मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 421–430

मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 421–430

पृष्ठ 421

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 421 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३४५

अमावस्या को पार्वणश्राद्ध-पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान् ।

पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् ॥ ११२ ॥

भाष्य- -वैश्वदेविकाद्वैकल्पिकाच्छ्राद्धान्नित्यमिदं श्राद्धान्तरमुच्यते । चन्द्रक्षयेऽ पेऽमावास्यायाम् । तत्रापि न यस्यां कास्याञ्चन वेलायां किं तर्हि पितृयज्ञं निर्वर्त्य । श्रौतो यः पिण्डपितृयज्ञस्तं कृत्वा । एवं च यस्तस्य कालः स एवास्यापि लभ्यते । तदुक्तममावास्यायामपराह्णे पिण्डपितृयज्ञ इति । अनाहिताग्नेरप्यौपासनयोगोऽस्त्येव । तथा चाह । ' एवमनाहिताग्निर्नित्ये श्रपयित्वें'-त्यादि । अग्निमान् वैवाहिकेनाग्निना तद्वान्, दायकालाहृतेन वा । विप्रग्रहणमविवक्षितम् । क्षत्रियवैश्ययोरपीष्यते । एवं स्मृत्यन्तरेषु ह्यविशेषणोक्तम् । पिण्डान्वाहार्यकमिति। नामधेयमिदमस्य श्राद्धस्य ॥ पिण् पिण्डानामनुपश्चादाह्रियते-ऽनुष्ठीयते । तत् ‘ पिण्डान्वाहार्यकं ' भवति । मासश्चानुमासश्च, तयोर्भवं मासानुमासिकम् । मासानुमासशब्दसमुदायो मासगतां वीप्सामाचष्टे । मासि मासि कर्तव्यमित्युक्तं भवति । अतश्च नित्यतासिद्धिः । यद्यप्यनु-मासशब्दाद्वीप्सावगतिर्भवति, मासशब्दोऽतिरिच्यते, तथापि पद्यग्रन्थे गौरवं नाद्रियते ।

श्राद्धमित्येतदपि नामैव । कुर्यादिति विधिः ॥ ११२ ॥

हिन्दी - ( अब पूर्व ( ३।११२ ) प्रतिज्ञात श्राद्धप्रकरण का आरम्भ करते हैं - ) अग्निहोत्री विप्र ( द्विज ) अमावस्या को पितृयज्ञ पूराकर प्रतिमास आमावस्या को ‘ पिण्डान्वाहर्यक ’ नाम के श्राद्ध को करे ॥ ११२ ॥

मास से श्राद्ध-पितॄणां मासिकं श्राद्धमन्वाहार्यं विदुर्बुधाः ।

तच्चामिषेण कर्तव्यं प्रशस्तेन प्रयत्नतः ॥ ११३ ॥

भाष्य – अन्वाहार्यं दर्शपौर्णमासयोः श्रौतयोर्दक्षिणर्त्विजाम् । यदेतन्मासिकं श्राद्धममावास्यायामेतत्पितॄणाम् ‘ अन्वाहार्यम् । यथाऽन्वाहार्येणर्त्विजः प्रीयन्ते तद्वत्पितरः श्राद्धेन । एतेन पित्रर्थतां श्राद्धस्याह । यथाऽग्न्यादिदेवतार्थो दर्शादियाग एवं न श्राद्धे पितरः, किं तर्हि तदुपकारार्थमेव श्राद्धम् । तथा च पितॄणामिति षष्ठी । केवले हि देवतात्वे चतुर्थ्याविरहायोगः । पक्षे पाठान्तरमर्थान्तरं च ' पिण्डानां मासिकमिति ' । अन्वाहार्यं विदुर्बुधाः । अनेनापि पितृयज्ञवदवश्यकर्तव्यतोच्यते । न त्विद-

पृष्ठ 422

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 422 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३४६ मनुस्मृतिः [ तृतीय: मङ्गम् । तदेतदामिषेण मांसेन कर्तव्यम् । प्रशस्तेनाप्रतिषिद्धेन विशेषविहितेन वा । " द्वौ मासौ मत्स्यमांसेन ” इति यद्वक्ष्यति । अयं च मुख्यः कल्पः । तदभावे दधिघृतपयोऽपूपादि विधायिष्यते । मांसं च व्यञ्जनम्, भक्तादिभोज्यस्य । न पुनरेतदेव केवलं भोज्यं, येन वक्ष्यति “ गुणांश्च सूपशाकाद्यान् ” तथा “ यावन्तश्चैव यैश्चान्नैरिति ” ॥११३ ॥

“ किं पुनः श्राद्धे होमब्राह्मणभोजनपिण्डनिर्वपणादीनि कर्माणि सर्वाण्येव समप्रधानानि श्राद्धशब्दवाच्यानि, उत किञ्चिदङ्गमत्र किञ्चित्प्रधानम् ” । उच्यते । ‘ श्राद्धं भोजयेत् ’ – ‘ श्राद्धं भुक्तमनेनेति ' सामानाधिकरण्याद् ब्राह्मणभोजनं मुख्यं प्रतीयते । तथा चाह— हिन्दी - विद्वान् लोग पितरों के मासिक श्राद्ध को ' अन्वाहार्य ' कहते हैं, उसे श्रेष्ठ ( शास्त्रोक्त विहित ) माँस से करना चाहिये ॥११३ ॥

[ न निर्वपति यः श्राद्धं प्रमीतपितृको द्विजः । इन्दुक्षये प्रतिमासि प्रायश्चित्तौ भवेत्तु सः ॥ १८ ॥ ]

[ हिन्दी — जिसका पिता मर गया हो, ऐसा वो द्विज ( ब्राह्मण, क्षत्रिय एवं वैश्य ) अमावस्या को प्रतिमास श्राद्ध ( पिण्डान्वाहार्य ) नहीं करता है, वह द्विज प्रायश्चित्ती होती है ॥१८ ॥ ]

तत्र ये भोजनीयाः स्युर्ये च वर्ज्या द्विजोत्तमाः । यावन्तश्चैव यैश्चान्नैस्तान्प्रवक्ष्याम्यशेषतः ॥ ११४ ॥

भाष्य - तच्च तस्मिञ्छ्राद्धे ये द्विजोत्तमा ब्राह्मणा भोजनीया ये च परिहर्तव्याः, यावन्तो यत्संख्याका ‘ द्वौ दैव ' इत्यादि, यैश्चान्नैः “ तिलैब्रीहियवै ” रित्यादि, तदेतत्-सर्वमिदानीं वक्ष्यामि । तच्छृणुत । एतदत्र प्राधान्येन सम्पाद्यम् । एतेन विना श्राद्धं न कृतं भवति । अन्यच्च यच्चाङ्गजातमारादुपकारकं सन्निपत्योपकारकं वा तस्मिन्नसम्पन्ने श्राद्धं कृतं भवति, सगुणं तन्न स्यात् । अत एतेषां प्राधान्यख्यापनार्थं पुनरुपन्यासः ॥११४ ॥

हिन्दी – ( भृगु जी महर्षियों से कहते हैं कि ) – उस श्राद्ध में जो श्रेष्ठ ब्राह्मण भोजन करने के योग्य हैं, तथा जो वर्जनीय ( त्याग करने के योग्य ) हैं, तथा जितनी संख्या में एवं जिन अन्नों से भोजन के योग्य हैं, उन सबको मैं कहूँगा ॥ ११४ ॥

भोजनीय ब्राह्मणों की संख्या-द्वौ दैवे पितृकृत्ये श्रीनेकैकमुभयत्र वा ।

भोजयेत्सुसमृद्धोऽपि न प्रवर्तेत विस्तरे ॥ ११५ ॥

पृष्ठ 423

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 423 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३४७ यद्यपि प्रतिज्ञातस्य वस्तुनस्तेनैव क्रमेण विशेषकथनं युक्तं, तथापीहा स्वल्पवक्त-व्यत्वाद्भोजनीया इति प्राप्तं परित्यज्य संख्यानिर्देशोऽनेन क्रियते । देवानुद्दिश्य द्वौ ब्राह्मणौ भोजयेत् । पितॄणां कृत्ये त्रोन् । उभयत्र वा, दैव एकं पित्र्ये चैकम् । यद्यपि ‘ पित्रये ’ इत्यत्र पितुरिदमिति पितृशब्देन देवताचोदना, तथापि पितृपितामह-प्रपितामहा उद्देश्या: । तत्रैकेकस्यैकैकं भोजयेत्, न त्वेवैकं सर्वेभ्यः, पृथक्पृथग्देवतात्वात् । उक्तं च गृह्यकारेण “ न त्वेवैकं सर्वेषाम् ”, “ पिण्डैर्व्याख्यातम् ” इति । यथैकः पिण्डः सर्वेभ्यो न निरूप्यते तथैव ब्राह्मणोऽपि न भोज्यत इत्यर्थः । इहापि वक्ष्यति, “ निमन्त्रयेत त्र्यवरान् ” इति । भोजनार्थमेव तन्निमन्त्रणं, नादृष्टार्थम् । अतश्च पितृकृत्ये त्रींस्त्रीनिति द्रष्टव्यम् । तथा चाह “ न चावरान्भोजयेत् ” इति । एवं च कृत्वा ' एकैकमपि विद्वांसम् ’ - इत्येतदप्येवमेव द्रष्टव्यम् । एकैकस्यैकैकमिति । अपि च नैवात्रैकैकमुभयत्रेत्येतद्विधीयते, विस्तरप्रतिषेधार्थोऽयमनुवादः । यथा “ विषं भक्षय मा चास्य गृहे भुङ्क्ष्वेति ' ' । " यद्येवं ' द्वौ दैव ' इत्येषोऽपि विधिर्न स्यादस्याप्यन्यार्थतयोपपत्तेः । अथायं विधिरप्राप्तत्वादेकैकमित्येषोऽपि कस्मान्न भवति ” । अत्राह । मा भूद्द्वयोरेकोऽपि विधिः । “ कुतस्तर्हि संख्यावगमः ” । ' नियन्त्रयेत त्र्यवरानिति ' “ नन तत्र दैवग्रहणं नास्ति ” । स्मृत्यन्तरात्तर्हि संख्यावगमः । ‘ अयुजो वा यथोत्साहमिति ’ ‘ युगमान्दैव ’ इति ( याज्ञ -१।२२७ ) । यदि वाऽयं संख्याविधिः स्याद्विस्तरप्राप्त्यभावात्प्रतिषेधोऽनर्थकः । तस्माद्यावद्भिर्ब्राह्मणैर्भोजितैर्विस्तरे ये दोषास्ते न भवन्ति तावन्तो भोजनीयाः ।

पित्र्येऽयुग्माः दैवे तु द्वावेव ।

सुसमृद्धोऽप्यत्यर्थमाढ्योऽपि न प्रवर्तेत विस्तरे ॥ ११५ ॥

न चायमदृष्टार्थो विस्तरप्रतिषेधः किं तर्हि — हिन्दी – गृहस्थ देवकार्य में दो ब्राह्मणों को तथा पितृश्राद्ध में तीन ब्राह्मणों को अथवा उन दोनों कार्यों में १ - १ ब्राह्मण को ही भोजन करावे, धनवान् भी अधिक विस्तार ( ब्राह्मण — संख्या में वृद्धि ) न करे ॥ ११५ ॥

ब्राह्मण भोजन में विस्तार का निषेध-सत्क्रियां देशकालौ च शौचं ब्राह्मणसम्पदः ।

पञ्चैतान्विस्तरो हन्ति तस्मान्नेहेत विस्तरम् ॥ ११६ ॥

पृष्ठ 424

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 424 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३४८ मनुस्मृतिः [ तृतीयः भाष्य — एतान्दोषानापादयति । विस्तरोऽतो नेष्यते । यदि तु शक्यन्ते सत्क्रियादय उपपादयितुं तदा यथोत्साहम् ॥ सत्क्रियाऽन्नसंस्कारविशेषः । देशो दक्षिणप्रवणादिः “ अवकाशेषु चोक्षेष्विति ” वक्ष्यमाणः । कालः अपराह्नः " मध्याह्नाच्चलिते सूर्ये " इति । शौचमात्मब्राह्मणप्रेष्यगतम् । ब्राह्मणानां सम्पत् गुणवद्ब्राह्मणलाभः । एते गुणा अवश्यं सम्पाद्याः । ते च विस्तरेण नश्यन्ति I

। विस्तारो वैगुण्यम् ।

ब्राह्मणबहुत्वे चासौ प्रसज्जति । तस्मान्नेहेत न कुर्यात् ॥ ११६ ॥

हिन्दी — सत्कार्य, देश, काल, शुद्धता और ब्राह्मण - सम्पत्ति ( उत्तम ब्राह्मणों की प्राप्ति ) इन पाँचों को विस्तार ( अधिक संख्या में ब्राह्मणों को भोजन कराना ) नष्ट करता है । अतएव अधिक संख्या में ब्राह्मणों को भोजन नहीं करावे ॥ ११६ ॥।

पार्वण श्राद्ध की अवश्य कर्त्तव्यता-प्रथिता प्रेतकृत्यैष पित्र्यं नाम विधुक्षये । तस्मिन्युक्तस्यैति नित्यं प्रेतकृत्यैव लौकिकी ॥ ११७ ॥

भाष्य — न यथा दैवानि कर्माण्यदेवतार्थान्येवं पित्र्यं नाम तत्कर्म तत्— किं तर्हि — प्रथिता ख्याता वेदविदाम् प्रेतकृत्या प्रेतोपक्रिया । विधुक्षये । विधुश्चन्द्रस्तस्य क्षय अमावास्या । ' तिथिक्षय ' इति पाठान्तरम् । ' विधिक्षय ' इति तु पाठो निर्दुष्टः । एंव हि तत्र योजनम् – पित्र्यं नाम ‘ विधि ' चोदितं कर्म – ' क्षये ' गृहे । तस्मिन् कर्मणि पित्र्ये । युक्तस्य तत्परस्य । नित्यं कर्तुरुपतिष्ठते । प्रेतकृत्यैव । तस्यापि ‘ प्रेतस्य ’ ‘ कृत्या’उपकारः श्राद्धादिः पुत्रैः क्रियते । पुत्रपौत्रादिसन्तत्यविच्छेदः श्राद्धफलमनेन प्रकारेण प्रतिपाद्यते । न च तत्फलकाम-स्यायमधिकारो, नित्यत्वस्य प्रतिपादितत्वात् ।

अन्ये त्वधिकारान्तरमिदं सन्तत्यविच्छेदकामस्येच्छन्ति ।

लोकिकीयं कर्तव्यता, स्मार्तेत्यर्थः ॥११७ ॥

हिन्दी — यह पितृश्राद्ध ‘ प्रेतकृत्य ' कहलाता है; अमावस्या को उसके करने में लगे हुए द्विज को लौकिक प्रेतकृत्या अर्थात् स्मार्त ( स्मृतिशास्त्रोक्त ) पिता का उपकारक क्रिया पुत्र - पौत्रादि के रूप में प्राप्त होती है ॥ ११७ ॥

पृष्ठ 425

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 425 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता हव्य तथा कव्य को श्रोत्रियों के लिये देना-श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः । अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् ॥ ११८ ॥

३४ ९ भाष्य — श्रोत्रियः छान्दसः कृत्स्नमन्त्रब्राह्मणिकां शाखां अधीते यस्तस्मै हव्यानि श्राद्धाङ्गभोजनानि विश्वान्देवानुद्दिश्य यानि विहितानि तानि देयानि । कव्यानि पितृभ्य उद्दिश्य यानि भोजनानि । अर्हत्तमाय । ‘ अर्हता ’ पूज्यता योग्यता योग् च । महाकुलीनः पूज्यते, महाकुले जातो विद्यावृत्तसम्पन्नश्च । तस्मै दत्तं श्राद्धादन्यदपि महाफलम् । एवं वा — अश्रोत्रियाय दानं निष्फलम् — श्रोत्रियायअभिजनविद्यादिगुणरहिताय स्वल्पफलम् — अर्हत्तमाय महाफलम् ॥ ११८ ॥

हिन्दी – दाता गृहस्थ हव्य ( देवतोद्देश्यक अन्न ) तथा कव्य ( पितृ - उद्देश्यक अन्न ) श्रोत्रिय ( वेद का ज्ञाता ) ब्राह्मण को ही देवे । अत्यन्त श्रेष्ठ ब्राह्मण के लिये दिया गया— ( दान - हव्य - कव्यादि ) उत्तम फलवाला होता है ॥ ११८ ॥

श्रोत्रिय की प्रशंसा-एकैकमपि विद्वांसं दैवे पित्र्ये च भोजयन् ।

पुष्कलं फलमाप्नोति नामन्त्रज्ञान्बहूनपि ॥ ११ ९ ॥

भाष्य — यदुक्तमर्हत्तमायेति तद्दर्शयति । विद्वांसमेकमपि भोजयन् पुष्कलं फलमाप्नोति । विद्वत्ता च व्याख्याता वेदार्थवेदनं, यत आह नामन्त्रज्ञान् बहूनपि । मन्त्रग्रहणं वेदोपलक्षणार्थम् ।

असम्भवे पञ्चानां वेदविदुषामेकैकमपि विद्वांसं भोजयेदिति विध्यर्थः ।

पुष्कलं पुष्टं विपुलम् ॥११ ९ ॥

हिन्दी— देवों और पितरों के कार्य ( क्रमशः यज्ञादि तथा श्राद्ध ) में एक भी विद्वान् ( वेद मन्त्रों का ज्ञाता ) ब्राह्मण को गृहस्थ भोजन कराता है, तब भी वह ( उससे ) बहुत अधिक फल को ( वह ) प्राप्त करता है तथा वेद मन्त्रों को नहीं जानने वाले अनेक ब्राह्मणों को भी देने ( देवयज्ञ तथा पितृश्राद्ध में भोजन कराने ) से ( वह दाता ) फल को नहीं प्राप्त करता है ॥ ११ ९ ॥।

पृष्ठ 426

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 426 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३५० मनुस्मृतिः

श्रोत्रियों की परीक्षा-दूरादेव परीक्षेत ब्राह्मणं वेदपारगम् ।

तीर्थं तद्धव्यकव्यानां प्रदाने सोऽतिथिः स्मृतः ॥ १२० ॥

[ तृतीयः भाष्य — न वेदपारग इत्येव भोजयितव्यः । किं तर्हि दूरात् परीक्षेत निपुणतो मातापितृवंशद्वयपरिशुद्धिज्ञानम् । यथोक्तं “ ये मातृतः पितृतश्च दशपूरुषं समनुष्ठित-विद्यातपोभ्यां पुण्यैश्च कर्मभिः येषामुभयतो ब्राह्मण्यं निर्णयेषु ' रित्येषा ' दूरात्परीक्षा ' । तथा तत्त्वतोऽध्ययनविज्ञानकर्मानुष्ठानवेदनं च । वेदस्य ‘ पार: ’ समाप्तिः तं गतो वेदपारगः । न वेदसंहितां ब्राह्मणमात्रं वा पठन्नर्हो भवति । अस्मादेव दर्शनात् श्रोत्रियशब्देन वेदैकदेशमप्यधीयान उच्यत इति गम्यते । तीर्थं तद्धव्यकव्यानाम् ॥ तीर्थमिव तीर्थं येनोदकं ग्रहीतुमवतरन्ति तत्तीर्थम् । तेन यथा मार्गेणोदकार्थिनो गच्छन्त उदकं लभन्ते एवं तादृशेन ब्राह्मणेन हव्यकव्यानि पितॄन् गच्छन्तीति प्रशंसा । अन्यस्मिन्नपि इष्टापूर्तदाने ब्राह्मणोऽतिथिः - यथाऽतिथये स्वयमुपस्थिताय निर्विचिकित्सं दीयते, दत्तं महाफलम्, एवमीदृशाय ब्राह्मणाय हव्यकव्ये निर्विचि-कित्संदातव्ये, महाफले भवतः ॥१२० ॥

हिन्दी – गृहस्थ दूर से ही वेदतत्त्व के ज्ञाता ब्राह्मण की ( पिता - पितामह अर्थात् बाप - दादा आदि की जानकारी द्वारा ) परीक्षा करे । वह ( वेदतत्त्व ज्ञाता ब्राह्मण ) हव्य-कव्य - दान का तीर्थ ( पात्र ) स्वरूप अतिथि कहा गया है ॥ १२० ॥

दश लाख ब्राह्मणों से एक विद्वान् ब्राह्मण की श्रेष्ठता-सहस्रं हि सहस्राणामनृचां यत्र भुञ्जते । एकस्तान्मन्त्रवित्प्रीतः सर्वानर्हति धर्मतः ॥ १२१ ॥

भाष्य — अनृचां अनृगर्थविदाम् । उपलक्षणम् – यतोऽनृचानां प्राप्तिरेव नास्ति, श्रोत्रियायैवेति नियमात् । समासान्तः छान्दसत्वान्न कृतः, वृत्तानुरोधाच्च । एवं हि पठन्ति । “ अपि माषं मषं कुर्यान्न तु छन्दो विचालयेत् ” इति । अथवा अनृचा इति प्रथमाबहुवचनम् । ' अनृचाः सहस्रं यत्र भुञ्जते ' इति सम्बन्धः । यथा सहस्रं गाव इति । एक प्रीतस्तर्पितो भोजितो मन्त्रविद्वेदार्थवित् – सर्वास्तान् अनृचानर्हति स्वी-

पृष्ठ 427

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 427 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३५१ करोति आत्मसात्करोति, तैरभेदमापद्यते । अभेदे च यत्तेषु सहस्रेषु भोजितेषु फलं तदेकस्मिन्नवाप्यते इत्यवगतिरुत्पद्यते । निन्देयमविदुषो विद्वद्विध्यर्था । न पुनः सहस्रसंख्यातानामेकस्य च समफलत्व-मुच्यते । विदुषां विधानादविदुषां प्राप्तिरेव नास्ति । अथाप्यसति विदुषि ‘ श्रोत्रियायैवे’-त्येनेन पाक्षिकी अविदुषोऽपि प्राप्तिराशंक्येत, तथापि विस्तरस्य प्रतिषेधो मा भूदित्यतो यथाश्रुतार्थसम्भवः ॥१२१ ॥

हिन्दी — जिस श्राद्ध में हजार गुना हजार ( दस लाख ) बिना पढ़े हुए ब्राह्मण भोजन करते हैं, वहाँ यदि वेद पढ़ने वाला एक ही ब्राह्मण भोजन कर सन्तुष्ट हो तो उन दस लाख भोजन करने वाले ब्राह्मणों के योग्य होता ( उनके बराबर फल को देता ) है ॥१२१ ॥

ज्ञानोत्कृष्टाय देयानि कव्यानि च हवींषि च ।

न हि हस्तावसृग्दिग्धौ रुधिरेणैव शुध्यतः ॥ १२२ ॥

भाष्य – ' ज्ञानेन ' विद्यया ' उत्कृष्टः ' अधिकः तस्मै देयानि कव्यानि । अयमसौ हस्तरुधिरदिग्धोपमार्थः । रुधिरदिग्धौ हस्तौ रुधिरेणोपमृज्यमानावधि-कतरं रज्येते, न निर्मलौ भवतः, एवमविद्वान् ब्राह्मणः भोज्यमानः पितॄनधो नय-तितराम् ॥१२२ ॥

हिन्दी - ज्ञान से श्रेष्ठ ब्राह्मण को ही कव्य तथा हव्य देना ( श्राद्ध तथा यज्ञ में भोजन कराना; दान देना ) चाहिए; क्योंकि रक्त से लिप्त हाथ रक्त के द्वारा ( धोने से ) शुद्ध ( साफ ) नहीं होता है, ( किन्तु निर्मल पानी से धोने पर ही रक्तादि- दूषित हाथ शुद्ध होता है, अतएव विद्वान् ब्राह्मण को ही भोजन कराने से श्राद्धादि का फल मिल सकता है, अन्यथा नहीं ) ॥ १२२ ॥

मूर्ख ब्राह्मण को भोजन कराने का फल-यावतो ग्रसते ग्रासान्हव्यकव्येष्वमन्त्रवित् ।

तावतो ग्रसते प्रेतो दीप्तशूलययोगुडान् ॥ १२३ ॥

भाष्य — सत्यपि श्राद्धप्रकरणे वाक्याद्भोक्तुरयं दोषानुवादः । तथा चोक्तं “ तस्माद-विद्वान् बिभियाद्यस्मात्तस्मात्प्रतिग्रहात् ” इति । शूलर्क्ष्ययः आयुधविशेषाः, अयोगुडः आयसः पिण्डः । यदर्थं श्राद्धमारब्धं स दीप्तान् तप्तायः पिण्डान् यमपुरुषैराश्यते । व्यासदर्शनात्तु भोजयितुरयं दोषो न भोक्तुः । न पितॄणां न तावन्मृतानामन्यकृतेन

पृष्ठ 428

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 428 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३५२ मनुस्मृतिः [ तृतीयः प्रतिषेधातिक्रमेण दोषसम्बन्धो युक्तः, अकृताभ्यागमादिदोषापत्तेः । यदि हि पुत्रेण तादृशो ब्राह्मणो भोजितः कोऽपराधो मृतानाम् । “ ननु चोपकारोऽपि पुत्रकृतः पितॄणामनने न्यायेन न प्राप्नोति ” । न प्राप्नुयाद्यदि तादर्थ्येन श्राद्धादि नोदितं स्यात् । इह तु नास्ति चोदना, पितुरुपकारकामेनैवं कर्तव्यं, श्येनवत् । यत्तु " तावतो ग्रसते प्रेत ” इति तद्भोजयितृसम्बन्धेऽप्युपपद्यते । ' यस्य ब्राह्मण ईदृशः श्राद्धं भुङ्क्ते स इदं फलमाप्नोति ' इति युक्तः सम्बन्धः । प्राकरणिकश्चायमविद्वद्भोजनप्रतिषेधः । तदति-क्रमणे कर्मवैगुण्यं, तद्वैगुण्ये च श्राद्धाधिकारान्निवृत्तिरेव दोषः । पितॄणां श्राद्धोपकारा-लाभ: । ततोऽपि विध्यतिक्रमे पुत्रस्य युक्तः प्रत्यवायः । किं तर्हि तद्भगवतो व्यासस्य वचनम्—

“ ग्रसते यावतः पिण्डान् यस्य वै हविषोऽविदः ।

ग्रसते तावत: शूलान् गत्वा वैवस्वतक्षयम् ” ॥

पाठान्तरं प्रेत्येति । भोक्तुरेव प्रेत्यता । नाविदुषा दैवपित्र्ययोर्भोक्तव्यम् ॥१२३ ॥

हिन्दी – वेद मन्त्र को नहीं जानने वाला ब्राह्मण हव्य ( यज्ञ ) तथा कव्य ( श्राद्ध ) में जितने ग्रासों को खाता है, श्राद्धकर्ता ( उक्त कर्मों में उस मूर्ख ब्राह्मण को भोजन कराने वाला ) मरने पर उतने ही गरम - गरम शूलष्टि ( दोतरफा धार वाला अस्त्र विशेष ) और लोहे के पिण्डों को खाता है ( अत: मूर्ख ब्राह्मण को श्राद्ध में भोजन नहीं करना चाहिए ) ॥१२३ ॥

विमर्श - मनु भगवान् ने उक्त वचनों ( ३।११८-१२३ ) द्वारा यज्ञ तथा श्राद्ध कर्म में मूर्ख ब्राह्मणों को भोजन कराना सर्वथा निष्फल बतलाया है । अतएव कोई यज्ञकर्त्ता या श्राद्धकर्त्ता व्यक्ति अपने नाम कमाने ( प्रसिद्धि प्राप्त करने ) के लिये सैकड़ों — सहस्रों ब्राह्मणों को भले ही भोजन कराकर आत्मसन्तोष का अनुभव कर ले; किन्तु मनु भगवान् के उक्त वचनों के अनुसार यज्ञकर्त्ता या श्राद्धकर्त्ता को यज्ञ या श्राद्ध का फल कदापि नहीं मिलेगा । इस कारण से ब्राह्मणों को भी समय रहते ही सावधान होकर विद्वान् बनना चाहिये, अन्यथा अब अधिक दिनों तक उनकी पोल-पट्टी नहीं चल सकेगी । ब्राह्मणों का ज्ञाननिष्ठ आदि होना—

ज्ञाननिष्ठा द्विजाः केचित्तपोनिष्ठास्तथाऽपरे ।

तपःस्वाध्यायनिष्ठाश्च कर्मनिष्ठास्तथापरे ॥ १२४ ॥

भाष्य — सर्वगुणेभ्यो विद्यां प्रशंसितुं गुणविभागकथनम्, प्रशंसा च विदुषे दानार्था । ज्ञाने विद्यायां ' निष्ठा ' प्रकर्षो येषां ते ज्ञाननिष्ठाः ज्ञानाधिकारिणः । गमकत्वा-द्व्यधिकरणानामपि बहुव्रीहिः । भृशमभ्यस्तवेदार्थास्तत्परा एवमुच्यन्ते ।

पृष्ठ 429

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 429 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३५३ एवं सर्वत्र निष्ठान्तेषु द्रष्टव्यम् । तपश्च स्वाध्यायश्चेति द्वन्द्वगर्भो बहुब्रीहिः । ‘ तपांसि ’ चान्द्रायणादीनि, ‘ स्वाध्यायो ’ वेदाध्ययनम् । कर्माण्यग्निहोत्रादीनि । सर्व एते गुणाः सर्वेषु समुच्चिता इति द्रष्टव्याः । न हि एकगुणसद्भाव इतरगुणहीनस्य पात्रतामापादयति, किंतु कस्यचित्कोऽपि प्रकर्ष उच्यते । यथा च निष्ठाशब्दः समाप्तिवचन: प्रकर्षं लक्षयति । तन्निष्ठस्तत्पर उच्यते । सर्वगुणसद्भावेऽपि यदि एकत्र प्रकर्षोऽन्ये च गुणाः मध्यमाः, तथा च भवत्येव पात्रम् । अप्रकृष्टे त्वेक-स्मिन् सर्वगुणसद्भावेऽपि न पात्रतां लभन्ते । समुच्चयश्च व्याख्यायते, येन न ज्ञानरहितस्य कर्मानुष्ठानसद्भाव इत्युक्तं द्वितीये । अन्यैस्तु ज्ञाननिष्ठः परिव्राजको व्याख्यायते । तस्य हि आत्मज्ञानाभ्यासः कर्मन्यासेन विशेषतो विहितः । तपोनिष्ठो वानप्रस्थः । स हि तापस इत्याख्यायते । “ प्रोष्मे पञ्चतपास्तु स्यादिति ” ( अ ० ६ श्लो ० २३ ) । तपःस्वाध्यायनिष्ठाः ब्रह्मचारिणः । कर्मनिष्ठा गृहस्था: । अतश्चानाश्रमिणो निषिध्यन्ते । तथा च पौराणिकाः “ चातुराश्रम्यबाह्येभ्यः श्राद्धं नैव प्रयोजयेत् ” ॥१२४ ॥

हिन्दी – कोई ब्राह्मण ज्ञाननिष्ठ ( आत्मज्ञानी होते हैं ) कोई तपोनिष्ठ ( प्रजापत्यादि तपस्या में आसक्त ) होते हैं, कोई तप तथा स्वाध्याय ( वेदपाठ ) में निष्ठ आसक्त होते हैं और कोई कर्मनिष्ठ होते हैं ॥१२४ ॥

ज्ञाननिष्ठ ब्राह्मण को हव्य - दान-ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः ।

हव्यानि तु यथान्यायं सर्वेष्वेव चतुर्ष्वपि ॥ १२५ ॥

भाष्य – गुणविभागे प्रयोजनमाह । -कव्यानि पितॄनुद्दिश्य यद्दीयते तत् कव्यम् ' । तानि ज्ञाननिष्ठेषु प्रतिष्ठाप्यानि प्रदेयानीत्यर्थः । यत्नवचनात्तदभावे चतुर्ष्वपि हव्यवत् । पित्र्ये ज्ञाननिष्ठाः पात्रतमाः । उक्तं हि " पात्राणामपि तत्पात्रं " इति, अन्नदानमवि-शेषेण चतुर्भ्योऽपि इति श्लोकार्थः । न्यायः शास्त्रीयो विधिः ॥ १२५ ॥

हिन्दी – उन ज्ञाननिष्ठ ( आत्मज्ञानी ) ब्राह्मणों के लिए कव्यदान ( पितरों के

पृष्ठ 430

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 430 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३५४ मनुस्मृतिः [ तृतीयः उद्देश्य से अन्नदान — भोजनादि ) करना चाहिये और हव्यदान ( देवताओं के उद्देश्य से

अन्नदान - भोजनादि ) उन चारों ( ३।१२४ ॥ के लिये करना चाहिये ॥ १२५ ॥

अश्रोत्रियः पिता यस्य पुत्रः स्याद्वेदपारगः ।

अश्रोत्रियो वा पुत्रः स्यात्पिता स्याद्वेदपारगः ॥ १२६ ॥

भाष्य – संशयोपन्यासार्थः श्लोकः ॥ १२६ ॥

-हिन्दी — जिसका पिता वेदज्ञाता नहीं है और पुत्र वेदज्ञाता है, अथवा जिसका पिता वेदज्ञाता है और पुत्र वेदज्ञाता नहीं है - ॥ १२६ ॥

ज्यायांसमनयोर्विद्याद्यस्यस्याच्छ्रोत्रियः पिता ।

मन्त्रसम्पूजनार्थं तु सत्कारमितरोऽर्हति ॥ १२७ ॥

भाष्य — यस्य पिता अपाठः स्वयं तु वेदपारगः साङ्गवेदाध्यायी, इतरस्य तु पिता वेदपारगः स्वयं तु मूर्खः, तयोः कः श्रेयानिति संशयं कृत्वा सिद्धान्तमाह— अनयोः स्वयंश्रोत्रियपितृमूर्खस्वयंमूर्खपितृश्रोत्रिययोः स्वयंमूर्खपितृश्रोत्रियं ज्या-यांसं प्रशस्यं श्राद्धे योग्यं जानीयात्, यद्यस्य श्रोत्रियः पिता । इतरो मन्त्रपूजनार्थं, न ब्राह्मणबुद्ध्या, किं तु मन्त्रास्तेन येऽधीतास्ते तत्र पूज्यन्ते । न मन्त्राणां श्राद्धे पूजा विहिता, तस्मान्नासौ भोजयितव्यः ।

श्लोकद्वयेन संशयसिद्धान्तरूपोपन्यासेनार्थवादभङ्गया पितृश्रौत्रियत्वमात्मश्रोत्रियत्वं

च श्राद्धभोजने कारणमित्येतदुच्यते, न केवलमात्मश्रोत्रियत्वम् । न तु स्वयमनधीयानस्य पितृश्रोत्रियत्वेन भोज्यता विधीयते । तदुक्तं " दूरादेव परीक्षेत ” इति । अत्राध्ययनपरीक्षा

पुरुषद्वयविषयाऽनेन नियम्यते । जातिगुणपरीक्षा तु ततोऽधिकपुरुषविषयाऽपि यथा ।

अतस्तस्यैव विशेषाभिधानार्थत्वादपौनरुक्त्यम् ॥१२७ ॥

हिन्दी — उन दोनों ( ३।१२६ ) में से जिसका पिता वेदज्ञाता है, वही ( स्वयं वेद-ज्ञाता होने पर भी ) श्रेष्ठ है तथा दूसरा ( जिसका पिता वेदज्ञाता नहीं है; किन्तु वह स्वयं वेदज्ञाता है; वह ) पठित वेद मन्त्रों की पूजा के लिये सत्कार करने योग्य है || १२७ ॥ विमर्श - प्रथम तथा द्वितीय पक्ष में ( ३।१२६ में कथित ) क्रमशः पुत्र - विद्या-परक तथा पितृविद्यापरक है । अतः वचनभङ्गी से ' जो श्रोत्रिय - पुत्र है तथा स्वयं भी श्रोत्रिय है उसे ही हव्य - दान करना चाहिये ' यह सिद्धान्त है । जो श्रोत्रिय का पुत्र तो है; परन्तु स्वयं श्रोत्रिय नहीं है उसे हव्य - कव्य दान करने का शास्त्रादेश नहीं है; क्योंकि पहले ‘ श्रोत्रियायैव देयानि ' ( २।१०८ ) वचन से श्रोत्रिय को ही हव्य, कव्य-दान करने का वचन विद्या के अतिरिक्त आचार आदि की परीक्षा के लिये कहा गया है, ऐसा मन्वर्थमुक्तावलीकार का आशय जानना चाहिये ।