मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 341–350

मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 341–350

पृष्ठ 341

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 341 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता २६७ यदप्याहुः– “ वरो दक्षिणेत्युपनयने नित्यवद्दक्षिणाम्नानात्परकर्तृकत्वमेवेति ” -तदसत् । उपनयने ह्ययं विधिः ' वरो दक्षिणेति ' । उपनेता च पिता वाऽऽचार्यो वा, तौ द्वावपि स्वाधिकारप्रवृत्तौ नानत्यन्तरमपेक्षेते । आनमनार्थं हि दक्षिणादानम् । न चाधिकारान्तरतः प्रवृत्तस्यानतिरुपयुज्यते । तेनायं दक्षिणाशब्द आनमनार्थाभावादर्था-द्धिरण्यदानवददृष्टार्थदानोपलक्षणार्थो विज्ञेयः । पित्रैव चासौ तावता धनेन स्वामी कर्तव्यो येन वरदानमस्य सम्पद्यते । अथायमाग्रहः– “ नानत्यर्थाद्दानादृते दक्षिणाशब्दस्योपपत्तिः । न वा मुख्ये सति लक्षणा न्याय्येति । एवं तर्हि यस्य पिता न तत्स्थानीयो नाचार्यः स यदाऽऽ-त्मानमुपनयेत् सत्यकामवत्तद्विषयो दक्षिणाविधिर्भविष्यति । तस्यापि चेषदपेतशैशव-स्यात्मसंस्कारायास्त्येवाधिकार इति प्रतिपादितम् । तस्मादुभयथा पितुरधिकारः, स्वयमुपनयमानस्यान्यमाचार्यमुपाददानस्य वा । प्रतीतम् अभिमुखीभूतं गृहाश्रमप्रतिपत्तौ । न तु नैष्ठिकं, समाप्ताध्ययनविध्यर्थमपि ग्रामप्रतिपत्तौ । स्त्रग्विणम् । यावन्तः केचन गृह्यकारैर्मधुपर्ककर्मणि धर्मा आम्नातास्तेषां प्रदर्श-नार्थम् तत् । तल्प आसीनं महार्हपर्यङ्कशयनोपविष्टम् । पूजाधिकारार्हं शयानम् । गवा मधुपर्केण । मधुपर्केऽसौ विधिः पाक्षिक आम्नातः । अतो गोशब्देन तत्साधन-कर्मविशेषो लक्ष्यते । अर्हयेत् पूजयेत् । अधिकारात्पिताऽऽचार्यो वा । प्रथमं पूर्वं विवाहात् । प्रतीतं स्वधर्मेणेत्यनुवादः । स्वधर्मेण ' ब्रह्मदायहरं ', ' स्वधर्मेण चार्हयेदिति ', सम्बन्धे न विशेषः ॥३ ॥

हिन्दी – अपने धर्म से प्रसिद्ध, पिता से ( पिता के अभाव में आचार्य से ) ब्रह्मदाय ( ब्रह्मभाग अर्थात् ब्रह्मप्राप्ति साधक वेद ) को ग्रहण किये हुए, माला पहने हुए तथा श्रेष्ठ आसन पर बैठे ब्रह्मचारी की पूजा पिता या आचार्य गोदुग्ध आदि मधुपर्क से करे || ३ ||

समावर्तन के बाद विवाह-गुरुणाऽनुमतः स्नात्वा समावृत्तो यथाविधि ।

उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् ॥४ ॥

भाष्य — सत्यामपि वेदव्रतसमाप्तौ गुरुणाऽनुमतः अभ्यनुज्ञातः स्नायात् ।

पृष्ठ 342

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 342 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२६८ मनुस्मृतिः [ तृतीय: स्नानशब्देन गृह्योक्तसंस्कारविशेषो लक्ष्यते, ब्रह्मचारिधर्मावधिः । यथा चात्र लक्षणा तथा प्राग्व्याख्यातम् । तदहरेव गृह्यकारोक्तं कञ्चिन्मधुपर्कपूजाविहितसंस्कारं प्राप्य समावृत्तो ' गुरु-कुलात्पितृगृहं प्रत्यागत ' इत्यनुवादः । उद्वहेतेत्येतद्विधिशेषमेतत्सर्वं प्राप्तमेव न तु समावर्तनं विवाहाङ्गम् । तेन यः पितृगृह एवाधीतवेदस्तस्य समावृत्त्यसम्भवेऽपि भवत्येव विवाहः । केचित्समावर्तनं विवाहाङ्गं स्नानं मन्यन्ते । “ क्त्वाश्रुत्या भेदप्रतिपत्तिरिति ” चेदेवं तर्हि समावर्तनं विवाहाङ्गं स्नानसंस्कारं वक्ष्यति । सविशेषं हि तत्र स्नानमाम्नातमेव “ स्नातकेनेत्यादि ’ ” । अथवा यमनियमत्यागाभिप्रायं समावृत्तिवचनम् । समावृत्तः प्राक्तनीमेवावस्थां नियमरहितां प्रतिपन्न इत्यर्थः । विशेषाभिप्रायं च नियमत्यागवचनम् । ब्रह्मचारिणो हि सातिशया यमनियमा न तथोत्तरेषाम् । यथाविधीति स्वधर्मेणेतिवत् । उद्वहेत द्विजो भार्याम् । उद्वहेतेति विवाहविधिः । संस्कारकर्म विवाहो, भार्यामिति द्वितीयानिर्देशात् । “ न च प्राग्विवाहाद् भार्या सिद्धाऽस्ति यस्या विवाहसंस्कारः क्रियेत, चक्षुष इवाञ्जनसंस्कारः । किं तर्हि निर्वर्त्यते विवाहेन? " यथा यूपं छिनत्तीति, छेदनादयः यस्य क्रियन्ते स यूपः, एवं विवाहेनैव भार्या भवतीति । विवाहशब्देन पाणिग्रहणमुच्यते । तच्चात्र प्रधानम् । एवं हि स्मरन्ति ‘ विवाहनं दारकर्म पाणिग्रहणमिति ” । इहापि वक्ष्यति ( श्लो ० ४३ ) " पाणिग्रहणसंस्कार ” इति लाजहोमाद्यङ्गम् । तच्च गृह्यादखिलं ज्ञातव्यम् । “ नोद्वहेत्कपिलां कन्यामिति ” ( श्लो ० ८ ) कन्याग्रहणात्कन्याया अयं संस्कारो, न स्त्रीमात्रस्य । कन्याशब्दश्चात्र प्रकरणेऽप्रवृत्तपुंसंप्रयोगायां योषिति वर्तत इति वक्ष्यामः । सवर्णां समानजातीयाम् । लक्षणान्विताम् । ‘ लक्षणानि ' अवैधव्यप्रजाधनसूचकानि वर्णरेखातिलकादि-चिह्नानि ज्योतिःशास्त्रावगम्यानि, तैः ' अन्वितां ' युक्तां, शुभलक्षणान्वितामित्यर्थः । यद्यप्यनिष्टसूचकमपि लक्षणं ' भवति किन्तु सूचकैरेव शस्तैस्तादृशीं विवाहयेत्, अतः प्रशस्तलक्षणा लक्षणवती द्रष्टव्या । अभिप्रेतसूचक एव लक्षणशब्दो लोके प्रयुज्यते ।

पृष्ठ 343

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 343 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता सलक्षणोऽयं पुरुषः सलक्षणा स्त्रीति या शुभलक्षणा सैवमुच्यते । २६ ९ तत्राधिकारचिन्ता कर्तव्या । संस्कारविधित्वादेवाधानवदनुष्ठानलाभात् यथैव ह्याधानमाहवनीयादिद्वारेण नित्यकाम्यकर्मोपयोगि तदङ्गाहवनीयादिनिर्वृत्त्यर्थमनुष्ठीयते, एवं विवाहोऽपि, अस्यापि भार्यानिर्वर्तकत्वेन दृष्टादृष्टपुरुषार्थोपयोगित्वात् । तथाहि खेदा-त्पुंसः स्त्रीमात्रविषयायां प्रवृत्तौ प्रसक्तायां कन्यापरदारनिषेधात्स्वदारेषु कामिनः खेदनिवृत्ति: । “ सहधर्मश्चरितव्यः ” इति तया सह सर्वधर्मेष्वधिकाराददृष्टपुरुषार्थ सिद्धिस्तदधीना । अत्र केचिन्मीमांसन्ते । “ रागिणः पूर्वोक्तेन प्रकारेण दृष्टसिद्ध्यर्थं विवाहं स्वत: कुर्वन्ति । तेषां च कृतविवाहानां सम्भवेत्सद्विजातिकर्मविधित्वेन कर्मानुष्ठानसिद्ध्यर्थो विवाहः । यस्य कथञ्चित्स्त्रीनिष्ठा निवृत्ता, न तस्य विवाहः । असति विवाहे कर्मानधि-कारादनधिकृतस्य चाननुष्ठाने दोषाभावात्पुरुषार्थानुष्ठानान्यननुतिष्ठतोऽनाश्रमिणोऽप्यव-स्थानमविरुद्धम् । ” तदेतदसत् । यथैव कामः पुरुषार्थस्तथैव धर्मोऽपि पुरुषार्थत्वे प्रयोजकः । सर्वो-ऽपि पुरुषार्थसिद्ध्यर्थ प्रवर्तते । यदि चैतदेवं स्यात्संवत्सरमनाश्रमी भूत्वेत्यादि नोप-पद्येतेति 1 । निपुणं चैतदाश्रमविकल्पावसरे षष्ठे निर्णेष्यामः ॥४ ॥

हिन्दी - गुरु से आज्ञा पाया हुआ द्विज अपनी गृह्येोक्त विधि से ( व्रत - समाप्ति-सूचक ) स्नान कर अपने समान वर्णवाली ( ३।५ - ११ ) शुभ लक्षणों से युक्त कन्या के साथ विवाह करे || ४ || यादृशी कन्या वोढव्या तामिदानीं दर्शयति । असपिण्डादि कन्या का विवाह योग्यत्व—

असपिण्डा च या मातुरसगोत्रा च या पितुः ।

सा प्रशस्ता द्विजातीनां दारकर्मण्यमैथुनी ॥ ५ ॥

मातुर्याऽसपिण्डा पितुश्च याऽसगोत्रा सा दारकर्मणि प्रशस्ता । भाष्य — ‘ सपिण्ड’ग्रहणं मातृबन्धूपलक्षणार्थम् । मातुर्हि सापिण्ड्यं स्त्रीणां स्मृत्यन्तरे तृतीयपुरुषावधि । न तु त्रिभ्य ऊर्ध्वं मातृबन्धुभ्यो विवाह इष्यते किं तर्हि पञ्चमादूर्ध्वम् । एवं हि गौतमः पठति ( अ ० ४ सू ० ३।५ ) । “ ऊर्ध्वं सप्तमात्पितृ-बन्धुभ्यो मातृबन्धुभ्यः पञ्चमादिति ” । तेन यथाश्रुतिसमन्वयाभावात् सपिण्डशब्दः स्मृत्यन्तरवशेन मातृसम्बन्धितया व्याकरणीयः । तेनैवमुक्तं स्यात् ‘ मातुरन्वयजा जाया न भवति ' । अवधिश्च गौतमी एव । तेन मातामहप्रमातामहयोर्यान्वये जाता सा पुत्रसन्ततेर्बान्धवसामीप्यात्पञ्चमीं यावन्न विवाहयितव्या । अतो मातृष्वसृतद्दुहितॄणां प्रमातामहसंततिजानां च सर्वासां प्रतिषेधो, बन्धुत्वाविशेषात् ।

पृष्ठ 344

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 344 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२७० मनुस्मृति: [ तृतीयः असगोत्रा च या पितुः । गोत्रं वसिष्ठभृगुगर्गादिवंशः स्मर्यते । समानगोत्रा वसिष्ठा न वसिष्ठैर्विवहन्ते न गर्गा गर्गैः । वासिष्ठे तु मातृसगोत्राया अपि प्रतिषेधः । “ परिणीय सगोत्रां तु समानप्रवरां तथा । कृत्वा तस्याः समुत्सर्गं द्विजश्चान्द्रायणं चरेत् ” । “ मातुलस्य सुतां चैव मातृगोत्रां तथैव च ' । " गौतमेन तु पठ्यते ( अ ० ४ सू ० २ ) “ असमानप्रवरैर्विवाह ” इति । तत्र गोत्रसमत्वे सत्यपि प्रवरभेदश्चेद्युज्यते विवाहः ” । तदयुक्तम् । यतः स्मृत्यन्तरे ह्युभयं निषिध्यते “ असमानार्षगोत्रजामिति ( याज्ञ ० आ ० ५३ ) ” । आर्षं प्रवर इत्येकोऽर्थः । “ कथं पुनर्गोत्रभेदे समानार्षेयत्वम् ” किमिति न भवति यदि स्मर्यते । श्रुतिस्मृतिप्रमाणकोऽयमर्थो न प्रत्यक्षगोचरो, येन विरोधः स्यात् । “ के पुनरमी प्रवरा नाम ” । अत्यल्पमिदमुच्यते । इदमपि वक्तव्यं – किं पुनरेतद्ब्राह्मणत्वं नाम, तथा कतरदेतद्गोत्रं नाम । यथैव समाने पुरुषत्वे ब्राह्मणत्वादिविशेष:, एवं समाने ब्राह्मणत्वे वसिष्ठादिगोत्रभेदः, प्रतिगोत्रं च समानार्षेयाणि । यस्यैतद्गोत्रं तस्य तैः शब्दैः प्रवराश्रयणं कर्तव्यम् । एवं विवाहनिषेधेऽपि । स्मरन्ति च सूत्रकारा: गोत्रभेदसम्बन्धेन प्रवरान्, ‘ यस्यैतद्गोत्रं तस्येमे प्रवरा ' इति । गोत्रभेदस्तु तद्गोत्रजैरेव । स्मर्यते-‘ वयं पराशरा वयमुपमन्यव ' इति । यद्यपि गोत्रवत्प्रवरानपि स्मरन्ति, तथापि बहुत्वा-त्कदाचिद्विस्मरेयुरिति गोत्रमुपलक्षणीकृत्य प्रवरस्मृतिरुपनिबद्धा । गोत्रं तु स्मरन्ति । न च तस्य किञ्चिदुपलक्षणमस्ति ' य एवंरूपस्तस्येदं गोत्रमिति ' । एतावत्तत्र स्मरणम् । यावद्गोत्रं सन्ततिसमानजातीयत्वम् । एष च गोत्रप्रवरभेदः ब्राह्मणानां न राजन्यविशाम् । तथाहि कल्पसूत्रकारः “ पौरोहित्याद्राजन्यवैश्ययोरिति ” । यद्यपि गोत्रविशेषव्यपदेशे सति प्राप्तप्रतिषेधेनापि प्रवराधिकारे वचनामिदमुपपद्यते, किं तु न तेषां गोत्रस्मरणमस्ति । “ कस्तर्हि क्षत्रियवैश्ययोर्विवाहेऽपि बन्धूनामवधेर्नियमः ” उच्यते । सर्ववर्णविषयमेतत् " ऊर्ध्वं सप्तमात् पितृबन्धुभ्यः ” इति । इहाप्यसगोत्रा च - शब्दादसपिण्डा । तथा चानुवर्त्यमानः सपिण्डशब्दः पूर्ववद्वन्धु-सम्बन्धोपलक्षणार्थः । तेन पितृष्वसुरन्वयस्त्रीणामन्यासां च प्रपितामहसन्ततिस्त्रीणामा सप्तमात्पुरुषात्प्रतिषेधः सिद्धो भवति । सप्तमपुरुषावधयः सपिण्डाः स्मर्यन्ते । अन्येतु ' गोत्रं ' वंशमाहुः । न तत्रावध्यपेक्षा । यावदेतज्झायते वयमेकवंशा

पृष्ठ 345

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 345 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता इति तावदविवाहः । अस्मिन्नपि पक्षे स्त्रादिदुहितृणां प्रतिषेधः । २७१ त्रपि पक्षे असपिण्डा चेत्यनुवर्तते । तेन पूर्ववत्पितृष्व-“ अस्मिंस्तु पक्षे समानार्षगोत्राणां प्रतिषेधो दुर्लभः । न हि तत्रैतदस्ति वयमेक– वंश्या इति ” । उच्यते । ऐतिहासिकेन तद्दर्शनेन । तत्राहि वर्णयन्ति । ‘ ऋषिर्वसिष्ठादिराद्यो वंशस्य कर्ता तद्गोत्रास्ततः प्रसूताः प्रवरा इति तत्पुत्रपौत्रास्तपोविद्याद्यतिशयगुण-योगेन प्रख्याततमाः । ” स्मृत्यन्तरादेष एव नियमः । इदं त्वत्र निरूप्यं – यदेतत्समानप्रवरैरिति तत्र नामधेयतस्तावत्समानत्वं न संख्यातः । नामधेयसमानत्वे च किं यत्र सर्वाण्येव समानानि तत्रप्रतिषेध उतैकस्मिन्नपि समाने । तत्र यदि समुदितानां प्रवरत्वं, तत्र समाने कस्मिंश्चिद्भिन्नेऽन्यस्मिन्नन्यः समुदायः सञ्जात इत्यसमानप्रवरत्वाच्च प्रतिषेधः । एवं चोपमन्यूनां पराशराणां च स्याद्विवाहः । भिन्नं तयोर्गोत्रम् । एक उपमन्यव: अपरे पराशराः, पूर्वेण च न्यायेन प्रवर-भेदः । उपमन्यूनां वासिष्ठभारद्वाजैकपादिति प्रवराः, पराशराणां वासिष्ठगार्ग्यपराशर्येति । अथैकैकस्य प्रवरत्वमेकस्मिन्नपि समाने प्रतिषेधः । तद्यथा माषा न भोक्तव्या, मिश्रा अपि न भुज्यन्ते । किं पुनरत्र युक्तम् । एकैकस्य प्रवरत्वम् । तथाहि सामानाधिकरण्यं दृश्यते । एकं वृणीते द्वौ वृणीते त्रीन्वृणीत इति प्रतिपन्न एकः । तत्साम्येऽप्याहैषामविवाह इति । द्विजातिग्रहणमुपलक्षणार्थम् । शूद्रस्यापि आ सप्तमात्पितृतः पञ्चमान्मातृत इत्यस्ति । दारकरणं दारक्रिया दारकर्म । तत्र प्रशस्ता प्रशंसया विहितेत्यर्थः । अमैथुनी । मिथुने भवा मैथुनी, न मैथुनी अमैथुनी । पितुरिति सम्बध्यते, पितृबीजादेवोत्पन्ना जातमात्रा । नियोगो विहितस्तत उत्पन्नाया नास्ति पूर्वोक्तविशेषणै-र्निषेधः । अतः पृथङ्निषिध्यते अमैथुनीति । ततो नियोगोत्पन्ना कामतो न विवाह्या, मैथुनीत्वात् ।

अन्ये तु अमैथुने इति पठन्ति । धर्मार्थे दारकर्मणि प्रशस्ता, न मैथुने ।

स्तुतिश्चेयं न प्रतिषेधः । ईदृशी योढा सा सत्यपि मैथुने धर्मार्थैव भवति ॥५ ॥

हिन्दी — जो कन्या माता के या पिता के सपिण्ड ( सात पीढ़ी तक ) की न हो और पिता के गोत्र की न हो; ऐसी कन्या द्विजातियों के स्त्रीकर्म ( अग्न्याधानादि यज्ञकर्म तथा मैथुन कर्म ) के लिये श्रेष्ठ होती है ॥५ ॥

पृष्ठ 346

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 346 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२७२ मनुस्मृतिः विवाह में निन्दित कुल—

महान्त्यपि समृद्धानि गोजाविधनधान्यतः ।

स्त्रीसम्बन्धे दशैतानि कुलानि परिवर्जयेत् ॥ ६ ॥

भाष्य — वक्ष्यमाणस्य प्रतिषेधस्य निन्दार्थवादोऽयम् । ' समृद्धिः ' सम्पत्तिः । ‘ धनं ’ विभवः । महान्त्यपि प्रकृष्टान्यपि । तृतीयः धनविशेषणार्थमाह गोजाविधनधान्यतः । तृतीयार्थे तसिः । गोजाविधनेन च धान्येन च । धनग्रहणं गोजादीनां विशेषणार्थम् । धनरूपा ये गोजादयः । कूटसम्पन्नता

हि धान्यम् ।

' स्त्रीसम्बन्धो ' विवाहः । स्त्रीप्राप्त्यर्थं सम्बन्धः स्त्रीसम्बन्धः ॥ ६ ॥

हिन्दी — गौ, बकरी, भेड़, धन तथा अन्न से अधिक समृद्धि वाले को भी आगे कहे हुए ( ३।७ ) दश कुलों ( वंशों ) का विवाह - सम्बन्ध में त्याग करना चाहिये ॥६ ॥

उक्त दश त्याज्य कुलों के नाम-हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम् ।

क्षय्यामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च ॥ ७ ॥

भाष्य — हीनाः त्यक्ताः क्रिया यस्मिन् कुले जातकर्मादयः संस्कारा न क्रियन्ते, नित्याश्च पञ्चयज्ञादयः । निष्पुरुषं स्त्रीप्रसु । यत्र प्रायेण कन्या जायन्ते, न पुमांसः । निश्छन्दः वेदाध्ययनवर्जितम् । रोमशार्शसम् । द्वन्द्वैकवद्भावेन कुलद्वयं निर्दिष्टम् । बहुदीर्धैर्बाह्वादिषु लोमभि-र्युतम् । अर्शांसि गुदेन्द्रियगतान्यधिमांसनिबद्धानि; तानि हि रोगरूपत्वात्पीडाकराणि । क्षयो राजयक्ष्माव्याधिः । आमयावी मंदाग्निर्यस्य भुक्तमन्त्रं सम्यङ् न जीर्यति । अपस्मारः स्मृतिभ्रंशाद्युपघातकृत् । श्वित्रं शरीरगताच्छेदवती श्वेतता । कुष्ठं प्रसिद्धम् । सर्व एते व्याधिविशेषवचनाः शब्दा रोमशादारभ्य मत्वर्थीयप्रत्ययान्ता निर्दिष्टाः । पूर्वैर्व्याख्यातृभिर्दृष्टमूलताऽस्य प्रतिषेधस्त वर्णिता । मातुः कुलं द्विपदोऽनुहरन्ति । ततो हीनक्रियादीनां या प्रजा साऽपि तच्छीला स्यात् व्याधयश्च संक्रामन्ति । एवं हि वैद्यके पठ्यते “ सर्वे संक्रामिणो रोगा वर्जयित्वा प्रवाहिकाम् ’ ” ॥७ ॥

पृष्ठ 347

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 347 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] -‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २७३ हिन्दी – ( वे त्याज्य दश कुल ये हैं - ) १. जातकर्म आदि संस्कार से हीन, २. जिस कुल में पुत्र उत्पन्न नहीं होता हो तथा सदा कन्या ही उत्पन्न होती हों, ३. जो वेदों के पठन - पाठन से हीन हो, ४. जिस कुल के पुरुषों के शरीर में अधिक रोम या ५. अर्श रोग हो, ६. जिस कुल में राजयक्ष्या, ७. मन्दाग्नि, ८. मूर्छा ( मृगी ), ९. श्वेत कुष्ठ और १०. गलित कुष्ठ रोग हों या हुए हों ( उस कुल की कन्या के साथ विवाह न करे ) ॥७ ॥कपिला आदि कन्या विवाह के अयोग्य-नोद्वहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् ।

नालोमिकां नातिलोमां न वाचालां न पिङ्गलाम् ॥ ८ ॥

भाष्य- - पूर्वं कुलाश्रयः प्रतिषेधः । अयं तु स्वरूपाश्रयः । यस्या कद्रुवर्णाः कनकवर्णा वा केशाः सा कपिला । अधिकाङ्गी षडङ्गुलिः । रोगिणी बहुरोगा दुष्प्रतिकारव्याधिगृहीता च । भूम्नीनिः मत्वर्थीयो नित्ययोगे वा । अलोमिका अकेशा । लोमानि अप्युच्यन्ते । बाहुमूले जङ्घामूले वा सर्वलोम्नामभावः ।

वाचाला स्वल्प एव वक्तव्ये बहुलं परुषं च भाषते ।

पिङ्गला अक्षिरोगेण मण्डलाक्षी कपिलपिङ्गलाक्षी वा ॥ ८ ॥

हिन्दी – कपिल ( भूरे ) वर्णवाली, अधिक ( या कम ) अङ्गवाली ( यथा - छः अङ्गुलियों वाली; या चार या तीन आदि अङ्गुलियों वाली आदि ), नित्य रोगिणी रहने वाली, बिल्कुल रोम से रहित या बहुत अधिक रोम वाली, अधिक बोलने वाली और भूरी - भूरी आँखों वाली कन्या से विवाह न करे ॥८ ॥

नक्षत्र आदि के नाम वाली कन्या विवाह के अयोग्य—

नर्क्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् ।

न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम् ॥ ९ ॥

भाष्य — ऋक्षं नक्षत्रं, तन्नामिका, ' आर्द्रा ' ' ज्येष्ठा ' इत्यादि । वृक्षनाम्नी ‘ शिंशपा ’ आमलकीति । नदी, गङ्गा, यमुना, तन्नाम्नी । ऋक्षाणि च वृक्षाश्च नद्यश्चेति द्वन्द्वः तासां नामानीति षष्ठीसमासः । ततो द्वितीयेन नामशब्देनोत्तरपदलोपी समासः । अन्त्यनामिका ' बर्बरी ' ‘ शबरी ' इत्यादि । पर्वता विन्ध्यमलयादयः । पूर्ववत्स-मासात्कप्रत्ययः । पक्षिनाम्नी ' शुकी ' ' सारिका ' । अहिः सर्पस्तन्नाम्नी, ' व्याली ' ' भुजङ्गी ' । प्रेष्या ' दासी ' ' चेटी ' ' दरनी ' ।

पृष्ठ 348

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 348 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मनुस्मृतिः २७४ कन्या के शुभ लक्षण-तामुद्वहेत्स्त्रियं कन्याधिकारात्कन्याम् । बुध्यते । [ तृतीय: लक विलासवती मन्थरा सत्यमेवम् । एक एवार्थो द्वाभ्यां विधिमुखेन प्रतिषेधमुखेन चोद्यमानस्तु स्पष्टो विभीषणं नाम, भयजनकं, ' डाकिनी ' ' राक्षसी ' ॥९ ॥

हिन्दी – नक्षत्र, पेड़, नदी, म्लेच्छ, पहाड़ पक्षी, सर्प, दूत या दासी - इसके नामों वाली तथा भयङ्कर नाम वाली कन्या से विवाह न करे । ( क्रमशः उदाहरण नक्षत्र — आद्रा, रेवती; वृक्ष — धात्री, कदली, नदी - गङ्गा, यमुना, गोदावरी आदि, म्लेच्छ — चाण्डाली, श्वपची आदि; पहाड़ – विन्ध्याचली आदि; पक्षी - कोकिला, सारिका मैना, मयूरी आदि, सर्प – नागी आदि; दास या दासी – चेटी, दासी आदि; भयङ्कर — डाकिनी, पिशाची आदि ) ॥ ९ ॥

[ नातिस्थूलां नातिकृशां न दीर्घं नातिवामनाम् । वयोऽधिकां नाङ्गहीनां न सेवेत्कलहप्रियाम् ॥ १ ॥ ]

[ हिन्दी - बहुत मोटी, बहुत दुबली - पतली, बहुत लम्बी, बहुत छोटी अर्थात् नाटी, अवस्था में अधिक, किसी अङ्ग ( कान, आँख, अङ्गुली आदि ) से हीन ( या अधिक ) और झगड़ा करने वाली कन्या से विवाह न करे ॥ १ ॥ ]

अव्यङ्गाङ्गीं सौम्यनाम्नी हंसवारणगामिनीम् ।

तनुलोमकेशदशनां मृद्वंङ्गीमुद्वहेत्स्त्रियम् ॥ १० ॥

भाष्य — अव्यङ्गाङ्गीम् । अव्यङ्गान्यङ्गानि यस्याः सैवमुच्यते । अव्यङ्गशब्दोऽ-वैकल्यवचनः, प्रवीणोदारादिशब्दवत् यदपि व्युत्पाद्यतेऽविकलान्यङ्गानि यस्येति, अतश्चाङ्गशब्दस्य द्वितीयस्यावयविनि शक्ततौचित्येन, संस्थानस्य परिपूर्णता साऽव्यङ्ग-शब्देनोच्यते । सौम्यं मधुरं नाम । ' स्त्रीणां सुखोद्यम् ' अत्र दर्शितम् । हंस इव वारण इव गच्छति । यादृशी हंसानां हस्तिनां च गतिः सा यस्याः | तनुशब्दो नाल्पवचनः किंतर्ह्यानुपरिमाणे वर्तते । तन्वङ्गी सोच्यते या नातिस्थूला नातिकृशति । मृदूनि सुस्पर्शाकठिनापरुषाण्यङ्गानि यस्याः सा । “ यद्येवं नालोमिकामित्यादिप्रतिषेधोऽनर्थकोऽस्मादेव विधानात् या नैवंरूपा तस्या अविवाह्यता सिद्धा ” ।

पृष्ठ 349

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 349 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २७५ कन्याशब्दश्चात्र प्रकरणादननुभूतसम्भोगासु स्त्रीषु प्रवर्तते । तथा च वसिष्ठः “ अस्पृष्टमैथुनां सादृशीं भार्यां विन्देतेति " । न चान्येन संस्कृताऽन्येन पुनः संस्कर्तुं शक्या, कृतस्य करणाभावात् । अतश्चोढाया अप्रवृत्तभर्तृसंयोगायाः कथंचित्स्वैरिणीत्वे भर्तृप्रवासादिना नान्येन विवाहोऽस्ति सत्यपि कन्यात्वे । तथा चेदृशी वसिष्ठोत्तिमध्ये पठिता । अन्यत्राप्युक्तम् ( याज्ञ ० आ ० ५२ ) “ अनन्यपूर्वं यवीयसीं भ्रातृमतीं

स्त्रियमुद्वहेत ” । इति ॥ १० ॥

हिन्दी - जो किसी अङ्ग ( कान, नाक, आँख आदि ) से हीन न हो ( बहरी, नकटी, कानी, लूली - लँगड़ी आदि न हो ), सुन्दर नामवाली हो ( यथा - चन्द्रानना, दमयन्ती, शकुन्तला आदि ), हंस तथा हाथी के समान चलने वाली ( हंसगामिनी तथा गजगामिनी ) हो; सूक्ष्म रोम, बाल तथा पतले - पतले दाँतों वाली हो और सुकुमार शरीर वाली हो, ऐसी कन्या से विवाह करे ॥ १० ॥

भाई से रहित आदि कन्या विवाह के अयोग्य—

यस्यास्तु न भवेद्भ्राता न विज्ञायेत वै ( वा ) पिता ।

नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥ ११ ॥

भाष्य — यस्या भ्राता नास्ति तां न विवहेत् । पुत्रिकाधर्मशङ्कया, पुत्रिका-त्वशङ्कया । पुत्रिकाधर्मः कदाचिदस्याः कृतो भवेत्पित्रेत्यनया शङ्कया अनेन संदेहेन । “ कथं चेयं शङ्का भवति ” ॥ यदि न विज्ञायेत पिता, देशान्तरे प्रोषितो मृतो वा । सा च मात्रा पितृसपिण्डैर्वा दीयते । प्राप्तकाला पितर्यसन्निहित एतैरपि दातव्येति स्मर्यते । स्मृतिं चोत्तरत्र दर्शयिष्यामः । पितरि तु संविज्ञायमाने नास्ति पुत्रिकात्वशङ्का । स हि स्वयमेवाह ‘ कृता वा न कृता वेति ' । वाशब्दश्चेच्छब्दार्थे द्रष्टव्यः । यदि पिता न विज्ञायेत तदा कन्यका न वोढव्या । अन्ये तु स्वतन्त्रमेतत्प्रतिषेधद्वयमाचक्षते । यदि पिता न विज्ञायेत, अनेनेयं जातेति, गूढोत्पन्नायाः प्रतिषेधः । एवं च सम्बन्धः । यस्या भ्राता नास्ति तां पुत्रिकात्वशङ्कया नोपयच्छेत । न विज्ञायेत इत्यत्र पुत्रिकाशङ्कयेत्येतन्न सम्बध्यते । अस्मिन्प्रकरणे यत्र नास्ति दृष्टगतः प्रतिषेधः यथा ‘ असपिण्डा च ’ ” इत्यत्र

श्लोके, ततपतिक्रमे विवाहस्वरूपानिर्वृत्तिरेव । अतः सगोत्रादिविवाहः कृतोऽप्यकृत

एव । विध्यवगतरूपत्वादाधानवद्विवाहस्य विध्यतिक्रमरूपादपगमात् । यथाऽऽधान-विधौ यत्किञ्चिदङ्गं न ज्ञातं तदभावे नाहवनीयादिनिर्वृत्तिः, एवं सगोत्रादिकाया न भार्यात्वम् । तस्मात्त्याज्यैव कृततादृशसंस्कारप्रतिरूपिकाऽपि । तत्र भवन्तो वसिष्ठादयः

पृष्ठ 350

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 350 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२७६ मनुस्मृतिः [ तृतीयः प्रायश्चित्तमपि स्मरन्ति तादृशविवाहे । यद्यपि कर्मण एव तदङ्गप्रतिषेधातिक्रमे वैगुण्यं, न साक्षात्पुरुषस्य दोषः; तथापि वाचनिकं प्रायश्चितम् । अथवा सगोत्रागमनं निषिद्धम् । तदर्थे व्यापारे प्रवर्तमाने यदुक्तं तत्प्रायश्चित्तं भवेत् । यस्तु हीनक्रियादिप्रतिषेधस्तस्य दृष्टदर्शनमूलत्वान्निर्वर्तते विवाहः, भवत्यसौ भार्या, नास्ति तस्यास्त्यागः । एवमर्थ एव ' महान्त्यपीति ' पूर्वस्मात्प्रतिषेधाद्भेदः स्तवनार्थं

पठित:। एवमेव च शिष्टसमाचारः । कदाचित्कपिलादिरूपामुपयच्छति न सगोत्राम् ॥ ११ ॥

हिन्दी — जिस कन्या को भाई न हो और जिस कन्या को माता - पिता का ज्ञान न हो, उस कन्या के साथ ( क्रमशः ) पुत्रिका धर्म की शङ्का से विद्वान् पुरुष विवाह न करे ॥ ११ ॥

विमर्श -‘अपुत्रोऽनेन विधिना................ ( ९ ।१२७ ) ' इस मनूक्त वचन के या ‘ अभिसन्धिमात्रात्पुत्रिकेत्येके ' इस गौतमोक्त वचन के अनुसार केवल शर्त करने से भी ‘ पुत्रिका ’ होती है | जिसके पिता का ज्ञान नहीं हो, ऐसी कन्या से भी विवाह न करे ' इस अर्थ में भी कुछ विद्वान् ' पुत्रिका ' धर्म की शङ्का से उक्त कन्या से विवाह करने का निषेध मानते हैं । इस विषय में गोविन्दराज का मत है कि ' भिन्न - भिन्न पिता वाली कन्या का भाई हो सकने के कारण जिसका विशेष रूप से पिता का ज्ञान न हो, उस कन्या के साथ पुत्रिका की शङ्का से ही विवाह न करे ' । मेधातिथि का मत है कि ‘ जिस कन्या का भाई नहीं हो, ' पुत्रिका ' धर्म की आशङ्का से उस कन्या के साथ विवाह न करे ' । पिता का ज्ञान न हो या मर गया हो ( तो भी विवाह न करे ) । ' पिता के रहने पर उसी के कथन से ' पुत्रिका ' धर्म का ज्ञान होने से भाई से रहित कन्या के साथ भी विवाह करे ' । मन्वर्थमुक्तावलीकार का मत है कि ' वा ' शब्द के विकल्पार्थक होने से ‘ जिस कन्या के पिता का विशेषतः ज्ञान न हो जारज होने की आशङ्का से तथा अधर्म की आशङ्का से उस कन्या के साथ भी विवाह न करे ' । इस श्लोक का ' नेने ' शस्त्रिसम्मत सारांश यह है कि ' जिसका पिता न हो, उसके साथ विवाह न करे | कदाचित् पिता ने इस कन्या का ' पुत्रिका ' धर्म न कर दिया हो, इस आशङ्का से अर्थात् ' पुत्रिका ' धर्म की शङ्का से ऐसी कन्या के साथ भी विवाह न करे । पिता के विदेशस्थ रहने पर या मर जाने पर माता या सपिण्ड ( गोत्र के लोग ) ' पुत्रिका ' रूप में कन्या को देने की शर्त करते हैं । अतः पिता के ज्ञान हो जोने पर —‘यह कन्या पुत्रिका रूप में दी गयी है या नहीं यह आशङ्का ही नहीं होती, तथा यदि पिता न हो तब उस कन्या के साथ विवाह न करे ' ॥

सवर्णा स्त्री की श्रेष्ठता-सवर्णाऽग्रे द्विजातीनां प्रशस्ता दारकर्मणि ।

कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः ॥१२ ॥