मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 431–440

मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 431–440

पृष्ठ 431

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 431 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता श्राद्ध में मित्रादि के भोजन का निषेध-न श्राद्धे भोजयेन्मित्रं धनैः कार्योऽस्य संग्रहः । ३५५ नारिं न मित्रं यं विद्यात्तं श्राद्धे भोजयेद्विजम् ॥ १२८ ॥

भाष्य — सत्यामेव श्रोत्रियत्वादिपूर्वगुणसम्पदि मैत्र्यादिनिमित्तेन प्रतिषेधोऽयम् । मित्रं समानसुखदुःखम् आत्मनिर्विशेषं न श्राद्धे भोजयेत् । धनैः अन्यैः अस्य मित्रस्य स्वीकारो मैत्रीकरणम् । अविच्छेदो वा मैत्र्यम्, उपकार इति यावत् । न केवलं न मित्रं भोजयेत्, यावदरिं शत्रुमपि । नारिं न मित्रं यं विद्याद्यत्र न रागो न द्वेषो, न चान्यः कश्चित्सम्बन्धो यत्र प्रीतिनिमित्ता कार्यार्थता शंक्येत; अरिमित्रयोः प्रदर्शनार्थत्वात् । तथा सम्बन्धाशङ्क्यैव मातामहादयोऽनुकल्पपक्षोक्ताः । “ शत्रावपि मैत्रीकरणार्थदानसम्भावना यदि, मैत्रीकरणमिति संग्रहः, अरिसंग्रहणं

न कर्तव्यम् ” ।

विस्पष्टार्थं भविष्यति ॥१२८ ॥

हिन्दी - श्राद्ध ( तथा यज्ञ ) में मित्र को भोजन नहीं करावे, धन के द्वारा मित्रता को बढ़ावे जिस ( वेदज्ञाता ) को न शत्रु और न मित्र समझे, उस ( ब्राह्मण ) को ही श्राद्ध ( तथा यज्ञ ) में भोजन करावे ॥ १२८ ॥

श्राद्ध तथा यज्ञ में मित्रों को भोजन कराना निष्फल-यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च । तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हविःषु च ॥ १२ ९ ॥ भाष्य - पूर्वस्य प्रतिषेधस्यार्थवादोऽयम् । मित्रशब्दोऽयं भावप्रधानः, ‘ मित्रप्रधानानि ’ मैत्रीप्रधानानि । तेनोभयोः अरिमित्रयोः शेषः । देवतोद्देशेन दानमदृष्टार्थं वा केवलं ब्राह्मणभोजनं ' हवींषि ' इति लक्ष्यते । प्रेत्य फलं नास्ति । “ ननु चासमानकर्तृत्वात्कार्यानुत्पत्तिः । प्रेण: कर्ता श्राद्धकृत् अस्तिताया नञर्थो-पहितायाः फलम् ” । केचिदाहुः – प्रेत्येतिशब्दान्तरं परलोकवचनं निपातसंज्ञम् । अथ प्रेणोऽपि फलं कर्तृ, ' तस्य फलं प्रेत्य ' प्रकर्षेण निकटमागत्यापि ‘ न भवति ' न भोग्यतां याति ॥ १२ ९ ॥

पृष्ठ 432

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 432 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३५६ मनुस्मृतिः [ तृतीय: हिन्दी — जिसका कव्य ( पितरों के उद्देश्य से किया हुआ श्राद्ध ) तथा हव्य ( देवों के उद्देश्य से किया गया यज्ञादि ) मैत्री - प्रधान है अर्थात् जिस श्राद्ध तथा यज्ञ में मुख्यत: मित्रों को भोजन कराया जाता है, उस कव्य तथा हव्य ( श्राद्ध तथा यज्ञ ) का परलोक में कोई फल नहीं है ( परलोक प्राप्त्यर्थ श्राद्ध तथा यज्ञ में मित्रों को प्रधानतः भोजन कराना या दान देना निष्फल है ) ॥ १२ ९ ॥

यः सङ्गतानि कुरुते मोहाच्छ्राद्धेन मानवः ।

स स्वर्गाच्च्यवते लोकाच्छ्राद्धमित्रो द्विजाधमः ॥ १३० ॥

भाष्य — सङ्गतानि मित्रभावान् यः कुरुते श्राद्धेन मोहात् शास्त्रार्थमजानान: स स्वर्गात् च्यवते । न प्राप्नोति स्वर्गमित्यर्थः । असम्बन्धसामान्यात् च्यवत इत्यु-च्यते । यथा प्राप्तः स्वर्गं ततश्च्युतः स्वर्गेण न सम्बध्यते एवमयमपि । अनेन च श्राद्धफलाप्राप्तिरेव कथ्यते । सर्वशेषता हि तथा भवति । श्राद्धमित्रः श्राद्धं मित्रमस्येति । मित्रलाभहेतुत्वात् श्राद्धमेव ‘ मित्रम् ’ – अतो बहुब्रीहिः । द्विजानामधमः । द्विजग्रहणं प्रदर्शनार्थम् । शूद्रेणापि न मित्राणि भोजनीयानि । “ ननु चाब्राह्मण्यादेव शूद्रस्य मित्रत्वप्राप्तिर्नास्ति । ” केनैषा परिभाषा कृता, ‘ शूद्रस्य ब्राह्मणैर्मित्रैर्न भवितव्यम् ' । “ समानजातीयानामेव मित्रव्यवहारो नोत्तमजातीयानां हीनजातीयैः सहेति ” चेत् । एतदपि न | एवं ह्याह श्वेतकेतुर्ह वा आरुणेयः “ अस्ति मे पञ्चालेषु क्षत्रियो मित्रम् ” इति । किञ्च सम्बन्धोपलक्षणार्थं च मित्रप्रतिषेधो व्याख्यातः । भवन्ति च शूद्रस्य ब्राह्मणा अर्थसम्बन्धिनः, पारशवस्य ज्ञातयोऽपि ॥१३० ॥

हिन्दी – जो मनुष्य मोहवश ( शास्त्र ज्ञान के नहीं होने से ) श्राद्ध के द्वारा मित्रता करता है, श्राद्धमित्र ( श्राद्ध के लिये ही मित्रता का निर्वाह करने वाला ) वह नीच ब्राह्मण स्वर्ग से भ्रष्ट होता है ( उसे स्वर्ग की प्राप्ति नहीं होती ) ॥ १३० ॥

सम्भोजनी साऽभिहिता पैशाची दक्षिणा द्विजैः ।

इहैवास्ते तु सा लोके गौरन्धेवैकवेश्मनि ॥ १३१ ॥

भाष्य — संशब्दः सहार्थे वर्तते । सह भुज्यते यया सा सम्भोजनी । मैत्र्या हि सहभोजनं प्रवर्तते । गोष्ठीभोजनं वा सम्भोजनमिष्यते । पिशाचानामयं धर्मो यत् श्राद्धे मित्रसंग्रहः । रथ्याः पुरुषाः पिशाचाः ।

पृष्ठ 433

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 433 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३५७ सा दक्षिणा इहैव लोके आस्ते, नामुत्र फलं दातुं समर्था । गौर्यथाऽन्धैकस्मिन्नेव गृहे तिष्ठति, एवमियं दक्षिणा इहैवास्ते, मित्रजनार्थैव भवति । न पितृभ्य उपकारार्थाय

प्रभवति ।

दानं दक्षिणा ॥ १३१ ॥

हिन्दी - हव्यकव्य में की गयी सम्भोजनी ( अनेक मित्रादि का एक साथ भोजन करना अर्थात् जिसे गोठ, दावत, ज्यौनार आदि कहते हैं, वह ), पैशाची ( पिशाच के धर्म वाली ) दक्षिणा ( दानक्रिया भोजनादि ) कही गयी है और जैसे अन्धी गौ एक घर में दूसरे घर में नहीं जा सकती, वैसे ही वह दक्षिणा भी इसी लोक में फल देवे वाली है ( परलोक में नहीं ) ॥१३१ ॥

अविद्वान् को श्राद्ध में दानादि निष्फल-यथेरिणे बीजमुप्त्वा न वप्ता लभते फलम् ।

तथाऽनृचे हविर्दत्वा न दाता लभते फलम् ॥ १३२ ॥

भाष्य – इरिणं ऊषरम् । यस्मिन् क्षेत्रे भूमिदोषात् बीजमुप्तं न चोद्गच्छति तदिरिणम् । यत्र वप्ता कर्षको न लभते फलम् । एवमनृचे वेदाध्ययनरहिते हवि-र्दैवं पित्र्यं च दत्त्वा न लभते फलम् । ' अनृच ' इति सप्तम्यन्तम् । ऋचो वेदोप-लक्षणार्थम् ॥ १३२ ॥

हिन्दी – जैसे ऊसर भूमि में बीज को बोने वाला ( गृहस्थ - किसान ) फल नहीं पाता है, वैसे ही वेदाध्ययन से हीन ब्राह्मण को हविर्दान करके दानकर्त्ता श्राद्ध के फल को नहीं पाता है ॥ १३२ ॥

विद्वान को दिये गये की सफलता-दातॄन्प्रतिग्रहीतुंश्च कुरुते फलभागिनः ।

विदुषे दक्षिणां दत्वा विधिवलप्रेत्य चेह च ॥ १३३ ॥

भाष्य— “ विदुषे या दक्षिणा दीयते सा दातॄन् फलभागिनः कुरुते इति युक्तम् । प्रतिग्रहीतारस्तु कतरत् फलं भुञ्जते? यदि तावददृष्टं, तदयुक्तम् अनोदितत्वात् प्रतिग्रहस्य दृष्टफललाभेन प्रवृत्तेः । अथ दृष्टं, तदविदुषोऽपि दृश्यते ” । सत्यम् । प्रशंसैषा । ‘ ईदृशमेतद्विदुषे दानं यत्प्रतिग्रहीताऽप्यदृष्टफलभाग्भवेत् सत्यपि दृष्टे किंपुनर्दातेति ' ।

प्रेत्य स्वर्गे । इह कीर्ति— ' यथाशास्त्रमनुतिष्ठतीति ' जनैः साधुवादो दीयते ।

विधिवदित्यनुवादो ' ददाति चैवन्धर्मेष्विति ' ॥१३३ ॥।

मनु I- 27

पृष्ठ 434

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 434 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३५८ मनुस्मृतिः [ तृतीयः हिन्दी — विधिपूर्वक हव्य - कव्य को विद्वान् के लिये दान देने वाला व्यक्ति इस लोक में भी दाता ( दान देने वाला ) और प्रतिग्रहीता ( दान लेने वाला ) — दोनों को फलभागी बनाता है ॥१३३ ॥

वेदज्ञाता के अभाव में मित्र को भोजन -कामं श्राद्धेऽर्चयेन्मित्रं नाभिरूपमपि त्वरिम् । द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम् ॥ १३४ ॥

वेदपारङ्गत विद्वान को प्रयत्नपूर्वक भोजन-यलेन भोजयेच्छ्राद्धे बह्वचं वेदपारगम् ।

शाखान्तगमथाध्वर्युं छन्दोगं तु समाप्तिकम् ॥ १३५ ॥

भाष्य — ‘ वेदपारग – शाखान्तग- समाप्तिकाः ' शब्दा एकार्थाः समन्त्रब्राह्मणि-कायाः कृत्स्नायाः शाखाया यध्येतृनाचक्षते - न मन्त्रसंहिताया, नापि ब्राह्मणस्य, तदेकदेशस्य वा । वेदैकशाखाध्यायिनोऽपि श्रोत्रिया उच्यन्ते । अतस्तन्निवृत्त्यर्थमुक्तम्— ‘ श्रोत्रियाय देयमिति ’ । श्रोत्रियश्च वेदाध्यायी । वेदशब्दश्च समन्त्रब्राह्मणिकां शाखामाचष्टे, तदेकदेशमपि कृत्स्नशाखाध्यायी कथं गृह्येतत्येवमर्थमिदम् । “ ननु चाश्रमिणो भोजनीया इत्युक्तम् । तत्रानधीतसकलस्वाध्यायानां नैव गार्हस्थ्या-द्याश्रमसम्भवः । एवं ह्युक्तं ' वेदः कृत्स्नोऽधिगन्तव्य ' इति ’ ” । ब्रह्मचारिणस्तर्हि प्रक्रान्तवेदाध्ययनस्य असमाप्तिगस्यापि स्यात् । वेदपारगशाखा-न्तगसमाप्तिकशब्दैरेकार्थै: कात्र्म्यं सर्वैरेव प्रतिपाद्यते । एकेनैव सिद्धे वृत्तानुरोधान्नानारूपैकार्थानेकशब्दोच्चारणम् । वेदानां पारं गच्छति । शाखाया अन्तःसमाप्तिरस्यास्तीति समाप्तिकः । अध्वर्युर्यजुर्वेदशाखाध्यायी, नायमृत्विग्विशेषवचनोऽध्वर्युशब्दः । ‘ आध्वर्यवः ’ प्रवचनमुच्यते, तदध्ययनसम्बन्धात् पुरुषोऽध्वर्युः । छन्दोगः सामवेदाध्यायी । स्मृत्यन्तरे त्रिसाहस्रविद्यः समाप्तिक उक्तः । तत्र ' सहस्र’शब्दः सहस्रगीति-सम्बन्धात् सामवेदे वर्तते, तस्य इमा: साहरुयस्तिस्रः साहस्त्र्यः विद्या यस्य स ' ‘ त्रिसाहस्र-विद्यः ' । ताण्डवमौक्थिक्यं सामगानमिति सहस्रवर्त्मनः सामवेदस्य तिस्रो विद्याः । दशतयी चतुःषष्टि ब्राह्मणं च बह्वृचम् । अन्ये त्वाथर्वणिकनिषेधार्थमिमं श्लोकं मन्यन्ते । कार्त्स्यविवक्षायामेतदेवा-वक्ष्यत्— ‘ अधीते वेदशाखां यः कृत्स्नां तं भोजयेद्विजम् ' इति ।

पृष्ठ 435

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 435 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३५ ९ “ ननु चाथर्वणिकनिषेधेऽप्येतत्समानम् । तत्रापि शक्यमेवं वक्तुं तन्निषेधे प्रायेण— ‘ न भोज्य आथर्वणिक ' इत्येवमेवावक्ष्यत् । स्वशब्देन निषेधप्रतिपत्तिर्लाघवं च ” । नैतद्देवम् । किमन्यविधानेनान्यनिषेधोऽवगम्यते स्वशब्देन वा निषेधः । विचित्रा धर्मोपदेशस्य कृतिर्मनोः ॥१३४-१३५ ॥ हिन्दी – ( हाँ, विद्वान् वेदज्ञाता के नहीं मिलने पर ) श्राद्ध में मित्र को भोजन करावे; किन्तु विद्वान् भी शत्रु को नहीं ( भोजन करावे ); क्योंकि शत्रु को भोजन कराया गया हविष्य परलोक में निष्फल होता है । मन्त्र - ब्राह्मण- शाखा को पढ़े हुए ऋग्वेदी, यजुर्वेदी, वेदों का पारगामी ( सम्पूर्ण वेद को पढ़े हुए ) सब शाखाओं को पढ़े हुए ऋत्विज्, वेदों को पढ़कर समाप्त किये विद्वान् ब्राह्मण को प्रयत्नपूर्वक श्राद्ध में भोजन करावे ॥ १३४-१३५ ॥

एषामन्यतमो यस्य भुञ्जीत श्राद्धमर्चितः ।

पितॄणां तस्य तृप्तिः स्याच्छाश्वती साप्तपौरुषी ॥ १३६ ॥

भाष्य — कश्चिन्मन्येत पितृकृत्ये त्रीनित्युक्तम् । पूर्वश्लोके च नानाशाखाध्यायिन उपात्ता: । तत्र सब्रह्मचारिणां नास्ति प्राप्तिरिति तदाशङ्कानिवृत्त्यर्थमिदम् । एषां त्रयाणां त्रैविद्यानामन्यतमो भोजनीयः । एतदुक्तं भवति - समानशाखा-ध्यायिनो नानाशाखाध्यायिनो वा भोजनीयाः | अर्चितः पूजितः प्रार्थित अर्घादिना । सप्तिपौरुषी तृप्तिः । सप्तपुरुषान्व्याप्नोति । अनुशतिकादेराकृतिगणत्वादुभय-पदवृद्धिः । कालमहत्वोपलक्षणार्थं चैतत् । दीर्घकाला पितॄणां तृप्तिर्भवति । यावत्सप्त-पुरुषा आगामिनः पुत्रपौत्रादयो जाता जनिष्यन्ते वा तावत्तथाविधब्राह्मणदानात् पितर-स्तृप्यन्ति । शाश्वती नान्तरा विच्छिद्य पुनरुद्भवति, किंपुनः सर्वदा स्थितैव ॥१३६ ॥

हिन्दी – पूर्वोक्त ( ३।१३५ ) ब्राह्मणों में से एक भी ब्राह्मण पूजित होकर श्राद्ध में भोजन करे तो श्राद्धकर्त्ता के पुत्रादि सात पीढ़ी तक पितर अक्षय तृप्ति को पाते हैं ॥१३६ ॥

विमर्श - पिता- पितामह, प्रपितामह — ये तीन पिण्डभागी पितर, लेपभागी चतुर्थ आदि तीन पितर तथा स्वयम् ( ३ + ३ + १ = ७ ) । यहाँ पुत्र पद से श्राद्धकर्त्ता विवक्षित है ।

एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।

अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः ॥ १३७ ॥

भाष्य-पितृयज्ञमित्यारभ्य पञ्चविंशतिमात्राः श्लोका अतिक्रान्तास्तत्रैतावानर्थोऽ-

पृष्ठ 436

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 436 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३६० मनुस्मृतिः [ तृतीयः भिहितः । अमावास्यायां श्राद्धं कर्तव्यम् । श्रोत्रियो विद्वान् साधुचरणः प्रख्याताभिजनः श्रोत्रियापत्यं असम्बन्धी भोजनीयः । परिशिष्टं सर्वमर्थवादार्थम् । एषोऽनन्तरोक्तः प्रथमो मुख्यः कल्पो विधिः, श्राद्धे यदसम्बन्धिने दीयते । अयं तु वक्ष्यमाणोऽनुकल्पो ज्ञेयः । मुख्याभावे योऽनुष्ठीयते प्रतिनिधिन्यायेन

सोऽनुकल्प उच्यते । सदेत्यादि स्तुत्यर्थः ॥ १३७ ॥

हिन्दी– ( भृगुमुनि महर्षियों से कहते हैं कि ) हव्य तथा कव्य के दान का यह पहला कल्प ( मुख्य शास्त्र - विधान ) कहा गया है । ( इस मुख्य विधान के अभाव में ) सज्जनों से अनुष्ठित ( किया गया ) अनुकल्प ( गौण अर्थात् अप्रधान शास्त्र - विधान ) यह है ( जो आगे कहा गया है ) ॥१३७ ॥

नाना आदि को श्राद्ध में भोजन-मातामहं मातुलं च स्वस्त्रीयं श्वशुरं गुरुम् ।

दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ च भोजयेत् ॥ १३८ ॥

भाष्य — स्वस्त्रीयो भगिन्याः पुत्रः । विट्पतिर्जामाता, प्रजावचनत्वात् विट्-शब्दस्य । अतिथिरित्यन्ये । स हि सर्वविशांपतिः गृहाभ्यागतो लोकेऽपि विट्शब्देनो-च्यते । बन्धुः शालः सगोत्रादिः ॥१३८ ॥

हिन्दी — नाना, मामा, भानजा ( बहन का पुत्र ), गुरु, श्वशुर, दौहित्र ( पुत्री का पुत्र ), जामाता, बान्धव, ( मौसी तथा फूआ आदि का पुत्र ) ऋत्विक् तथा यज्ञकर्त्ता— इन दशों को श्राद्ध में ( मुख्य वेदज्ञाता नहीं मिलने पर ) भोजन करावे ॥ १३८ ॥

देवकार्य में ब्राह्मण परीक्षा का निषेध-न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् । पित्र्ये कर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः ॥ १३ ९ ॥ भाष्य — नायं दैवे कर्मणि ब्राह्मणपरीक्षाप्रतिषेधः, किं तर्हि काणश्लीपद्यादीनां कदाचिद्दैवेऽभ्यनुज्ञानार्थः । पित्र्ये कर्मणि श्राद्धकाले प्राप्ते परीक्षां यत्नेन कुर्यात्, न दैवे । कदाचिद्वक्ष्यमा-णानपि भोजयेत् । ये चाभ्यनुज्ञायन्ते तान्दर्शयिष्यामः । अन्ये तु वक्ष्यमाणस्य प्रतिषेधप्रकरणस्य यत्नतो वर्जनार्थमुपक्रममात्रं श्लोको, न तु काणादीनां दैवेऽभ्यनुज्ञानार्थः ॥१३९ ॥

हिन्दी - धर्मात्मा पुरुष देवकार्य में ब्राह्मण की परीक्षा ( ३ । १२० ) के अनुसार विशेष छान - बीन न करे, किन्तु पितृकर्म ( पितरनिमित्तक श्राद्ध ) में तो प्रयत्नपूर्वक

पृष्ठ 437

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 437 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ब्राह्मण की परीक्षा ( अवश्य ) करे ॥ १३ ९ ॥ [ तेषामन्ये पङ्गिदूष्यास्तथाऽन्ये पङ्गिपावनाः । अपाङ्क्तेयान्प्रवक्ष्यामि कव्यानर्हान् द्विजाधमान् ॥ १ ९ ॥ ] ३६१ [ हिन्दी — भृगु मुनि महर्षियों से कहते हैं कि उन ब्राह्मणों में कुछ पङ्क्तिदृष्य ( पंक्ति में भोजन करने से दूषित करने वाले ) और कुछ पंक्तिपावन ( पंक्ति में भोजन करने से पवित्र करने वाले ) ब्राह्मण होते हैं; कव्य पितृश्राद्धनिमित्तक अन्न ) के अयोग्य उन निम्न श्रेणी वाले अपाङ्क्तेय ( पंक्ति को दूषित करने वाले ) ब्राह्मणों को मैं कहूँगा ॥१९ ॥ ]

अपाङ्क्तेय ब्राह्मण–

ये स्तेनपतितक्लीबा ये च नास्तिकवृत्तयः ।

तान् हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवीत् ॥ १४० ॥

भाष्य- स्तेनः चौरः । पतितः पञ्चानां महापातकानां अन्यतमस्य कर्ता । क्लीबो नपुंसकः उभयव्यञ्जनो वातरेताः षण्ढश्च । नास्तिका लोकायतिकादयः, ' नास्ति दत्तं नास्ति हुतं नास्ति परलोक ' इति ये स्थितप्रज्ञास्तेषां ‘ वृत्ति: ’ आचार: अश्रद्दधानता । नास्तिकवृत्तिर्येषां ते नास्तिकवृत्तयः । उत्तरपरलोपीसमासः । नास्तिका इत्येव सिद्धे वृत्तिपदसमाश्रयणं श्लोकपूरणार्थम् । अथवा नास्तिकेभ्यो वृत्तिर्जीवनं येषां त एवमुच्यन्ते ।

तान् हव्यकव्ययोर्दैवे पित्रये च अनर्हान्मनुरब्रवीत् ।

प्रतिषेधादरार्थं मनुग्रहणम् । सर्वधर्माणां मनुनोक्तत्वात् ॥१४० ॥

हिन्दी – जो ( ब्राह्मण ) चोर, पतित ( ११ अध्यायोक्त ) नपुंसक तथा नास्तिक का व्यवहार करने वाले हैं, उन ब्राह्मणों को मनु ने हव्य ( देवकार्य ) तथा कव्य ( पितृकार्य – श्राद्ध ) में अयोग्य बतलाता है- ॥ १४० ॥

जटिलं चानधीयानं दुर्वालं कितवं तथा ।

याजयन्ति च ये पूगांस्तांश्च श्राद्धे न भोजयेत् ॥ १४१ ॥

भाष्य - जटिलो ब्रह्मचारी । तस्य ह्ययं केशविशेष: पाक्षिको विहितो – “ मुण्डो वा जटिलो वा स्यात् ” इति । उपलक्षणं च जटा ब्रह्मचारिणस्ततो मुण्डोऽपि प्रतिषिध्यते । तस्य चानधीयानस्य प्रतिषेधः । " ननु ' श्रोत्रियायैव देयानि ' इति चानधीयानस्य प्राप्तिरेव नास्ति ” । प्रक्रान्ताध्ययनः अनधीतवेदः अगृहीतवेदश्चेत्प्राप्नुयात् ।

पृष्ठ 438

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 438 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३६२ मनुस्मृतिः “ ननु च ' वेदपारग ' इति वचनात् कुतः प्रक्रान्ताध्ययनस्य प्राप्तिः ” । [ तृतीयः एवं तर्हि अधीतवेदोऽप्यस्वीकृतवेदोऽनधीयानोऽभिप्रेतः । “ व्रतस्थमपि दौहित्रम् ” ( मनु ० ३।२३४ ) इत्यनेन वा दौहित्रतैवात्र नाध्ययनमिति कश्चिन्मन्येत तदर्थमिदम् । अनधीयानस्य प्रतिषेधाद्विदुषस्तस्याधिकारोऽस्तीत्यवगम्यते । दुर्वालः स्खलितलोहितकेशो विकलेन्द्रियो वा । तस्य हि निर्वचनं कुर्वन्ति— दूर्वया शाद्वलेनाप्यलं तस्य वासो भवतीति । स हि दूर्वयैव प्राव्रियते लज्जया च वाससामभावे तावन्मात्रेणाप्यपिदधाति शेफम् । कितवो द्यूतकारः । याजयन्ति च ये पूगान् सङ्घान् । व्रात्यस्तोमादिभिर्ब्रात्यानां हि संहितानां यागो विहितः । प्रतिषिद्धं च तद्याजनं ' व्रात्यानां याजनं कृत्वेति ' । वयं ब्रूमः —यः क्रमशः प्रत्येकमपि बहून्याजयति बहुकृत्व आत्र्त्विज्यं करोति, सोऽपि न भोज्यः । तथा च वसिष्ठ: “ यश्चापि बहुयाज्यः स्याद्यश्चोपनयते बहून् ” इति । केचिदाहुः – श्राद्धग्रहणात्पित्र्य एवैषां प्रतिषेधो न तु दैवे 1 तदयुक्तम् । तदपि श्राद्धाङ्गमेव श्राद्धशब्देन युक्तं वक्तुम् ॥१४१ ॥

हिन्दी — वेद को नहीं पढ़ता हुआ ब्रह्मचारी, दुर्बल- दूषित चमड़े वाला ( मेधातिथि के मत से खल्वाट— ( जिसके शिर में बाल न हों वह ) तथा लाल ( भूरे ) बालों वाला या दूषित चमड़े वाला, जुआरी ( स्वयं जुआ खेलने वाला ), बहुतों को यज्ञ कराने वाला, इन सब को श्राद्ध में भोजन न करावे ॥१४१ ॥

चिकित्सकादेवलकामांसविक्रयिणस्तथा 1 विपणेन च जीवन्तो वर्ज्याः स्युर्हव्यकव्ययोः ॥ १४२ ॥

भाष्य - भिषजः चिकित्सकाः । देवलका प्रतिमापरिचारकाः । आजीवन-सम्बन्धेनैतौ प्रतिषिध्येते । धर्मार्थत्वे तु चिकित्सकदेवलत्वयोरदोषः । मांसविक्रयिणः सौनिकाः । द्वितीयान्तपाठे पूर्वश्लोकादाख्यातानुषङ्गः । विपणेन जीवन्तः प्रतिषिद्धेन पणेन । प्रतिषिद्धाः पणा दशमाध्याये वक्ष्यन्ते तेन ये जीवन्ति ते । वर्ज्याः । उभयत्र । मांसविक्रयिणस्तु धर्मार्थमपि निषिध्यन्ते । यस्य केनचिन्मांसमुपहृतम्; अन्यस्य च तेनार्थ:, उपहृतमांसस्यच घृतेन होमोपयोगिना, स मांसं घृतेन विनिर्मितीते, -भवत्यसौधर्मार्थो विनिमयः । विक्रयशब्दवाच्यता विनिमयस्यापि भवतीत्यत ईदृशाधर्मार्थ-

पृष्ठ 439

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 439 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता मांसविक्रयिणोऽपि प्रतिषिध्यन्ते ॥ १४२ ॥

३६३ हिन्दी — वैद्य, मन्दिर का पुजारी ( वेतन लेकर मन्दिरों में पूजा की जीविका करने वाला ), एकबार भी मांस बेचने वाला और व्यापार कर्म से जीने वाला— इन ब्राह्मणों को हव्य तथा कव्य ( देवकार्य तथा पितृश्राद्ध ) में भोजन न करावे ॥१४२ ॥

प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः ।

प्रतिरोद्धा गुरोश्चैव त्यक्ताग्निर्वार्धुषिस्तथा ॥ १४३ ॥

-भाष्य – प्रेष्य आज्ञाकरः । ग्रामेण यो यत्रकुत्रचित् कार्येण प्रेष्यते । एवं राजप्रेष्यः । कुनखी श्यावदन्तकः । प्रतिरोद्धा गुरोर्वाग्व्यवहारेऽन्यत्र च यो गुरोः प्रतिबन्धे प्रातिकूल्ये च वर्तते । त्यक्ताग्निस्त्रेतावसथ्ययोरन्यतरस्यापि । वार्धुषिः सत्यन्यस्मिन् जीविकोपाये वृद्धिजीविकः । “ वृद्धिस्तु योक्ता धान्यानां वार्धुषित्वं तदुच्यते ” इति यत्स्मरणं तत्स्वप्रक्रियायामेव । वैयाकरणा हि वृद्धिजीविनो धान्यादन्यत्रापि

वार्धुषिकशब्दं स्मरन्ति । ते च शब्दार्थस्मरणे प्रमाणतरा, अभियोगविशेषात् ॥१४३ ॥

हिन्दी - राजा तथा ग्राम का प्रेष्य ( चपरासी आदि- जो राजा या ग्रामाध्यक्षादि से वेतन लेकर उनकी आज्ञानुसार इधर - उधर जाता है ), निन्दित नखवाला, काले दाँत वाला, गुरु के विरुद्ध आचरण करने वाला, अग्निहोत्र नहीं करने वाला; ब्याज ( सूद ) लेकर जीविका चलाने वाला – ॥१४३ ॥

यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः ।

ब्रह्मद्विट् परिवित्तिश्च गणाभ्यन्तर एव च ॥ १४४ ॥

भाष्य – यक्ष्मी व्याधितः । राजयक्ष्मगृहीत इत्यन्ये । पशुपालः यष्टिहस्तस्तद्वृत्तिजीवनः । निराकृतिः सत्यधिकारे महायज्ञानुष्ठानरहितः । अद्यत्वेऽप्यनुपजीव्यः अनद्धा निराकृतिरुच्यते । एवं च शतपथे “ यो न देवानर्चति न पितॄन्न मनुष्यान् ” इति । यैस्तु पठ्यते “ अस्वाध्यायश्रुतधनैर्निराकृतिरुदाहृतः ” इति, न ते शब्दार्थसम्बन्ध-विदः । तस्येहाप्राप्तिरेव, श्रोत्रियनियमात् । निराकर्ता देवादीनां निराकृतिरिति ' धात्वर्था-नुगमोऽस्ति । धर्मधर्मिणोश्चाभेदविवक्षायां क्तिनापि प्रयोग उपपन्न इति । निपूर्वोऽयं धातुरपवर्जने वर्तते । निराकृता अपवर्जिता उच्यन्ते, ' भोजनान्निराकृता ' ' अधिकारा-न्निराकृता ' इति । अवर्जनं चाकृतिः सा निर्गताऽस्मादिति ‘ निराकृतिः ' । संस्थानं चाकृति-स्तथा च कुत्सायां निर्द्रष्टव्यो दुराकृतिर्निषिध्यते । आह च “ वाग्रूपवयः शीलसम्पन्नः ” ( गौ ० सू ० १५।९ ) । वाक्सम्पन्नो वाग्मी पटुवागिन्द्रियश्च । बहुजिह्वो न भोज्यः । रूप-सम्पन्नो मनोहरावयवसन्निवेशः । वयःसम्पन्नः । ' युवभ्यो दानं प्रथमं प्रतिवयस इत्येक ’

पृष्ठ 440

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 440 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३६४ मनुस्मृतिः ( गौ ० सू ० १५ । १० ) इति । संज्ञाशब्दो वाऽयं क्तिजन्त: । [ तृतीयः ब्रह्मद्विट् ब्राह्मणानां वेदस्य वा द्वेष्टा । ब्रह्मशब्दस्योभयार्थवाचित्वात् । “ ब्रह्मापि ब्राह्मणः स्मृतः ” इति । गणः सङ्घः । सहैकया क्रियया जीवन्ति ये ते गणशब्दवाच्यास्तदन्तर्गताश्चातुर्विद्य-ब्राह्मणा: । परिवेतृपरिवित्ती वक्ष्यमाणस्वरूपौ ॥१४४ ॥

हिन्दी — राजयक्ष्मा ( क्षय ) का रोगी, पुशपालन ( बकरी - भेंड़ आदि के पालन ) की जीविका वाला, परिवेत्ता ( ३।१६१ ), पञ्चमहायज्ञ ( ३।१६० ) से हीन तथा देवताओं के निन्दक, ब्राह्मण से विरोध रखने वाला, परिवृत्ति ( ३।१६१ ), चन्दा लेकर जीविका चलाने वाला —॥१४४ ॥

कुशीलवोऽवकीर्णी च वृषलीपतिरेव च ।

पौनर्भवश्च काणश्च यस्य चोपपतिर्गृहे ॥ १४५ ॥

भाष्य — चारणनटनर्तकगायनादयः कुशीलवाः । अवकीर्णी विप्लुतब्रह्मचर्य: । वृषली शूद्रा तस्याः पतिः । असत्यामन्यस्यां चात्र मन्यन्ते । वृषल्या एव च यः पतिः, यस्य द्विजातिभार्या नास्ति । “ कुत एतत् ” । प्रकरणान्तरे विगर्हिताचारसंग्रहं श्रूयते " एतान्विगर्हिताचारान् ” इति । शूद्राविवाहश्च सर्वेषामनुज्ञातत्वात्, न गर्हितः । स च कृतसजातीयापरिणयनस्यानुज्ञातः । अतोऽसत्यां सजातीयायां वृषल्या भर्ता प्रतिषिध्यतेऽत्र । पौनर्भवः । ‘ पुनर्भूः ’ पुनरूढा । वक्ष्यति नवमेऽध्याये “ पत्या वा परित्यक्तेति ” । काण एकेनाक्ष्णा विकलः ।

यस्य च उपपतिर्जायाजारोऽवस्थितायां भार्यायामस्ति । उपेक्षया निन्द्यते ।

तदुक्तं “ अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणीति ” ॥१४५ ॥

हिन्दी – नर्तक ( नृत्य करने वाला ), स्त्रीसम्भोग से व्रतभ्रष्ट ब्रह्मचारी ( तथा संन्यासी ) शूद्रा ( शूद्रजात्युत्पन्न स्त्री ) का पति, विधवा - विवाह से उत्पन्न, काणा, जिसके घर में स्त्री का उपपत्ति ( जार, रखेल ) रहता हो वह ॥ १४५ ॥

भृतकाध्यापको यश्च भृतकाध्यापितस्तथा ।

शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कण्डगोलकौ ॥ १४६ ॥