मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 391–400
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 391–400
पृष्ठ 391
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता उपक्रियन्ते गृहस्थेन तस्माज्ज्येष्ठः श्रेष्ठ आश्रमो गृहम् । ३१७ गृहीति पाठे बहुव्रीहिः, गृहमिति पाठे विशेषणसमासो, ‘ ज्येष्ठाश्रम ' इति । अत्रापि गृहस्थैरेवेत्यौचित्यानुवादो, न वानप्रस्थादीनामध्यापनादिप्रतिषेधः । वान-प्रस्थस्य तावद्विहितमेतत ' एतानेव महायज्ञान्निर्वपेदिति ' । प्रव्रजितस्य यद्यपि ‘ समो भूतेषु हिंसानुग्रहयोः– अनारम्भी ( गौतम ३ । २४-२५ ) ' इत्यनुग्रहः प्रतिषिद्धस्तथापि वेदार्थव्याख्यानं भिक्षुशास्त्रे विहितम् । ज्ञानवैराग्यभावनाभ्यासातिशयविधानाच्च तयो-र्नातिप्रयत्नो वेदार्थव्याख्याने । ब्रह्मचारिणस्स्वार्थलोपान्नाध्यापकत्वं, भैक्षवृत्त्युपदेशाच्च कृतोऽन्नदानम् । अतो गृहस्थानामेव प्रायेण तत्सम्भवादेवमुक्तं गृहस्थैरेव ॥ ६८ ॥
हिन्दी — जिस कारण से तीनों आश्रम ( ब्रह्मचर्याश्रम, वानप्रस्थाश्रम और संन्यासाश्रम ) वाले गृहस्थाश्रमी से ही ज्ञान ( वेदाध्ययन ) तथा अन्न को प्राप्त करते हैं, इस कारण गृहस्थाश्रमी ही सबसे श्रेष्ठ हैं ॥६८ ॥
स सन्धार्यः प्रयत्नेन स्वर्गमक्षयमिच्छता ।
सुखं चेहेच्छताऽत्यन्तं योऽधार्यो दुर्बलेन्द्रियैः ॥ ६ ९ ॥
भाष्य — स गृहाश्रमः । प्रयत्नेन संधार्योऽनुष्ठेयोऽक्षयस्वर्गकामेनेह च सुख-मिच्छता । अत्यन्तं यस्य सुखस्यान्तो नास्ति । अत्यन्तशब्दो नित्यतां गमयति । य आश्रमोऽधार्योऽशक्यो धारयितुं दुर्बलेन्द्रियैः । एतदुक्तं भवति । यतः स्त्रीसम्भोगसुसंस्कृतभोजनादि गृहस्थस्यावश्यम्भावि ततश्चेन्द्रियाणां विषयसक्तौ दोष:: - अत उच्यते— प्रयत्नेन आश्रमान्तरेभ्योधारयितव्यः । अत्रापि महानिन्द्रियसंयमः । अनृतौ न गन्तव्यं परदारा न गन्तव्याः शेषान्नं भोक्तव्यम् । विषयसन्निधाने यो नियमः स दुष्करः । स्वर्गमक्षयमिति । नानेन सर्वेषां गृहस्थकर्मणां स्वर्गफलतोच्यते, केषाञ्चिन्नित्य-त्वात्केषाञ्चित्फलान्तरश्रवणात् । येऽप्यश्रुतफलाः स्वर्गफलतया कल्प्यन्ते तेषामपि केवलानामनुवादे न कश्चिद्विशेषणे हेतुः । तस्माद्विहिताभिप्रेतफलानुवादोऽयम् । न नाधिकारान्तरमिदम् । तेषामेव यावज्जीविकं स्वर्गकामस्येति च शक्यं वक्तुम् । सुखं चेहेच्छतेत्यविधेयेन तुल्यत्वावगमात् । न हीह सुखकामेनेत्येतच्छक्यं कर्मफलतया ज्ञातुं, विशेषस्यानिर्देशात् । सर्वा हि प्रीतिग्रमपुत्रादिलाभैर्विशेषैरवच्छिन्ना प्रतीयते । अनवच्छेदेन प्रीतिमात्रं चेत्स्वर्ग एव । न च तस्यैहिकत्वम् । तस्माद्दृष्टसुखाप्तिकामा-नुवादोऽयम् । अनिकेता ह्यन्य आश्रमिणो वृक्षमूलनिकेतनाः परगृहवासिनो दुःखमासते । तस्मादयं तावदनुवादः तत्तुल्यतथाऽयमप्यनुवाद एव ॥६ ९ ॥ हिन्दी — अक्षय स्वर्ग तथा ऐहिक सुख ( इस लोक में होने वाला स्त्री - सम्भोग
पृष्ठ 392
पाठ पढ़ें पाठ छिपाएँ
३१८ मनुस्मृतिः [ तृतीय: एवं धनादि ऐश्वर्य भोगरूप सुख ) चाहने वाले मनुष्य को प्रयत्नपूर्वक गृहस्थाश्रम का आश्रय करना चाहिए, दुर्बल ( अस्थिर मन आदि ) इन्द्रिय वाले व्यक्ति के द्वारा यह गृहस्थाश्रम धारण करने योग्य नहीं है ॥६९ ॥
ऋषि आदि की पूजा की कर्तव्यता-ऋषयः पितरो देवा भूतान्यतिथयस्तथा ।
आशासते कुटुम्बिभ्यस्तेभ्यः कार्यं विजानता ॥ ७० ॥
भाष्य- - एते कुटुम्बिभ्यो गृहिभ्यः सकाशादर्थयन्ते आदित्सन्ति I । आत्मोप-कारलिप्साऽऽशासनमाकाङ्क्षा । अतस्तेभ्यो देवादिभ्यः कार्यं कर्तव्यं विहितहोमादि विजानता शास्त्रस्थितिम् । ' कुटुम्ब ' दाराः । प्राकृतपुरुषेणापि या महायासोपनिबद्धा सा न युक्ता विफलीकर्तुं किं पुनर्देव-तान्तुतिः ॥७० ॥
हिन्दी — ऋषि, पितर ( पूर्वज ), देवता, भूत और अतिथि — ये लोग गृहस्थ से ( अपनी सन्तुष्टि की ) आशा दखते हैं । अतः शास्त्रज्ञानी को उसके लिये यह ( ३।७१ ) करना चाहिए ॥ ७० ॥
स्वाध्यायेनार्चयेतर्षीन्होमैर्देवान्यथाविधि ।
पितॄञ्श्राद्धैश्च नॄनन्नैर्भूतानि बलिकर्मणा ॥ ७१ ॥
भाष्य – ‘ “ स्वाध्यायमधीयीत " इति य एवार्थः स एव स्वाध्यायेनार्चयेदृषीन् इति । यद्भवति श्रद्धादरेण पाद्यार्घमाल्यानुलेपनेन तदर्चोच्यते । स्तुतिवचनं चेदम् । न चोभयोरपि स्वाध्यायऋषिपूजयोः करणम् । अग्न्यादिदेवतास्तावका मन्त्रा ऋषीन-भिष्टुवन्ति । तस्मात्प्रशंसामात्रम् ऋषीन्स्वाध्यायेनार्चयेदिति । अथवा नेह मरीच्यादय ऋषयोऽभिप्रेताः, किं तर्हि वेदा एव । स्वाध्यायशब्दश्च क्रियाशब्दो नात्र वेदवचनो यथा ' स्वाध्यायोऽध्येतव्य ' इति । तेनैतदुक्तं भवति ' अध्ययनेन वेदान् पूजयेत् ' यथाविध्यभ्यस्येत् । अन्यथा पूजाया असम्भवात् । अत्राप्यर्चा भाक्त एव । न हि होमे देवता प्रधाना, कारकं हि देवतेति ।
पितॄन् श्राद्धेन । अत्र यथाश्रुत एव नियोगः । स च श्राद्धविधौ निर्णेष्यते ।
नॄन् अतिथिभिक्षुप्रभृतीन् अर्चयेत्, अर्चापूर्वकमन्नं तेभ्यो दद्यादित्यर्थः ॥७१ ॥
हिन्दी - वेदपाठ से ऋषियों की, विधिपूर्वक हवन से देवताओं की, श्राद्धों से पितरों की, अन्न से मनुष्यों ( अतिथियों ) की और बलिकर्म से भूतों की पूजा ( तृप्ति-सन्तुष्टि ) करनी चाहिए ॥७१ ॥
पृष्ठ 393
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३१ ९ नित्यश्राद्ध— दद्यादहरहः श्राद्धमन्नाद्येनोदकेन
वा ।
पयोमूलफलैर्वाऽपि पितृभ्यः प्रीतिमावहन् ॥ ७२ ॥
भाष्य — दद्यात् कुर्यात् । अहरहः प्रतिदिवसम् । श्राद्धम् । नाम्ना धर्मातिदेशः । श्राद्धं नाम पित्र्यं कर्मामावास्यायां विहितम् ।, तदीयेतिकर्तव्यता श्राद्धमित्यनेन नाम्नाऽतिदिश्यते । अन्नाद्येनेति । ‘ तिलैर्त्रीहियवै: ' ( मनु ० ३।२६७ ) इत्यादेरनुवादोऽयम् । उत्तरत्र
विवक्षितार्थः ।
उदकेनेति । पयः क्षीरम् ॥ ७२ ॥
हिन्दी— ( गृहस्थाश्रमी ) अन्नादि ( तिल, ब्रीही, धान्य ) से या जल से दूध, मूल और फलों से पितरों को सन्तुष्ट करता हुआ ( यथासम्भव ) प्रतिदिन श्राद्ध करे ॥ ७२ ॥
पितृश्राद्ध में ब्राह्मण भोजन-एकमप्याशयेद्विप्रं पित्रर्थं पाञ्चयज्ञिके ।
न चैवात्राशयेत्कञ्चिद्वैश्वदेवं प्रति द्विजम् ॥७३ ॥
भाष्य — श्राद्धशब्देन विधानात्सर्वस्मिंस्तद्विधाने प्राप्ते कश्चिदितिकर्तव्यताभागो निवर्त्यते न चैवात्राशयेत्कञ्चित् । नात्रान्वाहिके श्राद्धे वैश्वदेवं प्रति विश्वान्देवानुद्दिश्य द्विजभोजनम् । अत्र केचिदाहुः । प्राप्ते भोजन आशयेदिति पुनर्वचनमपूर्वत्वमस्य दर्शयति । तेनैतावदेवैतच्छ्राद्धं यत्पितॄनुद्दिश्य ब्राह्मण एको भोज्यते, न त्वन्या काचिदर्घपात्रादि-होमाद्येतिकर्तव्यताऽस्ति । ' ब्रह्मचर्यं ' ' स्वाध्यायनिषेध ' इत्येवमादि न भवति । एकमप्याशयेद्विप्रम् | त्रयाणां नियमादेकैकमुभयत्रेत्यस्याविधित्वादप्राप्त एको विधीयते । एकमपि भोजयेत्, सति सम्भवे बहूनपि । पित्रर्थं पितृतृप्त्यर्थम् । पाञ्चयज्ञिकम् । पञ्चयज्ञभवं पाञ्चयज्ञिकं, तदन्तर्गतम् । पाञ्चयज्ञिकशब्दः श्राद्धे प्रयुक्तः । न ह्येतत् पाञ्चयज्ञिकं तर्पणम् । तेन तर्पणभोजनयोः समुच्चयः । अस्य तु विकल्पो भविष्यति – ' यदेव तर्पयत्यद्भिरिति ' ॥७३ ॥
हिन्दी – पञ्चयज्ञ में पितरों के उद्देश्य से ( अधिक सम्भव नहीं होने पर ) कम से कम एक भी ब्राह्मण को भोजन करावे, वैश्वदेव के उद्देश्य से ब्राह्मण को भोजन नहीं भी करावे ( तो कोई हानि नहीं ) ॥७३ ॥
पृष्ठ 394
पाठ पढ़ें पाठ छिपाएँ
३२० मनुस्मृतिः बलिवैश्वदेव कर्म-वैश्वदेवस्य सिद्धस्य गृह्येऽग्नौ विधिपूर्वकम् । [ तृतीय: आभ्यः कुर्याद्दिवताभ्यो ब्राह्मणो होममन्वहम् ॥७४ ॥
भाष्य — विश्वेदेवार्थो वैश्वदेवः पाक उच्यते । सर्वार्थो विश्वदेवशब्दोऽपि सम्प्रदान-मात्रोपलक्षणार्थः । तेनातिथ्याद्यर्थताऽप्युक्ता भवति । सिद्धस्य होममाभ्यो वक्ष्यमाणाभ्यो देवताभ्यः कुर्यात् । सिद्धशब्देन-‘ देवतोद्देशेन देवस्यत्वेति मन्त्रवान्निर्वापो न कर्तव्य ' इति दर्शयति, केवलं सर्वार्थे निष्पन्नपाके होमादि कर्तव्यमिति विध्यर्थः । गृह्ये । यथाविधिहोमादिकरणनिर्देशः । विधिपूर्वकम् —समाचारप्राप्तां परि-समूहनपर्युक्षणादिरूपामितिकर्तव्यतामाह । ब्राह्मणशब्दस्त्रैवर्णिकाधिकारप्रदर्शनार्थः । अन्वहं नित्यमित्यर्थः । देवताग्रहणं स्वाहाकारप्राप्त्यर्थम् । षष्ठीनिर्देशादग्नेरिदमिति प्रयोगः स्यात् । देवताशब्दे तु – स्वाहाकारेण वा देवेभ्यो हविः सम्प्रदीयत इति । याज्यान्ते पुन-र्वषट्कारस्य विधानात्, स्मार्तहोमेत्वभावः । स्वाहाकारस्तु सर्वत्र । तस्मिश्च सत्यग्नये स्वाहेति प्रयोगः ॥ ७४ ॥
हिन्दी - ब्राह्मण ( यहाँ ' ब्राह्मण ' शब्द से द्विजमात्र विवक्षित है ) गार्हस्थ्य अग्नि में सिद्ध ( पकाये हुए ) वैश्वदेव सर्वदेव के निमित्त अन्न का विधिपूर्वक प्रतिदिन ( ३।७५-७६ में वक्ष्यमाण ) देवताओं के उद्देश्य से हवन करे – ॥७४ ॥
बलिवैश्वदेव कर्म के देवता-अग्ने सोमस्य चैवादौ तयोश्चैव समस्तयोः ।
विश्वेभ्यश्चैव देवेभ्यो धन्वन्तरय एव च ॥ ७५ ॥
भाष्य- — आदावित्यनुवादः । पाठक्रमेणैवाग्नेरादौ सिद्धत्वात्ते पृथगाहुती । तयोश्च समस्तयोरग्नीषोमाभ्यामिति, विश्वेभ्यो देवेभ्य इति प्रयोगः । एकैवाहुतिर्धन्वन्तरये स्वाहा ॥७५ ॥
हिन्दी - पहले अग्नि के उद्देश्य से, फिर सोम के उद्देश्य से, फिर सम्मिलित उन दोनों ( अग्नि और सोम ) के उद्देश्य से, फिर धन्वन्तरि के उद्देश्य से - ॥७५ ॥
कुह्वै चैवानुमत्यै च प्रजापतय एव च ।
सह द्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः ॥ ७६ ॥
पृष्ठ 395
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता भाष्य - सह द्यावापृथिव्योः द्यावापृथिवीभ्यां स्वाहेति । ३२१ तथा स्विष्टकृतेऽन्ततः । स्विष्टकृदिति गुणपदम् । अग्निश्च गुणीभूतः स्वतः । स्मृत्यन्तरेऽग्नये स्विष्टकृत इति वचनात् श्रुतौ सर्वहोमेष्वेव चाम्नानात् । अन्तत इति पाठात्सिद्धे वचनं — स्मृत्यन्तरेऽधिकानामाहुतीनामाम्नानात्सति समुच्चये प्राक् स्विष्टकृत आवापः कर्तव्य इति — दर्शयितुम् । “ ननु चैकत्वाद्धोमस्य देवताविकल्पो युक्तः ” । कुतः पुनरेकत्वं होमस्य । इयमेव होमानामुत्पत्तिः “ अग्नेः सोमस्य च ’ ” इत्यादि । तत्र चोत्पत्तावेव देवताविशेषेणावरुद्धत्वाद्भिन्ना एव होमाः प्रतीयन्ते ॥७६ ॥
हिन्दी - फिर क्रमश: कुहू, अनुमति, प्रजापति द्यावापृथ्वी के उद्देश्य से और अन्त में स्विष्टकृत् के उद्देश्य से हवन करे ॥ ७६ ॥
विमर्श — ‘ स्वाहाकारप्रदानहोम: ' इस कात्यायनवचन के अनुसार क्रमशः अग्नये सोमाय देवेभ्यः स्वाहा, धन्वतरये स्वाहा, स्वाहा, अग्नीषोमाभ्यां स्वाहा, विश्वेभ्यो स्वाहा, कुह्वै स्वाहा '........ मन्त्रों को उच्चारण करते हुए हवन करना चाहिए ।
बलि को देने की विधि-एवं सम्यग्घविर्हुत्वा सर्वदिक्षु प्रदक्षिणम् ।
इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत् ॥७७ ॥
भाष्य — सम्यगनन्यचित्ततया देवताध्यानपरः । एवमेताभ्यो देवताभ्योऽग्नौ हुत्वा ततः सर्वासु दिक्षु यथासंख्यं प्रदक्षिणम् । प्रथमं प्राच्यां ततो दक्षिणस्यां इत्येष प्रदक्षिणावर्तः । इन्द्रः अन्तकः अपतिः इन्दुः – प्रतिदिशम् । अपरश्चाह— “ अहविर्भागिन्दुरिति । यदि नैतेन शब्देन बलिहरणं स्यात्कथमिन्दोर्ह-विर्भाक्त्वम् । बलिहरणं च होम एवेति व्याख्यातम् ” । वृत्तभङ्गभयाच्चात्र न शब्दस्य रूपविवक्षेति स्मृत्यन्तरोपात्तैरेव शब्दैरुद्देशः कर्तव्यः । सानुगेभ्यः | ‘ अनुगा ' अनुचरास्तत्पुरुषाः । तथा चेन्द्रपुरुषेभ्य इत्यादि प्रयोगः ॥७७ || हिन्दी – इस तरह सम्यक् प्रकार ( देवताओं का ध्यान करते हुए अनन्यचित्त होकर ) हवनकर पुरुषों के सहित इन्द्र, अन्तक ( यम ), अप्पति ( वरुण ) और इन्दु ( सोम ) के लिये पूर्वादि दिशाओं में प्रदक्षिण क्रम से ( पूर्व, दक्षिण पश्चिम और उत्तर-इस क्रम से ) बलि दे —॥७७ ॥
पृष्ठ 396
पाठ पढ़ें पाठ छिपाएँ
३२२ मनुस्मृतिः [ तृतीयः विमर्श - पूर्वदिशा में - इन्द्राय नमः, इन्द्रपुरुषेभ्यो नमः, दक्षिणदिशा में- - यमाय नम:, यमुपुरुषेभ्यो नमः, पश्चिमदिशा में - वरुणाय नमः वरुणपुरुषेभ्यो नमः और उत्तरदिशा में - सोमाय नमः, सोमपुरुषेभ्यो नमः – इन मन्त्रों का उच्चारणकर प्रत्येक के लिये पूर्वादि दिशाओं में बलि देनी चाहिए । यद्यपि ' इन्द्रान्तकाप्पलीन्दुभ्य: ’ इस अनुवचन के अनुसार ‘ इन्द्र, अन्तक, अप्पति और इन्दु ' शब्दों के अन्त में ‘ नमः ’ शब्द जोड़कर ‘ इन्द्राय नमः, इन्द्रपुरुषेभ्यो नमः, अन्तकाय नमः, अन्तकपुरुषेभ्यो नम:, मन्त्रों को उच्चारणकर पूर्वादि दिशाओं में बलि देना युक्तियुक्त है और ' अन्तक, अप्पति तथा इन्दु ' का पर्याय क्रमशः ' यम, वरुण तथा सोम ' शब्द का हवनमन्त्र में उच्चारण करना युक्तियुक्त नहीं प्रतीत होता तथापि यमाय यमपुरुषेभ्यो, वरुणाय वरुणपुरुषेभ्यः, सोमाय सोमपुरुषेभ्यः ' इति प्रतिदिशम् ( अ ० खं ०२ ) इस वह्वृच गृह्योक्त वचन के अनुसार ' अन्तक, अप्पति तथा इन्दु ' पर्यायभूत ' यम, वरुण तथा सोम ' शब्दों को ग्रहण करना शास्त्रविरुद्ध नहीं है ।
मरुद्भ्य इति तु द्वारि क्षिपेदप्स्वद्भ्य इत्यपि ।
वनस्पतिभ्य इत्येवं मुसलोलूखले हरेत् ॥७८ ॥
भाष्य- -अत्रेतिकरणः रूपविवक्षार्थः । अप्स्वित्यधिकरणम् । अद्भ्य इति देवतानिर्देश: वनस्पतिभ्य इति मुसलोलूखले । द्वन्द्वैकवद्भावेन विकल्पितमाधारद्वयम् । निर्देशे गुणवृत्त्या प्रधानभूताया आहुतेरावृत्तिर्युक्ता ' । न च मुसलोलूखलस्यैकीकृतस्या-हुतिसम्बन्धः शक्यः कर्तुं, पृथक्त्वस्य तत्राप्युपलम्भात् । न हि क्षीरोदकवत् अनयो-र्व्यामिश्रणसम्भवः । तत्र यद्युलूखले क्रियते नेतरत्र होम: कृत:, अथोलूखले न मुसले । न च भागश आहुतिः सम्भवति नियतपरिमाणत्वात् । द्वन्द्वनिर्देशेऽत्र संयुक्त-योरन्यतरत्र होमो युक्तः ॥७८ ॥
हिन्दी — द्वारपर मरुत् ( वायु ) के लिये, जल में अप् ( जल ) के लिये, ओखलि-मूसलपर वनस्पतियों के लिये ( बलि ) दे ॥७८ ॥
उच्छीर्षके श्रियै कुर्याद्भद्रकाल्यै च पादतः ।
ब्रह्मवास्तोष्पतिभ्यां तु वास्तुमध्ये बलिं हरेत् ॥ ७ ९ ॥
भाष्य- - उच्छीर्षकं प्रसिद्धदेवताशरणं शीर्षस्थानं, तत्र श्रियै बलिं कुर्यात् । पादतः अधोभागे गृहस्थ भद्रकाल्यै । तस्या अपि स्थानं द्वारस्य पूर्वभागे । अन्ये उच्छीर्षकं गृहस्थशयनस्य शिरोभागमाहुः, पादौ चास्याधोभागम् । तेन खट्वादावयं होमो, भूप्रदेशे वा गृहस्थशयनस्थाने ।
पृष्ठ 397
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३२३ ब्रह्मवास्तोष्पतिभ्याम् । सत्यपि द्वन्द्वनिर्देशे पृथगेते आहुती, ‘ ब्रह्मणे ’ ‘ वास्तो-ष्पतय ' इति च । यत्र तूभयदेवतात्वमग्नीषोमवत्तत्र सहग्रहणं समस्तग्रहणं वा करोति, ‘ तयोश्चैव समस्तयोः ’ ( ८५ ) ' सह द्यावापृथिव्योश्चेति ' ( ८६ ) प्रसिद्धसाहचर्यात् । ' वास्तु ' गृहं, तन्मध्ये ॥ ७ ९ ॥ हिन्दी– वास्तुपुरुष के मस्तकप्रदेश पर उत्तरपूर्व ( ईशान कोण ) में श्री के लिये, उसी ( वास्तुपुरुष ) के पैर की ओर दक्षिण - पश्चिम ( नैर्ऋत्य कोण ) में भद्रकाली के लिये, वास्तु के मध्य में ब्रह्मा तथा वास्तोष्पति के लिये बलि दे॥७९ ॥
विमर्श - किसी - किसी आचार्य का मत है कि ' उच्छीर्षक ' शब्द सेगृहशय्या विवक्षित है । अतः गृहशय्या के मस्तकप्रदेश तथा पादप्रदेश की ओर क्रमशः श्री और भद्रकाली के लिये बलि देनी चाहिये ।
विश्वेभ्यश्चैव देवेभ्यो बलिमाकाश उत्क्षिपेत् ।
दिवाचरेभ्यो भूतेभ्यो नक्तञ्चारिभ्य एव च ॥ ८० ॥
भाष्य — चशब्दादेकैवेयमाहुतिः । विश्वेभ्यो देवेभ्य इति गृहाकाशे, गृहान्निष्क्रम्य वा । दिवा दिवाचारिभ्यः, नक्तं नक्तंचारिभ्यः । भूतेभ्य इत्यनुषज्यते । केचिदेते आहुती सायंप्रातर्विभागेनाहुर्दिवाचरेभ्य इति । तदयुक्तम् । सायममन्त्रहोमं वक्ष्यति । “ एतेन मन्त्रप्रतिषेधेन शब्दोद्देश्यता मा भून्मानसस्तूद्देशः केन निवार्यते । न च तेन विना होमसिद्धिः ” ।
एतदेव तु वक्तव्यं कुतोऽयं विभागावगमः ।
गृह्यकारैरेवमुक्तमिति चेदस्तु ॥८० ॥
हिन्दी – गृह के ऊपर ( आकाश ) की ओर विश्वेदेवों के लिये दिवाचर ( दिन में विचरण करने वाले ) जीवों के लिये तथा नक्तञ्चारी ( रात्रि में विचरण करने वाले ) जीवों के लिये बलि दे —॥८० ॥
विमर्श — ‘ दिवाचारिभ्यो दिवा ' ( अ ० खं ० २ ) इस बह्वृच - वचन के अनुसार दिन में दिवाचारी जीवों के लिए तथा रात्रि में नक्तञ्चर जीवों के लिए बलि देवे ।
पृष्ठवास्तुनि कुर्वीत बलिं सर्वान्नभूतये ।
पितृभ्यो बलिशेषं तु सर्वं दक्षिणतो हरेत् ॥ ८१ ॥
भाष्य – पूर्वयोराहुत्योः शेषोऽयम् । आधारविधानार्थमाद्योऽर्धः श्लोकः । आवासकस्योपरि य आवासस्तत्पृष्ठवास्तु । एकशालाया अप्युपरिभागः । तत्र
पृष्ठ 398
पाठ पढ़ें पाठ छिपाएँ
३२४ मनुस्मृतिः बलिं कुर्वीत दिवाचारिभ्यो नक्तंचारिभ्यश्च । [ [ तृतीयः सर्वान्नभूतये । तादर्थे चतुर्थी, न सम्प्रदाने । होमाद्यश्रुतत्वाद्बलिशब्दस्य पूर्वशेष-त्वादाधारापेक्षत्वाच्च पूर्वयोराहुत्योः । न क्वचिदपि वैश्वदेवे ‘ सर्वान्नभूति’र्देवतात्वेन स्मृत्यन्तरे श्रुता । तस्मादयमस्यार्थः । ' सर्वेषामन्नानां क्लृप्त्यर्थमेतच्च कर्तव्यं, एत-स्मिन्बलिहरणे कृते सर्वाण्यन्नानि भवन्ति ' । अवयवप्रसिद्ध्या त्वर्थावगमे उपपद्यमाने समुदायार्थकल्पनमयुक्तम् । देवतापेक्षया वाऽदृष्टः कश्चिदर्थः कल्पयितव्यः । बलिशेषम् । शेषग्रहणात्पात्रे समुद्धृत्य ततो होम: कर्तव्यः, न तु स्थालीस्थादेव बलिदानानि ग्रहीतव्यानि ।
दक्षिणतः दक्षिणस्यां दिशि तदभिमुख इति यावत् ।
सर्वं यावन्मात्रं गृहीतम् ॥८१ ॥
हिन्दी — मकान के ऊपरी छत या बलि देने वाले के पीछे की तरफ भूमि पर सर्वात्मक जीव के लिये बलि देवे तथा ( इन बलियों को देने के बाद ) बचे हुए सब अन्न को दक्षिण दिशा में पितरों के लिये स्वधा बलि देवे ॥ ८१ ॥
विमर्श— पितरों के अपसव्य ( २।६३ ) होकर ' स्वधान्ते ' वाक्य का ( ॐ पितृभ्यः स्वधा ' इस प्रकार ) उच्चारण कर बलि देना चाहिये ।
शुनां च पतितानां च श्वपचां पापरोगिणाम् ।
वयसाञ्च कृमीणां च शनकैर्निर्वपेद्भुवि ॥ ८२ ॥
भाष्य — अन्नं पात्रे समुद्धृत्य श्वादीनामुपकाराय भुवि निःक्षिपेत् । पापरोगिणः कुष्ठिक्षय्यादयः । वयांसि पक्षिणः । शनकैर्भूम्युत्थितरजसा यथा न संसृज्येत । भूग्रहणं न पात्रप्रतिषेधाय, किं तर्हि श्वपचपतितकुष्ठिभ्यो न हस्ते दातव्यम् । उपकारविधानं चेदम् । अत एव षष्ठ्याऽयं श्लोकः पठ्यते, न चतुर्थ्यन्तेन ।
पक्षिणां तादृग्देशे विधातव्यं यत्राबिभ्यतः श्वादिभ्यः खादन्ति ।
कृमीणामिति तादृशे देशे यत्र तेषां सम्भवः ॥८२ ॥
हिन्दी — शेष अन्न को पात्र से निकालकर कुत्ता, पतित, चण्डाल, पापजन्य ( कुष्ठ या यक्ष्मा आदि ) रागवाला, कौवा, क्रीड़ा - इनके लिये धीरे से ( जिससे अन्न धूल आदि से नष्ट नहीं हो ) रख देवे ॥८२ ॥
१. तदुक्तं बह्वृचगृह्ये — ' स्वधा पितृभ्य इति प्राचीनावीती शेषं दक्षिणानिनयेत् ' इति ( अ ० १ ख ० २ ), इति ( म ० मु ० ) ।
पृष्ठ 399
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] एवं यः ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता
सर्वभूतानि ब्राह्मणो नित्यमर्चति ।
स गच्छति परं स्थानं तेजोमूर्तिः पथर्जुना ॥ ८३ ॥
भाष्य - पूर्वस्योपसंहारः । ३२५ सर्वग्रहणादन्येषामपि मृगकुक्कुटमार्जारादीनां ग्रामे सम्भवतामन्नेनोपकर्तव्यम् । अर्चतिरनुग्रहे न पूजायां, श्वादीनां तदसम्भवात् । अवज्ञानप्रतिषेधार्थं चैवमुपात्तं, नानुगृह्णातीति पठितम् । परं स्थानं धाम ब्रह्म प्राप्नोति । पथर्जुना । न संसारयोनीर्बह्वीर्भ्राम्यति । “ किंपुनरेतत्फलविधानम् ” । नेति ब्रूमः । नित्योऽयं विधिरित्युक्तम् । नित्ये च फलश्रवणमर्थवादः । न ह्यत्र विधिः श्रूयते । गच्छतीतिवर्तमानापदेशोऽयम् । तेजोमूर्तिः केवलतेजःशरीरः, न पाञ्चभौतिकं शरीरमभिसम्बध्यते, बोधस्व-भाव एव भवति । निष्कल्मषता वाऽनेन लक्ष्यते । शुद्धप्रकृतिर्भवतीत्यर्थः । भूतानुकम्पनं चेदम् । असति शास्त्रातिक्रमे पापसम्बन्धस्याभावाच्छुद्धता युक्ता । इतरथा पापस्य मलरूपत्वान्न तेजोमूर्तिः । असति च पापे परं धाम श्रेष्ठमदुःखरूपं प्राप्नोतीत्येतदपि युक्तमेव ॥८३ ॥
हिन्दी - जो ब्राह्मण इस प्रकार ( ३।७४-८१ में उक्त ) सब जीवों की नित्य ( प्रतिदिन ) पूजा करता है, वह प्रकाशमय सर्वोत्तम स्थान ( ब्रह्मपद - मोक्ष ) को सीधे मार्ग से जाता है ॥८३ ॥
भिक्षादान-कृत्वैतद् बलिकर्मैवमतिथिं
पूर्वमाशयेत् ।
भिक्षां च भिक्षवे दद्याद्विधिवद् ब्रह्मचारिणे ॥ ८४ ॥
१. पूर्व — इन्द्राय नमः, इन्द्रपुरुषेभ्यो नमः । दक्षिण — अन्तकाय नमः, अन्तक पुरुषेभ्यो - सोमाय सोम-नमः । पश्चिम — वरुणाय नमः, वरुणपुरुषेभ्यो नमः । उत्तर —२ नमः, पुरुषेभ्यो नमः । द्वार पर - मरुते नमः, जल में अद्भ्यो नमः । मूसल ओखल पर वनस्पतिभ्यो नमः, गृहशय्या के शिरः प्रदेश में भूमिपर, वास्तुपुरुष के शिरः प्रदेश ईशान कोण में — श्रियै नमः, गृहशयन के पादप्रदेश में भूमि पर, वास्तुपुरुष के पादप्रदेश नैर्ऋत्यकोण में – भद्रकाल्यै नमः, गृहमध्य में - ब्रह्मणे नमः वास्तोष्पतये नमः, गृहाकाश प्रदेश में – विश्वेभ्यो देवेभ्यो नमः । गृहाकाशप्रदेश में ( दिन में ) — दिवाचारिभ्यो भूतेभ्यो नमः, गृहाकाशप्रदेश में ( रात्रि में ) - नक्तञ्चारिभ्यो भूतेभ्यो नमः | गृह के छत पर या बलिदाता के पीछे पृष्ठदेश की ओर भूमि पर-सर्वात्मभूतये नमः । दक्षिण दिशा में ( अपसव्य होकर शेष बलि ) पितृभ्यः स्वधाः । मनु I- 25
पृष्ठ 400
पाठ पढ़ें पाठ छिपाएँ
३२६ मनुस्मृतिः [ तृतीयः भाष्य — अतिथिलक्षणं वक्ष्यति । तमभ्यागतं सन्तं पूर्वमाशयेत् भोजयेत्, सर्व-भोक्तृभ्यो गृहसन्निहितेभ्यः । भिक्षां भिक्षवे च याचमानाय दद्यात् । भिक्षाशब्देन स्वल्पपरिमाणमन्नदानमुच्यते । उक्तं हि ‘ “ प्रसृतिर्भिक्षा ’ ” । अन्तःपुरप्रसिद्धं चैतत् । ब्रह्मचारिणे विधिवत् । अन्यस्मा अपि पाखण्डादिरूपाय भिक्षवे न विधिवद्दातव्या । ब्रह्मचारिणे तु विधिवत्स्वस्तिवाचन-पूर्वं भिक्षादानमित्येष विधिः । अथवा भिक्षुः परिव्राड्, ब्रह्मचारी प्रथमाश्रमी । चशब्दश्चास्थाने वृत्तानुरोधात् । ब्रह्मचारिणे चेति पठितव्यम् । एवं तु वानप्रस्थाय न दानं स्यात् । तस्माद्भिक्षते इति ' भिक्षुः ', तस्यैव विशेषणं ब्रह्मचाग्रिहणम् । तेन त्रिभ्योऽप्याश्रमिभ्यो भिक्षादानं नियमतोऽनुज्ञातं भवति ।
पाखण्डादीनां तु पतितादिवत् । सर्वग्रहणेन भिक्षोपकारो यथाशक्ति विहित एव ॥८४ ॥।
हिन्दी - इस प्रकार ( ३।७५-८१ ) बलिकर्म को समाप्तकर पहले अतिथि ( यदि कोई आया हो तब उस ) को भोजन करावे और विधि - पूर्वक ब्रह्मचारी, संन्यासी तथा भिक्षुक को भिक्षा देवे ॥८४ ॥
विमर्श - भिक्षा का परिमाण कम कम एक ग्रास ' होना चाहिए, सम्भव हो तो अधिक भी दे सकते हैं । भिक्षादान का फल—
यत्पुण्यफलमाप्नोति गां दत्त्वा विधिवद्गुरोः ।
तत्पुण्यफलमाप्नोति भिक्षां दत्त्वा द्विजो गृही ॥ ८५ ॥
भाष्य — नित्यं भक्तदानमर्थिने शक्तितो दातव्यम् । इदं त्वधिकारान्तरम् । यद्गुरवे गां दत्त्वा फलमाप्नोति तद्भिक्षां दत्त्वा गोव्रतस्याविशिष्टमिति । स्मृत्यन्तरे सर्वफलता पापप्रमोचनार्थताऽपि गोदानस्य श्रुता । यावतामल्पोपकाराणां महोपकारैः फलसाम्यमुच्यते, तेषां लोकवत्परिमाणतः फलविशेषोऽवगन्तव्यः । प्राप्यते तदेव फलम्, न तु चिरकालम् । आवाच्यो ह्ययं न्यायः- “ पणलभ्यं हि कः प्राज्ञः क्रीणाति दशभिः पणैः " इति । समानफलत्वे महाप्रयासानर्थक्यं प्राप्नोति ।
“ अगुर्यथाविधीति ” केचित्पठति । तत्र नञल्पवचनो द्रष्टव्योऽल्पगुरिति ।
पुण्यं धर्मस्तस्य फलम् ॥ ८५ ॥
१. ‘ ग्रासमात्रा भवेद्भिक्षा ' इति शतपतवचनात्, अग्रे ग्राममात्राभिक्षाया मनुनाप्युक्तत्वाच्च । ( ३/७३ )