मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 411–420

मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 411–420

पृष्ठ 411

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 411 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३३७ कुटुम्बं गृहं, तत्र प्राप्तावागतौ । वैश्यशूद्रावपि भोजयेत् । क्षत्रियवत् । तयोस्तु भोजनकालः क्षत्रियकालात्परेण । यत आह भोजयेत्सह भृत्यैस्तौ । ' भृत्या ' अत्र दासा उच्यन्ते । तेषां च भोजनकालो भुक्तवत्स्वतिथिज्ञातिबान्धवेषु सर्वेष्वर्वाग्दम्पतिभ्याम् । सहशब्द एककालतामात्रलक्षणार्थः । आनृशंस्यं कारुण्यमनुकम्पां प्रयोजयन् प्रमाणीकुर्वन्नाश्रयन्निति यावत् । अनेन पूज्यतां वारयति । अनुग्राह्यो ह्यनुकम्प्यो, न पूज्यः । अनुकम्प्येषु यदि च शक्यतेऽनुग्रहः कर्तुं ततः क्रियतेऽभ्युदयार्थिना, न त्वकरणादतिथेरतिक्रमः । एतदुक्तं भवति । यादृशोऽतिथिभोजनादुत्कृष्टो धर्मः अनुकम्प्यानुग्रहान्न तादृशस्ततो निकृष्टः ॥ १०२ ॥

हिन्दी - इसी प्रकार ब्राह्मण के घर यदि वैश्य तथा शूद्र भी अतिथि - धर्म से ( अतिथि के समय तथा ग्रामान्तर से आने के कारण ) आ जावें तो उन्हें भी दया-प्रदर्शन करता हुआ भृत्यों के साथ ( ब्राह्मण, अतिथि तथा अतिथि - धर्म से आये हुए क्षत्रिय को भोजन कराने के बाद तथा गृह - दम्पति के भोजन करने से पहले ) भोजन करावे ॥१०२ ॥

गृहागत मित्रादि को भोजन कराना-इतरानपि सख्यादीन्सम्प्रीत्या गृहमागतान् ।

प्रकृत्यान्नं यथाशक्ति भोजयेत्सह भार्यया ॥ १०३ ॥

भाष्य — ‘ सखा ’ मित्रं स आदिर्येषाम् । आदिशब्दः प्रकारे ज्ञातिबन्धुसङ्गतसहा-ध्यायिप्रभृतीन्गृह्णाति, गुरुवर्जम् । संप्रीत्याऽऽगतान् । अतिथेर्धर्मस्य प्रकृतत्वान्निषेधार्थं सम्प्रीतिग्रहणम् । तान्भोजयेत् । प्रकृत्य प्रकर्षेणान्नं कृत्वा संस्कृत्य । यथाशक्तीति उपलक्षणार्थ: शक्तिशब्दः । यावती शक्तिर्यादृशं च योऽर्हति तमुद्दिश्य तादृश एव संस्कारः कर्तव्यः । भार्यया सह । यो भर्तुर्भोजनकालः स एव भार्याया अपि, पृथक्तस्या भोजन-कालस्याभावात् । एवं ह्युक्तम् " अवशिष्टं तु दम्पती ” ( ११६ श्लोके ) इति । महा-भारते पत्युरूर्ध्वं भार्यायां भोजनं दर्शितम् । द्रौपदीसत्यभामासंवादे द्रौपद्या स्त्रीधर्मान्कथय-न्त्योक्तं “ सर्वेषु पतिषु भुक्तवत्सु शेषान्नमश्नामि ' । पतिशेषान्नभोजनं स्त्रीणां धर्मः । तस्मान्न भार्याभोजनकाले सख्यादीनां भोजनं विधीयते । नाप्येकपात्राशनं सहार्थः । किं तर्हि नैकाकिनस्ते भोजयितव्याः । अपि तु भार्याऽपि तत्र भुञ्जीत । ततश्चा'वशिष्ठं

पृष्ठ 412

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 412 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३३८ मनुस्मृतिः [ तृतीयः तु दम्पतीति ' तदत्र बाध्यते । यदि पत्युः कश्चिदभ्यर्हितः प्रतीक्ष्यः स्यादरुच्या वा न

भुञ्जीत, तदा भार्या तद्देशे भुञ्जीत । एवं सौहर्दं प्रकाशितं भविष्यति ॥१०३ ॥

हिन्दी — भोजन के सयम आये हुए मित्रादि को यथाशक्ति श्रेष्ठ अन्न ( अपने तथा ) स्त्री के साथ में भोजन करावे, गुरु के प्रभु ( समर्थ ) होने के कारण उनको भोजन कराने का समय - निर्देश नहीं किया गया है । अतः उन्हें ( गुरु को ) जब इच्छा हो तभी भोजन करावे ॥१०३ ॥

नवोढा, कुमारी आदि को पहले भोजन कराना-सुवासिनी: कुमारीश्च रोगिणो गर्भिणीः स्त्रियः । अतिथिभ्योऽन्वगेवैतान्भोजयेदविचारयन् ॥ १०४ ॥

भाष्य – सुवासिन्यो वध्वो नवोढाः स्त्रियः स्नुषा दुहितरश्च । अन्ये तु—– ‘ जीवच्छ्वशुरा जीवत्पितृकाश्च प्रसूता अपि सुवासिन्य उच्यन्ते ' इत्याहुः । अतिथिभ्योऽन्वगेवैताननुगतानेव भोजयेत् । प्रारब्धभोजनेष्वेवातिथिषु तत्सम-कालं भोजयेत् । अन्ये त्वग्र इति पठन्ति । अविचारयन् । कथमतिथिष्वभोजितेषु बाला भुञ्जत इत्येवं विचिकित्सा न कर्तव्या ॥ १०४ ॥

हिन्दी — नव विवाहित वधू ( पुत्रादि की पत्नी तथा अपनी पुत्री ) कुमारी ( अविवाहित कन्या ), रोगी और गर्भिणी स्त्री - इन्हें अतिथियों के भी पहले बिना विचारे ( ‘ अतिथियों के पहले इन्हें कैसे भोजन कराऊँ ' ऐसा विचार छोड़कर ) भोजन करावे ॥१०४ ॥

पहले स्वयं भोजन का निषेध-अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः ।

स भुञ्जानो न जानाति श्वगृधैर्जग्धिमात्मनः ॥ १०५ ॥

भाष्य — एतेभ्योऽतिथ्यादिभ्यो भृत्यपर्यन्तेभ्यो योभोजनमदत्त्वा पूर्वं प्रथमम-विचक्षणः शास्त्रार्थमजानानो भुङ्क्ते स श्वगृधैरद्यते प्रेतः । तां जग्धिमात्मनस्तैः खादनं न जानाति । एवं हि स मन्यते मूढमतिरत्राहमेव भुञ्जे, एवं तु न बुध्यते यदीदृशमशनं तत्स्वशरीरस्य श्वगृध्रैरदनम् । तत्फलत्वादेव-मुच्यते ॥१०५ ॥

हिन्दी – जो गृहस्थ ( इन अतिथि ब्राह्मण से लेकर भृत्य तक कथित लोगों ) को भोजन नहीं देकर भोजन के क्रमविरोध दोष को नहीं जानता हुआ पहले ( स्वयं )

पृष्ठ 413

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 413 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३३ ९ भोजन करता है, वह ( अपनी मृत्यु के बाद ) कुत्ते, गीधों के द्वारा अपने को खाया जाता हुआ नहीं जानता है अर्थात् मरने के बाद उसे ( अतिथि आदि के पहले भोजन करने वाले गृहस्य को ) मरने के बाद कुत्ते, गीध आदि खाते हैं ॥ १०५ ॥

गृहस्थ- दम्पति को सब के बाद भोजन करना-भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि । भुञ्जीयातां ततः पश्चादवशिष्टं तु दम्पती ॥ १०६ ॥

भाष्य – विप्रा अतिथयः, स्वा ज्ञात्यादयः । तेषु कृतभोजनेषु तदवशिष्टं दम्पती जायापती अश्नीयाताम् । पश्चात्कदाचित्तेभ्यः कल्पयित्वा शिष्टव्यपदेशे सत्यादौ भोजनं स्यात्तदर्थमुक्तं

पश्चादिति । दम्पत्योर्भोजनकालविधानार्थमिदम् । आद्योऽर्धश्लोकोऽनुवादः ॥ १०६ ॥

हिन्दी — अतिथि ब्राह्मण, स्वजातीय, भृत्य ( दास, दासी आदि ) के भोजन कर लेने पर शेष अन्न को गृहस्थ दम्पती ( स्त्री - पुरुष ) भोजन करें ॥१०६ ॥

देवानृषीन्मनुष्यांश्च पितॄन्गृह्याश्च देवताः ।

पूजयित्वा ततः पश्चाद्गृहस्थः शेषभुग्भवेत् ॥ १०७ ॥

भाष्य — अनुवादमात्रमिदं पूर्वस्य पञ्चयज्ञानुष्ठानविधेर्गृहस्थभोजनकालस्य च । अन्ये त्वर्थान्तरविधानमपि वर्णयन्ति । पूर्वत्र जायापत्योरेककालमवशिष्टभोजनं विहितम्, अनेन स्त्रिया अपोह्य पुंस एव विधीयते । ततश्च पूर्वं भृत्येभ्यः प्राक् पत्युर्भार्या भुञ्जीत । एवं वा कृत्वा भोजयेत् । एतदप्युपपन्नं भविष्यति । इतरथा तै: सह भार्या न भुञ्जीतेत्यर्थकल्पनायां यथाश्रुतपदान्वयभङ्गः स्यात् । यत्तु महाभारते दर्शनं तद्दर्शनमेव न विधानं; विधौ विकल्पयिष्यते । तदयुक्तमनुवादत्वादस्य । न च गृहस्थ इत्येकवचनविरोधः, सहाधिकाराज्जाया-पत्योः । तत्र च सहार्थस्य प्राधान्यान्न द्विवचनापत्तिः । यथा “ ब्राह्मणोऽग्नीनादधीत ” इति सत्यपि भार्यया सहाधिकारे नैकवचनं विरुध्यते । तत्कस्य हेतोः । एको हि तत्र प्रधानमपरो हि गुणभूतः । न च गुणः स्वसंख्यामुपजनयितुं शक्नोति । अतः प्रधान-स्यैकसंख्यत्वात्सत्यपि पत्यर्थानुप्रवेशे एकवचनमेव युक्तम् । एक एव गृहस्थशब्दः पत्न्यां वर्तते, स च सहविवक्षायाम् । सा चैकबुद्धिविषयत्वेन प्रधानयोर्गुणयोर्वा । तस्मान्न पत्न्याः प्राक् पुंसो भोजनम् । अतः स्थितमनुवादोऽयं, प्रतिपत्तिदार्ध्याय । येऽपि गृह्याश्च देवताः पूजयेदित्यर्थवादवचनं देवतापदं मत्वा पूजयेदिति-सम्बन्धाद्गोणमेवार्चा विधित्वं समर्थयन्ते । न हि मुख्यस्य देवतार्थस्य पूज्यत्वसम्भवो, यजिस्तुतिसम्बन्धेनैव देवतात्वस्य मुख्यत्वात् । तथा च ' गृह्या ' इत्याह । गृहे भवा

पृष्ठ 414

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 414 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३४० मनुस्मृतिः [ तृतीयः ‘ गृह्याः ’ । ताश्च प्रतिकृतय एव । न हि यागसम्प्रदानभूतानां गृहसम्बन्धितासिद्धिः । तेषामपि देवतार्थो गौणो न पूजार्थ: । कुत एतत् । गृहस्थस्य या यष्टव्यास्ता गृह्या इत्युपपद्यते ॥१०७ ॥

हिन्दी – देवताओं, ऋषियों, मनुष्यों, पितरों, गृहस्थित शालग्रामादि प्रतिमाओं की पूजा ( देवर्षिपितृतर्पण, अतिथ्यादि - भोजन, प्रतिमादि - पूजन ) कर गृहस्थ शेष बचे हुए अन्न को भोजन करे ॥१०७ ॥

केवल अपने लिए भोजन बनाने का निषेध -अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् ।

यज्ञशिष्टाशनं ह्येतत्सतामन्नं विधीयते ॥ १०८ ॥

भाष्य – पापं केवलं स भुङ्क्ते, हृदये निधत्ते, गृह्णाति, नान्नस्य मात्रामपि, यः पचेत्पाकं कारयेदात्मकारणादात्मानमुद्दिश्य – ' क्षुधितोऽहमिदं वा मह्यं रोचत इति तदेव पच्यताम् ' । तस्मादनातुरेण नात्मार्थमन्नं पाचनीयम् । आतुरस्य तु शरीरधारणं येनोपायेन भवति विध्यन्तरातिक्रमेणापि तस्याश्रयणं युक्तम्– “ सर्वत एवात्मानं गोपायेत् ” इति वचनात् । एवं केचिदस्यार्थमाहुः । एतदयुक्तं स्मृत्यन्तरविरोधात्, एवं ह्याहु: -यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे । तत्तद्गुणवते देयं तदेवाक्षयमिच्छता । ‘ दयितमिष्टं ’ स्पृहणीयम् । यदि च न पच्येत कुतस्तादृशस्य दानसम्भवः । तस्मादयमस्यार्थः । तदुद्देशस्तावन्नित्यस्य पाकस्य नैव विद्यते । सुहृत्स्वजनादिष्वा-गतेषु तदुद्देशः । अन्यथा त्वनुद्दिष्टविशेषपाके अतिथ्यादिभ्यो दानं विधीयते । तेनैतदुक्तं भवति — य एतेभ्योऽदत्त्वा भुङ्क्ते तस्यायं दोषः । अथवा सर्वस्मिन्नतिथ्यादिभिर्भुक्ते नात्मार्थं पुनः पाकः कर्तव्यः । तथा च वसिष्ठः ( ११ । ११ - १२ ) ' शेषं दम्पती भुञ्जीयाताम् । सर्वोपयोगे न पुनः पाकः ' । यज्ञशिष्टाशनम् । पूर्वस्य शेषभोजनस्य प्रशंसैव । ' यज्ञो ' ज्योतिष्टोमादिः, ‘ शिष्ट ” -मुपयुक्तशेषं, तस्य चैतदशनम् । तत्तुल्यफलं, यत्सतां शास्त्रानुष्ठानपराणां गृहस्थानामतिथ्यादिभुक्तशिष्टं विधीयते ॥१०८ ॥

हिन्दी - जो ( देवता आदि को न देकर ) केवल अपने लिए भोजन पाक करता ( करके खाता ) है, वह केवल पाप को भोगता है; क्योंकि यज्ञ ( पञ्चयज्ञ ) से बचा हुआ अन्न सज्जनों का अन्न कहा गया है ॥ १०८ ॥

पृष्ठ 415

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 415 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता [ यद्यष्टितमं लोके यच्चास्य दयितं गृहे । तत्तद् गुणवंते देयं तदेवाक्षयमिच्छता ॥ १७ ॥ ]

३४१ [ हिन्दी - गृहस्थ को संसार में जो - जो अत्यन्त अभिलषित हो, घर में जो प्रिय हो, उनको अक्षय होने की इच्छा करने वाला मनुष्य उन - उन वस्तुओं को गुणवान् के लिए समर्पित कर देवे ॥१७ ॥ ]

गृहागत राजादि का पूजन-राजर्त्विक्स्नातकगुरून्प्रियश्वशुरमातुलान् ।

अर्हयेन्मधुपर्केण परिसंवत्सरान् पुनः ॥ १० ९ ॥

भाष्य — अतिथिपूजाप्रसङ्गेनान्येषामपि केषाञ्चित्पूज्यानां गृहागतानां पूजाविशेषो विधीयते । राजाऽभिषिक्तो, न क्षत्रियमात्रम् । अतिमहती ह्येषा पूजा, न तां सर्वः क्षत्रियोऽर्हति । न हि स्नातकगुरुभ्यां तस्य सहोपदेशो युक्तः । पूजासाम्यं गुरुणा न तस्य युक्तम् । लिङ्गदर्शनाच्च । तद्यथैवान्यो मनुष्यराज आगत इत्यातिथ्येष्टिब्राह्मणं, गोवधो मधुपर्क-विधावुक्तो गोघ्नोऽतिथिरिति पुरुषराजविषयं दर्शयति । तेन क्षत्रियेऽक्षत्रिये वा जनपदेश्वरे पूजेयं प्रयोक्तव्या । शूद्रे तु नास्ति मन्त्रवत्त्वम् । “ ननु च शूद्रस्य मन्त्रोच्चारणं निषिद्धम् । न पुनः शूद्रसम्प्रदानके कर्मणि ब्राह्मणादीनाम् ” । नैष दोषः । अर्ध्याणामपि “ भूतेभ्यस्त्वा " इत्यादिमन्त्रोच्चारणमस्ति । " ननु च महाभारते शूद्रकर्तृकमपि मधुपर्ककर्म श्रूयते " -‘ तदर्हमासनं चैव

यथावत्प्रत्यवेदयत् ।

मधुपर्कं च गां चैव तस्मै भगवते स्वयम् ' ॥

' भगवते ' वासुदेवाय विदुर इति ' । तत्साधने दधनि भक्त्या मधुपर्कशब्दः प्रयुक्तः । तादर्थ्यात्तच्छब्दो भवति – आयुर्वै घृतमितिवत् । राजशब्दस्तावज्जनपदेश्वरवचनो न क्षत्रियमात्रे वर्तते । प्रियो जामातेत्याहुः । स्नातको विद्याव्रताभ्यामुभाभ्याम् । अन्यथार्त्विग्गुरवः सर्वे स्नातका एव । आश्रमान्तरस्थानां भैक्षचर्या विहिता, न त्वतिथिधर्मेण भोजनम् । अथवाऽचिर-निर्वृत्तवेदाध्ययनः ‘ स्नातको ' गृह्यते । एतानर्हयेत्पूजयेत् । मनु I- 26

पृष्ठ 416

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 416 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३४२ मनुस्मृतिः मधुपर्कशब्दः कर्मनामधेयम् । गृह्यात्तस्य स्वरूपावगमः । [ तृतीय: परिसंवत्सरानिति राजादिपूज्यविशेषणम् । परिगतोऽतिक्रान्तः संवत्सरो येषां तान् । यदि संवत्सरोऽतीते आगच्छन्ति तदा मधुपर्कार्हा अर्वाङ् न । केचिदेवं व्याचक्षते । यदि संवत्सरादर्वागागच्छन्ति तदाऽनतीतेऽपि संवत्सरे प्रथमपूजायाः पुनर्लभन्ते पूजाम् । अन्ये त्वाहुः । सांवत्सरिकी तेषां पूजा, न यावदागमनम् । अस्मिन्पक्षेऽर्वागागमनं न पूजाप्रतिबन्धकम् । पाठान्तरं परिसंवत्सरादिति । यावदेव संवत्सरं तावत्परिसंवत्सरात्तत ऊर्ध्वं पुनः पूज्या इत्यर्थः ॥१०९ ॥

हिन्दी — राजा, ऋत्विज् ( यज्ञ कराने वाले वेदपाठी ), स्नातक, गुरु, जामाता ( दामाद - पुत्रीपति ), श्वसुर और मामा – इनको एक वर्ष के बाद अपने ( गृहस्थ के ) घर जाने पर मधुपर्क विधि से पूजन करना चाहिये ॥ १० ९ ॥

राजा तथा स्नातक की पूजा में सङ्कोच-राजा च श्रोत्रियश्चैव यज्ञकर्मण्युपस्थिते ।

मधुपर्केण सम्पूज्यौ न त्वयज्ञ इति स्थितिः ॥ ११० ॥

भाष्य — यज्ञे निमित्तेऽर्वागपि संवत्सरात्प्राप्त्यर्थोऽयमिति केचित् । अन्ये तु पूर्वस्यैव राजश्रोत्रिययोरुपसंहारमाहुः । अनुपसंहारे हि नत्वयज्ञ इति नोपपद्यते । अत्र श्रोत्रियो यः स्नातकः प्रागुक्तो, यदि वा ऋत्विगेव । तस्य हि यज्ञकर्मणि प्रारिप्स्यमाने मधुपर्कदानं विहितम् । यद्यप्यसकृत्संवत्सरस्य सोमेन यजेत, कृतार्ध्या एवैनं याजयेयुः । एवं क्लृप्तमूलैषा स्मृतिर्भविष्यति । इतरथा कल्प्येत मूलम् । अन्ये तु सर्वानृत्विगादीञ्छ्रोत्रियशब्देन निर्दिष्टान्मन्यन्ते । यथा चाविशेषेण गौतमेन पठितम् ( ५ । २५, २७ ) । “ ऋत्विगाचार्यश्वशुरपितृव्यमातुलानामुपस्थाने मधुपर्क ” इत्युक्त्वा “ यज्ञविवाहयोरर्वाग् ” इति पठितवान् । अतश्च सर्वेषामेवार्घ्याणां यज्ञे निमित्तेऽर्वागपि संवत्सरादर्घार्हता स्यात् । न त्वयज्ञ इति च प्रतिषेधोऽर्वाक्संवत्सरान्नोर्ध्वमित्येवं ज्ञेयः इह द्वितीये पादेऽनेकधा पाठप्रतिपत्तिः । केचित्पठन्ति “ तते यज्ञ उपस्थिता'विति । तेषामयमर्थः । ' तते ' प्रारब्धे यज्ञे यदि प्राप्तौ भवतो निमन्त्र्यानीतौ, तदेयं मधुपर्कक्रिया तयोः । न पुनः प्रारभ्यमाणे । एष पक्षः कैश्चिद्दृष्यते । दीक्षितो न ददातीति दीक्षितस्य सर्वदानप्रतिषेधान्मधुपर्क-

पृष्ठ 417

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 417 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३४३ दानमनुज्ञायमानं तद्विरुद्धं स्यात् । न च शक्यं वक्तुं — “ दानमेतन्न भवति, अर्हयेदिति नोदनात् पूजैषा विधीयते ” । यतोऽस्ति मधुपर्के दधिदानं मांसभोजनादिदानं च । अथोच्यते “ स्वयमेव तत्परकीयं भुज्यत इति ” । एवं सति स्तेयदोषः स्यात् । “ वचनान्नेति ” चेदस्त्येव तर्हि ददात्यर्थः । चोदितं च ददातिः, ' मधुपर्कं च दद्यादिति । तस्माद्विरुद्धम् । “ दीक्षितो न ददातीत्यनेन स्याद्विरोधः यदि यज्ञशब्दः सोमयागेष्वेव वर्तेत । दर्शपूर्णमासादयोऽपि यागाः, तद्विषयोऽयं विधिर्भविष्यति ” । नैतद्युक्तम् । एवं सति समाचारविरोधः । न हि शिष्टाः सोमयागेभ्योऽन्यत्र क्वचिदर्ध्याय मधुपर्क-माहरन्ति । आचारो वेदादरः । अतोऽयमेव पाठो युक्तः ‘ यज्ञकर्मण्युपस्थित ' इति । प्रारभ्यमाणयज्ञ आगतं शिष्टा मधुपर्केण पूजयन्ति न प्रवृत्तयज्ञाः । अतश्चैतदपि न विचारयामः । सामान्यतः प्राप्तस्य दानस्य भवतु निवृत्तिर्न पुनस्तद्विषयतयैव श्रुतस्य । यज्ञश्चासौ कर्म च तद्यज्ञकर्म तस्मिन्नुपस्थिते प्राप्ते ॥११० ॥

हिन्दी – यदि राजा तथा स्नातक ( एक वर्ष के बाद भी ) यज्ञ में आवें तो मधुपर्क से उनकी पूजा करे और यदि यज्ञ में नहीं आये हों तो मधुपर्क से उनकी पूजा नहीं करे ॥११० ॥

विमर्श - जामाता तथा श्वसुर आदि ( ऋत्विक्, चाचा, मामा आदि ) यज्ञ समय से भिन्न अवसर पर भी यदि एक वर्ष के बाद आवें तो उनकी पूजा मधुपर्क से करें तथा एक वर्ष के भीतर यज्ञ और विवाह के अवसर पर ही सब लोगों की मधुपर्क से पूजा करें । स्त्रियों के द्वारा अमन्त्रक बलि देना-सायं त्वन्नस्य सिद्धस्य पन्यमन्त्रं बलिं हरेत् । वैश्वदेवं हि नामैतत्सायंप्रातर्विधीयते ॥ १११ ॥

भाष्य — उक्तः प्रथमः । इदानीं द्वितीयः पाक उच्यते । सायं दिनान्तः प्रदोषस्तत्र सिद्धस्यान्नस्य सर्वः पाञ्चयज्ञिक विधिरावर्तनीयो ब्रह्मयज्ञपितृयज्ञवर्जम् । “ ननु च बलिं हरेदित्येतावच्छ्रुतम् । बलिहरणं च प्रसिद्ध्या भूतयज्ञ एव । तत्र कुतोऽग्नौ होमोऽतिथ्यादिदानं च । अथ—— - ' वैश्वदेवं हि नामैतदिति वैश्वदेवशब्द: १. तदाह गौतम: -‘ ऋत्विगाचार्यश्वशुरपितृव्यमातुलादीनामुपस्थाने मधुपर्कः । संवत्सरे पुनर्यज्ञविवाहयोरवाक् राज्ञः श्रोत्रियस्य च ॥ ' इति ( म ० मु ० ) ।

पृष्ठ 418

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 418 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३४२ मनुस्मृतिः [ तृतीयः मधुपर्कशब्दः कर्मनामधेयम् । गृह्यात्तस्य स्वरूपावगमः । परिसंवत्सरानिति राजादिपूज्यविशेषणम् । परिगतोऽतिक्रान्तः संवत्सरो येषां तान् । यदि संवत्सरोऽतीते आगच्छन्ति तदा मधुपर्कार्हा अर्वाङ् न । केचिदेवं व्याचक्षते । यदि संवत्सरादर्वागागच्छन्ति तदाऽनतीतेऽपि संवत्सरे प्रथमपूजायाः पुनर्लभन्ते पूजाम् । अन्ये ' त्वाहुः । सांवत्सरिकी तेषां पूजा, न यावदागमनम् । अस्मिन्पक्षेऽर्वागागमनं न पूजाप्रतिबन्धकम् । पाठान्तरं परिसंवत्सरादिति । यावदेव संवत्सरं तावत्परिसंवत्सरात्तत ऊर्ध्वं पुनः पूज्या इत्यर्थः ॥ १० ९ ॥ हिन्दी — राजा, ऋत्विज् ( यज्ञ कराने वाले वेदपाठी ), स्नातक, गुरु, जामाता ( दामाद - पुत्रीपति ), श्वसुर और मामा – इनको एक वर्ष के बाद अपने ( गृहस्थ के ) घर जाने पर मधुपर्क विधि से पूजन करना चाहिये ॥ १० ९ ॥

राजा तथा स्नातक की पूजा में सङ्कोच-राजा च श्रोत्रियश्चैव यज्ञकर्मण्युपस्थिते ।

मधुपर्केण सम्पूज्यौ न त्वयज्ञ इति स्थितिः ॥ ११० ॥

भाष्य – यज्ञे निमित्तेऽर्वागपि संवत्सरात्प्राप्त्यर्थोऽयमिति केचित् । अन्येतु पूर्वस्यैव राजश्रोत्रिययोरुपसंहारमाहुः । अनुपसंहारे हि नत्वयज्ञ इति नोपपद्यते । अत्र श्रोत्रियो यः स्नातकः प्रागुक्तो, यदि वा ऋत्विगेव । तस्य हि यज्ञकर्मणि प्रारिप्स्यमाने मधुपर्कदानं विहितम् । यद्यप्यसकृत्संवत्सरस्य सोमेन यजेत, कृतार्ध्या एवैनं याजयेयुः । एवं क्लृप्तमूलैषा स्मृतिर्भविष्यति । इतरथा कल्प्येत मूलम् । अन्ये तु सर्वानृत्विगादीञ्छ्रोत्रियशब्देन निर्दिष्टान्मन्यन्ते । यथा चाविशेषेण गौतमेन पठितम् ( ५ । २५, २७ ) । " ऋत्विगाचार्यश्वशुरपितृव्यमातुलानामुपस्थाने मधुपर्क ’ ” इत्युक्त्वा “ यज्ञविवाहयोरर्वाग् ” इति पठितवान् । अतश्च सर्वेषामेवार्ध्याणां यज्ञे निमित्तेऽर्वागपि संवत्सरादर्घार्हता स्यात् । न त्वयज्ञ इति च प्रतिषेधोऽर्वाक्संवत्सरान्नोर्ध्वमित्येवं ज्ञेयः । इह द्वितीये पादेऽनेकधा पाठप्रतिपत्तिः । केचित्पठन्ति “ तते यज्ञ उपस्थिता ' विति । तेषामयमर्थः । ' तते ' प्रारब्धे यज्ञे यदि प्राप्तौ भवतो निमन्त्र्यानीतौ, तदेयं मधुपर्कक्रिया तयोः । न पुनः प्रारभ्यमाणे । एष पक्षः कैश्चिद्दूष्यते । दीक्षितो न ददातीति दीक्षितस्य सर्वदानप्रतिषेधान्मधुपर्क-

पृष्ठ 419

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 419 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] भाष्य-१. तदाह गौतमः— ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३४३ स्त्रियों के द्वारा अमन्त्रक बलि देना-‘ ऋत्विगाचार्यश्वशुरपितृव्यमातुलादीनामुपस्थाने मधुपर्कः । संवत्सरे पुनर्यज्ञविवाहयोरवाक् राज्ञः श्रोत्रियस्य च ॥ ' इति ( म ० मु ० ) । दानमनुज्ञायमानं तद्विरुद्धं स्यात् । न च शक्यं वक्तुं — “ दानमेतन्न भवति, अर्हयेदिति नोदनात् पूजैषा विधीयते ” । यतोऽस्ति मधुपर्के दधिदानं मांसभोजनादिदानं च । अथोच्यते “ स्वयमेव तत्परकीयं भुज्यत इति ” । एवं सति स्तेयदोषः स्यात् । “ वचनान्नेति ” चेदस्त्येव तर्हि ददात्यर्थः । चोदितं च ददातिः, ' मधुपर्कं च दद्यादिति ' । तस्माद्विरुद्धम् । “ दीक्षितो न ददातीत्यनेन स्याद्विरोधः यदि यज्ञशब्दः सोमयागेष्वेव वर्तेत । दर्शपूर्णमासादयोऽपि यागाः, तद्विषयोऽयं विधिर्भविष्यति ” । नैतद्युक्तम् । एवं सति समाचारविरोधः । न हि शिष्टाः सोमयागेभ्योऽन्यत्र क्वचिदर्ध्याय मधुपर्क-माहरन्ति । आचारो वेदादरः । अतोऽयमेव पाठो युक्तः ' यज्ञकर्मण्युपस्थित ' इति । प्रारभ्यमाणयज्ञ आगतं शिष्टा मधुपर्केण पूजयन्ति न प्रवृत्तयज्ञाः । अतश्चैतदपि न विचारयामः । सामान्यतः प्राप्तस्य दानस्य भवतु निवृत्तिर्न पुनस्तद्विषयतयैव श्रुतस्य । यज्ञश्चासौ कर्म च तद्यज्ञकर्म तस्मिन्नुपस्थिते प्राप्ते ॥ ११० ॥

हिन्दी - यदि राजा तथा स्नातक ( एक वर्ष के बाद भी ) यज्ञ में आवें तो मधुपर्क से उनकी पूजा करे और यदि यज्ञ में नहीं आये हों तो मधुपर्क से उनकी पूजा नहीं करे ॥११० ॥

विमर्श — जामाता तथा श्वसुर आदि ( ऋत्विक्, चाचा, मामा आदि ) यज्ञ समय से भिन्न अवसर पर भी यदि एक वर्ष के बाद आवें तो उनकी पूजा मधुपर्क से करें तथा एक वर्ष के भीतर यज्ञ और विवाह के अवसर पर ही सब लोगों की मधुपर्क से पूजा करें ।

सायं त्वन्नस्य सिद्धस्य पन्यमन्त्रं बलिं हरेत् ।

वैश्वदेवं हि नामैतत्सायंप्रातर्विधीयते ॥ १११ ॥

-उक्तः प्रथमः । इदानीं द्वितीयः पाक उच्यते । सायं दिनान्तः प्रदोषस्तत्र सिद्धस्यान्नस्य सर्वः पाञ्चयज्ञिक विधिरावर्तनीयो ब्रह्मयज्ञपितृयज्ञवर्जम् । “ ननु च बलिं हरेदित्येतावच्छ्रुतम् । बलिहरणं च प्रसिद्ध्या भूतयज्ञ एव । तत्र कुतोऽग्नौ होमोऽतिथ्यादिदानं च । अथ——- ' वैश्वदेवं हि नामैतदिति वैश्वदेवशब्दः

पृष्ठ 420

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 420 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३४४ मनुस्मृतिः [ तृतीयः सर्वार्थतां प्रतिपादयति । विश्वेषां देवानामिदं विधीयते । सायंप्रातर्यादृशं प्रातस्तादृश-मेव सायमेतदर्थमेव प्रातः शब्दः । अन्यथा प्रातर्विहितमेव, किमनेन सायंप्रातर्विधीयते ' । एवं तर्हि ब्रह्मयज्ञपितृयज्ञावपि कर्तव्यौ ” । उच्यते । अन्नस्य सिद्धस्येतिवचनाद्यदन्नसाध्यं तदेव कर्तव्यम् । न त्वध्ययनसाध्यो ब्रह्मयज्ञो नाप्युदकसाध्यं तर्पणम् । एवं च सम्बन्धः क्रियते — ' सिद्धस्यान्नस्य बलिं हरेत्, तदद्वैश्वदेवाख्यं कर्मान्नस्य सिद्धस्योभयोः कालयोर्विधीयते ' । अन्नशब्दाद्वैश्व-देवशब्दश्चैवं व्याख्यायते । अमन्त्रम् । मन्त्रशब्देन देवतोद्देशशब्दवान् स्वाहाकारान्तोऽग्नये स्वाहेत्येवमादि-र्निषिध्यते । न ह्यन्ये मन्त्रा वैश्वदेवेषु विनियुक्ताः । तेषु च मन्त्रत्वं प्रशंसयोच्यते । न तु स्वाध्यायेऽपठितानां मन्त्रत्वमस्ति । स्वाध्यायैकदेशः कश्चिदृग्यजुःसामाद्यात्मको वेदाध्यायिभिर्मन्त्र इति व्यवह्रियते । व्यवहारतश्च पदार्थावगमनम् । न च यैः शब्दै-र्बलिहरणादि क्रियते ते कुत्रचित्पठ्यन्ते । केवलम् ' अग्न्यादिभ्यो देवेभ्यो होमं कुर्यादिति ' श्रुतेः । ' स्वाहाकारेण वा वषट्कारेण वा देवेभ्यो हविः सम्प्रदीयत ' इति वाक्यान्तरेण सर्वहोमेषु स्वाहाकारो विहितो, याज्यान्ते वषट्कारो नियमितो— ‘ याज्यायां वषट्करोतीति ’ । स्वाहाकारशब्दयोगे चतुर्थी स्मर्यते । अतो यागे देवताया उद्देश्यत्वात्, उद्देश्यत्वं च देवतायाः शब्दावगम्यरूपत्वात् शब्देनैवोचितत्वादियं घटना क्रियते “ अग्नये स्वाहेत्यादि ” । “ यद्येवं तेषां निषेधः, कथं तर्हि यागनिर्वृत्तिः । न हि ' तुभ्यमिदं न मदीयमिति ’ यावदुद्देशो न कृतस्तावद्यागस्वरूपनिर्वृत्तिः । न हि त्यागः केवलो याग उद्देशशून्यः ” । सत्यम् । शब्दे निषिद्धे मनसोद्देशं देवतायाः पत्नी करिष्यति । यथा शूद्रो नमस्कारमुच्यारयति । ‘ अनुज्ञातोऽस्य नमस्कारोऽमन्त्र ' ( गौतम १० । ६४ ) इति नम-स्कारेण प्रत्याम्नातः शूद्रस्य मन्त्र इति नमस्कारोऽनुज्ञातोऽस्य, न देवतापदम् । तत्र च देवताया विनियोगात् सिद्धिरित्युक्तम् । इह भवन्तस्त्वाहुः स्वाहाकारो नमस्कारेण प्रत्याम्नातः शूद्रस्य, देवतापदं त्वनिषिद्धम् । “ अथ सायंवैश्वदेवहोमे कः कर्ता "? उक्तं पत्न्येव सन्निधानाद्बलिहरणवदमन्त्रकं करिष्यतीति ॥ १११ ॥

हिन्दी — स्त्री सायंकाल में पक्व ( पके हुए ) अन्न को बिना मन्त्रोच्चारण किये ( इन्द्राय नमः इत्यादि मन्त्रों को बिना कहे ) ही बलि देवे । सायंकाल और प्रात: काल बलिवैश्वदेव कर्म करने का यह शास्त्रोक्त विधान है ।१११ ॥