मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 371–380

मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 371–380

पृष्ठ 371

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 371 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता २ ९ ७ जातीयैर्ब्राह्मणादिवर्णैर्वेदने विवाहे ॥ ४४ ॥

-हिन्दी — ब्राह्मण वर के साथ में विवाह करने वाली क्षत्रिय वर्ण की कन्या ब्राह्मण के हाथ में ग्रहण किये हुए बाण का एक भाग ग्रहण करे, ब्राह्मण तथा क्षत्रिय वर के साथ में विवाह करने वाली वैश्य वर्ण की कन्या ब्राह्मण तथा क्षत्रिय के हाथ में ग्रहण किये हुए कोड़ा ( चाबुक ) का एक भाग ग्रहण करे और ब्राह्मण, क्षत्रिय तथा वैश्य वर के साथ में विवाह करने वाली शूद्र वर्ण की कन्या ब्राह्मण, क्षत्रिय तथा वैश्य वर के कपड़े का एक भाग ग्रहण करे ॥ ४४ ॥

ऋतुकाल में पर्वभिन्न दिनों में स्त्री- सम्भोग -ऋतुकालाभिगामी स्यात्स्वदारनिरतः सदा । पर्ववर्जं व्रजेच्चैनां तद्व्रतो रतिकाम्यया ॥ ४५ ॥

भाष्य — उक्तो विवाहः । तस्मिन्निर्वृत्ते समुपयाते दारत्वे तदहरेवेच्छयोपगमे प्राप्ते तन्निवृत्त्यर्थमिदमारभ्यते । न विवाहसमनन्तरं तदहरेव गच्छेत्, किं तर्हि ऋतुकालं प्रतीक्षेत । गृह्यकारैस्तु “ अत ऊर्ध्वमक्षारलवणाशिनौ ब्रह्मचारिणावध: शायिनौ स्याताम् — त्रिरात्रं द्वादशरात्रं संवत्सरं वा ’ ” इति ( आश्व ० गृ ० १।८।१०।११ ) पठितम् । तत्र सत्यपि संवत्सर-स्यान्तराऽऽपतिते ऋतौ गमनं नास्ति । एवमस्मात्कालादूर्ध्वमसत्यृतौ गमनं नास्ति । एवमेते स्मृती अविरोधिन्यौ भवतः । त्रिरात्रादीनां तु विकल्पः अत्यन्तरागपीडितयोर्ग-मनं, धैर्यवतोस्तु ब्रह्मचर्यम् । ऋतुर्नाम स्त्रीणां शोणितदर्शनोपलक्षितः शरीरावस्थाविशेषो गर्भग्रहणसमर्थः काल उच्यते । उपलक्षणत्वाच्च दर्शनस्य निर्वृत्तेऽस्मिन्वक्ष्यमाणकालानुवर्ती भवत्येव । तस्य काल ‘ ऋतुकाल: ' । साहचर्याद्वा काल एव ऋतुः । तथा च समानाधिकरण-समासः । ऋतुकालेऽभिगन्तुं व्रतमस्येत्यृतुकालाभिगामी । " व्रते " इति णिनिः ( पा ० सू ० ३।२।२० ) यथा स्थण्डिलशायी अश्राद्धभोजीति स्यात् भवेदित्यर्थः । अद्यप्यस्तिपरा विधिविभक्तितथाप्युपगमव्यापारं विदधाति, अभिगामी स्यादभि-गच्छेदित्यर्थः । न ह्यनुपगच्छन्नभिगामी भवति । कीदृशं पुनरेतद्व्रतम् । किमृतावभिगन्तव्यमेव, अथर्तावेवगन्तव्यमिति । एततदुक्तं भवति किमयं नियम उत परिसंख्येति । “ ननु च व्रतमिति शास्त्रतो नियत उच्यते । तत्रैव चायं णिनिः । अतः परि-संख्या कथमाशंक्यते '? उच्यते । परिसंख्यायामपि शास्त्रीयत्वं नियमरूपता च विद्यत इति दर्शयिष्यामः ।

पृष्ठ 372

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 372 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२ ९ ८ “ कस्तर्ह्यनयोर्विशेषः ”? मनुस्मृतिः [ तृतीयः विधिविशेषो नियमः । “ अथ विधिः कः " । यः शब्दः कर्तव्यताबोधकः “ अग्निहोत्रं जुहुयात्स्वर्गकामः ” इति । न ह्यग्निहोत्रस्यैतद्वचनमन्तरेणान्यतः कुत-श्चित्कर्तव्यतावगमः । ‘ नियम: ' पुनर्यत्रादृष्टसिद्ध्यर्थस्य वचनमन्तरेण पाक्षिकी प्राप्तिः । यथा “ समेयजेतेति ” दर्शपौर्णमासादियागविधानोद्देशमात्रमाक्षिप्तम्, न हि कश्चिद्देश-मनाश्रित्य यागप्रयोगः सम्भवति । द्विविधश्च देशः, समो विषमश्च । तत्र यदा तावत्समे यजेत तदैतद्वचनमनुवाद एव । यदा त्विच्छाया निरङ्कुशत्वाद्विषमे यियक्षति तदैतद्वचनं समदेशं विदधदर्थवत् । विहिते समे विषमस्यानाश्रयणमविधानात् । एतत्सामर्थ्या-त्तन्निवृत्तिः । विधिनिबन्धने ह्यनुष्ठानं किमित्यविहितं क्रियेत I । तत्करणे हि न यथा-चोदितानुष्ठानसिद्धिः । इदं चात्र स्मार्तमुदाहरणम् । प्राङ्मुखोऽन्नानि भुञ्जीत । भुञ्जानस्य यदृच्छया यां काञ्चिद्दिशमाश्रित्य भोजनं प्राप्तम् । तत्र कदाचित्प्राची कदाचिदितरा या काचित्प्राप्ता । तत्र यदा प्राची न तदेतरा, यदेतरा न तदा प्राचीति । तत्राप्राप्तिपक्षे विध्यर्थं वचनं प्राङ्मुखोऽन्नानि भुञ्जीतेति । तत्रातिक्रमाच्छास्त्रार्थं जहाति । एवमिह यदृच्छयोपगमनमृतावनुपगमनं, पक्षे विधीयमानमुपगनमननुष्ठीयमानं, शास्त्रातिक्रमकारितां जनयेत् । यथाऽन्ये शास्त्रविहितार्था अतिक्रम्यमाणाः प्रायश्चित्तहेतवो भवन्ति तथाऽनुगमनम् । अथर्तावनृतौ च गमने रागतः प्राप्ते वचनमृतावुपेयोदिति, तदैवं वचनं मृग्यते ऋतावेवोपेयादनृतौ न गच्छेत् ' । यथा ‘ पञ्च पञ्चनखा भक्ष्या ' इति क्षुत्प्रतिघातेनार्थेन शशकादिष्वपि पञ्चनखेषु भक्ष्यता प्रसक्ता तद्व्यतिरिक्तेष्वपि वानरारिषु । न च तत्र पर्यायेणैव प्रवृत्तिः । युगपत्तत्र चान्यत्र च प्रसक्तौ ' पञ्च पञ्चनखा भक्ष्या ' इति वचन-मितरपरिसंख्यानार्थं सम्पद्यते । एवमिह परिसंख्येति । “ ननु च परिसंख्यां दोषत्रयवतीमाचक्षते । त्रयो हि तत्र दोषाः प्रादुःष्युः, स्वार्थत्यागः परार्थकल्पना प्राप्तबाधश्च । पञ्च पञ्चनखा भक्ष्या इति यदाऽन्वयतः पञ्चनखविषयं भक्षणं प्रतीयते तदा तत्त्यक्तं भवति, तद्व्यतिरिक्तनिषेधपरत्वाद्वाक्यस्य । अश्रुतश्च निषेधः, अतः परार्थकल्पना अर्थित्वाच्च सर्वविषयं भक्षणं यत्प्राप्तं तस्य बाधः । एवमेव न परिसंख्यायां त्रयो दोषाः ” । नैतत्सारम् । सत्यर्थित्वे श्रुतार्थासम्भवे वाक्यस्यानर्थक्यं मा भूदित्येतत्परता न विरुद्धा | विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ।

पृष्ठ 373

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 373 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता २ ९९ तत्र चान्यत्र च प्राप्तौ परिसंख्या नखिष्विव । किं पुनरत्र युक्तम् । ‘ तत्र चान्यत्र च प्राप्तौ परिसंख्यालक्षणस्य विद्यमानत्वात्परिसंख्येति । ऋतावपि गमनं प्राप्तमनृतावपि न तु यदर्तौ तदानृताविति । यथा सत्यर्थित्वे यत् भोजनं तत्र नियमोऽ‘श्राद्धम् ’ न पुनराहारत्यागेन अश्राद्धमेव भुञ्जान आस्ते । एवमिह सति खेदे यद्गमनं तत्र नियमोऽनृतौ न गच्छेदित्यवगच्छति । अर्थित्वाच्च गमने प्रसक्ते कालविधान-परतैव युक्ता वाक्यस्य । अन्यथाऽनारब्धोऽर्थ उपदिष्टः स्यात् । किञ्चापत्योत्पत्तिविधेः कृतविवाहस्यानुष्ठेयत्वादृतौ च तत्सम्भवात्प्राप्तमेव गमनम् । उत्पन्नपुत्रस्य च न द्वितीय-पुत्रोत्पादनं वैधम् । अपत्यमुत्पादयेदित्येकत्वविवक्षायां विध्यर्थनिवृत्तेः । न च गमन-मेवादृष्टार्थतया शक्यं विधातुम् । संस्कारविधित्वाधिकारश्रवणात्कल्पनायाश्चाशक्यत्वात्, अपत्योत्पत्तिविध्याक्षेपादृतौ गमनस्य । यच्चात्रर्तावुपेयादिति तदनृतुप्रतिषेधार्थम् । तत्रानु-वादः, परं परिसंख्या । तत्र ह्यर्थान्तरलक्षणयाऽप्यर्थवत्ता भवति । एवं च कृत्वा गौतमीयेनाविप्रतिपत्तिः । एवं तत्रोक्तम् । ‘ ऋतावुपेयात्सर्वत्र वा प्रतिषिद्धवर्जनम् ” ( अ ० ५ सू ० १-२ ) इति । ' सर्वत्र वे'त्येष विकल्पः कामचारा-नुज्ञानार्थः । न पुनः सर्वदर्तावनृतौ च नियमोपपत्तिः । यदि च पूर्वत्रर्तावुपेयादिति नियमः, ‘ सर्वत्र वे’त्यत्रापि स एवोपेयादित्यनुप्रयुज्यमानशब्दो नियमार्थः प्राप्नोति एकप्रक्रम-त्वात्, नहि स एव शब्दः पुनरनुच्चार्यमाणो भिन्नार्थो भवितुं युक्तः । न चर्तोरन्यत्र नियमार्थतोपपद्यते इत्युक्तम् । तस्मादृतौ गमनवचनमनृतौ प्रतिषेधार्थम् । तत्रानुत्पन्नपुत्रस्य विध्यन्तरान्नियम एव । उत्पन्नपुत्रस्तु यथाकामी । अनृतौ प्रतिषिद्धे गमने भार्येच्छया पुनः प्रतिप्रसूयते पर्ववर्जं व्रजेच्चैनां तद्वत् इति । तदिति भार्यायाः प्रत्यवमर्शः । तच्चित्तग्रहणं व्रतमस्येति तद्व्रतः । अ रतिकाम्यया । विनाऽप्यपत्यार्थेनोत्पन्नपुत्र ऋतावनुत्पन्नपुत्रो वाऽनृतौसुरतसम्भोगे-च्छया तद्द्व्रत एनां व्रजेन्नात्मेच्छयेत्यर्थः । अथवा तच्छब्दो रतिकाम्ययेत्यत्राप्यपेक्ष्यते, स्मृतिशास्त्रत्वादस्य । तद्रतिकाम्यया पर्ववर्जमन्यत्रापि व्रजेत् । तत्रैवाकारश्लेषो द्रष्टव्यः, ' अरतिकाम्यया ’, आत्मन इति शेषः । यथा तु व्याख्यातं तथा न किञ्चिदत्राप्रश्लेषेणापि वा तच्छब्दस्य समासोप-सर्जनस्यासम्बन्धेन । पर्वाणि वक्ष्यति । ‘ अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीमिति ' । स्वदारनिरतः । स्वदारेषु निरतः स्यात्तत्प्रीतिभावनापरः । अथवा स्वदारेष्वेव रमते न परदारान्रमयेदिति परदारप्रतिषेधः ।

पृष्ठ 374

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 374 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३०० मनुस्मृतिः सदा । यावज्जीवमेतद्व्रतं परिपालनीयम् । [ तृतीयः अतः स्थितमेतत् । त्रीणि वाक्यान्यत्र — -ऋतुकालाभिगामी स्यादित्येतदेकम्, अनुत्पन्नपुत्रस्य नियमानुवादरूपम् । द्वितीयम् भार्याप्रयुक्तस्य पर्ववर्जमृतावनृतौ च, न सुरतेच्छया । स्वदारनिरत इति तृतीयम् । एषां च पदयोजना — ऋतुकालाभिगामी स्यादपत्यार्थम्, रतिकाम्यया तु तद्व्रत एनां व्रजेत्, स्वदारनिरतश्च स्यात् ॥४५ ॥

-हिन्दी – स्व- स्त्री के साथ प्रेम करने वाला पुरुष स्त्री के ऋतुमती होने के बाद शुद्ध होने पर सम्भोग करे तथा रति की इच्छा से पर्व दिनों ( अमावस्या, पूर्णिमा आदि ) को छोड़कर अन्य दिनों में ही स्त्री- सम्भोग करे ॥ ४५ ॥

ऋतुकाल की अवधि—

ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः ।

चतुर्भिरितरैः सार्धमहोभिः सद्विगर्हितैः ॥४६ ॥

भाष्य- -ऋतुलक्षणार्थं श्लोकोऽयम् । वैद्यकादिशास्त्रावगम्योऽयमर्थो न विधिमूल एव । एवं “ युग्मासु पुत्राः ” इत्येतावपि श्लोकौ । षोडशरात्रयस्ताः स्त्रीणां मासि मासि स्वाभाविक ऋतुः । प्रमाणान्तरमूलत्वाच्चा-श्रुतमपि मासि मासीति गम्यते । स्वभावे भवः स्वाभाविकः स्वस्थप्रकृतीनां यो भवति । व्याध्यादिना कस्याश्चित्प्राप्तकालोऽपि निवर्तते, घृततिलाद्यौषधीप्रयोगेण रतिवशेन चाकालेऽपि संवर्तते । अतः स्वाभाविक ऋतुस्ता रात्रय उच्यन्ते । चतुर्भिरितरैः । चत्वार्यहानि थानि सद्भिर्विगर्हितानि, प्रतिषिद्धस्त्रीस्पर्शसम्भाष-णादीनि तानि च प्रथमशोणितप्रदर्शनात्प्रभृति । अहर्ग्रहणं च सर्वाहोरात्रोपलक्षणार्थम् । तैः सह ॥४६ ॥

हिन्दी – रजो ( शोणित ) दर्शन के दिन से सोलह रात्रियाँ ( दिन - रात ) स्त्रियों का स्वाभाविक ऋतुकाल है, उसमें सज्जनों के द्वारा निन्दित ( समागम के अयोग्य ) प्रथम चार दिन ( दिन - रात ) सम्मिलित हैं ॥ ४६ ॥

स्त्री सम्भोग में निन्दित समय-तासामाद्याश्चतस्त्रस्तु निन्दितैकादशी च या ।

त्रयोदशी च शेषास्तु प्रशस्ता दशरात्रयः ॥४७ ॥

भाष्य — तासां रात्रीणां या आद्याः प्रथमशोणितदर्शनाच्चतस्त्रस्ता निन्दिताः, न तत्र गमनमस्ति । तिसृषु तावत्स्पर्शोऽपि नास्त्यशुचित्वात् । चतुर्थ्यां तु स्नाताया वशिष्ठवचनात्सत्यपि शुचित्वे रतिसम्भोगो नास्ति, चतसृणां गर्हितत्ववचनात् । या चैकादशी या च त्रयोदशी साऽपि निन्दिता, एवं प्रतिषिद्धगमना । ऋतु-

पृष्ठ 375

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 375 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३०१ दर्शनात्प्रभृत्येकादशीत्रयोदश्यौ गृह्येते न चन्द्रतिथी । तासामिति निर्धारणविषयत्वेन रात्रीणां सम्बन्धात्समानजातीयश्च निर्धार्यतया प्रतीयते, ‘ कृष्णा गवां सम्पन्नक्षीरेति ' । षड्रात्रगमनप्रतिषेधोऽयमदृष्टार्थः । शेषाः: प्रशस्ता दशरात्रयः । षष्णां प्रतिषेधा-द्दशसु प्राशस्त्यं सिद्धमेवानूद्यते ॥४७ ॥

हिन्दी – उन ( ३।४६ ) सोलह रात्रियों में प्रथम चार, ग्यारहवीं और तेरहवीं रात्रियाँ ( अर्थात् छः रात्रियाँ स्त्रीसम्भोग के लिए ) निन्दित हैं, शेष दश रात्रियाँ ( स्त्री-सम्भोग के लिये ) श्रेष्ठ मानी गयी हैं ॥ ४७ ॥

सम दिनों में पुत्रोत्पत्ति—-युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ।

तस्माद्युग्मासु पुत्रार्थी संविशेदार्तवे स्त्रियम् ॥४८ ॥

भाष्य — तासु दशसु या युग्मा रात्रयः षष्ठ्यष्टमी दशमी द्वादशी चतुर्दशी षोडशी तासूपगच्छतः पुत्रा जायन्ते 1 अयुग्मासु स्त्रियो दुहितरः । तस्मात्पुत्रोत्पत्तिसिद्ध्यर्थं युग्मासु संविशेद्भजेत मैथुनधर्मेण स्त्रियमार्तवे । अनुवादोऽयम् । अयमपि नियम एव - अनुत्पन्नपुत्रस्यायुग्मास्वगमनम् ॥ ४८ ॥

हिन्दी – पूर्वोक्त ( ३।४६ ) दश रात्रियों में से युग्म ( सम अर्थात् छठी, आठवीं इत्यादि ) रात्रियों में ( स्त्री - समागम करने से ) पुत्रोत्पत्ति होती है तथा विषम ( पाँचवीं, सातवीं, नवीं इत्यादि ( रात्रियों में ) स्त्री - समागम करने से ) कन्या की उत्पत्ति होती है, अतएव पुत्रेच्छुक पुरुष सम रात्रियों में ऋतुकाल में ( ३।४६-४७ ) स्त्री - गमन करे ॥४८ ॥

पुत्रादि की उत्पत्ति में अन्य कारण-पुमान्पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः । समेऽपुमान्पुंस्त्रियौ वा क्षीणेऽल्पे च विपर्ययः ॥ ४ ९ ॥ भाष्य - शुक्रं वीर्यं पुरुषस्य रेतः, स्त्रियाः शोणितम् । उक्तं भगवता वसिष्ठेन ( अ ० १५, सू ० १ ) “ शुक्रशोणितसम्भवः पुरुषः ” इति । स्त्रीबीजादधिके पुम्बीजेऽयुग्मास्वपि पुत्रो जायते, युग्मास्वपि स्त्रीबीजस्याधिक्ये कन्यैव । अयुग्मास्वपि रात्रिषु पुत्रार्थिनो गमनानुष्ठानार्थमेतत् । यदा परिपुष्टमात्मानं वृष्या-हारयोगेन समधिकवीर्यं मन्येत स्त्रियाश्च कथञ्चिदपचयं तदा पुत्रार्थी गच्छेदित्यु-पदिष्टं भवति ।

पृष्ठ 376

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 376 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३०२ मनुस्मृतिः [ तृतीयः आधिक्यं चात्र न परिमाणतः, किं तर्हि सारतः । अन्ये साम्य सात समेऽपुमान् मिश्रीकृते पुंस्त्रियौ । अपुमान् नपुंसकमिति केचित् । अ इति पठन्ति । उभयोः साम्येऽपुमानेव । पुंस्त्रियौ वा । गर्भाधान्यां यदा वायुर्द्रवरूपत्वात्संसृष्टे शुक्रशोणिते समं विभजेत एकत्र भागमन्यत्र तावदेव तदा यमौ जायेते । तत्र समे विभागेऽपि स्त्रीबीजाधिंक्ये

स्त्री, पुम्बीजाधिक्ये पुमान् ।

क्षीणे बीजे सारतः विपर्य्ययोऽग्रहणं गर्भस्य, नपुंसकोत्पत्तिर्वा ॥४ ९ ॥

-हिन्दी – पुरुष के वीर्य अधिक होने पर ( विषम रात्रियों में भी ) पुत्र, स्त्री बीज अर्थात् रज के अधिक होने पर ( समरात्रियों में भी ) कन्या और पुरुषबीज तथा स्त्रीबीज के समान होने पर नपुंसक या पुत्र - पुत्री दोनों की उत्पत्ति होती है और दोनों के बीज के क्षीण या कम होने पर गर्भ ही नहीं रहता ॥४९ ॥

विमर्श- -अत एव वीर्यवर्द्धक आहारादि के द्वारा वीर्य की वृद्धि तथा आहार के लाघव के द्वारा स्त्रीबीज की अल्पता मालूम कर पुत्रार्थी पुरुष की युग्म रात्रियों में ही सम्भोग करना चाहिये ।

वानप्रस्थ में भी ऋतुगमन-निन्द्यास्वष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन् ।

ब्रह्मचार्येव भवति यत्र तत्राश्रमे वसन् ॥ ५० ॥

भाष्य — निन्द्यासु षट्स्वन्यासु चानिन्द्यास्वप्यष्टासु रात्रिषु स्त्रियो वर्जयन्परि-हरन्द्वे रात्री अवशिष्टे यदि गच्छति, पर्ववर्जं, तदा ब्रह्मचार्येव भवति ब्रह्मचर्यफलं प्राप्नोति । यत्र तत्राश्रमे वसन् । अर्थवादोऽयम् । न तु वानप्रस्थाद्याश्रमेषु रात्र्यभ्यनुज्ञा जितेन्द्रियत्वविधानात्सर्वा-श्रमेषु गार्हस्थ्यादन्येषु वीप्सायाश्चार्थवादतयाऽप्युपपत्तेः । एताश्च रात्रयो वर्ज्या न क्रमेणैव, किं तर्हि यथेच्छया पर्ववर्जं गमनं यथा न भवति तथा रात्रिद्वयमभ्यनुज्ञायते । ‘ किं पुनर्ब्रह्मचर्यस्य फलम् ' । विशेषाश्रवणात्स्वर्गः । क्वचित्तु श्रूयते – “ न ब्रह्मचारी प्रत्यवैतीति ”, स्वल्पैरति-क्रमैर्न दुष्यतीति ॥५० ॥।

हिन्दी – पूर्व निन्दित ( ३।४७ ) छ: रात्रियों ( प्रथम चार, ग्यारहवीं तथा तेरहवीं ) को तथा अन्य किन्हीं आठ रात्रियों को छोड़कर ( पर्ववर्जित अर्थात् अमावस्या, पूर्णिमादि को छोड़कर ) शेष दो ( ६ + ८ = १४; १६-१४ = २ ) रात्रियों में स्त्री सम्भोग

पृष्ठ 377

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 377 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३०३ में निवास करता हुआ भी करता हुआ मनुष्य जिस किसी ( वानप्रस्थ ) अखण्डित ब्राह्मचारी ही होता है ॥ ५० ॥

आश्रय न विमर्श - वानप्रस्थ में स्त्री- सम्भोग करने का अर्थ मन्वर्थमुक्तावलीकार के अनुसार किया गया है । मेधातिथि का मत है कि ' यत्रतत्राश्रमे वसन् ' अर्थात् ‘ जिस किसी आश्रम में निवास करता हुआ ' वचन अनुवाद मात्र है; क्योंकि गृहस्थाश्रम के अतिरिक्त शेष तीनों ( ब्रह्मचर्य, वानप्रस्थ और संन्यास ) आश्रमों में जितेन्द्रिय रहने का विधान होने से उक्तवचन वानप्रस्थाश्रम में स्त्रीसम्भोगपरक नहीं है ' । गोविन्दराज का मत है कि ‘ यत्रतत्राश्रमे वसन् ' ( जिस किसी आश्रम में रहता हुआ ) इस वचन से तथा पुत्रार्थी के स्त्री - सम्भोग करने का विषय प्रस्तुत होने से और पुत्र के महोपकारक होने से उत्पन्न हुए पुत्र की मृत्यु हो जाने पर गृहस्थाश्रम से भिन्न आश्रम में रहने वाले भी पुत्रार्थी पुरुष को उक्त दो रात्रियों में स्त्री सम्भोग करने का विधायक उक्त वचन है ' वास्तविक विचारणा करने पर तो यही निष्कर्ष निकलता है कि उक्त वचन ब्रह्मचर्य का महत्त्वसूचक अर्थवाद ( प्रशंसापरक ) वाक्य है । अत एव गृहस्थाश्रम से भिन्न आश्रम में हरने वाले को नियमित रूप से अखण्ड ब्रह्मचारी ही रहना चाहिये ॥ वर से कन्याशुल्क ( मूल्य ) ग्रहण का निषेध-न कन्यायाः पिता विद्वान्नगृह्णीयाच्छुल्कमण्वपि । गृहञ्छुल्कं हि लोभेन स्यान्नरोऽपत्यविक्रयी ॥ ५१ ॥

भाष्य- - आसुरे शुल्कप्रतिषेधोऽयं उत्तरत्र च कन्यार्थसंग्रहोपादानात् । विद्वान् ग्रहणदोषज्ञः । कन्यापिता स्वल्पमप्यर्थं धनं न गृह्णीयात् । गृह्णानोऽपत्यवि-क्रयदोषेण युज्यते । कः पुनरेषः शुल्को नाम । आभाषणपूर्वं वराद्गृहीतम् । यत्र तूच्चनीचपणापणो भवति, कन्यागुणापेक्षमूल्य-व्यवस्था, स क्रय एव । इह तु महागुणाया अपि कन्याया: स्वल्पं धनम् । अनाभाषण-पूर्वं वा ग्रहणम् । न विक्रयस्यैष धर्म इत्यतो विक्रयाध्यारोपेण निन्द्यते ॥५१ ॥

हिन्दी — वर से धन लेने में दोष को जानने वाला कन्या का पिता ( वर से या वरपक्ष वालों से ) थोड़ा भी धनादि ( कन्यादान निमित्त ) न लेवे; क्योंकि लोभ से धन को ग्रहण करता हुआ मनुष्य सन्तान को बेचने वाला होता है ॥५१ ॥

स्त्रीधन लेने का निषेध-स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः ।

नारीयानानि वस्त्रं वा ते पापा यान्त्यधोगतिम् ॥ ५२ ॥

पृष्ठ 378

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 378 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३०४ मनुस्मृतिः [ तृतीयः भाष्य- - पूर्वस्यैव शेषः । स्त्रीनिमित्तानि धनानि, कन्यादाने वराद्यानि गृह्यन्ते ये बान्धवाः पित्रादयः मोहादुपजीवन्ति । यथोक्तं ' ज्ञातिभ्यो द्रविणं दत्वेति ' । सुवर्णरजतादि ‘ धनम् ’ । नारीयानानि । यानमश्वादि । वस्त्रं वा । एतावन्मात्रमपि न जातूपजीवनीयं वासो यानादि, किं पुनर्बहु । उपजीवतां फलमाचष्टे । ते पापाः शास्त्रप्रतिषिद्धसमाचरणादधोगतिं नरकं यान्ति । अथवा स्त्रीधनानीति नवमे दर्शयिष्यति । तानि ये मोहादुपजीवन्ति बान्धवाः, पिता तत्पक्षाश्च, भर्ता भर्तृपक्षाश्च । एवं यानादि । एवं वस्त्रम् । स्त्रीणां बुद्धौ सन्निधाना-च्छाब्दः सन्निधिः कल्प्यते यथा “ राजपुरुषः कस्य । राज्ञः ” इति ॥५२ ॥

हिन्दी — जो ( पति या पति के पिता आदि ) बान्धव स्त्री के धन ( स्त्री या पुत्री को दिये गये ) दास, सवारी, वस्त्र, आभूषणादि को मोह के कारण ले लेते हैं; वे पापी अधोगति को जाते हैं ॥ ५२ ॥

आर्ष विवाह में उक्त गोमिथुन लेने का निषेध -आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत् । अल्पोऽप्येवं महान्वाऽपि तावानेव स विक्रयः ॥ ५३ ॥

भाष्य — स्त्रीगवी च पुंगवश्च गोमिथुनम् । केचिदाहुरेतदादेयमिति । मनोस्तु मतम् — मृषैव तत् मिथ्या । नादेयमित्यर्थः 1

। अल्पोऽप्येवम् । अल्पसाधनोऽल्पः ।

एवं महान् भवति । तावानेव विक्रयः ॥ ५३ ॥

हिन्दी — कोई आचार्य आर्ष विवाह में गोमिथुन ( एक गाय और एक बैल कन्यादान तथा यज्ञादि के वास्ते ) लेने को कहते हैं ( ३।२ ९ ), वह असत्य है; क्योंकि इस प्रकार थोड़ा सा अधिक धन लेना विक्रय ( कन्यादान का बेचना ) ही है ॥५३ ॥

विमर्श — गोविन्दराज का यह मत है कि “ एकं गोमिथुनं ( ३।२ ९ ) श्लोक मनु का मत नहीं है ' किन्तु यह कथन ठीक नहीं है; क्योंकि वर से गोद्वय लेकर कन्यादान करना ही मनुसम्मत ' आर्ष विवाह ' का लक्षण है ( ३।२ ९ ), ऐसा नहीं मानने पर मनुसम्मत कोई लक्षण ही ' आर्ष विवाह ' का नहीं होगा । यदि यह कहें कि उक्त लक्षण ( ३।२ ९ ) दूसरे किसी आचार्य का है ( इसी से प्रकृत श्लोक ( ३।५३ ) की सङ्गति होती है ( तो ऐसा ) ‘ एकं गोमिथुन ' ( ( ३।२ ९ ) श्लोक ( दूसरे किसी आचार्य का ) माननेसे मनु के मत से ' आर्ष विवाह का ' का कोई लक्षण ही नहीं होगा । इस कारण से तथा आर्षादि अष्टविध विवाहों और आर्षविवाह - विधि से विवाहित स्त्री की सन्तान के गुणों को कहते हुए मनु का अपने मत से आर्षविवाह के लक्षण नहीं कहने से

पृष्ठ 379

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 379 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा’हिन्दीटीकासहिता ३०५ उसकी असामर्थ्य सूचक न्यूनता प्रकट होती है, जो ' सर्वथा असम्भव एवं अनुचित है । मेधातिथि ने तो पूर्वापर - विरोध ( ३ । २ ९ तथा ३।५३ का परस्पर विरोध ) का उद्घाटन तथा निराकरण ही नहीं किया । अत: कुल्लूकभट्ट ने इस प्रकार से इस

श्लोक की व्याख्या की है— ' आर्ष विवाह में गोमिथुन ग्रहण करने को शुल्क उत्कोच

( घूस या फीस या मूल्य ) रूप कोई - कोई आचार्य कहते हैं । ( परन्तु ) मनु का यह मत

नहीं है, शास्त्रनियमित जातिसंख्यक ग्रहण शुल्क ( उत्कोच ) नहीं है, शुल्क में मूल्य की अधिकता या न्यूनता ( कमी ) अनुपयुक्त है वह तो बेचना ही होगा; परन्तु ' आर्ष ' विवाह के सम्पन्न होने के लिये अवश्य कर्तव्य ( तत्सम्बद्ध ) यागसिद्ध्यर्थ या कन्या के लिये दानार्थ शास्त्रीय धर्मार्थ ही ( उक्त गोमिथुन ) ग्रहण किया जाता है । हाँ लोभ से धन ग्रहण करना शास्त्रमर्यादा के विरुद्ध शुल्क ( घूस या मूल्य ) ही होगा । इसी प्रकार ' लोभ से शुल्क लेता हुआ, ( गृह्णन् शुल्कं ही लोभेन —३।५१ ) वचन द्वारा लोभ से शुल्क लेने की मनु ने निन्दा की है । अतएव ' पूर्वापरक के विचार से आर्ष विवाह में धर्मार्थ ( विवाहादि याग के लिए या कन्या को देने के लिये ) गोमिथुन ग्रहण करना चाहिये, अपने भोगार्थ नहीं ' यह अपना मत मनु ने कहा है " ।

कन्यार्थ द्रव्य लेना भी शुल्क नहीं-काग यासां नाददते शुक्लं ज्ञातयो न स विक्रयः ।

अर्हणं तत्कुमारीणामानृशंस्यं च केवलम् ॥५४ ॥

भाष्य —– “ किं वराद्धनाधिगमो विक्रयो भवति ” । नेति ब्रूमः । ज्ञातयः कन्यायामधिकृताः स्वार्थमाददते गृह्णन्ति तदा सविक्रयः । अर्हणं कन्यार्थे धनग्रहणं कन्यानां तदर्हणं पूजनं भवति । बहुमानः कन्यानामात्मनि भवति, ‘ ईदृश्यो वयं यद्धनं दत्वा विवाह्यामहे ' । अन्यत्रापि पूज्या भवन्ति ‘ सुभगा एता ' इति । आभरणादि वा तेन धनेन कर्तव्यमतोऽभ्यर्हिताः शोभावत्यो भवन्ति ।

आनृशंस्यमपापत्वं केवलं न स्वप्लोऽप्यधर्मगन्धोऽस्ति ।

अतोऽनेनार्थवादेन कन्यार्थं धनग्रहणं विधीयते ॥४५ ॥

हिन्दी — कन्या की प्रीतिवास्ते वर ( या वरपक्ष वालों ) से दिये गये धन को यदि कन्या के पिता या जातिवाले स्वयं नहीं लेते हैं ( अपितु वह धन कन्या को ही दे देते हैं ) तो वह ( धनग्रहण ) भी कन्या- विक्रय नहीं है, वह तो केवल उस पर दयामात्र है ॥५४ ॥

कन्या को वस्त्राभूषण से अलङ्कृत करना-पितृभिर्भ्रातृभिश्चैताः

पतिभिर्देवरैस्तथा ।

पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः ॥ ५५ ॥

पृष्ठ 380

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 380 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३०६ मनुस्मृतिः [ तृतीयः भाष्य — न केवलं वरादादाय दातव्यं कन्याबन्धुभिरपि तु तैरपि दातव्यम् । पितृभिः साहचर्यात्पितृशब्दः पितामहपितृव्यादिषु वर्तते, ततो बहुवचनम् । व्यक्त्यपेक्षं वा बहुवचनम् । एवं पतिभिः श्वशुरादिभिर्व्यक्त्यपेक्षं वा । देवराः पत्युर्भ्रातरः । पूज्याः । पुत्रजन्माद्युत्सवेषु निमन्त्रणपूर्वकमानाश्रयबहुमानमादरेण भोजना-दिना पूज्याः । भूषयितव्याः । वस्त्राद्यलङ्कारेणाङ्गलेपनादिभिर्मण्डयितव्याः । अत्र फलं बहुकल्याणमीप्सुभिः । कल्याणं कमनीयं पुत्रधनादिसम्पदरोगताऽ-परिभव इत्यादि बहुशब्दात्सर्वमीप्सुभिराप्तुमिच्छुभिः प्राप्तुकामैः । फलार्थो विधिरयम् ॥५५ ॥

हिन्दी – अपना अधिक कल्याण चाहने वाले कन्या के पिता, भाई, पति और देवर को चाहिये कि वे सदा ( विवाह के बाद भी ) कन्या का पूजन ( आदर - सत्कार ) करें तथा वस्त्राभूषणों से उसे अलङ्कृत करें ॥ ५५ ॥

कन्या के आदर तथा अनादर के फल-यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।

यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥ ५६ ॥

भाष्य – देवता रमन्ते तुष्यन्ति प्रसीदन्ति ॥ प्रसन्नाश्च स्वामिन एवाभिप्रेतेन तसादान्त फलेन योजयन्ति । यत्र तु पूज्यन्ते तत्र सर्वाः क्रियाः यागहोमदानाद्या देवताराधनंबुद्ध्या चोपहा-रादयो याः क्रियन्तेऽफलास्ता इत्यर्थवादः ॥५६ ॥

हिन्दी - जिस कुल में स्त्रियों की पूजा ( वस्त्र, भूषण तथा मधुर वचनादि द्वारा आदर - सत्कार ) होती है, उस कुल पर देवता प्रसन्न होते हैं और जिस कुल में इन ( स्त्रियों ) की पूजा नहीं होती उस कुल में सब कर्म निष्फल होते हैं, ( अतएव स्त्रियों का अनादर कभी नहीं करना चाहिए ) ॥ ५६ ॥

[ शोचन्ति जामयो यत्र विनश्यत्याशु तत्कुलम् । न शोचन्ति तु यत्रैता वर्धते तद्धि सर्वदा ॥ १ ॥ ]

[ हिन्दी — जिस कुल में जामि ' ( स्त्री, पुत्रवधू, वहन, भानजी, कन्या आदि ) शोक करती हैं, वह कुल शीघ्र ही नष्ट हो जाता है और जिस कुल में ये शोक नहीं करतीं ( प्रसन्न रहती हैं ) वह कुल सर्वदा उन्नति करता है || १ || ] १. “ मेधातिथि - गोविन्दराजौ तु ' नवोढादुहितृस्नुषाद्या जामयः ' इत्याहतुः ” इति ( म ० मु ० ) । अमर - हेमचन्द्र हलायुध - मेदिनीकार विश्वादयः कोषकारास्तु यामिः ( जामि:) ‘ स्वसृकुल-स्त्रियोः ' इत्याहुः । शाश्वतस्तु ' अत्र कुलबालिकायाञ्चेत्याह ।