मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 381–390
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 381–390
पृष्ठ 381
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता [ जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः । तानि कृत्याहतानीव विनश्यन्ति समन्ततः ॥ २ ॥ ]
३०७ [ हिन्दी — जिस गृह को ये जामियाँ ( स्त्री, पुत्रवधू, वहन, भानजी, कन्या आदि ) अनादर पाकर शाप देती हैं, वह गृह कृत्या ( अभिचारकर्म — मारण, मोहन उच्चाट - नादि ) से हत के समान सब ओर से ( धन, धान्य, परिवार अ आदि के सहित ) नष्ट हो जाता है || २ || ] उत्सवादि में स्त्रियों की विशेष पूजनीयता -[ तस्मादेताः सदा पूज्या भूषणच्छादनाशनैः । भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सवेषु च ॥ ३ ॥ ]
[ हिन्दी – इस कारण उन्नति चाहने वाले मनुष्यों को ( कौमुदी आदि ) सत्कार तथा ( यज्ञोपवीत आदि ) उत्सवों के अवसरों पर इन स्त्रियों का वस्त्र, भूषण और भोजनादि से विशेष आदर सत्कार करना चाहिए || ३ || ] दम्पति की सन्तुष्टि का फल— [ सन्तुष्ट भार्यया भर्ता भर्त्रा भार्या तथैव च । यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥४ ॥ ]
[ हिन्दी — जिस कुल में स्त्री से पति तथा पति से स्त्री सन्तुष्ट रहती है; उस कुल में अवश्य ही सर्वदा कल्याण होता है || ४ || ] स्त्री को अलङ्कारादि से सन्तुष्ट नहीं करने का फल-[ यदि हि स्त्री न रोचेतं पुमांसं न प्रमोदयेत् । अप्रमोदात्पुनः पुंसः पुजनं न प्रवर्तते ॥ ५ ॥ ]
[ हिन्दी — यदि स्त्री वस्त्राभूषण आदि से रुचिकर नहीं होती है, तो वह पति को आनन्दित नहीं करती और हर्षित नहीं होने से वह पति गर्भाधान करने में प्रवृत्त ( समर्थ ) नहीं होता है ॥ ५ ॥ ]
[ यदा भर्ता च भार्या च परस्परवशानुगौ । तदा धर्मार्थकामानां त्रयाणामपि सङ्गतम् ॥ ६ ॥ ]
[ हिन्दी – जब पति और स्त्री परस्पर वशीभूत होकर एक दूसरे का अनुगामी होते हैं, तब ( उस घर में ) धर्म, अर्थ और काम ( ये तीनों ही पुरुषार्थ ) एकत्रित हो जाते हैं || ६ || ] [ स्त्रियां त्वरोचमानायां सर्वं तद्रोचते कुलम् । तस्या त्वरोचमानायां सर्वमेव न रोचते ॥ ७ ॥ ]
पृष्ठ 382
पाठ पढ़ें पाठ छिपाएँ
३०८ मनुस्मृतिः [ तृतीयः [ हिन्दी — वस्त्र - भूषणादि के द्वारा स्त्री के प्रसन्न रहने पर वह सम्पूर्ण कुल ( पत्नी की सन्तुष्टता के कारण परपुरुष के सम्बन्ध नहीं होने से ) सुशोभित होता है तथा उस ( स्त्री ) के ( वस्त्र - भूषणादि से ) प्रसन्न नहीं रहने पर वह सम्पूर्ण कुल ( पत्नी के प्रसन्न नहीं रहने के कारण परपुरुष संसर्ग आदि से ) मलिन हो जाता है ॥७ ॥ ]
कुल के नीच बनाने वाले कर्म— [ कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च । कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥८ ॥ ]
[ हिन्दी – ( ' आसुर ' आदि ) शास्त्रनिन्दित विवाहों से, जातकर्मादि संस्कारों के लोप होने ( नहीं करने ) से, वेदाध्ययन छोड़ देने से और ब्राह्मणों के अतिक्रमण ( आदर, सत्कार नहीं ) करने से श्रेष्ठ कुल भी नीच हो जाता है || ८ || ] [ शिल्पेन व्यवहारेण शूद्रापत्यैश्च केवलैः । गोभिरश्वैश्च याजनैश्च कृष्या राजोपसेवया ॥ ९ ॥ ]
[ हिन्दी - चित्रकारी आदि शिल्पकला से, धन का ( ब्याज आदि पर ) व्यवहार करने से, केवल शूद्रा ( शूद्रवर्णोत्पन्न स्त्री ) की सन्तान से; गौ के ( घोड़ा; रथ, हाथी आदि के भी ) खरीदने - बेचने का व्यापार करने से, खेतों से, राजा की नौकरी से || ९ || ] [ अयाज्ययाजनैश्चैव नास्तिक्येन च कर्मणाम् । कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः ॥ १० ॥ ]
[ हिन्दी – यज्ञ करने के अनधिकारियों ( पतित, शूद्रादि ) से यज्ञ कराने से, श्रौतस्मार्त कर्मों में नास्तिक्य ( वेद - स्मृति प्रतिपादित यज्ञादि कर्मों में विश्वास नहीं करने ) से और वेद - मन्त्र - हीन होने से अच्छे कुल भी नष्ट हो जाते हैं || १० || ] कुल को उच्च बनाने वाले कर्म-[ मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि । कुलसंख्यां च गच्छन्ति कर्षन्ति च महद्यशः ॥ ११ ॥ ]
[ हिन्दी — वेद - मन्त्रों से ( अर्थ सहित वेद मन्त्रों के पठन - पाठन से ) उन्नत, थोड़े धनवाले भी कुछ श्रेष्ठ कुलों की गणना में माने जाते हैं और बहुत प्रसिद्धि को प्राप्त करते हैं ॥११ ॥ ]
पञ्चमहायज्ञ का अनुष्ठान-वैवाहिकेऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि ।
पञ्चयज्ञविधानं च पक्तिं चान्वाहिकीं गृही ॥ ५७ ॥
भाष्य-य - अतिक्रान्तं विवाहप्रकरणम् । क
पृष्ठ 383
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३० ९ कृतो विवाहो यस्मिन्नग्नौ तत्र कुर्वीत गृह्यं कर्म, अग्निसाध्यमष्टकापार्वण-श्राद्धहोमादि गृह्यस्मृतिकारैरुक्तम् । पञ्चयज्ञा वक्ष्यमाणास्तेषां विधानमनुष्ठानम्, तस्मिन्नेवाग्नौ । “ यद्यप्यविशेषेण पञ्चयज्ञविधानमित्युक्तं तथापि वैश्वदेवहोमोऽग्निसाध्यः, उदकत-र्पणादौ तु न किञ्चिदग्निना कार्यम् । कथं तर्हि निर्देशोऽग्नौ पञ्चयज्ञविधानं कार्यमिति । ” केचिदाहुरेकाऽपि सप्तमी विषयभेदाद्भिद्यते 1 । तस्मात्पञ्चयज्ञैकदेशे पञ्चयज्ञशब्दः प्रयुक्त: । अथवा पञ्चयज्ञविधानमित्यत्राग्नाविति न सम्बध्यते 1 । वैश्वदेवहोमस्य पूर्वेणैवा-ग्न्यधिकरणस्य सिद्धत्वात् । एवं सम्बन्धः क्रियते — ' गृही तु पञ्चयज्ञविधानं कुर्यात् ’ । अग्नौ तु वैवाहिकेगृह्यकर्मपक्तिं चान्वाहिकीमग्नावित्यपेक्ष्यते । गृहशब्दो दारवचन: । गृही तु स कृतदारपरिग्रहो भार्याद्वितीय इदमिदं कुर्यादिति । विवाहे चाग्निः कैश्चिद्गृह्यकारैररणिनिर्मन्थनादाधातव्य इत्युक्तम् । अपरैर्यतः कुतश्चिद्दिप्यमानमानीय होतव्यमिति । अनेन तस्मिन्गृह्यमिति वचनेन धारणमग्नेरर्थादुक्तं भवति । अत्र केचिदाहुः । “ शूद्रस्यापि वैवाहिकाग्निधारणमस्ति, तस्यापि पाकयज्ञाधि-कारात् । न चात्र जातिविशेष उपात्तः, केवलं ' गृहीति ' श्रुतम् । शूद्रोऽपि गृही, तस्यापि दारपरिग्रहस्योक्तत्वात् । एतदेवान्यत्र पठितं ' कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ' इति ” ( याज्ञ ० १.९ ७ ) । यत्रोच्यते । ‘ गृह्यं कर्म वैवाहिकेऽग्नाविति ' श्रुतम् । न च ‘ गृह्यं ’ नाम किञ्चित्क-र्मास्ति । तत्र गृह्यस्मृतिकारोक्तं ‘ गृह्यमिति ' लक्षणया मन्तव्यम् । गृह्यकारैश्च त्रैवर्णिका-नामेव कर्माम्नातं, न शूद्रस्य । “ उक्तानि वैतानिकानि गृह्यणि वक्ष्याम ” इति । उक्तानुकीर्तनस्य एतदेव प्रयोजनं ' येषामेव वैतानिकेष्वधिकारस्तेषामेव गृह्येष्विति ', न पुनर्यथाऽन्यैर्व्याख्यातं तद्धर्मप्राप्त्यर्थम् । तादर्थ्ये हि विवक्षिते ' तस्याग्निहोत्रेण प्रादुष्करणहोमकालौ व्याख्याताविति ' नावक्ष्यत् । न च गृहे भवं गृह्यमिति युक्तम् । शालावचनो गृहशब्दो दारवचनो वा । न तावत्कस्यचित्कर्मणः शालाऽधिकरणत्वेन विशेषतः समाम्नाता यद्गृह्यमित्यनूद्य गृहिणो विधीयेत । यदपि गृहसंस्कारकं वास्तु-परीक्षादि तदपि त्रैवर्णिकानामेव न शूद्रस्य । अथ दारवचनस्तत्रापि गृहीत्यनेनैव गतत्वान्न किञ्चित् । यदपि स्मृत्यन्तरं ( याज्ञ ० १.९ ७ ) “ कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही दायकालाहृते वाऽपि श्रौतं वैतानिकाग्निषु ' इति, अत्रापि किञ्चित्स्मार्तमिति मनु I- 24
पृष्ठ 384
पाठ पढ़ें पाठ छिपाएँ
३१० मनुस्मृतिः [ तृतीय: विशेषानुपादानादन्यसापेक्षतैव । न हि सर्वमग्नौ स्मार्तं कर्म सम्भवति । न च होम-विषयत्वे प्रमाणमस्ति । न ह्यवश्यमग्न्यधिकरण एव होम: । तस्माद् गृह्यकारोक्तं गृह्यमिति वक्तव्यम् । एते हि स्मृति गृह्यकारविहितं कर्मानुवदतः । तथा च कुतः शूद्रस्याग्निपरिग्रहः । किं च “ श्रौतं वैतानिकाग्निषु " इति अपरं तत्राम्नायते, तत्र अवश्यमयं त्रैवर्णिकविषय एषितव्यः । स एव पूर्वत्र चातुर्वर्ण्यपर उत्तरत्र त्रैवर्णिकपर इत्येकस्य शब्दस्य तात्पर्यभेदोऽभ्युपगतः स्यात् । न चाभेदे सम्भवति भेदो न्याय्यः । अन्वहं भवाऽऽन्वाहिकी । प्रतिदिवसं यः पाको भुक्त्यर्थः स तस्मिन्नेवाग्नौ कर्तव्यः ॥५७ ॥
हिन्दी— ( अब वैवाहिक कर्म का वर्णन समाप्त कर गृहस्थ के लिये कर्तव्य पञ्चमहायज्ञादियों में से पञ्चमहायज्ञ की कर्तव्यता को प्रथम कहते हैं - गृहस्थाश्रमी को चाहिये कि वह ) विवाह - समय की अग्नि में विधिपूर्वक गृह्यकर्म ( प्रात: सायं हवन आदि कर्म ) –पञ्चमहायज्ञ ( ३।७० ) और ( प्रतिदिन कार्य में आने वाला ) पाक भी उसी अग्नि से करे || ५७ ||
पञ्चसूना गृहस्थस्य चुल्ली पेषण्युपस्करः ।
कण्डनी चोदकुम्भश्च वध्यते यास्तु वाहयन् ॥ ५८ ॥
भाष्य – पञ्चयज्ञविधेरधिकारनिर्देशोऽयम् । सूना इव सूनाः । मांसविक्रयार्थपशुवधस्थानमापणादयो वा मांसस्योत्पादक-तयाऽनुष्ठीयमानाः, पापहेतवः । एवं चुल्यादयोऽपि पापहेतुत्वादध्यारोपेण सूनासमाः । न हि तेषां शास्त्रप्रतिषेधः साक्षात् । नापि सामान्यः कश्चित्प्रतिषेधोऽस्ति । न हि तापघाताय कस्यचिन्न स्पृहा स्यात् । न काचित्तत्साध्यक्रिया दृश्यते या वचनान्तरेण निषिद्धा । न चास्मादेव वचनात्प्रतिषेधानुमानम्, उत्तरेणैकवाक्यतावगमात् । प्रतिषेधपरत्वे वाक्यभेदः स्यात् । किं चैतत्पदार्थसाध्यामर्थक्रियां पदार्थान्तरेण साधयेत्तस्याः प्राप्तिः पञ्चयज्ञानाम् । न च लक्षणान्युक्तानि । येन तत्समानकार्यस्यान्यस्यापि प्रतिषेध उच्येत । यो वा परकीयमन्नमद्यात् नद्यादावुदकार्थं कुर्यात् तस्यैते यज्ञाः स्युः । यदि च चुल्ल्यादीनां निषेधोऽभिप्रेतः स्यात्तदा प्रतिषेधार्थीयमेव पदमधियीत, किमनुमानेन । स्वशब्दाद्धि बलीयसी प्रतिपत्तिः । प्रायश्चित्तार्थत्वे त्वेकादशेऽभिधानं | निषेधैरे-युक्तम् । वाननुष्ठानमेव स्यात् । अपरिहार्यत्वाच्च चुल्ल्यादीनामशक्यो निषेधः । असति च निषेधे कुतः प्रायश्चित्तम् । तस्मान्न दोषविघातार्थं पञ्चमहायज्ञाः । किं तर्हि नित्यसम्बन्धेषु चुल्ल्यादिष्वारोपि-
पृष्ठ 385
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता तासद्दोषनिष्कृत्यर्थतया नित्यार्थतया नित्यत्वं यज्ञानामाह । ३११ बध्यते । आदिवर्णं वेत्येतद्दन्तोष्ठ्यं पठ्यते । हन्यते दुष्कृतेन, शरीरधनादिना नाश्यते । सम्बध्यते वा पापेन - परतन्त्रीकरणं वा बघ्नातेरर्थः । वाहयन् । स्वकार्ये व्यापारणं ' वाहनम् ' यस्य चुल्ल्यादेर्यदौचित्यप्राप्तं स्वसाध्यं कार्यं तत्ताभिः कुर्वन्वाहयन्नित्युच्यते । चुल्ली पाकस्थानं भ्राष्ट्रादि । पेषणी दृषदुपलो वा । उपस्करो गृहोपयोगि
भाण्डं कुण्डकटाहादि । कण्डनी यया व्रीह्यादि कण्ड्यते । कुम्भो जलाधारः ॥५८ ॥
हिन्दी - गृहस्थ के लिये चुल्ही, चक्की ( जाँता ), झाडू, ओखली - मुसल और जल का घट — ये पाँच पाप के स्थान हैं, इन्हें व्यवहृत करता हुआ गृहस्थ पाप से बँधता ( पापभागी होता ) है ॥ ६८ ॥
पञ्चसूना के निवृत्यर्थ पञ्चमहायज्ञानुष्ठान—
तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः ।
पञ्च क्लृप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम् ॥ ५ ९ ॥
भाष्य — तासां चुल्ल्यादीनां सूनानां निष्कृत्यर्थं तदुत्पन्नदोषनिर्यातनार्थं क्रमेणा-धिलेपनं चुल्ल्यास्तक्षणं पेषण्या इत्येवमादि‘क्रमः ’ । महर्षिभिः क्लृप्ताः कर्तव्यतया स्मृताः पञ्च महायज्ञाः । प्रत्यहं गृहमेधिनां गृहस्थानाम् । गृहमेधिशब्दो गृहस्थाश्रमे वर्तते । प्रत्यहमिति । अनुपादानात्कालविशेषस्य, यावज्जीवमिति प्रतीयते । अतश्च
नित्यत्वसिद्धिः ।
महायज्ञा इति कर्मनामधेयमेतत् ॥५ ९ ॥।
हिन्दी – उन सबों ( ३।६८ ) में उक्त पञ्चपापों ) की निवृत्ति के लिये महर्षियों ने पञ्चमहायज्ञ करने का विधान गृहस्थाश्रमियों के लिये बतलाया है ॥५ ९ ॥।
पञ्चमहायज्ञों का नामतः निर्देश-अध्यापनं ब्रह्मयज्ञः, पितृयज्ञस्तु तर्पणम् ।
होमो दैवो, बलिभतो, नृयज्ञोऽतिथिपूजनम् ॥ ६० ॥
भाष्य — एषामयं स्वरूपविधिः । अध्यापनशब्देनाध्ययनमपि गृह्यते येन ' जपो हुत ' इत्यत्र वक्ष्यति ( श्लो ० ७४ ) । न च जपोऽपि शिष्यानपेक्षते । सामान्येन च श्रुतं ' स्वाध्यायेनर्षिभ्य ' इत्यृ-णावेदनश्रुतौ । अत उभे अध्यापनाध्ययने यथासम्भवं ब्रह्मयज्ञः ।
पृष्ठ 386
पाठ पढ़ें पाठ छिपाएँ
३१२ मनुस्मृतिः तर्पणमन्नाद्येनोदकेन वेति वक्ष्यति ( श्लो ० ८२ ) । होमो वक्ष्यमाणाभ्यो देवताभ्योऽग्नौ । [ तृतीयः बलिः शिष्ट उलूखलादौ च । स भौतः । भूतादिदेवताऽस्येति भौतः । नाम-धेयमेतत्कर्मविशेषस्य । दिवाचारिभ्यो भूतेभ्य इति हि तत्र बलिहरणं भूतशब्देन विहितम् । साहचर्यात्सर्व एष कर्मगणो भूतयज्ञशब्देनोच्यते । यथा चातुर्मास्येष्वेकं हविर्वैश्वदेवमामिक्षा — कृत्स्नमेव च पर्व वैश्वदेवेन यजेतेति । बलिशब्दोऽनग्निहोमे वर्तते । देवेज्याबलिरिति स्मरन्ति । अतिथीनां पूजनमाराधनं नृयज्ञः । “ ननु च स्वाध्यायः कथं ‘ यज्ञः ' । न हि तत्र देवता इज्यन्ते नापि श्रूयन्ते । केवलं वेदाक्षरा'यविवक्षितार्थान्युच्चार्यन्ते । उक्तं चाम्नायशब्दाभ्यासे केचिदाहुर-नर्थकानीति ” । सत्यम् । स्तुत्यां यज्ञशब्दो भाक्तः महच्छब्दश्च । अतिथिपूजायामपि भाक्तो यज्ञशब्दः यद्यप्यतिथेर्देवतात्वं सम्भवति तथाप्युत्पत्तौ भोजयेत्पूजयेदिति च श्रुतं नातिथिभ्यो यजेतेति । यथा ' पुरुषराजाय कर्म वा ' इति । एते पञ्चयज्ञा न युगपत्प्रयोज्याः, एकाधिकारासम्बन्धात्पृथगधिकारश्रवणात् । एकाधिकारसम्बन्धत्वे त्रिषु चतुर्षु वा कृतेषु न किञ्चित्कृतं स्याद्यावत्कृतं च न कृतम् । यथाऽऽग्नेयाग्नीषोमीयोपांशुयाजानां दर्शपूर्णमासयागानामेकद्व्यनुष्ठाने नाधिकारसिद्धिः । यथाऽत्रैव वैश्वदेवहोमे स्विष्टकृदन्तानां देवतानां कस्याश्चिदन्तराये न होमाधिकार-निर्वृत्तिः । एकैकस्य चात्राधिकारः श्रुतः । ' स्वाध्याये नित्ययुक्तः स्यात् ' ( श्लो ० ७५ ) — ‘ दैवे च नित्ययुक्तः स्यादिति ' । अधिकारपदानुषङ्गेण पृथक्प्रयोगः । आतिथ्ये चाधिकारान्तरं श्रुतं ‘ धन्यं यशस्यमिति ' । तत्र चत्वारः स्वाधीनाः, आतिथ्यं तु सन्निहितेऽतिथौ । न चातिथिर्निमन्त्रयि-तव्यः, आतिथ्याभावात् । स्वयमुपस्थितो ह्यतिथिर्भवतीति वक्ष्यामः । तस्मात्पञ्चाना-मन्यतमानुष्ठाने इतरेषामननुष्ठानाद्यदि नाम प्रत्यवेयान्न तु कृतमकृतं भवति I । अतोऽनग्नि-कत्वाद्वैश्वदेवेऽनधिकृतस्य स्वाध्यायोदकतर्पणादौ भवत्येवाधिकारः । अग्निपरिग्रहस्य च स्मृत्यन्तरे कालान्तरस्यापि श्रुतत्वान्नावश्यं विवाहे एव परिग्रहः । एवं हि । स्मृतिः “ भार्यादिरग्निर्दायादिर्वा " इति । " ननु चाकृतविवाहस्य दायकालमाधानं भविष्यति ” । भवति ह्येतदेवं यद्याधानविधिः स्वार्थः स्यात् । अग्न्यर्थं त्वाधानम् । अग्निश्च कर्मार्थः । कर्माणि च भार्याद्वितीयस्य, न केवलस्य, श्रुतानि । यदपि कैश्चिद्गृह्यकारैः
पृष्ठ 387
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३१३ परमेष्ठिप्राणाग्निमाधाय श्राद्धं कुर्यादित्युक्तं भवति तदपि सभार्यस्यैव । स एवास्य दायकालः । न चानग्निकस्य श्राद्धं नास्ति । अनुपनीतस्यापि ह्येतद्विहितमन्यत्र स्वधानि-नयानादिति । न च तस्याधानमस्ति, विदुषोऽधिकारादिदानीं चाविद्यत्वात् । श्राद्धं तु वचनान्निषादस्थपतिवद्यथाशक्ति कार्यमिति । पितृव्यादिनाग्निपरिग्रहे तु विदुषां सम्भवा-नावैद्यस्याधिकारः । अथ श्राद्धप्रकरण एवाग्न्याधानं विहितं तदा तदङ्गत्वेनाधाय निष्पन्ने श्राद्धे परित्यागो भविष्यति । केचित्तु स्मृत्यन्तरमुदाहरन्ति “ लौकिकेऽप्यग्नौ
वैश्वदेवहोमः कर्तव्यः ” । शुष्कान्नैरपरे ॥ ६० ॥
हिन्दी - वेद का अध्ययन और अध्यापन करना ' ब्रह्मयज्ञ ' है, तर्पण करना ‘ पितृयज्ञ ’ है, हवन करना ' देवयज्ञ ' है, बलिवैश्वदेव करना ' भूतयज्ञ ' है तथा अतिथियों का भोजन आदि से सत्कार करना ' नृयज्ञ ' है ॥६० ॥
पञ्चमहायज्ञ से पञ्चपापमुक्ति–
पञ्चैतान्यो महायज्ञान्न हापयति शक्तितः ।
स गृहेऽपि वसन्नित्यं सूनादोषैर्न लिप्यते ॥ ६१ ॥
भाष्य — नित्यत्वमत्र विधीयते । अन्यदनूद्यते । विगुणा अप्येते यथाशक्ति कर्तव्याः । एतदपि नित्यत्वात्प्राप्तमेव । तस्माद्यथासम्भवं शक्तित इति । आद्यादित्वात्तसिः । हापयतीति प्रकृत्यर्थ एव, णिजर्थस्याविवक्षितत्वात् । अथवा हननं हा, सम्पदा-दित्वात्क्विप्; तामापयतीति ण्यत्, आप्नोतेः कर्तरि क्विप्, तदन्तात्प्रातिपदिकाद्धात्वर्थे
णिच् । न हापयति न त्यजेदित्यर्थः ।
स्वगृहे वसन्नवश्यभाविनीषु सूनासु न तत्पापेन सम्बध्यत इति प्रशंसा ॥ ६१ ॥
हिन्दी — यथाशक्ति इन पञ्चमहायज्ञों ( ३।७० ) को नहीं छोड़ने वाला गृहस्था-श्रम में रहता हुआ भी द्विज ' पञ्चसूना ' ' पाँचपाप ' ३।६८ ) के दोषों से युक्त नहीं होता है ॥६१ ॥
देवता अतिथ्यादि को सन्तुष्ट नहीं करने से निन्दा—
देवतातिथिभृत्यानां पितॄणामात्मनश्च यः ।
न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ॥ ६२ ॥
भाष्य- अननुष्ठाननिन्दया प्रकृतविधिस्तुतिः । केचिच्चतुर्थ्या पठन्ति “ देवतातिथिभृत्येभ्यः पितृभ्यश्चात्मने तथा न निर्वपति पञ्चभ्यः ” इति ।
पृष्ठ 388
पाठ पढ़ें पाठ छिपाएँ
३१४ मनुस्मृतिः [ तृतीय: निर्वापो ह्यत्र दानं, न तादर्थ्योपकल्पनामात्रम् । तत्सम्बन्धेन प्रधानत्वाच्चतुर्थी युक्ता । एतेभ्यो यः प्रत्यहं न ददात्युच्छ्वसन्नपि प्राणन्नपि श्वासप्रश्वासवानपि न जीवति मृत एव, जीवितफलाभावात् । भृत्याश्चात्र “ वृद्धौ तु मातापितराविति ” ( मनु ० ११।१० ) श्लोकनिर्दिष्टा वेदितव्याः, न दासाः, कर्मनिमित्तत्वात्तेभ्यो दानस्य । अथवा गर्भदासादयो वार्द्धके कर्मस्वशक्ता अपि नियमतो लक्ष्यन्ते । भरणं जीर्णगवादीनामवश्यमिति विभागे वक्ष्यामः । उक्तं च गौतमेन " भर्तव्यस्तेन क्षीणवृत्तिः ” । देवताभ्यश्च निर्वापोऽग्नौ होम:, स्थण्डिले च बलिहरणं तु वैश्वदेवेभ्यो दर्शपूर्ण-मासदेवताभ्य इव वा “ अग्नये त्वा जुष्टं निर्वपामि " इति सम्बन्धादन्य: को वाऽस्ति निर्वाप: । अतो देवताग्रहणेन गृहीतत्वाद्भूतानाम् पृथगुपादानम् । आत्मग्रहणं दृष्टान्तः । यथाऽऽत्मनो भोजनेन विना नास्ति जीवितं तदर्थमन्नोपयो-गोऽवश्यम्भावी जीवितस्येष्टविषयत्वात्सर्वत एवात्मानं गोपायेदिति विधेश्च, एवं देवतादिभ्योऽपीति ॥६२ ॥
हिन्दी — जो गृहस्थाश्रमी देवताओं ( तथा भूतों ), अतिथियों, माता - पिता आदि वृद्धजनों ( तथा सेवकों ), पितरों और अपने को अन्नादि से सन्तुष्ट नहीं करता है, वह श्वास हुआ लेता भी नहीं जीता है ( मरे हुए के समान है ) ॥ ६२ ॥
मतान्तर सेपञ्चमहायज्ञ -अहुतं च हुतं चैव तथा प्रहुतमेव च ।
ब्राह्मयं हुतं प्राशितं च पञ्चयज्ञान्प्रचक्षते ॥ ६३ ॥
भाष्य — एतैः शब्दैः कस्याञ्चिद्वेदशाखायामेतेषां विधानम् । अतः श्रुतिमूलतां पञ्चयज्ञविधानस्य दर्शयितुं तत्प्रसिद्ध्या पुनर्निर्दिशति । यश्चाहुतादिशब्दैरुद्दिश्य तत्प्रकरणे वा कश्चिद्धर्मो विहित इह नोक्तः सोऽपि ग्रहीतव्य इति संज्ञान्तरनिर्देशे द्वितीयं प्रयोजनम् । यथा ब्रह्मयज्ञश्राद्धोद्वाहपरिक्रि-येत्यादि ॥६३ ॥
हिन्दी – अहुत, हुत, प्रहुत, ब्राह्महुत और प्राशित —– इन्हें अन्य मुनि लोग ‘ पञ्चमहायज्ञ कहते हैं ॥ ६३ ॥
अहुत आदि की व्याख्या–
जपो ' ऽहुतो ', ' हुतो ' होम:, ' प्रहुतो ' भौतिको बलिः ।
' ब्राह्मयं हुतं ' द्विजाग्र्यार्चा, ' प्राशितं ' पितृतर्पणम् ॥ ६४ ॥
पृष्ठ 389
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३१५ भाष्य - योऽयमहुतो नाम यज्ञ उक्तः स जपो वेदितव्यः । “ स्वाध्यायेनार्चये-दृषीन् इति ” श्रवणाद्वेदाध्ययनं जपार्थः । यद्वा मानसे व्यापारे स्मरणम् । उभयत्रापि जपतिः पठ्यते — व्यक्तायां वाचि मानसे चेति । अग्नौ होमो हुतम् । भूतबलिः प्रहुतम् । यद्यप्ययं होमस्तथाप्यग्नौ बाहुल्येन होमानां प्रसिद्धेर्भूतयज्ञो न होम इत्याशङ्कायां प्रहुत इत्युक्तम् । प्रकर्षेणासौ होम इति स्तुत्या । द्विजाग्र्याणां ब्राह्मणानामर्चा ब्राह्मयं हुतम् आतिथ्यकर्म द्विजाग्र्यार्चा || ६४ ॥। हिन्दी — जप करना ‘ अहुत ', हवन करना ' हुत ', भूतबलि देना ‘ प्रहुत ’, ब्राह्मणपूजा करना ‘ ब्राह्महुत ’ और पितृतर्पण करना ' प्राशित ' कहा गया है ॥६४ ॥
असमर्थावस्था में भी ब्रह्मयज्ञ तथा हवन आवश्यक–
स्वाध्याये नित्ययुक्तः स्याद्दैवे चैवेह कर्मणि ।
दैवकर्मणि युक्तो हि विभर्तीदं चराचरम् ॥ ६५ ॥
भाष्य — यदुक्तं पञ्चसु महायज्ञेष्वेकैकस्मिन्पृथगधिकारो न समुदाय एकोऽ-धिकार, इति तदनेन प्रकटीकरोति । यदा दारिद्र्यादिदोषादन्यतो वा कारणात्कथञ्चिदसम्पत्तौ नातिथ्यादिपूजा घटेत ततः स्वाध्याये नित्ययुक्तेन भवितव्यम् । दैवे कर्मणि । वैश्वदेवदेवताभ्योऽग्नौ होमो ‘ दैवं कर्म ’ । भूतयज्ञपितृयज्ञयोः सत्यपि ' दैवत्वे ', प्रकरणादग्नावेव होमो ' दैव ' मुच्यते । अत्र अर्थवादमाह । दैवे कर्मणि युक्तः तत्परो । बिभर्ति धारयति । चराचरं स्थावरं जङ्गमं च । सर्वस्य जगतः स्थितेर्हेतुर्भवतीत्यर्थः ॥६५ ॥
कथं पुनरग्न्याहुत्या सर्वस्य जगतः स्थितिर्भवतीत्यत आह । हिन्दी - ( निर्धनता आदि के कारण ) अतिथि भोजन आदि कराने में असमर्थ द्विज को इस संसार में स्वाध्याय ( ब्रह्मयज्ञरूप वेदपाठ ) और दैवकर्म ( हवन ) अवश्य करना चाहिए; क्योंकि दैवकर्म ( हवन ) करता हुआ द्विज इस चराचर जगत को धारण ( पोषण ) करता है || ६५ ॥
हवन से वृष्टि आदि-अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥६६ ॥
भाष्य — अग्नौ यजमानेन प्रास्ता क्षिप्ताऽऽहुतिर्हृयमानं चरुपुरोडाशाद्युच्यते ।
पृष्ठ 390
पाठ पढ़ें पाठ छिपाएँ
३१६ मनुस्मृतिः [ तृतीय: आदित्यमदृश्येन रूपेण प्राप्नोति । सर्वरसानामाहर्ताऽऽदित्योऽत आहुतिरसस्यादि-त्यप्राप्तिरुच्यते । अतः स रस आदित्यरश्मिषु कालेन परिपक्वो वृष्टिरूपेण जायते । ततोऽग्नं व्रीह्यादि । ततः प्रजाः सर्वप्राणिनः । एवमग्नौ जुह्वत्सर्वजगदनुग्रहे वर्तते यजमानः । पूर्वस्य विधेः शेषोऽयं, न पुनर्यथाश्रुतार्थनिष्ठः । तत्त्वे हि वृष्टिकामस्याधिकारः
स्यात् । न च तच्छ्रुतम् । प्रकृतशेषतयाऽन्वयसम्भवे न कल्पनाया अवसरः ॥ ६६ ॥
हिन्दी — विधिपूर्वक अग्नि में छोड़ी हुई आहुति सूर्य को प्राप्त करती है, सूर्य वृष्टि, वृष्टि से अन्न और अन्न से प्रजायें होती हैं ( इस प्रकार प्रजाओं की उत्पत्ति
का मूल कारण हवन ही है । अतः प्रतिदिन विधिपूर्वक हवन करना चाहिए ) ॥ ६६ ॥
गृहस्थाश्रम की प्रशंसा-यथा वायुं समाश्रित्य सर्वे जीवन्ति जन्तवः ।
तथा गृहस्थमाश्रित्य वर्तन्ते इतराश्रमाः ॥ ६७ ॥
–अपरेण प्रकारेण महायज्ञानामवश्यकर्तव्यतां दर्शयति । भाष्य-वायुः प्राणस्तमाश्रित्य सर्वे जीवन्ति । न ह्यप्राणस्य जीवितमस्ति, प्राणधारणमेव ‘ जीवनम् ’ । जन्तुशब्दः प्राणिमात्रवचन: । सर्वग्रहणं देवर्षीणामप्यतिशययुक्तानां वाय्वायत्तमेव जीवनम् । एवं गृहस्थः प्राणतुल्यः सर्वाश्रमिणाम् । अतः सर्वोपजीवनीयेन भवितव्यमिति विध्यर्थः । इतरग्रहणाद्यद्यपि गृहस्थादन्य आश्रमिणः प्रतीयन्ते, तथापि न गृहस्थप्रतिषेधा-र्थमेतत् । स्नातकस्य हि विशेषेणातिथ्यादिदानं विहितम् । तस्मादितरग्रहणं गृहस्था-श्रमतुल्यतार्थम् । न च श्रूयते नात्मनात्मनि वर्तन्ते शरीरकुटुम्बस्थितिं प्राप्नुवन्ति । इतरे च त आश्रमा इतराश्रमा इति समासः ॥ ६७ ॥
हिन्दी – जिस प्रकार प्राण वायु का आश्रय कर सब जीव जीते हैं, उसी प्रकार गृहस्थ का आश्रयकर सभी आश्रम ( ब्रह्मचर्याश्रम, वानप्रस्थाश्रम तथा संन्यासाश्रम ) चलते हैं ॥६७ ॥
यस्मात्त्रयोऽप्याश्रमिणो ज्ञानेनान्नेन चान्वहम् ।
गृहस्थेनैव धार्यन्ते तस्माज्ज्येष्ठाश्रमो गृहम् ॥ ६८ ॥
भाष्य – यस्मात्तूयोऽप्याश्रमिणो ज्ञानेन वेदार्थव्याख्यानजन्येनान्नेन च धार्यन्त