचर्यया । २६५ गृहस्थाश्रममावसेत् | गृहस्थाश्रमस्य स्वरूपं वक्ष्यति " उद्वहेत द्विजो भार्याम् ’ ” इत्यादि । आवसेदनुतिष्ठेत् । अनेकार्था धातवः । आङ् मर्यादायां वर्तते । कृतदारपरिग्रहो रूढ्या गृहस्थ उच्यते । ' गृह ' शब्दो दारवचनस्तत्र तिष्ठति । तस्य यो विहितः पदार्थ-समूहो विधिनिषेधात्मकः स आश्रमशब्देनोच्यते । अथोपनीतस्य ब्रह्मचर्याश्रम आ समा-वर्तनात्, कृतविवाहस्य गार्हस्थ्यमिति । अविप्लुतमखण्डितं ब्रह्मचर्यं स्त्रीसम्प्रयोगनिवृत्तिर्यस्य स एवमुच्यते । वाक्य-भेदश्चात्र द्रष्टव्यः । आख्यानव्यवहारेण - अविप्लुतब्रह्मचर्यो भवेद्गृहस्थाश्रमं च प्रति-पद्येत । एकवाक्यतायां कदाचन विप्लवे गार्हस्थ्याधिकार एव हीयेत । अद्य पुनः पुरुषार्थतया विधानेन तदतिक्रमे प्रायश्चित्तेन युज्यते न त्वधिकारी न भवति । अधीत्यावसेदिति च पौर्वापर्यमात्रं विवक्षितम्, नाध्ययनसमनन्तरभाविता विवाहस्य ल्यप्कार्यात्पौर्वापर्यविधानादानन्तर्यं न शब्दार्थः । अतश्च स्वाध्यायाध्ययनविवाहयोर-न्तराले व्याकरणादिशास्त्रश्रवणं वेदार्थज्ञानार्थं लभ्यते । विद्वानेव हि गार्हस्थ्येऽधिक्रियते, न यथाऽध्ययनविधौ मूर्खः । यद्यपि बाल्यावस्थायां तिर्यक्समानधर्मा स्वमधिकारं प्रति-पत्तुमसमर्थस्तथापि पित्राऽऽचार्येण वाऽनुष्ठाप्यते । वस्तुतस्तयोरेवाधिकारः । अपत्या-नुशासने पितुरधिकारोऽपत्योत्पत्तिविधेस्तावताऽभिनिर्वर्त्यत्वात् । अनुशासनं च विधि-निषेधाधिकारद्वयप्रतिपादनम् । तत्र यत्प्रतिपाद्यमानोऽपि नावबुध्यते, तदन्ध इव हस्त-ग्राहिकयाकार्यते । यथाऽग्निसंस्पर्शकूपादिपाताद्गाढहस्तावष्टम्भादिना धार्यते एवम-दृष्टादपि मद्यपानादेः । यथा वाऽनिच्छन्नौषधपानादौ प्रवर्त्यते एवं शास्त्रीयेष्वपि पदार्थेषु । यदा त्वीषद्व्युत्पन्नस्तदैवं नियुज्येत ' इदमिदं कर्तुमर्हसीति ' । एवं सत्यधीतवेदो माण-वकः पित्राचार्येणैवैवं प्रतिबोधयितव्यो " गृहीतवानसि वेदं त्वमिदानीं तदर्थजिज्ञासा-यामधिक्रियसे ततस्तदङ्गानि श्रोतुमर्हसीति । एतावता पितुरपत्योत्पादनाधिकार-निवृत्तिः । तदुक्तं ‘ क्रियता पुनरुत्पादितो भवति यावता स्वयमधिगतकृत्यो भवतीति ' । अतः स्थितमेतत् —– नाधीत्यैव विवाहो यावद्वेदार्थो नाधिगतः । एवं च पदयोजना कर्तव्या । अधीत्य अध्ययने निवृत्तेऽपि अविप्लुतब्रह्मचर्यः स्यात् । प्राप्तायां च निवृत्तौ पुनर्वचनं नियमान्तराणां मधुमांसवर्जनादीनां निवृत्तिपरम् । तेन यावदध्ययनं तावत्सर्वे नियमा अनुष्ठातव्याः, समाप्तेत्वध्ययनेऽर्थावबोधकाले स्त्रीनिवृत्तिरेव करणीया, स्त्री - सेवा न विधातव्या । ब्रह्मचर्यशब्दो यद्यपि ब्रह्मग्रहणार्थं यद्व्रतग्रहणं तत्र व्युत्पाद्यते तथापि स्त्रीनिवृत्तिपर एवास्य तत्र प्रयोग इति दर्शयिष्यामः । यधाक्रमम् । य एवाध्येतॄणां पाठक्रमः प्रसिद्धस्तेनैव, प्रथमं चतुःषष्टिस्ततो

पृष्ठ 340

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 340 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२६६ मनुस्मृतिः [ तृतीयः ब्राह्मणं पितृपितामहाद्यभिजनप्रबन्धोपक्रमं भवति । न हीदृशेऽर्थे वक्तारो न कुलेन न शीलेन न क्रमेणेति । एतेन चैतत्प्रतिपादितं भवति - या एव पित्रादिभिः शाखाऽधीता सा न त्याज्येति ॥२ ॥।

हिन्दी — ब्रह्मचारी को चाहिये कि अखण्डित ब्रह्मचर्य को धारण करते हुए तीनों वेदों को ( अपने - अपने वेद की शाखाओं के सहित तीनों वेदों को ) उतना न कर सके तो दो वेदों को ( अपने - अपने वेद की शाखाओं के सहित दोनों वेदों को ) उतना भी नहीं कर सके तो एक वेद को ( अपने वेद की शाखा के साथ एक वेद को ) ही मन्त्र-ब्राह्मण क्रम से अध्ययन कर गृहस्थाश्रम में प्रवेश करे || २ || विमर्श - यद्यपि मनु ने पुरुषशक्त्यनुसार तीनों विकल्पों में श्रेष्ठ उभयस्नातक का ही वर्णन किया है, किन्तु स्मृत्यन्तर में अन्य भी स्नातक - भेद का वर्णन मिलता है; यथा - विद्यास्नातक, व्रतस्नातक और विद्या - व्रतस्नातक । उनमें - ( १ ) जिसने केवल वेदाध्ययन को समाप्त किया, वह विद्यास्नातक, ( २ ) जिसने केवल व्रत को समाप्त किया, वह व्रतस्नातक और ( ३ ) जिसने विद्या तथा व्रत दोनों को समाप्त

किया, वह विद्याव्रतस्नातक है । इस प्रकार स्नातक के तीन भेद वर्णित हैं ॥

वेद पढ़े हुए ब्रह्मचारी का पिता द्वारा पूजन-तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः । स्त्रग्विणं तल्प आसीनमर्हयेत्प्रथमं गवा ॥ ३ ॥

भाष्य — तं ब्रह्मदायहरं प्रथमं गवाऽर्हयेत् । ब्रह्म च दायश्च ते उभे हरति स्वीकरोतीति ब्रह्मदायहरः । दीयत इति ' दायो ' धनं, ' ब्रह्म ' वेदो, ' हरण'मधिगमः । गृहीतवेदः पित्रा कृतविभागो गार्हस्थ्यं प्रतिपद्यते, निर्धनस्यानधिकारात् । यदि तु पिता निर्धनस्तदा सान्तानिकतया धनमर्जयित्वा विवाहयेत् । अन्ये तु ब्रह्मैव दायो ' ब्रह्मदाय ' इति पूर्वोक्तविध्यनुवादं मन्यन्ते पितुरिति । “ ननु चाचार्यस्य माणवकाध्यापनेऽधिकार उक्तः किमिदमुच्यते पितुर्ब्रह्म-दायहरमिति ” । उच्यते । यस्य पिता विद्यते तस्य स एवाचार्यः । अभावे पितुरशक्तौ वाऽन्यस्या-धिकारः । आचार्यान्तरोपादानेन पितुरधिकारो निवर्तत एव । स्वयं वाऽध्यापयत्वन्यो-पादानेन वेति न विशेषः । १. तथा च हारीत: - ' त्रयः स्नातका भवन्ति, विद्यास्नातको व्रतस्नातको विद्याव्रतस्नातकश्च ' इति । यः समाप्य वेदमसमाप्य व्रतानि समावर्तते स विद्यास्नातकः । यः समाप्य व्रतान्यसमाप्य वेद समावर्तते स व्रतस्नातकः । उभयं समाप्य समावर्तते यः स विद्याव्रतस्नातकः ' इति ( म ० मु ० ) ।