मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 401–410

मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 401–410

पृष्ठ 401

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 401 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता ३२७ हिन्दी - गृहस्थ द्विज गुरु के लिये गौ को देखकर जो प्राप्त करता है, वह फल विधिपूर्वक ( ब्रह्मचारी आदि के लिए ) भिक्षा देकर प्राप्त करता है ॥८५ ॥

सङ्कल्पपूर्वक भिक्षादान—

भिक्षामप्युदपात्रं वा सत्कृत्य विधिपूर्वकम् ।

वेदतत्त्वार्थविदुषे ब्राह्मणायोपपादयेत् ॥ ८६ ॥

भाष्य - अथ विधिवदित्युक्तं सोऽयं विधिरुच्यते । अप्रकृतस्योदपात्रस्य श्रवणं सर्वदा नृणां, न भिक्षादानस्यैवेति दर्शयितुम् । सत्कृत्य पूजयित्वा । विधिः पूर्वो यस्य दानस्य तद्विधिपूर्वकम् । पूर्वशब्दः कारणवचनः । शास्त्र-निमित्तकमेतदित्यर्थः । इतिकर्तव्यता वा विधिः, सा पूर्वं कर्तव्या । उक्तं च पूर्वं भिक्षादानं, ददाति सत्कृत्य पूजयित्वा । वेदस्य तत्त्वार्थः पारमार्थिको निःसंशयोऽर्थस्तं ' वेत्ति ', तस्मै ब्राह्मणायोपपाद-येद्दद्यात् । ब्राह्मणायेति जातिनियम: विदुष इति गुणनियमः । तेन यत्किञ्चिद्दातव्यं तद् ब्राह्मणाय, तस्मै च वेदार्थविदे पूजापूर्वकमित्यर्थत्रयविधानं सर्वं ददात्यर्थोद्देशेन, पौरुषेयत्वान्नानाकारार्थविधानम् ॥८६ ॥

प्राप्ते दाने दोषः । हिन्दी - पर्याप्त ( भरपूर ) अन्न के अभाव में ग्रासमात्र भिक्षा को भी ( व्यञ्जन आदि से संस्कृत कर अर्थात् सुस्वादु बनाकर ) तथा उतने अन्न के भी अभाव होने पर जल से भरे हुए पात्र को ही ( फल फूल आदि से सत्कृतकर ) वेद के तत्त्वार्थ के ज्ञाता ब्राह्मण के लिए ( स्वस्ति कहलवाकर ) देवे ॥ ८६ ॥

अपात्र को दान देने का फल-नश्यन्ति हव्यकव्यानि नराणामविजानताम् ।

भस्मभूतेषु विप्रेषु मोहाद्दत्तानि दातृभिः ॥ ८७ ॥

भाष्य - पूर्वेण यादृशे देयं तत्पात्रमुक्तम् । अनेनापात्रे ददतः प्रतिषेधः । नश्यन्ति निष्फलानि भवन्ति । हव्यानि देवतोद्देशेन यानि ब्राह्मणभोजनादीनि क्रियन्ते । पित्र्यकर्माङ्गभूतान्यन्यानि कव्यानि श्राद्धानि । भस्मभूतेषु । भस्मतां प्राप्ता भस्मभूताः । उपमाने वा ' भूत'शब्दः, ‘ भस्मानीव ’, यथा ‘ काष्ठभूत ’ इति । “ किं पुनर्भस्मना साम्यम् ” । यथा तन्न क्वचिदुपयुज्यतेऽवकर-रूपमपोह्यमेवमीदृशो ब्राह्मणः क्रियाभ्योऽपोहितव्य इति तात्पर्यार्थः ।

पृष्ठ 402

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 402 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३२८ मनुस्मृतिः [ तृतीय: नराणामविजानतां नश्यन्तीति सम्बन्धः । मोहाद्दत्तानि दातृभिः । अविजानतां मोहादिति चानुवादः । यच्छास्त्रेणापोहितं तान्मोहादेव क्रियते ॥ ८७ ॥

कीदृशाः पुनरभस्मभूतास्तानाह— हिन्दी – अज्ञानी मनुष्य के द्वारा वेद तथा वेदार्थ - ज्ञान से हीन ब्राह्मण के लिए देवों तथा पितरों के उद्देश्य से दिये गये हव्य तथा कव्य नष्ट हो जाते हैं ( वे देवों तथा पितरों को नहीं मिलते हैं ) ॥८७ ॥

सत्पात्र को दान देने का फल-विद्यातपः समृद्धेषु हुतं विप्रमुखाग्निषु ।

निस्तारयति दुर्गाच्च महतश्चैव किल्बिषात् ॥ ८८ ॥

भाष्य — विद्यातपोभ्यां समृद्धास्तद्व्यतिरिक्ता भस्मभूताः । समृद्धिरतिशयिनी सम्पत्तिः । बहुविद्यया महता च तपसा युक्ता एवमुच्यन्ते । समुदायसम्बन्धिनी अपि विद्यातपसी सम्बन्धिसम्बन्धादवयवभूतमुखैः सामानाधिकरण्यं प्रतिपद्येते 1 । विप्राणां मुखान्यग्नय इत्यत्र व्याघ्रादेराकृतिगणत्वात्समासः । यथाऽग्नौ हुतं फलवद्भस्मनि हुतं निष्फलमेवमीदृशं भोजनं ब्राह्मणमुखनिक्षिप्तं हुतमिति भोजनमेव स्तुत्योच्यते । यागहोमादि महाफलतया प्रसिद्धम् । अतः प्रख्याततम-गुणेनाप्रख्यातमुपमीयते । निस्तारयति दुर्गात् । ‘ दुर्गं ’ व्याधिशत्रुराजपीडादिजीवितमुपस्थितम् । ततो ‘ निस्तारयति ’ रक्षति । न तेन संमृश्यते । महतश्च पापात्परलोकेऽपि नरकादिगतेस्त्रायते । न केवलमाभ्युदयिककर्मेदृक्पात्रविषयम् । प्रायश्चित्तार्थमपि तद् गुणायैव दातव्यम् ॥८८ ॥

हिन्दी — विद्या तथा तप से समृद्ध ( बढ़े हुए ) ब्राह्मण के मुखरूपी अग्नि में हवन किया हुआ ( उक्त रूप श्रेष्ठ ब्राह्मण को खिलाया गया ) अन्न आदि दुस्तर ( कठिनता से पार करने योग्य ) रोग, राजभय, शत्रुभय आदि से तथा बड़े पाप से भी छुड़ा देता है || ८८ ॥ [ अनर्हते यद्ददाति न ददाति यदर्हते । अर्हानर्हापरिज्ञानाद्धनी धर्मान्न हीयते ॥ १२ ॥ ]

[ हिन्दी — जो धनी ( दानकर्त्ता ) योग्य तथा अयोग्य का ज्ञान नहीं होने के कारण जो कुछ अन्नादि अयोग्य के लिए देता है तथा योग्य के लिए नहीं देता, वह धनी धर्म से भ्रष्ट नहीं होता अर्थात् उसका देना निष्फल नहीं होता || १२ || ]

पृष्ठ 403

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 403 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता [ काले न्यायागतं पात्रे विधिवत्प्रतिपादितम् । ददाति परमं सौख्यमिह लोके परत्र च ॥ १३ ॥ ]

३२ ९ [ हिन्दी — समय पर न्यायानुसार आया हुआ अग्रिम श्लोक में वक्ष्यमाण अन्नादि पात्र में विधिपूर्वक दिया गया इस लोक में तथा परलोक में भी उत्तम सुख को देता है ॥१३ ॥ ]

[ प्रतिग्रहेण शुद्धेन शस्त्रेण क्रयविक्रयात् । यथाक्रमं द्विजातीनां धनं न्यायादुपागतम् ॥ १४ ॥ ]

[ हिन्दी - क्रमश: द्विज का ( ब्राह्मण का ) शुद्ध प्रतिग्रह अर्थात् दान से, ( क्षत्रिय का ) शस्त्र से अर्थात् युद्धादि में शत्रुपक्ष को पराजित करने से तथा ( वैश्य का ) क्रय-विक्रय अर्थात् व्यापार से खरीदने - बेचने से आया हुआ धन न्याय से आया हुआ उपार्जित होता है ॥१४ ॥ ]

सम्प्राप्ताय अतिथि सत्कार –

त्वतिथये प्रदद्यादासनोदके ।

अन्नं चैव यथाशक्ति संस्कृत्य विधिपूर्वकम् ॥८९ ॥

भाष्य – सम्प्राप्ताय स्वयमुपस्थिताय, न तु निमन्त्रिताय । न हि निमन्त्रितोऽ-तिथिर्भवति । प्राप्तिदेशं च वक्ष्यति ( अग्रे १०३ श्लो ० ) " भार्या यत्राग्नयोऽपि वा ' इति । आसनोदके दद्यात् । पादधावनोपयोगि प्रथममुदकं तत आसनम् भोजनं च । यथाशक्ति संस्कृत्येत्यन्नविशेषणम् । सविशेषमन्नं संस्कृत्य दद्याद्भोजयेत् । विधिपूर्वकम् विधिः पूर्वो यस्मिन्दाने तदेवमुच्यते । विधिः शास्त्रं तत्पूर्वं निमित्तं प्रमाणमित्यर्थः ॥८ ९ ॥ हिन्दी — घर पर आये हुए अतिथि के लिए आसन, पैर धोने के लिए जल, शक्ति के अनुसार व्यञ्जनादि से संस्कृत ( स्वादिष्ट ) अन्न विधिपूर्वक ( ३।१०६ ) सत्कार कर देना चाहिए ॥८९ ॥

अतिथि की पूजा नहीं करने का फल-शिलानप्युञ्छतो नित्यं पञ्चाग्नीनपि जुह्वतः ।

सर्वं सुकृतमादत्ते ब्राह्मणोऽनर्चितो वसन् ॥ ९ ० ॥

भाष्य — अत्यन्तदरिद्रस्याप्यतिथिपूजाव्यतिक्रमो न युक्तः । शिलान् केदार-लवनशेषान् । उञ्छत उच्चिन्वतः । एतच्च वृत्तिसङ्कोचोपलक्षणार्थम् ।

पृष्ठ 404

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 404 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३३० मनुस्मृतिः [ तृतीय: पञ्चाग्नीनपि जुह्वतः । अनेन शास्त्रानुष्ठानसम्पन्नोऽत्यन्तदरिद्रश्च यद्यतिथिमागतं न पूजयत्यन्नदानादिना, तदा तदनुष्ठानं स वृत्तिसंयमो निष्फलतामेति । ततश्च सर्वं सुकृतं पुण्यमादत्ते अतिथिगृह्णाति निष्फलीकुरुते । अनर्चितो वसन् । तस्मादर्चयेदिति विध्यर्थः । वसन्निति लिङ्गात्सायमागते विधिरयम् । पञ्चाग्नयस्त्रेता गृह्यः सभ्यश्च । " अथ कोऽयं सभ्यो नामाग्निः " । एवं ह स्माहुः । ग्रामान्तरे प्रोषितस्य यत्र लौकिकपाकः क्रियते महासाधनस्य बहुवेश्मसु यो गृह्यागारादेव शीतापनोदार्थं विह्रियते स सभ्यः । “ होमस्तर्हि तत्र कः? यावता ' तस्मिन्गृह्याणि ' इति नियमः । ” अस्मादेव वचनात् वैश्वदेवहोम: प्रोषितस्य लौकिकेऽप्यस्तीति मन्यन्ते । ब्रीहियवैः शुष्कधान्यैर्यत्र लेलिहानं सुसमिद्धं पश्येत्तत्राभिजुहुयादिति स्मृतिवचनमुदाहरन्ति । इह भवन्तस्त्वाहुः । उपनिषत्सु पञ्चाग्निविद्योक्ता । तत्र तेषां कल्पिताग्निरूपाणि । तद्रूपेण यदुपासनं यच्च वेदनं स ' होम ' इति कल्प्यते । सा हि सर्वश्रोतेभ्यः कर्म-भ्योऽतिशयफलेष्यते । एवं हि तत्राम्नायते “ स्तेनो हिरण्यस्य सुरां पिबंश्च गुरोस्तल्प-मावसन् ब्रह्मा च ते पतन्ति चत्वारः संसर्गी च ' । पञ्चानामपि यत्फलं तदतिथावाराधितेऽविमुखीकृते नश्यतीति प्रशंसातिशयेना-वश्यकर्तव्यतां दर्शयति । यद्यपि प्रातराशेऽप्यतिथिभोजननियम:, सायं तु तद्व्यतिक्रमे प्रायश्चित्ताधिक्यम् । ' यथाशक्तीति ' पूर्वश्लोकेऽन्नविषयं ये न मन्यन्ते, त एवमाहुर्यथाशक्त्यतिथयः पूजयितव्याः, एको द्वौ बहव इति ॥९ ० ॥ हिन्दी — शिलोञ्छवृत्ति से रहते हुए तथा पञ्चाग्नि में नित्य हवन करते हुए भी द्विज के घर पर अपूजित ( आने पर भी अतिथिसत्कार को अप्राप्त ) ब्राह्मण उन सब ( शिलोञ्छ तथा पञ्चाग्नि के फलों ) को ले लेता है ॥९ ० ॥ विमर्श - किसान के खेत काटकर अन्न ले जाने के बाद उस खेत में एक - एक दाना ( बालें या फलियाँ नहीं ) चूँगकर उस अन्न से जीविका - निर्वाह करना ‘ शिलोञ्छ ' कहलाता है । गार्हपत्य, दक्षिण, आहवनीय, आवसथ्य और सभ्य ये ‘ पञ्चाग्नि ' हैं ।

अन्नादि के अभाव में अतिथि सत्कार -तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।

एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ ९ १ ॥

भाष्य – यदि दारिद्र्यात्सायमन्नदानं न घटते तदा नैवं मन्तव्यम् — ‘ प्रधानमतिथे-र्भोजनं, तच्च मे नास्तीति, किमनेन मद्गृहे प्रविष्टेनेति ' । यतोऽशक्तस्य तृणादिदाने-

पृष्ठ 405

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 405 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३३१ नाप्यतिथिपूजाविधिः स्यात् । अथवा नायं विधिर्भोजन एव पर्यवस्यति, किं तर्हि निवत्स्यतः शयनादि दातव्यम् । तृणग्रहणं स्त्रस्तरोपलक्षणार्थम् । भूमिरासनशयनविहारस्थानम् ।

सूनृता वाक् प्रियहितवचनं, कथाप्रस्तावादि वा ।

एतान्यप्यन्नाभावे सतामागतस्यातिथेनच्छिद्यन्ते, किंतु दीयन्ते सर्वकालम्॥९ १ ॥

हिन्दी — तृण ( घास — आसन एवं शयन के लिए ), भूमि ( बैठने के लिए ), जल ( पीने तथा पैर धोने के लिए ), और मधुर वचन – ये चारों तो सज्जनों के घर से कभी दूर नहीं होते ( सदैव विद्यमान रहते हैं, अतएव अन्नादि के अभाव में इन्हीं के द्वारा अतिथियों का सत्कार करना चाहिए ) ॥९ १ ॥

अतिथि का लक्षण-एकरात्रं तु निवसन्नतिथिर्ब्राह्मणः स्मृतः ।

अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ ९ २ ॥

भाष्य - नातिप्रसिद्धो लोकेऽतिथिशब्दार्थ इति तदर्थलक्षणमाह । एकरात्रं वसतः परगृहेऽतिथित्वम् । तच्च ब्राह्मणस्य न जात्यन्तरे । द्वितीयेऽह्नि पूजाविधौ कामचारः । अभ्युदयविशेषार्थिनस्तदधिकारः, न नैयमिकः 1 तथा चापस्तम्बः ( २।७।१६ ) “ एकरात्रिं वासयेत् । पार्थिवाँल्लोकानभिजयति द्वितीया-मान्तरिक्षाँस्तृतीयां दिव्यान् " इति फलकामस्य द्वितीयादिरात्रिष्वधिकारं दर्शयति ।

अत्रैव निर्वचनं दार्यार्थमाह अनित्यं हि स्थितिः । तिष्ठतेरतिपूर्वस्यायं शब्दः ।

औणादिकैः कथञ्चिद्व्युत्पत्तिः ॥९ २ ॥

हिन्दी – ( गृहस्थ के घर ) एक रात ठहरने वाला ब्राह्मण ' अतिथि ' कहा गया है; क्योंकि आने तथा ठहरने की तिथि ( समय ) का निश्चय नहीं करने से वह ' अतिथि ' ( ' न विद्यते तिथिर्यस्य स: ' इस विग्रह से ) कहा जाता है ॥९ २ ॥ विमर्श - इस श्लोक में आये हुए ' एकरात्रं ' पद से केवल एक रात्रि का ही ग्रहण नहीं करना चाहिये, अपितु उस ' एकरात्र ' पद को उपलक्षण मानकर ' एक शाम या एक दिन ठहरने वाला ' ऐसा अर्थ करना चाहिये । इसी कारण ' ब्राह्मण ' पद से भी ब्राह्मणमात्र का ग्रहण न कर उपलक्षणतया ' द्विज ' या मनुष्यमात्र का ग्रहण करना चाहिए, अन्यथा जो रात्रि में नहीं टिकने वाला होगा या ब्राह्मण नहीं होगा, उसे ‘ अतिथि ’ नहीं माना जायेगा । उक्तार्थ स्वीकार करने पर ही जो श्लोक १०५ की टिप्पणी में लिखित विष्णुपुराण के वचन से भी दिन में आने वाले को भी ' अतिथि ’

पृष्ठ 406

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 406 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३३२ मनुस्मृतिः [ तृतीयः माना गया है तथा श्लोक ११० की मन्वर्थमुक्तावली के अनुसार क्षत्रिय गृही का ब्राह्मण तथा क्षत्रिय, वैश्य गृही का ब्राह्मण, क्षत्रिय और वैश्य अतिथि माना गया है, ये दोनों वचन सङ्गत होते हैं ।

नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा ।

उपस्थितं गृहे विद्याद्भार्या यत्राग्नयोऽपि वा ॥ ९ ३ ॥

भाष्य — एकस्मिन्ग्रामे यो वसति वैश्वदेवकालोपस्थितोऽपि नातिथिः । साङ्गतिकः सहाध्यायो सख्युरन्यः । तस्य ह्युत्तरत्र विधिर्भविष्यति ( अग्रे ११०

श्लोके ) “ वैश्यशूद्रौ सखा चेति " । योऽपि सर्वेण सङ्गच्छते विचित्रपरिहासकथादिभिः,

स सङ्गतिकशब्देन युक्तः प्रतिषेद्धुं प्रागदृष्टपूर्वोऽपि । न च गृहस्थस्य प्रोषितस्यास्य सर्वलक्षणलक्षितोऽप्यतिथिः । किं तर्हि उपस्थितं गृहे विद्यात् । यत्रास्य नित्यं स्थानम्, वसतिस्थानं यदुच्यते । प्रोषितस्यापि भार्या यत्राग्नयश्च तत्रासन्निहितस्यापि गृहस्थस्य भवत्येवातिथिः । अतो यथा सम्विधायाग्नि-होत्रदर्शपूर्णमासादिषु प्रवसति, तद्वदतिथयेऽपि सम्विधातव्यम् । वाशब्दात्त्वेवं प्रतीयते— भार्याग्निभिः सह यदा प्रवासस्तदा भवत्येव ग्रामान्तर-स्थस्याप्यतिथिः । असन्निहितस्यापि गृहे भार्याग्निषु सत्सु । ततश्च यदि भार्यया सह प्रवसेदग्नयश्च गृह एव भवेयुस्तदा नातिथिपूजानियम इति । वाशब्द उपस्थितं गृहे विद्यादित्येतदपेक्षया, न परस्परापेक्षया भार्याग्नीनाम् ॥९ ३ ॥ हिन्दी —- एक ग्रामवासी, विचित्र - कथाओं तथा परिहासों के द्वारा जीविकाभिलाषी अर्थात् जीविका करने वाले ऐसे भार्या तथा अग्नि से युक्त विप्र को भी ' अतिथि ' नहीं समझना चाहिए || ९ ३ ॥

लोभवश दूसरे के यहाँ भोजनेच्छा का निषेध -उपासते ये गृहस्थाः परपाकमबुद्धयः ।

तेन ते प्रेत्य पशुतां व्रजन्त्यन्नादिदायिनः ॥ ९ ४ ॥

भाष्य – ' उपासनं ' तदभ्यासः । यो ब्राह्मणोऽनयैव बुद्ध्या तत्र तत्रोपतिष्ठेत यथाऽतिथिरवश्यं भोजनं लभेत तस्येयं निन्दा | यस्तच्छील: ‘ परस्य ’ सम्बन्धिनं ' पाक ' मन्नमुपास्ते, न तु कदाचित् । तेन कर्मणा प्रेत्य पशुतां बलीवर्दादिजातिं व्रजति प्राप्नोति । अन्नादिदायिनस्तद्गृहे दन्तिनां गर्दभ-तामश्वतां प्राप्नोति ।

पृष्ठ 407

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 407 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता गृहस्थयैष दोष:, उत्पन्नस्थालीपाकस्य ॥९ ४ ॥ ३३३ हिन्दी – जो निर्बुद्धि गृहस्थ आतिथ्य ( अतिथि सत्कार ) के लोभ से दूसरे ग्राम में जाकर परान्न - भोजन करता है, उस परान्न भोजन के कारण मरकर अन्न देने वाले के यहाँ पशु होता है॥९ ४ ॥ [ परपाकान्नपुष्टस्य सततं गृहमेधिनः । दत्तमिष्टं तपोऽधीत यस्यान्नं तस्य तद्भवेत् ॥ १५ ॥ ]

[ हिन्दी – सर्वदा दूसरे के अन्न से पुष्ट ( भोजनार्थ दूसरे - दूसरे गाँवों में जा-जाकर आतिथ्य ग्रहण करने वाले ) गृहस्थ का दान, यज्ञ, तप और वेदादि का स्वाध्याय, जिसका अन्न है; उसे प्राप्त होता है || १५ || ]

अप्रणोद्योऽतिथिः सायं सूर्योढो गृहमेधिना ।

काले प्राप्तस्त्वकाले वा नास्यानश्नन्गृहे वसेत् ॥ ९ ५ ॥

भाष्य - सायंकालोऽस्तमयादिः प्रदोषांतः । तस्यां वेलायामतिथिरागतोऽ-प्रणोद्यः अप्रत्याख्येयः, भोजनशयनासनादिभिः प्रतिपूज्यः । केन । गृहमेधिना । ' मेधो ’ यज्ञः । ‘ गृहमेधो ’ महायज्ञानामियमाख्या । तत्राधिकारी गृहमेधी गृहस्थ इति यावत् । सूर्योढ इत्यर्थवादः, सूर्येणोढः प्रापितः । दैवोपनीतत्वादवश्यं पूजार्हः । काले द्वितीये वैश्वदेवकाले प्राप्तः, ' अकाले ' वा सायं, भोजने निवृत्तेऽपि । नास्य गृहस्थस्यानश्नन्गृहे वसेत् । यदि शेषमस्ति तन्निवेदनीयम् । न चेद्, द्विः पाकः कर्तव्यः ॥९ ५ ॥ हिन्दी - गृहस्थ सायं काल घर पर आये हुए अतिथि को मना न करे तथा वह समय पर ( घर वालों के भोजन करने के पहले ) या असमय पर ( घर वालों के भोजन करने के बाद ) आवे, परन्तु बिना भोजन किये वहाँ नहीं ( जिसके यहाँ ठहरे, उसको वह गृहस्थ भोजन अवश्य कराये ) रहे ॥ ९ ५ ॥ विमर्श - इसी वास्ते विष्णुपुराण में कहा है कि ' दिन में अतिथि के विमुख ( बिना भोजन किये या बिना कुछ पाये निराश होकर ) लौट जाने पर जो पाप होता है, उससे अठगुना पाप रात को अतिथि के विमुख होकर लौट जाने से होता है ' । १. अतएव विष्णुपुराणे -' दिवाऽतिथौ तु विमुखे गते यत्पातकं नृप । तदेवाष्टगुणं प्रोक्तं सूर्योढे विमुखं गते । ' इति ( म ० मु ० )

पृष्ठ 408

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 408 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३३४ मनुस्मृतिः [ तृतीयः अतिथि को बिना दिये श्रेष्ठ पदार्थों को खाने का निषेध-न वै स्वयं तदश्नीयादतिथिं यन्न भोजयेत् । धन्यं यशस्यमायुष्यं स्वर्ग्यं वाऽतिथिपूजनम् ॥ ९ ६ ॥ भाष्य – सूपघृतदधिशर्करादि यदुत्कृष्टमन्नं तत्स्वयं नाश्रीयादतिथौ सन्निहिते यावत्तस्मै न दत्तम् । यत्तु आतुरस्य यवागूरसकटुकादि तदनिच्छते न देयम् । तादृशमदत्तमश्नतो न दोषः । सर्वथा न संस्कृतमन्नं स्वयं भोक्तव्यम् । कदन्नमतिथिर्न भोजनीय इत्येवंपरमेतत् । धनाय हितं, धनस्य निमित्तं वेति धन्यम् । एवं यशस्यादयः शब्दाः ।

अर्थवादोऽयं नित्यत्वादतिथिभोजनस्य, सति सन्निधानेऽतिथे: पूर्वशेषत्वाच्च ।

स्तुतित्वेनान्वये सम्भवति नाधिकारान्तरकल्पना युक्ता ॥९ ६ ॥

हिन्दी — जो अतिथि को नहीं खिलाया जावे ऐसा घी, दूध, मिठाई आदि पदार्थ स्वयं भी नहीं खावे | अतिथि का पूजन ( भोजनादि से आदर - सत्कार ) करना धन, आयु, यश तथा स्वर्ग का निमित्त ( कारण ) होता है ॥९ ६ ॥

बहुत अतिथियों के आने पर यथायोग्य सत्कार-आसनावसथौ शय्यामनुव्रज्यामुपासनम् ।

उत्तमेषूत्तमं कुर्याद्धीने हीनं समे समम् ॥९ ७ ॥

भाष्य — बहुष्वतिथिषु युगपदुपस्थितेष्वितरेतरं समहीनज्यायस्स्वासनादिप्रकल्पनं गुणापेक्षं, नाविशेषेण । आसनं वृस्यादि । आवसथं विश्रामभूमिः । शय्या खट्वादि । अनुव्रज्या

गच्छतोऽनुगमनम् । उपासनं तत्समीपे कथाप्रस्तावेन सन्निधानम् । एतदुत्तमेषूत्तमम् ।

दूरमनुव्रज्येत ‘ उत्तम: ’, नातिदूरं ' मध्यमः ', कतिचित्पदानि ‘ हीनः’॥९ ७ ॥

हिन्दी — बहुत अतिथियों के एक साथ आने पर आसन, विश्रामस्थान, शय्या ( चारपाई, चौकी, पलङ्ग आदि ), अनुगमन ( पीछे - पीछे चलना ) और सेवा – ये सब सत्कार बड़ों का अधिक, मध्यमश्रेणिवालों का मध्यम तथा निम्न श्रेणिवालों का कम करना चाहिये || ९ ७ || अतिथ्यर्थ पुनः बनाये गये भोज्यपदार्थ से बलि का निषेध -वैश्वदेवे तु निर्वृत्ते यद्यन्योऽतिथिराव्रजेत् । तस्याप्यन्नं यथाशक्ति प्रदद्यान्न बलिं हरेत् ॥ ९ ८ ॥

पृष्ठ 409

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 409 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३३५ भाष्य — सर्वार्थमन्नं वैश्वदेवशब्देनोच्यते । तस्मिन्निर्वृत्ते निष्पन्ने, भुक्तवत्सु सर्वेषु, नि: शेषितेऽन्ने, यद्यन्योऽतिथिरागच्छेत्तस्मै दद्यात्पुनः पक्वान्नम् । न तु तस्मात्पाकबलिं हरेत् । अग्नावपि होमो नेष्यते, न केवले बलिहरणम् । यतः सायंप्रातः पाके होमो बलिहरणम्, न चान्तरालिके । तथा च वक्ष्यति ( १२१ श्लोके ) " सायं त्वन्नस्य ”

इति । एवं च यद्यप्यकृदह्नः पचेत्तथापि न प्रतिपाकं वैश्वदेवमावर्तेत ।

यथाशक्ति संस्कारविशेषेणेतरथा वा ॥ ९ ८ ॥

हिन्दी — वैश्वदेव कर्म के निवृत्त होने पर यदि दूसरा अतिथि आ जाय तो उसके लिए भी यथाशक्ति अन्न ( यदि बचा नहीं हो तो पुनः तैयार कर ) देना चाहिए, किन्तु दुबारा बलि करने की आवश्यकता नहीं है ॥ ९ ८ ॥ भोजन प्राप्ति के लिए अपने कुल गोत्र का कथन- निषेध -न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत् । भोजनार्थं हि ते शंसन्वान्ताशीत्युच्यते बुधैः ॥ ९९ ॥

भाष्य – प्रासङ्गिकोऽतिथेरयमुपदेशः । भोजनार्थ्येतत्कुलीनोऽमुष्य पुत्रोऽस्मीति न निवेदयेन्न कथयेत् | स्वे कुलगोत्रं आत्मीयं ‘ कुलं ’ पितृपितामहाद्यभिजनो, ' गोत्रं ' गर्गभार्गवादि, नामधेयं वा । ' गोत्रस्ख-लितं ' नामान्तरविवक्षायां यन्नामान्तरमुदाह्रियते तदुच्यते । अध्ययनमपि स्मृत्यन्तर-प्रतिषिद्धं, तदपि न निवेद्यम् । अस्यार्थवादः । भोजनार्थं - ' भोजनं लिप्से प्रख्यातकुलजातित्वा'दित्यनेनार्थेन हेतुना कुलगोत्रे शंसन्कथयन्वान्ताशी, वान्तमुद्गीर्णमश्नाति निगिरतीत्येवमुच्यते बुधैः॥९९ ॥

हिन्दी – ब्राह्मण भोजन प्राप्ति के लिए अपने कुल तथा गोत्र को न कहे ( मैं ब्राह्मण हूँ, मुझे भोजन करा दीजिए, इत्यादि वचन स्वयं न कहे ) क्योंकि भोजन प्राप्त करने के लिए अपने कुल तथा गोत्र को कहने वाला विप्र वमन किये पदार्थ को खाने वाला कहा जाता है ॥९९ ॥

ब्राह्मण के क्षत्रिय आदि अतिथि नहीं—

न ब्राह्मणस्य त्वतिथिर्गृहे राजन्य उच्यते ।

वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुरेव च ॥ १०० ॥

भाष्य - क्षत्रियो ब्राह्मणस्याध्वनीनोऽपि प्रथमभोजनकाल उपस्थितोऽपि ना-तिथिः अतो न तस्मै नियमतो देयम् ।

पृष्ठ 410

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 410 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३३६ एवं वैश्यशूद्राभ्यामपि । मनुस्मृतिः सखिज्ञाती आत्मसमे, नातिथी । [ तृतीयः गुरुः प्रभुवदुपचर्यः । “ निवेद्य पचनक्रिया ” यत्युक्तम् ( गौतम ५ ।२६ ) ॥१०० ॥

हिन्दी- – ब्राह्मण के ( घर आये हुए ) क्षत्रिय, वैश्य, शूद्र, मित्र, बान्धव और गुरु अतिथि ' नहीं कहे जाते हैं ॥१०० ॥

विमर्श - क्षत्रियादि की अपेक्षा ब्राह्मण के श्रेष्ठ होने से, मित्र तथा बान्धवों ( समान जातीय वालों ) के अपना सम्बन्धी होने से, गुरु के प्रभु होने से वे ' अतिथि ’ नहीं होते | इसी प्रकार क्षत्रिय के यहाँ आया हुआ ब्राह्मण तथा क्षत्रिय ' अतिथि ’ समझा जाता है; किन्तु वैश्य, शूद्र और सखादि ' अतिथि ' नहीं समझे जाते, एवं वैश्य के यहाँ आये हुए ब्राह्मण, क्षत्रिय तथा वैश्य ' अतिथि ' समझे जाते हैं, किन्तु शूद्र तथा सखा आदि ' अतिथि ' नहीं समझे जाते ।

क्षत्रियादि को बाद में भोजन कराना-यदि त्वतिथिधर्मेण क्षत्रियो गृहमाव्रजेत् ।

भुक्तवत्सु च विप्रेषु कामं तमपि भोजयेत् ॥ १०१ ॥

भाष्य — तत्रातिथेर्धर्मः — क्षीणपथ्योदनत्वं परग्रामवासो भोजनकालोपस्थानम्— तादृशेन रूपेण यदि क्षत्रियो गृहमागतो भवति, तदा तमपि भोजयेत् । भोजनवचनादन्या परिचर्या निवर्तते । प्रियहितवचनं त्वविशेषेण गृहाभ्यागतस्य विहितम् । अयं च तस्य भोजनस्य कालः । भुक्तवत्सु विप्रेषु ब्राह्मणेष्वनतिथिषु वा गृहसन्निहितेषु प्रथमंभोजिषु, ततः स भोजयितव्यः । काममिति नियमाभावमाह । काम्योऽयं विधिर्न नित्य इत्यर्थः । कामश्चानिर्दिष्ट-विशेषफलेषु स्वर्गः | यदि वा " धन्यं यशस्यम् " इत्याद्यत्र सम्बन्धनीयम् ॥१०१ ॥

हिन्दी – यदि क्षत्रिय अतिथि - धर्म से ( अतिथि के समय में तथा अतिथि के समान दूसरे ग्राम से आने के कारण ) ब्राह्मण के घर आ जावे तो उसे भी ब्राह्मण, अतिथि को भोजन कराने के बाद भोजन करे ॥ १०१ ॥

वैश्य तथा शूद्र को भृत्यों के साथ भोजन कराना-वैश्यशूद्रावपि प्राप्तौ कुटुम्बेऽतिथिधर्मिणौ । भोजयेत्सह भृत्यैस्तावानृशंस्यं प्रयोजयन् ॥ १०२ ॥

-भाष्य — अतिथेर्धर्मोऽतिथिधर्मः । स ययोरस्ति तावतिथिधर्मिणौ । अतिथि-धर्मश्च प्राग्व्याख्यातः ।