मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 351–360
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 351–360
पृष्ठ 351
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २७७ भाष्य - - " उद्वहेत द्विजो भार्यामिति ” सत्यपि द्वितीयानिर्देशे भार्यायाः प्रधानत्वे गुणकर्मत्वे च विवाहस्य विवक्षितमेकत्वम्, अवनुवादगतोद्देश्यत्वात्, यथा यूपं छिनत्तीति । यस्यान्यतः स्वरूपमवगतं तस्यान्यत्र कार्यान्तरविधानार्थमनूद्यमानस्य यथा-वगतस्वरूपस्यैवानुवादो भवति, यथा ग्रहं संमाष्टति, पूर्वावगतिसापेक्षत्वादनुवादस्य । निर्ज्ञातसंख्याका हि ग्रहा— ' दश एतानध्वर्युः प्रातः सवने ग्रहान्गृह्णाति’इत्यादिवाक्यैः, कार्यं चावगतं ग्रहैर्जुहोतीति । अतोऽवगत्यन्तरापेक्षत्वाद्ग्रहशब्दस्य न विवक्ष्यते संख्या । इह तु भार्यालक्षणोऽर्थो नान्यतः सिद्धोऽस्मादेव वाक्यादवगन्तव्योऽतो यथाश्रुति प्रतीयते, प्रातिपदिकार्थवत्संख्याऽपि विवक्षितेति । पञ्चमे चैतद्विस्तरतस्तर्केण वक्ष्यते । स्थितायां संख्याविवक्षायां द्वितीयस्याः कृतेऽपि पाणिग्रहणे न भार्यात्वम् । यथा सत्यावहनीये न द्वितीय आहवनीयः । इष्यते च क्वचिन्निमित्ते भार्यान्तरपरि-ग्रहस्तदर्थमिदमारभ्यते । एतदेवाभिप्रेत्य गौतमीये पठितम् । “ धर्मप्रजासम्पन्ने दारे नान्यां कुर्वीत, अन्यतरापाये तु कुर्वीत ” इति । सवर्णा समानजातीया । सा तावद प्रथमतोऽकृतविजातीयदारपरिग्रहस्य प्रशस्ता । कृते सवर्णाविवाहे यदि तस्यां कथञ्चित्प्रीतिर्न भवति, अथवाऽपत्यार्थो व्यापारो न निष्पद्यते तदा कामहेतुकायां प्रवृत्ताविमा वक्ष्यमाणाः सवर्णावराः श्रेष्ठाः शास्त्रात्तु ज्ञातव्याः । अत एकत्वस्य सवर्णानियमस्य चायमपवादः । “ ननु च सवर्णाविवाहे पारतन्त्रयं प्रतीयते । न सवर्णायां बहुत्वम् । ” एकत्वसंख्यातिक्रमस्तावत्प्रतीयते । असवर्णाभ्यनुज्ञानेनाप्यतिक्रान्तं चेत्कः,
सवर्णाया निषेधकः । तथा गौतमेनाविशेषेणैव पठितम् ‘ “ अन्यतरापाये तु कुर्वीतेति ” ।
उत्तरश्लोके “ सा च स्वा चेति " सवर्णाविवाहोऽस्ति ॥ १२ ॥
हिन्दी — द्विजातियों के वास्ते प्रथम विवाह के लिए सवर्णा ( अपने वर्ण की— अन्तर्जातीय नहीं ) स्त्री श्रेष्ठ मानी जाती है । काम के वशीभूत होकर ( दूसरे विवाह के लिए ) प्रवृत्त पुरुषों की ये ( ३।१३ ) स्त्रियाँ क्रमशः श्रेष्ठ ( अनुलोम क्रम से ) मानी जाती हैं ॥१२ ॥
अन्य वर्णज स्त्रियों के साथ विवाह-शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते । तेच स्वा चैव राज्ञश्च ताश्च स्वा चाग्रजन्मनः ॥ १३ ॥
भाष्य - वर्णभेदे सति सवर्णानियमः । यथैव ब्राह्मणस्य क्षत्रियादिस्त्रियो भवन्ति एवं शूद्रस्य जातिन्यूना रजकतक्षकादिस्त्रियः प्राप्ताः । अतः सवर्णेयमुच्यते । मनु I- 22
पृष्ठ 352
पाठ पढ़ें पाठ छिपाएँ
२७८ मनुस्मृतिः उत्कृष्टजातीया तु पूर्वत्र क्रमग्रहणादप्राप्ता । [ तृतीयः सा च शूद्रा स्वा च वैश्या वैश्यस्य । ते च वैश्याशूद्रे स्वा च राजन्यस्य । एवमग्रजन्मनो ब्राह्मणस्य । ब्राह्मणक्रमेण निर्देशे कर्तव्ये शूद्रप्रक्रमेण निर्देशः पूर्वोक्तमेवार्थं उपोद्बलयति । यदुक्तं “ विकल्प आनुपूर्व्येण नावश्यं समुच्चयः ” ॥१३ ॥
हिन्दी – शूद्र पुरुष की शूद्रा ( शूद्रवर्णोत्पन्ना ) वैश्य पुरुष को वैश्य तथा शूद्र वर्णों में उत्पन्ना, क्षत्रिय पुरुष की वैश्य, शूद्र तथा क्षत्रिय वर्णों में उत्पन्ना और ब्राह्मण पुरुष की क्षत्रिय, वैश्य, शूद्र तथा ब्राह्मण वर्णों में उत्पन्ना स्त्री हो सकती है ॥ १३ ॥
हीन वर्णोत्पन्न स्त्री से विवाह निषेध-न ब्राह्मणक्षत्रिययोरापद्यपि हि तिष्ठतोः ।
कस्मिंश्चिदपि वृत्तान्ते शूद्रा भार्योपदिश्यते ॥ १४ ॥
भाष्य — यद्यप्यत्यन्तरूपवती शूद्रा, विप्रराजन्यौ च वीरप्रकृती दशमीमपि दशामनुवीयातां तथापि शूद्रां नाधिवोढारौ । अत्रार्थवादः । कस्मिंश्चिदपि वृत्तान्ते न क्वचिदितिहासोपाख्यानेऽण्युपदिश्यते वर्ण्यते । आपदि गरीयस्यामधिकायामापदि । पूर्वत्रानुज्ञाताऽनेन प्रतिषिद्धा अतो विकल्पः । “ ननु च शास्त्रलक्षणयोरेकविषयसन्निपाते षोडशिग्रहणाग्रहणवद्विकल्पो युक्तो न तु रागलक्षणायाः प्रवृत्तेर्निषेधेन । ” न च शूद्रा शास्त्रलक्षणा । केवलं रागतस्तत्र प्रवृत्तिरप्रतिषिद्धेति पूर्वशास्त्रस्यार्थः । निषेधस्तु शास्त्रलक्षण इत्यविवाह्यैव शूद्रा । एतदेवाभिप्रेत्य याज्ञवल्क्येन पठितम् ( आचारे ५६ ) “ यदुच्यते द्विजातीनां शूद्रादारो-पसंग्रहः न तन्मन मतमिति ” ॥ अत्रोच्यते । सर्वत्रोपदेशानर्थकतयैव विकल्प आश्रीयते । यदि चात्यन्तमेव शूद्राप्रतिषेधः स्यात्तदा क्षत्रियवैश्ये एव प्रतिप्रसूयेयाताम् आपद्यभ्यनुज्ञाने । प्रतिप्रसव-शास्त्रम् ( श्लोक १३ ) अयं च प्रतिषेधः – द्वयमपि व्यर्थं स्यात्सवर्णाया नियमेन सिद्धत्वात् । तदिदमनुज्ञातं प्रतिषेधश्च स्वं स्वंविरुध्यमाने विकल्प्येते । " ननु च विकल्पे कामचारः । तस्य च प्रतिप्रसवत एव सिद्धेः प्रतिषेधो वक्तव्यो नैव ” । न यथाकामतः क्षत्रियावैश्ययोर्विवाह इव शूद्रायाः, अन्यत्रापदो गरीयस्याः । इदं तु प्रतिपत्तुं युक्तं यत्सवर्णानियमेनासवर्णानिवृत्तेरर्थतः कृतायाः पुनः शूद्रा-निवृत्तिरसवर्णानिवृत्तेरनित्यत्वं ज्ञापयति । अनित्यत्वे चापदि सवर्णाया अलाभे वा
पृष्ठ 353
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता भवति चायमवगमः ‘ शूद्रा न वोढव्या इतरे तु वोढव्ये ' ॥१४ ॥
२७ ९ हिन्दी — किन्तु — ३।१२- १३ के द्वारा विहित होने पर सवर्णा स्त्री के नहीं मिलने से आपत्ति में पड़े हुए भी ब्राह्मण और क्षत्रिय के लिये किसी इतिहास — आख्यानादि में शूद्रा भार्या का विधान नहीं है ॥१४ ॥
विमर्श - पहले ( ३।१२-१३ ) सवर्णानुक्रम से विवाह का विधान कर यह निषेध प्रतिलोमक्रम से विवाह विषयक समझना चाहिये । इतना ही नहीं - इस श्लोक का निषेधक वचन ब्राह्मण - क्षत्रिय के लिये उनके दोषाधिक्य प्रदर्शनार्थ है, आगे ( ३।१५ ) में ‘ द्विजातीयः ’ बहुवचन निर्देश से द्विजातिमात्र ब्राह्मण - क्षत्रिय के अतिरिक्त वैश्य के लिए भी निषेध समझना चाहिये । १४ ॥ हीन वर्णोत्पन्ना के साथ विवाह से कुल की शूद्रता-हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः । कुलान्येव नयन्त्याशु ससन्तानानि शूद्रताम् ॥१५ ॥
भाष्य- पूर्वस्य प्रतिषेधस्य शेषोयं निन्दार्थवादः । हीनजातिः शूद्रैव, तस्या एव प्रकृतत्वात्, ससन्तानानि शूद्रतामिति निगमनात् । त एते द्विजातयः मोहाद्धनलोभजादविवेकात्कामनिमित्तत्वाद्वा कुलानि शूद्रतां गमयन्ति । तस्यां जाताः पुत्राः शूद्रा भवन्त्येवं तत्पुत्रपौत्रा इति । अत उच्यते ससन्तानानीति । सन्तोनोऽपत्योत्पत्तिप्रबन्धः पुत्रपौत्रादिः ॥१५ ॥
हिन्दी— ( सवर्णा के साथ विवाह कर ) शूद्रा के साथ विवाह करने वाले द्विजाति ( ब्राह्मण, क्षत्रिय तथा वैश्य ) सन्तान सहित ( उसमें उत्पन्न पुत्र - पौत्रादि सहित ) कुलों को शूद्रत्व प्राप्त करा देते हैं ( शूद्र बना डालते हैं ) । अतः द्विज मात्र को हीनवर्णोत्पन्ना स्त्री के साथ विवाह कदापि भी नहीं करना चाहिये ॥ १५ ॥
शूद्रावेदी शूद्रा के साथ विवाह करने में मतान्तर— पतत्यत्रेरुतथ्यतनयस्य
च ।
शौनकस्य सुतोत्पत्त्या, तदपत्यतया भृगोः ॥ १६ ॥
भाष्य-- शूद्रां विन्दति परिणयति शूद्रावेदी स पतति पतित इव । अत्रिरु-तथ्यस्य तनयः पुत्रस्तयोरेतन्मतमित्युपस्करः । अयं तावदर्धश्लोकः पूर्वप्रतिषेधशेषः । शौनकस्य सुतोत्पत्त्या । शास्त्रान्तरमिदम् । अभ्यनुज्ञाय शूद्रायामृतावुपगमनं निषेधति सुतोत्पत्तिर्हि ऋतौ युग्मासु रात्रिषु भवति । ऋतो शूद्रां न गच्छेदित्यर्थः ।
पृष्ठ 354
पाठ पढ़ें पाठ छिपाएँ
२८० मनुस्मृतिः [ तृतीयः तदपत्यतया भृगोः । इदमपि स्मृत्यन्तरम् । तान्येव शूद्रोत्पन्नान्यपत्यानि यस्य स तदपत्य:, तद्भावस्तदपत्यता । भृगोरेतन्मतम् । ऋतावप्युपपन्नतरासु जातापत्य उपेयात् ।
पतितत्ववचनं चात्र निन्दैव न त्वस्य पतितधर्मता - ' पतितस्योदकमित्यादि ' ।
एतच्च वक्ष्यामः ॥१६ ॥
हिन्दी — अत्रि तथा उतथ्यपुत्र ( गौतम ) ऋषि का मत है कि शूद्रा के साथ विवाह करने वाला ( ब्राह्मण ) पतित हो जाता है, शौनक ऋषि का मत है कि शूद्रा में सन्तान उत्पन्न करने से ( क्षत्रिय ' ) पतित हो जाता है और भृगु ऋषि का मत है कि शूद्रा में सन्तान उत्पन्न करने से ( वैश्य ) पतित हो जाता है ॥ १६ ॥
विमर्श — मेधातिथि तथा गोविन्दराज के मत में ऋतुकाल में गमन करने से, सन्तानोत्पत्ति होने से तथा सन्तानोत्पादन होने पर ही उक्त मनुवचन द्वारा पतितभाव का विधान होने से शूद्रा के साथ ऋतुकाल में द्विज को सम्भोग नहीं करना चाहिये । विशेष स्पष्टीकरण के लिए म ० मु ० देखनी चाहिये । ब्राह्मण के लिये शूद्रा के साथ सम्भोग का निषेध—
शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् ।
जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते ॥ १७ ॥
भाष्य — अर्थवादोऽयम् । यदि पुत्रमुत्पादयति तस्यां ततो ब्राह्मण्यादेव हीयते अपत्यस्याब्राह्मणत्वमिति निन्दैव । सुतमिति च पुल्लिङ्गनिर्देशात्सुतोत्पत्तेरित्यत्र समानसंहितत्वेऽपि पुत्रोत्पत्तिरे-वाभिप्रेता । तथा च दर्शितं " युग्मा रात्रयो वर्ज्याः ” इति ॥१७ ॥
हिन्दी - ब्राह्मण पुरुष शूद्रा ( शूद्रवर्णोत्पन्न स्त्री ) को शय्या पर बिठाकर ( उसके साथ सम्भोकर ) नरक को जाता है और उसमें सन्तानोत्पादन करके तो ब्राह्मणत्व से ही भ्रष्ट हो जाता है ॥१७ ॥
शूद्रा पत्नी द्वारा यज्ञादि की निष्फलता-दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु । नाश्नन्ति पितृदेवास्तन्न च स्वर्गं स गच्छति ॥ १८ ॥
भाष्य - सार्वकालिकोऽयं निषेधः । १. ‘ शूद्रायां सुतोत्पत्त्या पतति ' इति शौनकस्य मतमेतत्क्षत्रियविषयम् इति ( म ० मु ० ) । २. ‘ शूद्रासुतोत्पत्त्या पतति ' इति भृगोर्मतम् ' एतद्वैश्यविषयम्, इति ( म ० मु ० ) ।
पृष्ठ 355
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २८१ यदि कथञ्चिच्छूद्राऽपि व्युह्यते तदैतानि कर्माणि तत्प्रधानानि न कर्तव्यानि । न च तया सह त्रैवर्णिकस्त्रीवद्धर्मेऽधिकारोऽस्तीत्यर्थः । भार्यात्वादधिकारे प्राप्ते निषेधोऽयम् । अतः स्वधर्मे धनं विनियुञ्जानस्य न तदीयानुज्ञोपयुज्यते, यथा द्विजातिस्त्रीणाम् । अन्यत्र त्वर्थकामयोः साऽप्यनतिचरणीयैव । प्रेष्यावत्तत्कर्मोपयोगो न निषिध्यते, श्राद्धादाववहननादिकार्ये तत्र न दोषः स्यात् । परिवेषणादि न कारयितव्या । तत्र दैवं कर्म दर्शपूर्णमासादि, देवतोद्देशेन च ब्राह्मणभोजनं, व्रतवदित्यत्र यथा व्याख्यातम् । पित्र्यं श्राद्धोदकतर्पणादि । आतिथेयमतिथेराराधनं भोजनपाद्यादि । " ननु च सजात्या स्थितयाऽन्ययेत्यस्त्येव प्रतिषेध ” । नैव । स्थितयेति तत्र श्रूयते । ऋतुमत्यां सवर्णायां कथञ्चिद्वाऽसन्निहितायां प्राप्नोति क्षत्रियावैश्यावत् । अपि च नासावधिकारे प्रतिषेधः, किं तर्हि आज्यावेक्ष-णादौ । पत्न्यावेक्षितमाज्यं भवतीत्यङ्गत्वेनोपादीयते । पत्नीत्यत्र क्रत्वर्थेषु यया कयाचिदु-पात्तया सिद्धिरनियमेन प्राप्ता । यथा बह्वीषु सवर्णासु यया कयाचित्सवर्णया क्रियते एवमसवर्णायाऽपि मा कारीत्येवमर्थोऽसौ प्रतिषेधः । प्राधान्यमधिकारित्वात् । नाश्नन्ति पितृदेवास्तमिति कर्मनैष्फल्यमाह ।
न च स्वर्गं स गच्छति । यद्यप्यतिथिरश्नाति तत्फलं स्वर्गादि न भवतीति ।
स्वर्गग्रहणमतिथिपूजाफलोपलक्षणार्थम्, अनुवादश्च ' धन्यं यशस्यमित्यादि ' ॥ १८ ॥
हिन्दी — जिस ( द्विज ) के यहाँ देवकार्य ( अग्निहोत्र, यज्ञादि ), पितृकार्य ( श्राद्ध ) और अतिथि - भोजनादि शूद्रा स्त्री के द्वारा सम्पादित होते हैं; उसके हव्य तथा कव्य को ( क्रमश:) देवता तथा पितर नहीं भोजन करते हैं और उस अतिथिभोजन से उत्पन्न स्वर्गादि को भी वह नहीं प्राप्त करता है ॥ १८ । विमर्श — आगे ( ९ ।४७ ) सवर्णा पत्नी के सन्निहित रहते शूद्रा पत्नी के द्वारा यज्ञादि का निषेध है और इस श्लोक में सवर्णा पत्नी के सन्निहित नहीं रहने पर भी उसके द्वारा यज्ञादि का निषेध है । अतः दोनों वचनों को भिन्न - भिन्न अवस्था में प्रयुक्त होने से पुनरुक्ति की शङ्का नहीं करनी चाहिये ।
शूद्रा पति की शुद्धि का भी अभाव -वृषलीफेनपीतस्य निःश्वासोपहतस्य च ।
तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते ॥ १ ९ ॥
भाष्य- -अर्थवादोऽयम् । वृषल्याः फेनो वृषलीफेनो वक्त्रासवः, स पीतो येन । पलाण्डुभक्षितादिवत्पर-
पृष्ठ 356
पाठ पढ़ें पाठ छिपाएँ
२८२ मनुस्मृतिः [ तृतीयः निपातः । पाठान्तरम् — वृषलीपीतफेनस्य ' । पीतः फेनो यस्येति विग्रहः वृषल्या पीत-फेनः । ‘ तृतीयेति ’ ( पा ० सू ० २।१।३० ) योगविभागात्समासः । पीतः फेनो वाऽनेनेति विग्रहे वृषल्या इति षष्ठीसमासः ( पा ० सू ० २।२।८ ) । अर्थस्तु सर्ववृत्तिष्वेक एव । सम्प्रयुज्यमानयोरधपरिचुम्बनाद्यवश्यंभावि तेन च सहचारिणा धर्मेण मैथुनसम्बन्धों लक्ष्यते । प्रकरणाच्च विवाहप्रतिषेधशेषोऽयं न पृथग्वाक्यम् । तत्त्वे हि चुम्बनादिवर्जं संयोग-धर्मो बहुमतः स्यात् । तस्माद्गच्छञ्छूद्रां चुम्बनादिपरिवर्जनेन न किञ्चिच्छास्त्रार्थमनुलङ्घते ।
तस्यां चैव प्रसूतस्य ऋतौ तु गच्छत इत्यर्थः ।
निष्कृतिः शुद्धिर्नास्ति इति निन्दातिशयोऽयम् ॥१९ ॥
हिन्दी - शूद्रा का अधरपान करने वाले तथा उसके श्वास से दूषित ब्राह्मण की और उसमें उत्पन्न सन्तान की शुद्धि नहीं होती है ॥१ ९ ॥
विवाह के आठ भेद-चतुर्णामपि वर्णानां प्रेत्य चेह हिताहितान् ।
अष्टाविमान्समासेन स्त्रीविवाहान्निबोधत ॥ २० ॥
भाष्य — वक्ष्यमाणस्य सङ्क्षेपोपन्यासः । हिताश्चाहिताश्च । केचिद्धिताः केचिन्न । अष्टाविति संख्यानिर्देशः । समासः सङ्क्षेप: । स्त्रीसंस्कारार्था विवाहाः स्त्रीविवाहाः । " कः पुनरयं विवाहो नाम " । उपायतः प्राप्तायाः कन्याया दारकरणार्थ: संस्कारः सेतिकर्तव्यताङ्गः सप्तर्षि-दर्शनपर्यन्तो पाणिग्रहणलक्षणः ॥२० ॥
हिन्दी— ( भृगु मुनि महर्षियों से कहते हैं कि ) मरने पर तथा इस लोक में चारों वर्णों का हिताहित ( भला - बुरा ) करने वाले स्त्रियों के आठ प्रकार के विवाहों को सङ्क्षेप से ( तुम- लोग ) सुनो ॥२० ॥
पूर्वोक्त अष्टविध विवाहों के नाम-ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथाऽऽसुरः ।
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः ॥ २१ ॥
भाष्य – संख्ययाऽष्टावित्युद्दिष्टानां नामधेयानीमानि ।
अधमग्रहणं पैशाचस्य निन्दार्थम् ॥२१ ॥
पृष्ठ 357
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २८३ हिन्दी— ब्राह्म, दैव, आर्ष, प्राजापत्य, आसुर, गान्धर्व, राक्षस और आठवाँ बहुत तुच्छ पैशाच; ( ये आठ प्रकार के स्त्री - विवाह ) हैं ॥ २१ ॥
यो यस्य धर्म्या वर्णस्य गुणदोषौ च यस्य यौ ।
तद्वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान् ॥ २२ ॥
भाष्य — धर्मादनपेतो धर्म्यः शास्त्रविहित इत्यर्थः । -यस्य च विवाहस्य यौ गुणदोषौ इष्टानिष्टफलहेतुत्वाद् गुणदोषौ । प्रसवेऽपत्यजन्मनि । गुणा गुणाः अगुणा दोषा: । वोढुरेव स्वर्गनरकादिलक्षणौ गुणदोषौ, तत्प्रयोजनमर्थात्स्वर्गादिकम् या ईदृशा एव भवन्ति । गतार्थमपि भूयः प्रतिपत्तये कथयन्ति ॥२२ ॥
हिन्दी - ( भृगु मुनि पुन: महर्षियों से कहते हैं ) — जिस वर्ण का विवाह धर्मयुक्त है, जिस विवाह के जो गुण दोष हैं और उक्त विवाह से सन्तान उत्पन्न होने पर जो गुण - दोष हैं; उन सबको तुम लोगों से कहूँगा ॥ २२ ॥
उक्त विवाहों में से वर्णानुसार विधान-षडानुपूर्व्या विप्रस्य क्षत्रस्य चतुरोऽवरान् । विट्शूद्रयोस्तु तानेव विद्याद्वर्म्यान्न राक्षसान् ॥२३ ॥
भाष्य — षड्विवाहा ब्राह्मणस्यानुपूर्व्याः । आनुपूर्वी क्रमः, नामोद्देशः क्रमेण । क्षत्रस्य | क्षत्रियवचनः क्षत्रशब्दः । तस्य चतुरोऽवरानुपरितनानासुरगान्धर्व-राक्षसपैशाचान्विात् । वैश्यशूद्रयोस्तानेवाराक्षसान्राक्षसं वर्जयित्वा ॥२३ ॥
हिन्दी - ब्राह्मण के लिये प्रथम ६ प्रकार के विवाह ( ब्राह्म, दैव, आर्ष, प्राजापत्य, आसुर और गान्धर्व ), क्षत्रिय के लिए अन्त वाले ४ प्रकार के विवाह ( आसुर, गान्धर्व, पैशाच और राक्षस ); और वैश्य तथा शूद्र के लिये ' राक्षस ' रहित ३ प्रकार के विवाह ( आसुर, गान्धर्व और पैशाच ) का विधान है ॥२३ ॥
प्रतिवर्ण के लिए धर्मयुत विवाह-चतुरो ब्राह्मणस्याद्यान्प्रशस्तान्कवयो विदुः ।
राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः ॥ २४ ॥
भाष्य — आसुरगान्धर्वयोरयं निषेधो ब्राह्मणस्य पुनर्ब्राह्मादिविधानेन । एवं क्षत्रियस्य राक्षस एवैको न गान्धर्वासुरौ । आसुर एव वैश्यशूद्रयोः । विहितप्रतिषिद्धानां विकल्पः । ततश्च नित्यवद्विहिताभावे विकल्पितेषु प्रवृत्तिः । यस्य च यो विहितः स तद्विवाहाभावमनपेक्ष्य प्रथमत एव यदि विहितप्रतिषिद्धेषु प्रवर्तेत,
पृष्ठ 358
पाठ पढ़ें पाठ छिपाएँ
२८४ मनुस्मृतिः [ तृतीयः तत्र पुरुषो दुष्येदपत्यं चानभिप्रेतमुत्पद्येतेति शास्त्रकारेण दर्शितं ‘ प्रसवे च गुणागुणान् ’ इत्यादिना । न तु सपिण्डादिपरिणयवत् विवाहस्वरूपानिर्वृत्तिः ॥२४ ॥
हिन्दी — ब्राह्मण के लिए प्रथम ४ चार विवाह ( ब्राह्म, दैव, आर्ष और प्राजापत्य ) क्षत्रिय के लिए एक ‘ राक्षस ' विवाह और वैश्य तथा शूद्र के लिए एक ' आसुर ’ विवाह को विद्वानों ने प्रशस्त बतलाया है ॥ २४ ॥
विमर्श — पूर्व श्लोक में विहित भी ' आसुर तथा गान्धर्व ' विवाहों को ब्राह्मणों के लिए; ‘ आसुर, गान्धर्व तथा पैशाच ' विवाहों को क्षत्रियों के लिए और ' गान्धर्व तथा पैशाच ' विवाहों को वैश्यों तथा शूद्रों के लिए इस वचन में नहीं कहने से ब्राह्मणादि वर्णों के लिए इस श्लोक में नहीं कहे गये तथा पूर्व श्लोक ( ३।२३ ) में कहे गये उन विवाहों को निकृष्ट माना गया है; इस कारण प्रशस्त ( इस श्लोकोक्त विवाह के अभाव में ब्राह्मणादि को अप्रशस्त ( इस ३ । २३ श्लोकोक्त ) विवाह को भी करना चाहिये । इसी प्रकार आगे भी निकृष्ट विवाह का त्याग समझना चाहिये । पैशाच तथा आसुर विवाह की निन्दा—
पञ्चानां तु त्रयो धर्म्या द्वावधर्म्य स्मृताविह ।
पैशाचश्चासुरश्चैव न कर्तव्यौ कदाचन ॥ २५ ॥
भाष्य -१ — क्षत्रियादिविषयेयं स्मृतिर्न ब्राह्मणविषया, राक्षसे विरोधात् । न हि वधभेदने ब्राह्मणः कर्तुमर्हति । अस्याचरणस्य क्षत्रियादिविषयतयोपपत्तेः । पञ्चानां तु विवाहानां प्राजापत्यात्प्रभृति त्रयोविवाहा धर्म्याः । द्वौ न कर्तव्यौ पैशाचश्चासुरश्च । प्राजापत्यः क्षत्रियादीनामप्राप्तौऽपि विधीयते । राक्षसोऽपि वैश्यशूद्रयोः । आसुर-पैशाचयोः प्रतिषेधः । इयमत्र व्यवस्था । ब्राह्मणस्य षड्विवाहाः । तत्र ब्राह्मः सर्वतः श्रेष्ठस्ततो न्यूनौ देवप्राजापत्यौ ताभ्यामप्यार्षस्ततोऽपि गान्धर्वस्ततोऽप्यासुरः । येषामयं श्लोको ब्राह्मणविषयोऽपि तेषां राक्षसोऽपि ब्राह्मणस्य क्षत्रियवृत्तावव-स्थितस्य भवति । विकर्मस्थस्यापि वधभेदनाभ्यां प्रायश्चित्तीयतो न तु राक्षसो न विवाह इति ते मन्यन्ते । तत्र ब्राह्मणस्य श्रैष्ठ्यं फलेनैव दर्शितम् । निषेधाभावेन चेतरेषां त्रयाणां न्यूनता फलापचयवचनादेव । आसुरस्य पुनर्वैश्यशूद्रयोर्विधानेन परिसंख्या ब्राह्मणक्षत्रिययोः प्रतीयते । षडिति च विधानम् । अतो विकल्पः । स च व्यवस्थया । इतरासम्भवेन तस्याश्रयणं तुल्यम् । विकल्पो हि व्रीहियववदनेकविवाहविधानेन च समुच्चयासम्भवादेव
पृष्ठ 359
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता सिद्धः । सति वा सम्भवे क्रियेत चेत्तथापि धर्मापत्ययोर्न्यूनफलोऽसौ । २८५ अथ क्षत्रियस्य राक्षसौ मुख्यश्चतुर्भिः श्लोकैरविकल्पेन विधानात् । चतुर इत्यनेना-सुरगान्धर्वपैशाचा अपि, राक्षसं क्षत्रियस्यैकमित्यनेन ते प्रतिषिद्धाः । अतो विकल्पिताः, न मुख्याः । प्रकृतापेक्षत्वाच्च राक्षसैकविधिः । प्राजापत्ये परिसंख्यानम् । अतः प्राजा-पत्योऽपि क्षत्रियस्य राक्षसतुल्यः । एवं वैश्यशूद्रयोरपि प्राजापत्यो नित्यवदाम्नातो न प्रतिषिद्धः । आसुरपैशाचौ तु तयोर्विहितप्रतिषिद्धौ । राक्षसोऽप्यराक्षसानित्यनेन प्रतिषिद्धः ' त्रयो धर्म्या ' इत्यनेन विहितः । ब्राह्मणस्य पैशाचो नैवास्ति, क्षत्रियादीनां ब्राह्मदैवार्षा इति स्थितम् ॥२५ ॥
हिन्दी— अन्त वाले ५ प्रकार के विवाहों ( प्राजापत्य, आसुर, गान्धर्व, राक्षस और पैशाच ) में से ३ प्रकार के विवाह ( प्राजापत्य, गान्धर्व और राक्षस ) धर्मयुक्त हैं । दो ( आसुर और पैशाच ) अधर्मयुक्त हैं, अतः आसुर और पैशाच विवाहों को भी नहीं करना चाहिये ॥२५ ॥
विमर्श — इस श्लोक का अर्थ मन्वर्थमुक्तावली में इस प्रकार है — ‘ यहाँ पर पैशाच विवाह के प्रतिषेध ' होने से उपर्युक्त पाँच प्राजापत्यादि विवाहों का ग्रहण है, उनमें से प्राजापत्य गान्धर्व और राक्षस विवाह धर्मयुक्त हैं । इनमें प्राजापत्य विवाह क्षत्रिय के लिए अप्राप्त था, उसका विधान किया है, ब्राह्मण के लिये ( प्राजापत्य विवाह ) पहले से विहित था । अतः उसी का अनुवाद किया गया है । गान्धर्व विवाह चारों ( वर्णों ) के लिये विहित होने से उसका भी अनुवाद है । राक्षस विवाह भी वैश्य तथा शूद्र के लिये विहित है । क्षत्रिय की जीविका करने वाले भी ब्राह्मण को आसुर तथा पैशाच विवाह नहीं करना चाहिए । ' कदाचन ' अर्थात् कभी भी इस सामान्य वचन से चारों वर्णों के लिये ( आसुर तथा पैशाच विवाह का ) निषेध है । यहाँ पर जिस वर्ण के लिये जिस विवाह की विधि तथा निषेध है, उसके लिये उस विवाह का विकल्प, विहित विवाह के असम्भव होने पर जानना चाहिये ' । अनेक अनुवादकों ने इन तीनों श्लोकों ( ३।२३-२५ ) के अर्थ मन्वर्थमुक्तावली के विरुद्ध मनमाना किये हैं, जो अप्रामाणिक एवं निराधार होने से उपेक्षणीय है । क्षत्रिय के लिये पृथक् पृथक् या मिश्र विवाह—
पृथक्पृथग्वा मिश्रौ वा विवाहौ पूर्वचोदितौ ।
गान्धर्वो राक्षसश्चैव धर्यौ क्षत्रस्य तौ स्मृतौ ॥ २६ ॥
-भाष्य – पृथक्पृथगित्यनुवादः पूर्वेणैव सिद्धत्वात् । मिश्राविति विधीयते, निरपेक्षाणामितरेषां गान्धर्वराक्षसयोर्विहितत्वात् । व्रीहियववदप्राप्ते मिश्रणवचनमिदम् । व्रीहिभिर्यजेत यवैर्वेत्येकयागप्रयोगविषयत्वेनेतरेतरानपेक्षद्रव्यविधानाद्विकल्पो, न मिश्री-
पृष्ठ 360
पाठ पढ़ें पाठ छिपाएँ
२८६ मनुस्मृतिः [ तृतीयः भाव: । मिश्रोभावे हि न व्रीहिशास्त्रार्थोऽनुष्ठितः स्यान्न च यवशास्त्रार्थः । एवमिहैकस्यां कन्यायां स्वीकर्तव्यायां युगपदुपायद्वयमप्राप्तं विधीयते । तस्य विषयः - यदा पितृगेहे कन्या तत्रस्थेन कुमारेण कथञ्चिद्दृष्टिगोचरापन्नेन दूतीसंस्तुतेन तद्रताऽपि तथैव, परवती न च संयोगं लभते, तदा वरेण संविदं कृत्वा ‘ नय मामितो येन केनचिदुपायेने त्यात्मानं नाययति, स च शक्त्यतिशयाद्धत्वा छित्त्वा चेत्येवं हरति, तदा ‘ इच्छयाऽन्योन्यसंयोग ' इत्येतदप्यस्ति गान्धर्वरूपं, ' हत्वा छित्त्वेति ' च राक्षसरूपम् । तावेतौ विवाहौ क्षत्रियस्यैव भवतः । धय क्षत्रियस्य तौ पूर्वचोदितावित्यनुवादः । अन्ये त्वाहुः– यः क्षत्रियो बहुविवाहान्कुरुते स काञ्चिद्गान्धर्वेण विवाहेन परिणयते काञ्चिद्राक्षसेनेत्येष मिश्रपक्षः । अथवा सर्वा एवान्यतरेणेति पृथक्पृथक् । अनेन चैतञ्ज्ञायते । क्षत्रियस्यानयोरेवानियमेन प्रवृत्तिः, प्राजापत्यादीनां तु य एव प्रथमं कृतस्तेनैवान्याऽपि विवाह्या ॥२६ ॥
इदानीं स्वरूपमेतेषामाह । हिन्दी – अथवा पूर्वोक्त दोनों पैशाच तथा राक्षस विवाह अलग - अलग या ' मिश्र ' ( मिले हुए ) क्षत्रिय के लिये धर्मयुक्त कहे गये हैं ॥ २६ ॥
विमर्श - जब स्त्री - पुरुष के परस्पर अनुराग पूर्वक संवाद से विवाह करने वाला पुरुष युद्धादि के द्वारा विरुद्ध पक्ष को जीतकर उस कन्या के साथ विवाह करता है, तब उन गान्धर्व तथा राक्षस विवाहों को ' मिश्र ' कहते हैं । 1
' ब्राह्म ' विवाह का लक्षण-आच्छाद्य चार्चयित्वा च श्रुतशीलवते स्वयम् ।
आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः ॥ २७ ॥
भाष्य — आच्छाद्येति । आच्छादनविशेषोऽभिप्रेतः, अन्यस्यौचित्येनैव प्राप्तत्वात् । उत्कृष्टेनाच्छादनेन यथादेशं यथासम्भवं यथायोग्येन वाससा परिधाप्य । अर्चयित्वा । अनेनालङ्करणकटककर्णिकादिना प्रीतिविशेषसत्कारविशेषैरर्चनं कृत्वा । एतेनाच्छादनार्हणेन कन्याया वरस्य चान्यतरसम्बन्धे प्रमाणाभावादुभयोपयोगः कार्यः । श्रुतशीलवते । अन्येपि स्मृत्यन्तरोक्ता वरगुणा द्रष्टव्याः “ युवा धीमाञ्जनप्रियः | यत्नात्परीक्षितः पुंस्त्व ” इति । स्वयं प्रागयाचितः । स्वपुरुषप्रेषठौराहूयान्तिकदेशमानाय्य वरम् । यद्दानं स ब्राह्मो धर्मो विवाहः | अविशेषवचनोऽपि धर्मशब्दः पूर्वापेक्षितत्वात् तत्पर एव