मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 361–370

मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 361–370

पृष्ठ 361

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 361 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता द्रष्टव्य: । ‘ अयाचितलाभोऽभ्यर्हणापूर्वको ब्राह्मो विवाह ' इति लक्षणार्थः । “ ननु चेदमयुक्तं स्त्रीस्वींकारार्थो विवाह इति ” । २८७ यावद्विवाहपर्यन्तं चैतद्दानम् । नाकृते विवाहे दानार्थनिर्वृत्तिः । स हि तस्याः प्रतिग्रहकालः । न चासति प्रतिग्रहे दानं परिसमाप्यते । न स्वत्वनिवृत्तिमात्रं दानम् । पर स्वत्वापत्तिपर्यन्तं हि तत् । तथा च वक्ष्यति " तेषां तु निष्ठा विज्ञेया विद्वद्भिः सप्तमेपदे ” इति । एवं विवाहकाल एव कन्या दातव्या । तथा च गृह्यंकारस्तस्मिन्नेव काले ब्राह्मविवाहे काण्डिकधर्मं दर्शयति । यत्तु प्राग्विवाहाद्दानं तदुपसंवादनवचन-मात्रम् । न हि तस्मिन्नक्रियमाणेऽभिप्रेतकालेऽवश्यं विवाहनिर्वृत्तिः । कश्चित्प्रागनिरूपिते न दद्यादपि, इतरो वा कदाचिन्न प्रतिगृह्णीयात् । तस्मात्प्राग्विवाहादुपसंवादः कर्तव्य: तदा त्वयेयं देया मया चेयं वोढव्येति । यथैवान्तःक्रतुः सोपक्रियोऽचोदिततत्सिद्धार्थो-ऽर्थाद्वहिष्क्रियते (? ) । ये तु मन्यन्ते— “ यथैव गवादेर्द्रव्यस्यादृष्टार्थतया दीयमानस्य मन्त्रपूर्वकेण प्रतिग्रहेण दानमपि निर्वर्तते - तेनैवेदमुक्तं ददातिषु धर्मेष्विति — एवं चेह प्रतिग्रह-मन्त्रस्थानीयो विवाह इति । तथा च उपयमनं विवाह इत्येकोऽर्थः । उपयमनं च स्वकरणम् । एवं ह स्म भगवान्पाणिनिः स्मरति ( पा ० सू ० १।३।५६ ) “ उपाद्यमः स्वकरण ” इति । अतो विवाहः कन्यास्वीकारार्थः ” । तदयुक्तम् । स्वीकृताया विवाहो भार्याकरणार्थः । नानेन कर्मणा प्रतिगृह्णीयादिति विधिरस्ति । न च वैवाहिका मन्त्रा प्रतिग्रहप्रकाशकाः, यथा “ देवस्य त्वा प्रगृह्णामीति ” । यत्तु स्वकरण इति तन्न विरुद्धम् । विवाहस्याप्यस्ति स्वकरणरूपता । दानेन स्वत्वमात्रे प्रतिपन्ने विवाहेन विशिष्टं स्वत्वं क्रियते । नेयं गवादिद्रव्यवत् ' स्वं ’ यथेष्टविनियोज्यतया, अपि तु जायात्वेन । विशिष्ट एव हि स्वस्वामिभावो जायापतिलक्षणसम्बन्धः । तथा च दर्शयिष्यति । “ मङ्गलार्थं ” स्वस्त्ययनं विवाहेषु प्रदानं स्वाम्यकारणमिति ( ५।१५२ ) ॥२७ ॥

हिन्दी— ( अब पूर्वोक्त ३।२१ ) आठ प्रकार के विवाहों के क्रम से लक्षण कहते हैं ) वेद पढ़े हुए सदाचारी वर को स्वयं बुलाकर, उसकी पूजा कर और वस्त्रभूषणादि से दोनों ( कन्या - वर ) को अलंकृत कर कन्यादान करना धर्मयुक्त ' ब्राह्म ' विवाह है || २७ ||

' दैव ' विवाह का लक्षण-यज्ञे तु वितते सम्यगृत्विजे कर्म कुर्वते ।

अलङ्कृत्य सुतादानं दैवं धर्मं प्रचक्षते ॥ २८ ॥

पृष्ठ 362

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 362 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२८८ मनुस्मृतिः [ तृतीयः भाष्य - वितते प्रारब्धतन्त्रे ज्योतिष्टोमादौ यज्ञे तत्कर्मकारिणे ऋत्विजेऽध्वर्यवे सुताया दुहितुर्दानम् । अलङ्कृत्येत्यनुवादः । कन्यादानस्य सर्वस्यैवंरूपत्वात् । “ आच्छाद्यालङ्कृतां विवाहयेदिति ” सामान्योऽयं विधिः । “ ननु गौश्चाश्चश्चाश्वतरश्चेत्याद्वृत्विग्भ्यो दक्षिणात्वेन श्रुतम् । न क्वचित्कन्यादानं क्रत्वर्थतया चोदितम् ” । किमत्र क्रत्वर्थतया । प्रवृत्ते यज्ञे ऋत्विजे यां ददाति स दैवो विवाहः । अस्ति चोपकारगन्धस्तदीयकरणम् । अकर्मोद्देशेनापि दीयमानं तत्कर्मकरणप्रवृत्तस्य जनयत्ये-वानमनविशेषम् । एतावतोपकारसम्बन्धेन ब्राह्माद्दैवो न्यूनः ॥ २८ ॥

हिन्दी — ज्योतिष्टोमादि यज्ञ में विधिपूर्वक कर्म करते हुए ऋत्विक् के लिये ( वस्त्रालङ्कारादि से ) अलङ्कृत कन्या का दान करने को ( मुनि लोग ) धर्मयुक्त ' दैव ’ विवाह कहते हैं ॥२८ ॥।

' आर्ष ' विवाह का लक्षण-एकं गोमिथुनं द्वे वा वरादादाय धर्मतः ।

कन्याप्रदानं विधिवदार्षो धर्मः स उच्यते ॥ २ ९ ॥

भाष्य — स्त्रीगवी पुङ्गवश्च मिथुनम् । एकं द्वे वा वराद्गृहीत्वा कन्याया दान-मार्षो धर्मः । धर्मत इति । धर्म एवायं नात्र विक्रयबुद्धिः कर्तव्या, उच्चनीचर्णापा-करणाभावादित्यभिप्रायः ॥२९ ॥

हिन्दी – गौ - मिथुन ( गाय और बैल- दोनों ) या गाय अथवा बैल ( दोनों में से कोई एक - एक या दो - दो ) यज्ञादि धर्म - कार्य करने या कन्या को देने के लिए वर से लेकर ( मूल्य या धन - लाभ की दृष्टि से लेकर नहीं ) विधिपूर्वक कन्यादान करना धर्मयुक्त ‘ आर्ष ’ विवाह कहा गया है ( इस गोमिथुनादि ग्रहण के विषय में ३।५३ का विमर्श देखें ) ॥२९ ॥

' प्राजापत्य ' विवाह का लक्षण-सहोभौ चरतां धर्ममिति वाचानुभाष्य च ।

कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः ॥ ३० ॥

भाष्य — ' सह धर्मो युवाभ्यां कर्तव्य ' इति वचनेन परिभाषां कृत्वा नियम्य यद्दानं स प्राजापत्यः । धर्मग्रहणमुपलक्षणार्थम् । धर्मे चार्थे च कामे च तुल्ययोगक्षेमतेति मिथोऽस्य

पृष्ठ 363

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 363 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २८ ९ परिभाषावचनस्यार्थः । धर्मशब्द एवोच्चार्यते— ' सह धर्मश्चर्यतामिति ', न तु ‘ धर्मार्थ-कमाः सहेति ' । स तु धर्मशब्दः स्मृत्यन्तरवशादर्थकामयोरुपलक्षणार्थो व्याख्यात: । ‘ यद्येनां नातिचरसि धर्मार्थकामेषु तदा तुभ्यमियं दीयते ' इति कृतसंवित्कायाभ्युपगत-तदर्थाय विवाहकाले यद्दानं तत्रैवं समुच्चारयितव्यं ' सह धर्मं चरतामिति ' । अर्थकाम-योरभिप्रेतेऽपि सहत्वे तदप्रकृतत्वादनुच्चारणम् । तथा च गौतम: ( अ ० ४ सू ० ७ ) “ प्राजापत्ये सह धर्मं चरतामिति ” मन्त्रः । मन्त्रग्रहणेन चैतद्दर्शयत्यधिकृतरूपमेव प्रयोक्तव्यं, मन्त्रवत् । न हि महासत्त्वानामर्थकामविषये सहितत्वं परिभाषितुं युक्तम्— गम्यते तु स्मृत्यन्तरेभ्यः । अनयैव संविदा दोषेणास्य न्यूनता । अस्ति ह्यत्र दातुर्वरादुपकारलिप्सा । स्वशब्देनैतद्वचनं वाच्यते, न पुनरयं दातुरेव वचननियमः । अनुभाष्येत्यनेनैव सिद्धत्वाद्वाचेत्यनर्थकं स्यात् । अनुभाषणे वागिन्द्रियस्य साधनत्वात् । तथा च गृह्य-कारः । “ एतद्वः सत्यमित्युक्त्वा वरं वाचयेदेतन्नः सत्यमिति ” । अनुशब्दश्च प्राप्तार्थ-स्यैव वाचा निश्चयमाह || ३० || हिन्दी – “ तुम दोनों ( वधू - वर ) साथ में धर्माचारण करो ' ऐसा वचन कहकर तथा ( वस्त्रालङ्कारादि से उनका पूजन कर कन्यादान करना ' प्राजापत्य ' विवाह कहा गया है ॥३० ॥

' आसुर ' विवाह का लक्षण—

ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः ।

कन्याऽऽप्रदानं स्वाच्छन्द्यादासुरो धर्म उच्यते ॥ ३१ ॥

भाष्य — ज्ञातिभ्यः कन्याया एव पित्रादिभ्यः कन्यायै च स्त्रीधनं दत्त्वा कन्याया आप्रदानम् आनयनमासुरो विवाहः । स्वाच्छन्द्यात् स्वेच्छातः, न शास्त्रत इत्यार्षाद्भेदमाह । तत्र हि शास्त्रं नियामकमस्ति ‘ एकं गोमिथुनमिति ’ । इह तु कन्याया रूपसौभाग्यादिगुणापेक्षं छन्दः ॥३१ ॥

हिन्दी - जाति वालों ( कन्या के पिता, चाचा इत्यादि ) तथा कन्या के लिए यथा शक्ति धन देकर स्वेच्छा से कन्या को स्वीकार करना ' आसुर विवाह ' कहा गया है ॥३१ ॥

विमर्श — एक अनुवादकार ने ' ज्ञातिभ्यः ' ( जात वालों के लिए ) शब्द का ‘ वर के माता - पिता आदि ' और ' कन्याप्रदानं ' शब्द का ' कन्यादान ' अर्थ किया है, वह मनवर्थमुक्तावली टीका के सर्वथा विरुद्ध है, उसमें ' ज्ञातिभ्यः ' शब्द की ' कन्याया ज्ञातिभ्यः पित्रादिभ्यः ' ( कन्या के जाति वाले अर्थात् पिता आदि के लिये ) तथा ‘ कन्याप्रदानं ' शब्द की ‘ कन्याया आपदानमादानं स्वीकार: ' ( कन्या का आदान - ग्रहण

पृष्ठ 364

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 364 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२ ९ ० मनुस्मृतिः अर्थात् स्वीकार ) यह स्पष्ट व्याख्या की गयी है ॥ ३१ ॥

' गान्धर्व ' विवाह का लक्षण-इच्छयाऽन्योन्यसंयोग कन्यायाश्च वरस्य च । [ तृतीयः गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसम्भवः ॥ ३२ ॥

भाष्य— इच्छया च वरस्य कुमार्याश्च प्रीत्या परस्परसंयोग एकप्रदेशे सङ्गमनम् । तस्येयं निन्दा मैथुन्यः कामसम्भवः । मिथुनप्रयोजनो ' मैथुन: ’, तस्मै हितो मैथुन्यः । एष एवार्थो विस्पष्टीकृतः कामसम्भव इति । सम्भवत्यस्मादिति सम्भवः, कामः सम्भवोऽस्येति ॥३२ ॥

हिन्दी – कन्या और पुरुष इच्छानुसार परस्पर स्नेह से संयोग ( आलिङ्गनादि ) या मैथुन होना ' गान्धर्व विवाह कहा गया है ॥ ३२ ॥

' राक्षस ' विवाह का लक्षण—

हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् ।

प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ॥ ३३ ॥

भाष्य – प्रसह्याभिभूय कन्यापक्षाद्वलात्कारेण कन्याया हरणं राक्षसो विवाह इत्येतावदत्र विवक्षितम् । हत्वेत्याद्यनुवादः । प्रसह्यापजिहीर्षतो यदि कश्चित्प्रतिबन्धा वर्तते तदा प्राप्तमेव हननादि । हन्तुः शक्त्यतिशयं ज्ञात्वा स्वात्मभयादुपेक्षेरस्तदा भवत्येव राक्षसो न वधाद्यवश्यं कर्तव्यम् । हत्वा दण्डकाष्ठादिना ताडयित्वा । छित्त्वा खङ्गादिप्रहारेणाङ्गानि खण्डशः कृत्वा । भित्वा प्राकारदुर्गादि । क्रोशन्तीं रुदतीं कन्यामनिच्छाम् । अयं गान्धर्वाद्विशेषः । ‘ अनाथाऽपह्रिये परित्रायध्वम् ' इत्याद्युच्चैः शब्दकरणं ' क्रोशनम् ' । रोदनमश्रुकणमोक्षः । उद्विजितायाः स्त्रिया धर्मोऽयम् ॥३३ ॥

हिन्दी — कन्या के पक्ष वालों को मारकर या उनका अङ्गच्छेदनादि कर और गृह या द्वारादि को तोड़कर ( ' हा पिताजी! मैं बलात्कार से अपहृत हो रही हूँ ' इत्यादि ) चिल्लाती तथा रोती हुई कन्या का हरण करके लाना ' राक्षस ' विवाह कहा गया है ॥३३ ॥

' पैशाच ' विवाह का लक्षण-सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति ।

स पापिष्ठो विवाहानां पैशाचः प्रथितोऽधमः ॥ ३४ ॥

भाष्य — राज्ञसपैशाचयोरनिच्छा तुल्या । राक्षसे हननं, पैशाचे वञ्चनम् ।

पृष्ठ 365

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 365 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता २ ९ १ सुप्तां निद्रयाऽभिभूताम् । मत्तां क्षीबां मद्यपरवशाम् । प्रमत्तां वातसङ्क्षोभेण नष्टचेतनाम् । रहोऽप्रकाशमुपगच्छति मैथुनधर्मे प्रवर्तते स पैशाचो विवाहः सर्व-विवाहानां पापिष्ठः पापहेतुः । धर्मापत्यं न ततः सम्पद्यते । इह गान्धर्वराक्षसपैशाचानां प्रकृतविवाहसामानाधिकरण्यात्संयोगहरणोपगमा एव पाणिग्रहणसंस्कारनिरपेक्षा ' विवाहा ' इति मन्यन्ते । तेषां ब्राह्मादिष्वपि दानविवाहयोः सामानाधिकरण्यात्संस्कारो विनिवर्तते । यथा च न निवर्तते तथा दर्शितम् । लक्षणया विवाहप्रयोजनदाने विवाहशब्दः । गान्धर्वे तु भगवता कृष्णद्वैपायनेन दुष्यन्तशकुन्तलासङ्गमने वर्णितम् ‘ अनग्नि-कममन्त्रकम् ” तद्दर्शनेन पाणिग्रहणसंस्कारोऽस्ति, मन्त्रादि वर्जितस्तु । पैशाचे पुनर्विवदन्ते– “ मुख्यं चोपगमनम् । न च कन्यात्वमपैति, संस्कारैस्तद्विनि-वर्तनात् । अतश्च ‘ पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः ' ( अ ० ८ श्लो ० २२६ ) इतिप्रतिषेधस्याप्रवृत्तेरस्त्येव मन्त्रवत्संस्कारसम्बन्धः । स च प्रतिषेधः कृतः संस्कारप्रतिषेधार्थः । सा हि मन्त्रैः संस्कृतत्वाद्व्यपगतकन्याभावा । अत एव भवतु प्रथममुपगमस्ततोऽकन्यादोषो नास्ति । तथा च कानीनः कर्ण इति दर्शनम् । यदि तु पुरुषप्रयोगेण कन्यात्वमपेयात्कथमियं वाचोयुक्तिः ‘ कन्यायाः पुत्रः कानीन ' इति । अथत्वसंस्कृता कन्योच्यते ततो युक्तम् ' कर्णादयो ह्यनूढाया: पुत्रा ' इति । मुख्येऽभ्युपगमने कन्याया अपत्योत्पत्तेः सम्भवः । वर्ण्यते चेतिहासादिषु तथाभूताया विवाहः । ‘ अथ मद्यमदादिना निर्वृत्ते रतिसम्बन्धे किमर्थः संस्कार इति ' । अत्रोच्यते । यद्यपि स्त्रीपुंसधर्मो निर्वृत्तोऽतिक्रान्तश्च कन्यागमनप्रतिषेधस्तथापि तया सहाधिकारार्थं पुनश्च गमने कन्यागमनं मा भूदिति तदर्थं संस्कारकरणम् । कन्यागमनप्रतिषेधातिक्रमसम्बन्धेन पुरुषार्थतया-ऽपि निन्द्यते विवाहोऽयम् । ” तदयुक्तम् । अतोऽयं लोके कन्याशब्दः पुंसाऽसंप्रयुक्तां स्त्रियमाचष्टे न संस्कारभाव-सापेक्षाम् । अकृतसंस्कारा अपि पुरुषैः क्षतयोनयो न ‘ कन्या ' इति व्यवह्रियन्ते । तासां च वेशश्रितानां गमने न कन्यागमनदोषः । यद्यपि कुमारीकन्याशब्दौ प्रथमवयो-वचनाविष्येते तथापि विवाहविधावनुपभुक्तपूर्वामेव स्त्रियमाचक्षते । तथा च कुमार-वेशधारिणीं नातिप्रकाशप्रवृत्तपुंसम्प्रयोगां भार्यात्वेनार्थयमानोऽन्यैरवबोध्यते — ‘ नैषा कुमारी नष्टोऽस्याः कौमारो भावः ' । संस्कारपरिलोपश्च स्यात् । गर्भाधानं हि मन्त्रवत्कर्तव्यं “ विष्णुर्योनिं कल्पयतु ” इति ( ऋग्वेद १०।१८४।१ ) क्लृप्तायाश्च कल्पनमशक्यम् । तत्रायथार्थो मन्त्र प्रयोग: स्यात् । न चानूढाया: पैशाचधर्मे मन्त्रप्रयोगः, ऊढायास्तच्छ्रवणात् । न च

पृष्ठ 366

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 366 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२ ९ २ मनुस्मृतिः [ तृतीय: पैशाचवर्जमन्येषु विवाहेषु तत्कल्पयितुं युक्तमविशेषश्रवणात् । तस्मान्मुख्योपगमपक्ष एवमादयो बहवो दोषाः प्राप्नुवन्ति । अत आलिङ्गनोपगूह-नपरिचुम्बनादिषूपगमनार्थेषु व्यापारेषु साहचर्यात्तादर्थ्याच्चोपपूर्वो गमिर्द्रष्टव्यः । यत्तु “ कानीनः पुत्र ” इति तत्र मुख्यार्थासम्भवाल्लक्षणया संस्काराभावप्रतिपत्तिः । यत्तु संस्कारदर्शनं तत्तु क्वचिदेव । यद्यपि ' या गर्भिणी संस्क्रियते ज्ञाताऽज्ञाताऽपि वा सतीति ' ( मनु ० ९ ।१७३ ) तत्र य एवोपगन्ता स एव न संस्कर्ता । न त्वसौ पैशाचो विवाहः । पैशाचे हि येनैव समुपभुक्ता तस्मा एव दीयते स एवैनां संस्करोतीति । गर्भिण्यास्तु संस्कारो वाचनिकः । एतच्च सर्वं निपुणतरं पुनर्नवमे वक्ष्यते । अपरे मन्यन्ते । “ सत्यं मुख्यमुपगमनमुख्यत्वे तु गमनप्रतिषेधानुपपत्तिरिति । ” 1 यदि हि मुख्यमुपगमस्तदा स एव विवाहोऽन्यस्यानन्तरोक्तेन न्यायेनाभावात् । ततश्च नास्ति तस्य प्रतिषेधस्य विषयो, यतः इच्छया गान्धर्वो हठाद्राक्षसोऽन्यथा पैशाचः । न चान्यः प्रकारोऽस्ति, येन स विषयः प्रतिषेधस्य स्यात् । अस्ति त्वस्य विषयः — यत्र हठाद्रहसि गमनं, या वा पितृभ्यां दीयते न चोपसंस्क्रियते । न चासौ गान्धर्वः, कन्येच्छाया अभावात् । अत एव भर्तुरपि न कन्यागामित्वं, विषयान्तरस्य सम्भवात् । तस्मात्क्षतयोन्याः संस्कारनिषेधाद्वाह्मादिवदुपायत्वात्तद्वच्च विवाहशब्दोपपत्तेः प्रकरणसामर्थ्याद्गौण एवोपगमार्थः । एषां च भेदः । अप्रार्थितोपनतो भूमिहिरण्यादिवद्ब्राह्मः । ऋत्विक्त्वेन विशेषेण दैवः । गोमिथुनेनार्षः । याञ्चयाऽयाञ्चया वा ' सहोभौ चरतां धर्ममिति ' वचनव्यवस्थया प्राजापत्यः । शेषाः सुबोधभेदः । ब्राह्मादीनामिदमर्थे तद्धितः । ब्रह्मादिसम्बद्धिता च स्तुत्याऽऽरोप्यते । एवं सर्वेषु । पैशाचः, ‘ पिशाचानामयं युक्त ' इति निन्दा ॥ ३४ ॥।

-हिन्दी – सोई हुई, मद आदि से व्याकुल और अपने शील की रक्षा करने में प्रमादयुक्त कन्या के साथ विवाह ( मैथुन ) करना अत्यन्त निन्दित आठवाँ ' पैशाच ’ विवाह कहा गया है ॥ ३४ ॥

जलदानपूर्वक ब्राह्मण का विवाह-अद्भिरेव द्विजाग्र्याणां कन्यादानं विशिष्यते ।

इतरेषां तु वर्णानामितरेतरकाम्यया ॥ ३५ ॥

भाष्य - द्विजाग्र्याणां ब्राह्मणानां कन्यादानं कन्यां ददतामद्भिरेव दानं शस्यते । ब्राह्मणाय यदा कन्यां ददाति तदाऽद्भिरेव दद्यात् ।

पृष्ठ 367

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 367 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता “ कथं पुनरापो दानकरणम् ” । २ ९ ३ न हि ताभिर्विना दानमस्ति “ अद्भिर्वाच्यं नमः पूर्वं भिक्षा दानं ददाति वै । एवं धर्मेष्विति ” नियमात् । अथवा अद्भिरेवेत्यवधारणेनार्षासुरप्राजापत्यानपवदति । तत्र हि न केवला आपः करणं, गोमिथुनादिद्रव्यग्रहणमपि संविद्व्यवस्था च । तेनैतदुक्तं भवति । यथा गोहिरण्यादि द्रव्यं दीयते, न किञ्चित्परिभाष्यते— ' इयं गौस्त्वयैवं संवाहनीयेदृशानि तृणान्यपि देयानि ’ एवं कन्यापि देया, न दुहितृस्नेहेन जामाता परिभाषणं कारयितव्यः । न च त माद्धनं ग्रहीतव्यमिति । क्षत्रियादीनां तु इतरेतरकाम्यया परस्परेच्छया यदि कन्यावरयोः परस्परमभिलाषो भवति तदा दानं कर्तव्यं, नेतरथा ब्राह्मविवाहवत् ।

अन्ये तु व्याचक्षते । धनं वा गृहीत्वाऽद्भिरेव वेत्येष इतरेतरकाम्यार्थः ।

अस्मिन्पक्षे ब्राह्मस्य सर्वविषयता ज्ञापिता भवति ॥ ३५ ॥

हिन्दी — ब्राह्मण का विवाह जलदानपूर्वक ( कन्या का हाथ ग्रहण कर पिता आदि के द्वारा जल लेकर सङ्कल्प के साथ ) ही होता है और अन्य क्षत्रिय आदि वर्णों का विवाह पारस्परिक इच्छा के द्वारा वचनमात्र से भी हो सकता है ॥३५ ॥

यो यस्यैषां विवाहानां मनुना कीर्तितो गुणः ।

सर्वं शृणुत तं विप्राः सम्यक् कीर्तयतो मम ॥ ३६ ॥

भाष्य— यदुक्तं “ गुणदोषौ च यस्य याविति ” तत्स्मारयति । बहवो वक्तव्यतया प्रतिज्ञातास्तत्र वक्ष्यमाणै: श्लोकैरयमर्थ उच्यत इति विशेषज्ञानार्थं युक्तः पुनरुपन्यासः । एषां विवाहानामिति निर्धारणे षष्ठी । एवं विवाहानां यस्य विवाहस्य यो गुणःकीर्तित आचार्येण मनुना सर्वंशृणुत तं गुणं विप्राः । भृगुर्महर्षीनामन्त्रयते । सम्यगवैपरीत्येनानाकुलं कीर्तयतः कथयतः ॥ ३६ ॥

हिन्दी— ( भृगु जी महर्षियों से कहते हैं कि ) — हे ब्राह्मणों! इन ( आठ प्रकार के ) विवाहों में जिस विवाह का जो गुण मनु ने कहा है, उसे मुझसे तुमलोग सुनो ॥ ३६ ॥

ब्राह्म विवाह का गुण-दश पूर्वान्परान्वंश्यानात्मानं चैकविंशकम् ।

ब्राह्मीपुत्रः सुकृतकृन्मोचयत्येनसः पितॄन् ॥ ३७ ॥

भाष्य--पूर्वेवंश्या पितृपितामहादयः । अपरे पुत्रपौत्रादयः । तान् मोचयत्येनसो नरकादियातनाभ्य उद्धरति । ब्राह्मेन विवाहेन ऊढा तस्यां यो जातः पुत्रः स सुकृत-कृत्पुण्यकृद्यदि भवति । मनु I- 23

पृष्ठ 368

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 368 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२ ९ ४ मनुस्मृतिः [ तृतीयः पितॄन्परलोकगतान् । पितृशब्दोऽयं प्रेतपर्यायः न हि पुत्रादिसन्ततेरन्यथा पितृ-व्यपदेशसम्भवः । दशशब्दः प्रत्येकमभिसम्बध्यते पूर्वापरशब्दाभ्याम् । एकविंशकमिति निर्देशात् । अर्थवादश्चायम् । तेनानागताननुत्पन्नान्कथं मोचयतीति न वाच्ययम् । पूर्वेषां-त्वपत्यकृतेन शुभेन श्राद्धादिना भवत्येव पापान्मोक्ष इति श्राद्धाधिकारे कथयिष्यते । अतो ‘ दशापरानेनसो मोचयती ' त्येतदुक्तं भवति - दशपुरुषा यस्मिन्कुलेऽपापा ' जायन्त इत्यालम्बनम् ॥३७ ॥

हिन्दी — ब्रह्म विवाह विधि ( ३।२७ ) द्वारा विवाहित कन्या से उत्पन्न पुण्यात्मा पुत्र अपने वंश की दश पीढ़ी पहले वाले तथा दश पीढ़ी आगे ( भविष्य ) वाले वंशजों को और अपने अर्थात् १० + १० + १ = २१ पीढ़ीयों के वंशजों को पाप से छुड़ा देता है॥३७ ॥

दैव, आर्ष, प्राजापत्य विवाहों के गुण-दैवोढाजः सुतश्चैव सप्त सप्त परावरान् ।

आर्षोढाजः सुतस्त्रींस्त्रीन् षट् षट् कायोढजः सुतः ॥ ३८ ॥

भाष्य - दैवेन विधिनोढा ' दैवोढा ', तस्यां जातो दैवोढाजः । सुतः पुत्रः । ‘ कः ’ प्रजापतिः स देवता यस्य विवाहस्य स ' काय: ' । संस्कारकर्मणि ग्रहण-लक्षणेऽसत्येव देवतासम्बन्धे प्रजापतेर्देवतात्वमध्यारोप्यते भक्त्या । यदपि तत्र प्राजापत्यो यागोऽस्ति स तु पूर्वविवाहसाधारणः न कायव्यपदेशे कारणम् । आसुरादिषु च न काचिद्गतिः स्यात् । न ह्यासुरेभ्यो विवाहेभ्यो यागोऽस्ति । कायोढज इति हस्वत्वं “ ङ्यापोः संज्ञाछन्दसोर्बहुलमिति ' ( पा ० सू ० ६।३।६३ ) । “ ननु च यद्यन्न्यूनफलं तत्तत्पश्चान्निर्दिष्टम् । तत्रार्षस्य प्राजापत्यात्पश्चादभिधानं युक्तम् ” । अस्त्यत्र कारणं येनाधिकफलस्य प्राजापत्यस्य पश्चान्निर्देशः । “ पञ्चानां तु त्रयो धर्म्या ” इत्यत्र प्राजापत्यस्य ग्रहणमिष्यते, इतरथाऽऽर्षस्य स्यात् ॥ ३८ ॥

हिन्दी — ‘ दैव विवाह ’ विधि ( ३।२८ ) से विवाहित कन्या का पुण्यात्मा पुत्र पूर्व तथा आगे वाले सात - सात पीढ़ी के वंशजों को तथा अपने को ( कुल पन्द्रह पीढ़ी के वंशजों को ); ‘ आर्ष विवाह ’ विधि ( ३।२ ९ ) से विवाहित कन्या का पुण्यात्मा पुत्र पूर्व तथा आगे वाले तीन - तीन पीढ़ी के वंशजों को तथा अपने को ( कुल सात पीढ़ी के वंशजों को ) और प्राजापत्य विवाह ' विधि ( ३।३० ) से विवाहित कन्या का पुण्यात्मा पुत्र पूर्व तथा आगे वाले छः - छः पीढ़ी के वंशजों को तथा अपने को ( कुल तेरह पीढ़ी के वंशजों को ) पाप से छुड़ा देता है ॥ ३८ ॥

पृष्ठ 369

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 369 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता ब्रह्मादि चार विवाहों की श्रेष्ठ सन्तान -ब्राह्मादिषु विवाहेषु चतुर्व्वेवानुपूर्वशः । ब्रह्मवर्चसिनः पुत्रा जायन्ते शिष्टसम्मताः ॥ ३ ९ ॥ भाष्य — ‘ प्रसवे च गुणागुणानि’त्युक्तं, तदिदम् । अनुपूर्वशः – आनुपूर्व्येणेत्यस्मिन्नर्थे स्मृतिकारैः प्रयुज्यते । २ ९ ५ श्रुताध्ययनविज्ञानसम्पत्तिनिमित्ते च पूजाख्याती ब्रह्मवर्चसम् ' ', तद्वन्तो ब्रह्म-वर्चसिनः । इन्नन्तोऽयम् । ‘ शिष्टानां सम्मता: ’, अनुमता अगर्ह्या अद्विष्टाः, प्रिया इति यावत् अतश्चाम-त्यर्थत्वान्मतिबुद्धीत्यस्याविषयत्वेन ' क्तेन च पूजायामित्येतेन नास्ति समासप्रतिषेधः । सम्बन्धसामान्यविवक्षायां च षष्ठी ॥ ३ ९ ॥ हिन्दी – पूर्वोक्त ब्राह्म आदि चार ( ब्राह्म, दैव, आर्ष और प्राजापत्य ) विवाहों में ही क्रमशः ब्रह्म तेज वाले और सज्जनों से माननीय पुत्र होते हैं ॥३ ९ ॥

रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः ।

पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः ॥४० ॥

-भाष्य – रूपं मनोहराकृतिः । सत्वं नाम गुणो द्वादशे वक्ष्यते । ताभ्यामुपेता युक्ता: । आढ्या धनवन्तः । श्रुतशौर्यादिगुणयुक्ततया ख्याताः यशस्विनः । पर्याप्त-भोगाः । त्रगनुलेपनगीतवाद्यादिभिः सुखसाधनैरविकलैर्नित्ययुक्ताः । सुखसाधनैः पूर्वोक्तैरवियोगो ‘ भोग: ’, स ' पर्याप्तोऽक्षतः समग्रो येषां ते ‘ पर्याप्तभोगाः ’ । धर्मानुष्ठानतत्परा धर्मिष्ठाः । धर्मशब्दः केषांचिद्गुणवचनः । अतो गुणवचनादि-त्यातिशायिकः । शतं वर्षाणि जीवन्ति ॥४० ॥

हिन्दी – ( ३।३७ में उक्त वे पुत्र ) सौन्दर्य और सात्त्विक गुणों से युक्त, धनवान्, यशस्वी पर्याप्त ( इच्छानुसार आर्थात् काफी वस्त्र, गन्धानुलेपन तथा अन्नादि ) भोग वाले और धर्मात्मा होकर सौ वर्ष ( पूर्णायु होकर ) जीते हैं ॥४० ॥

आसुर आदि चार विवाहों की निकृष्ट सन्तान—

इतरेषु तु शिष्टेषु नृशंसानृतवादिनः ।

जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः ॥४१ ॥

भाष्य – ब्राह्मादिव्यतिरिक्तेषु गान्धर्वादिविवाहेषु नृशंसमनृतं च वदन्ति नृशंसा-नृतवादिनः । नृशंसं मातृभगिन्यादावश्लीलाक्रोशवचनम् । अनृतं प्रसिद्धम् । नृशंसं चानृतं च नृशंसानृते । ते वदितुं शीलमेषामिति शब्दव्युत्पत्तिः । ब्रह्मधर्मो वेदधर्मो

पृष्ठ 370

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 370 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२ ९ ६ मनुस्मृतिः [ तृतीयः वेदार्थस्तं द्विषन्ति निन्दति वा न श्रद्दधते वा । अत एव दुर्विवाहेष्विति निन्दा || ४१ ॥ हिन्दी -- शेष बचे हुए चार ( आसुर, गान्धर्व, राक्षस और पैशाच ) विवाह विधि से विवाहित कन्या के पुत्र क्रूर, असत्य बोलने वाले और वेद या ब्राह्मणों के तथा यज्ञादि धार्मिक कर्मों के विरोधी होते हैं ॥ ४१ ॥

विवाहों का सङ्क्षिप्त में फल-अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा ।

निन्दितैर्निन्दिता नॄणां तस्मान्निन्द्यान्विवर्जयेत् ॥ ४२ ॥

भाष्य — समासतो विवाहानां फलप्रदर्शनमेतत् । ये यस्य विवाहा विहितास्तेऽनिन्दितास्तैरूढानां या प्रजा पुत्रादिलक्षणा साऽ-निन्द्या भवति प्रशस्येत्यर्थः । निन्दितैः प्रतिषिद्धैः निन्दिता गर्हिता । तस्मादुःखभागिनी प्रजा मा भूदिति निन्द्यान्विवर्जयेत् ॥४२ ॥

हिन्दी — अनिन्दित स्त्री - विवाहों से अनिन्दित तथा निन्दित स्त्री - विवाहों से निन्दित सन्तान उत्पन्न होती हैं । अतएव निन्दित स्त्री - विवाहों का सर्वथा त्याग करना चाहिए ॥४२ ॥

सवर्णा कन्या के साथ विवाह विधि-पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते ।

असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि ॥४३ ॥

भाष्य – पाणिग्रहणं नाम गृह्यकारोक्तः संस्कारः सवर्णासु समानजातीयासूह्य-मानासूपदिश्यते शास्त्रेण विधीयते, कर्तव्यतया प्रतिपाद्यते । असवर्णासु यदुद्वाहकर्म तत्रायं वक्ष्यमाणो विधिर्ज्ञेयः ॥ ४३ ॥

हिन्दी — सवर्णा ( समान जातिवाली ) कन्या का शास्त्रानुसार पाणिग्रहण ( विवाह ) संस्कार करने का विधान है । असवर्णा ( भिन्न जाति वाली ) कन्याओं के विवाह कर्म

में यह ( ३।४४ ) विधि है ॥४३ ॥

असवर्णा कन्या के साथ विवाह विधि—

शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया ।

वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने ॥ ४४ ॥

भाष्य – ब्राह्मणेनोह्यमानया क्षत्रियया शरो ब्राह्मणपाणिपरिगृहीतो ग्राह्यः । पाणिग्रहणस्थाने शरस्य विधानात् । प्रतोदो बलीवर्दानामायसः क्रियते, येन वाह्य-मानाः पीड्यन्ते हस्तिनामिवाङ्कुशः । वसनस्य वस्त्रस्य दशा ग्राह्या शूद्रया । उत्कृष्ट-