मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 441–450

मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 441–450

पृष्ठ 441

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 441 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३६५ भाष्य — भृतकाध्यापकः भृतकः सन् यो स्थितोऽध्यापकः । भृतक इति ‘ यदीयद्ददासि वेदमध्यापयामीति ' यः प्रवर्तते षणेन स भृतकाध्यापकः । एषा हि भृतिः प्रसिद्धा कायवाहादिषु । यस्त्वियता धनेनेयदध्यापयामीति न निश्चित्य वचन-व्यवस्थया, पूर्वमध्यापयति लभते चाध्यापनार्थं, नासौ ‘ भृतकाध्यापकः ’ । अनिरूपित-परिमाणपूर्वे चार्थदाने विहितमध्यापनम् । एवं भृतकाध्यापितः । यो व्युत्पन्नबुद्धिः सत्यकामवत् स्वयं भृतिं दत्वाऽधीते स एवमुच्यते । यस्तु पित्रादिना भृतिं दत्वा उपाध्यायान्तराभावेऽध्याप्यते न तस्य विगर्हिताचारत्वम् । बालो हि पित्रा प्रतिषिद्धेभ्यो निवर्तनीयः । एतदुक्तं “ गुरौ शिष्यश्च याज्यश्चेति " शूद्रस्य शिष्यो व्याकरणादिविद्यासु गुरुश्च शूद्रस्यैव । उपसर्जनीभूतस्यापि सम्बन्ध:, स्मृतिशास्त्रत्वात् । विगर्हिताचा-रत्वस्य सर्वशेषत्वात् । शूद्रागुरुत्वं च गर्हितं नान्यत् ।

वाचा दुष्टः परुषानृतभाषी । अभिशस्त इत्यन्ये ।

कुण्डगोलकौ वक्ष्यमाणौ ॥ १४६ ॥

हिन्दी – वेतन लेकर पढ़ाने वाला, वेतन देकर पढ़ने वाला, शूद्र का शिष्य ( व्याकरण आदि शास्त्र को पढ़ा हुआ ), शूद्र का गुरु ( व्याकरण आदि शास्त्र पढ़ाने वाला ), रूखा बोलने वाला, कुण्ड, गोलक ( जार से उत्पन्न सधवा स्त्री का पुत्र ‘ कुण्ड ' तथा जार से उत्पन्न विधवा का पुत्र ' गोलक ३।१६४ ) –१४६ ॥

अकारणे परित्यक्ता मातापित्रोर्गुरोस्तथा ।

ब्राह्मैयनैश्च सम्बन्धैः संयोगं पतितैर्गतः ॥ १४७ ॥

भाष्य - असति कारणे यः परित्यजति मातरं पितरं आचार्यं च । गुरुशब्दः सामान्यशब्दत्वादुपाध्यायेऽपि प्रवर्तते । यत्तु “ तथा सति मातापितृग्रहणं न कर्तव्यं स्यात्, गुरुत्वादेव सिद्धेरत आचार्य एवेह गुरुरिति व्याचक्षते ” – तदयुक्तम् । असति मातापितृग्रहणे गुरुशब्दः पितर्येव कृत्रिमाकृत्रिमन्यायेन प्रवर्तेत । पृथगुपादाने तु शास्त्रान्तरवदाचार्यः श्रेष्ठो गुरूणामिति सामान्यशब्दता सिद्धा भवति । परित्यागकारणं च “ त्यजेत् पितरं राजघातकम् ' इत्यादि । मातापित्रोः परित्यागस्तत्पादसेवादेः शुश्रूषायाः अकरणं, तदाराधने अतत्परत्वम् । गुरोरेवमेव । अध्यापनसमर्थेऽध्यापयितरि च तत्त्यागेनान्यत्राध्ययनम् । पतितैः संयोगं गतः सम्बन्धं कृतवान् । ब्राह्मैर्याजनाध्यापनादिभिग्रैौनैः कन्या-दानादिभिः ।

पृष्ठ 442

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 442 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३६६ मनुस्मृतिः “ ननु च पतित्वादेवासौ वर्ज्यः ” । [ तृतीय: केचिदाहुः– “ संवत्सरेण पतति पतितेन सहाचरन् ” ( २ ९ ० ) –अर्वागयं प्रतिषेधः । “ अथ केयं वाचो युक्तिः सम्बन्धसंयोगं गत इति ” । नात्र सम्बन्धशब्दो वैशेषिकादिप्रसिद्ध्या संयोगादिवचनः, किं तर्हि क्रियैवात्र सम्बन्धहेतुत्वात्सम्बन्धशब्देनोच्यते । याजनादिलक्षणे संयोगशब्दश्च सम्बन्धमात्र-मुपलक्षयति ॥१४७ ॥

हिन्दी — निष्कारण माता - पिता और गुरु का ( शुश्रूषादि का ) त्याग करने वाला, पतितों के साथ ब्रह्म ( वेदशास्त्राध्ययन आदि ब्राह्मविषयक ) तथा यौन ( कन्या विवाहादि योनि विषयक ) सम्बन्ध रखने वाला – ॥१४७ ॥

अगारदाही गरदः कुण्डाशी सोमविक्रयी ।

समुद्रयायी बन्दी च तैलिकः कूटकारकः ॥ १४८ ॥

भाष्य – अगारस्य गृहस्यदग्धा ॥

गरं ददातीति । प्रदर्शनार्थं च गरग्रहणं विषादीनामपि । कुण्डस्य अन्नमश्नाति । एवं गोलकस्य । प्रदर्शनार्थत्वात् कुण्डस्य सोमं विक्रीणीते । ओषधिः सोमस्तं यो विक्रीणीते, यागार्थमौषधार्थं वा । अन्ये तु सोमसाधनात् ज्योतिष्टोमादियागानाहुः । तेषां च विक्रयो यद्यपि न सम्भवति, अमूर्तत्वात् क्रियायास्तथाप्यविदुषामेवंविधस्याचारस्य दर्शनादयं प्रतिषेधः । दृश्यन्ते ह्यविद्वांस एवं वदन्तो ‘ यन्मयासुकृतं कृतं तत्तेऽस्त्विति ' । ‘ सुकृतं ’ सुकृतैः साधितं धर्मम् । तथा च ‘ यां च रात्रीमजायेथा यां च प्रेतासि तदुभयमन्तरेणेष्टापूर्तं ते लोकं सुकृतमायुः प्रजां वृञ्जीय यदि मे द्रुह्युरिति । यथैव शपथा एवं दानविक्रयावपि वाचा यः करोति स वर्ज्यते । अकार्यता चात एव ईदृशानां शपथदानविक्रयादीनां वाचा क्रियमाणानामनुमीयते । समुद्र उदधिस्तं यो याति । बन्दी स्तुतिपाठकः ।

तैलिकः तिलादीनां बीजानां पेष्टा ।

कूटकारकः साक्ष्येष्वनृतवादी ॥१४८ ॥

हिन्दी — घर में आग लगाने वाला, विष ( जहर ) देने वाला, कुण्ड ( ३।१६८ ॥

के अन्न को खाने वाला, सोमलता को बेचने वाला, ( जहाज आदि से ) समुद्रयात्रा

पृष्ठ 443

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 443 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३६७ करने वाला, वन्दी ( भाट- प्रशंसा सम्बन्धी कविता पढ़ने वाला ), तेल पेरने वाला, झूठी गवाही देने वाला — ॥ १४८ ॥

विमर्श – देवल के कथनानुसार ' कुण्डाशी ' शब्द से केवल ‘ कुण्ड ’ ( जार से उत्पन्न सधवा - पुत्र ) का अन्न खाने वाला ही अर्थ नहीं अपेक्षित है, किन्तु ' कुण्डाशी ’ शब्द से ‘ गोलक ' ( जार से उत्पन्न विधवा - पुत्र ) का अन्न खाने वाला अर्थ भी अपेक्षित है । यही अर्थ मन्वर्थमुक्तावलीकार को भी इष्ट है ' ।

पित्रा विवदमानश्च कितवो मद्यपस्तथा ।

पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी ॥ १४ ९ ॥

भाष्य – पित्रा यो ‘ विवदते ’ परुषं भाषते, राजकुले व्यवहरतीति पूर्वपक्षोत्तरपक्ष-भङ्गया भागादिनिमित्तम् । तथा च गौतमः ( १५।१ ९ ) “ पित्राऽकामेन विभक्तानिति ” । " प्रतिरोद्धा गुरोरित्यनेनैतत्कथं पुनरुक्तमुच्यते " । अन्य: ‘ प्रतिरोध: ’ अन्यश्च ' विवाद: ' । यत्किञ्चित् गुरोरभिप्रेतं वस्तु ‘ कथमिदं सिध्येदिति ' तत्र सम्बाधकत्वम् प्रतिरोध: । न्याय्येऽपि वस्तुनि तदिच्छाप्रतिघात: प्रतिरोद्धृत्वम् । प्रतिराद्धेति तत्र पाठान्तरम् । आभिमुख्येन हिंसिता, हस्तादिना गुरो: प्रतिरोद्धा चपेटादिदानेन । अस्मिन्पक्षे स्थितमन्यत्वं विवादस्य । कितवो द्यूतस्य कारयिता सभिकः । यस्तु स्वयंदेविता स प्रागेव निषिद्धः । केकरमन्ये पठन्ति, ‘ केकरो मद्यप ' इति । स च वलितप्रेक्षो अध्यर्धदृष्टिः । कातरमन्ये । स च शुकपक्षतारकः मद्यपः । सुराया अन्यस्यारिष्टादेर्मद्यस्य पाता सुरापः, पतितत्वेनैव निरस्त: । पापरोगी कुष्ठी । स हि लोकेऽत्यन्तनिन्द्यः, पापरोगीत्यभिधातुं युक्तः । अस्मादेव च प्रतिषेधात् यक्ष्मीत्यत्र न सर्वो व्याधिगृहीतो गृह्यते, कस्तर्हि, क्षयी । यदि हि सर्वो गृह्येत तेनैव, सिद्धत्वात्पापरोगीति नाकरिष्यत् । अभिशस्तः पातकोपपातकयोः कर्तेति लोके प्रसिद्ध:, असत्यपि तत्कर्तृक-त्वनिश्चये । दाम्भिकः छद्मना धर्मं चरति लोकपक्त्यर्थं, न कर्तव्यमिति कृत्वा करोति १. प्रदर्शनार्थत्वात् कुण्डस्येति गोलकस्यापि ग्रहणम् । तथा च देवलः — “ अमृते जारजः कुण्डो मृते भर्तरि गोलकः । यस्तयोरन्नमश्नाति स ‘ कुण्डाशी ' ति कथ्यते ॥ ” इति ( म ० मु ० ) । 1

पृष्ठ 444

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 444 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३६८ मनुस्मृतिः [ तृतीयः रसविक्रयी विषयस्य विक्रेता । तस्य ह्येतदभिधानम् । ' उपांशुभेदी रसदः ’ ‘ रसदः सत्री’त्यादि विषदो रसद उच्यते ॥ १४ ९ ॥ हिन्दी — पिता के साथ ( शास्त्रीय या लौकिक विषय में ) निरर्थक झगड़ने वाला, जुआ खेलने वाला ( स्वयं जुआ खेलना नहीं जानने के कारण दूसरों को खेलाने वाला ), मदिरा पीने वाला, कोढ़ी ( अनिर्णीत होने पर भी ) महापातक ( ११।५४ ) में अभि-शप्त ( निन्दित ), कपटपूर्वक धर्मकर्त्ता, गन्ने आदि का रस बेचने वाला - ( १४ ९ ॥ )

धनुःशराणां कर्ता च यश्चाग्रेदिधिषूपतिः ।

मित्रध्रुग्द्यूतवृत्तिश्च पुत्राचार्यस्तथैव च ॥ १५० ॥

भाष्य — धनुः शरांश्च यः शिल्पीव करोति । यश्चाग्रेदिधिषूपतिः । दिधिषूशब्द: काकाक्षिवदुभयेन सम्बध्यते । स्मृतिशास्त्रत्वा-च्चेदृशः सम्बन्धो लभ्यते । लेखालोष्ठादयोऽपि स्मृत्यर्थं सङ्केत्यन्ते भवन्ति चार्थकराः । अत एतन्न वाच्यं “ कथमेकशब्दः समासान्तर्गतो द्वाभ्यां भिन्नप्रस्थानाभ्यां अभिसम्बध्येत " इति । गौतमेन हि द्वयं निषिद्धम् । इहापि सम्बन्धभेदे लिङ्गम् । द्विपदः समासः । न ह्यग्रेदिधिषूपतिर्नाम कश्चिदस्ति । एतौ च वक्ष्यमाणलक्षणौ मित्रध्रुक् । मित्रं या द्रुह्यति । मित्रस्य यः कार्योपघाते प्रवर्तते । द्यूतवृत्तिः द्यूतं वृत्तिर्जीविका यस्य । “ ननु च ‘ कितवो मद्यप ' इत्यत्रोक्तमेव ” । नावश्यं द्यूतवृत्तिरेव द्यूतस्य प्रयोजकः, किंतर्हि यः स्वयं देवितुं न जानाति गुरुभयाद्वा न दीव्यति । व्यसनी स तु देवैः शप्ततयाऽन्यं देवयति । तदर्थो द्वितीयः

कितवशब्दः । अथवा अकृतश्रीका द्यूतसभास्थाणवो द्यूतवृत्तय: ।

पुत्र आचार्योऽध्यापको यस्य । मुख्यमाचार्यत्वं न पुत्रे सम्भवति ॥१५० ॥

हिन्दी — धनुष और बाण को बनाने वाला, अग्रेदिधिषू ( बड़ी वहन के अविवाहित रहने पर विवाहित छोटी वहन ' ) का पति, मित्रद्रोही, द्यूतशालाका अध्यक्ष ( जिसे ‘ नालदार ' कहते हैं तथा जिसे दाँव पर जीते हुए द्रव्य में से प्रतिरुपया शायद दो पैसा मिलता है ), पुत्र के द्वारा पढ़ाया गया पिता – ॥ १५० ॥

विमर्श — ‘ “ गोविन्दराज ने ‘ भ्रातुर्मृतस्य भार्यायाम् ( ३।१६३ ) ' श्लोक से अग्रेदि-१. तथा च लौगाक्षिः-‘ ज्येष्ठयां अद्यनूढायां कन्यायामुह्यतेऽनृजा । सा चाग्रेदिधिर्ज्ञेया पूर्वा तु दिधिषूः स्मृता । ' इति ( म ० मु ० ) ।

पृष्ठ 445

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 445 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३६ ९ धिषू ' ही वृत्तिवश ' अग्रे ' पद का लोपकर ' दिधिषूपति ' कहा जायेगा, उसी का यहाँ ( ३।१६३ में उक्त ) ग्रहण होता है " ऐसा कहा है ।

भ्रामरी गण्डमाली च श्वित्र्यथो पिशुनस्तथा ।

उन्मत्तोऽन्धश्च वर्ज्याः स्युर्वेदनिन्दक एव च ॥ १५१ ॥

भाष्य — व्याधिविशेषवचना एते । भ्रामरी अपस्मारी । गण्डमाली । कपोले कण्ठे पिटका मालाकारा जायन्ते । श्वित्री श्वेतकुष्ठः । पिशुनः परमर्मप्रकाशक: कर्णेजपः । उन्मत्तः अनवस्थितचित्तो, धातुसंक्षोभेण पिशाचगृहीतः यत्किञ्चनवादी यत्किञ्चनकारी वा । अन्धः चक्षुर्विकलः । वेदनिन्दकः । " ननु च ब्रह्मद्विट्शब्देनैव ब्रह्मशब्दस्यानेकार्थकत्वात् वेदनिन्दको गृहीत एव ” । नैवम् । अन्या निन्दा अन्यो द्वेषः । चित्तधर्मो द्वेषः, तदुपर्यप्रीतिशब्देन कुत्सनं ‘ निन्दा ’ ॥१५१ ॥

हिन्दी – अपस्मार ( मूर्च्छा ) का रोगी, गण्डमाला का रोगी, श्वेतकुष्ठ ( चरक ) का रोगी, चुगलखोर, उन्मादी ( पागल ), अन्धा, वेद का निन्दक - ॥१५१ ॥

हस्तिगोश्वोष्टदमको नक्षत्रैर्यश्च जीवति ।

पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च ॥ १५२ ॥

भाष्य — हस्त्यादीनां विनेता दमकः गतिशिक्षयिता । नक्षत्रैर्यश्च जीवति । नक्षत्रशब्देन ज्योतिःशास्त्रं लक्ष्यते, तेन जीवति ज्योतिषिकः ।

पक्षिणां श्येनादीनां आखेटार्थं पोषयिता ।

युद्धाचार्यो धनुर्वेदोपदेशकः ॥१५२ ॥

हिन्दी – हाथी, घोड़ा तथा ऊँट को शिक्षित करने ( सिखाने वाला, ज्योतिषी, चिड़ियों को ( स्वयं क्रीडा के लिये या बेचने के लिये ) पालन - पोषण करने वाला, युद्ध की शिक्षा देने वाला —॥१५२ ॥

स्रोतसां भेदको यश्च तेषां चावरणे रतः ।

गृहसंवेशको दूतो वृक्षारोपक एव च ॥ १५३ ॥

भाष्य — ‘ स्रोतांसि ’ उदकागमाः तेषां भेदकः सेतुं भित्वा देशान्तरे ब्रीह्यादि-सेकार्थं नयति । तेषां च स्रोतसामेव चावरणे रतः । ' आवरणं ' आच्छादनम् । यतः प्रदेशादुदकमुद्भवति तत् स्थगयति । गृहाणां सन्निवेशोपदेशकः, वास्तुविद्याजीवी, रथपतिः सूत्रधारादिः । न त्वात्मनो

पृष्ठ 446

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 446 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३७० गृहाणां सन्निवेशयिता । मनुस्मृतिः [ तृतीयः दूतो राज्ञः प्रेष्यो दासवद्विनियोज्यः । दूतस्तु सन्धिविग्रहादावेव प्रेष्यते । वृक्षान् रोपयति, मूल्येन । धर्मार्थं तु न दोषः, अविगर्हिताचारत्वात् । विहितं वृक्षारोपणं “ दशाम्रवापी नरकं न याति ॥ १५३ ॥

हिन्दी – बहने वाले झरना, तालाब, नहर या नदी आदि के बाँध या पुल को तोड़कर दूसरी तरफ ले जाने वाला, तथा उन ( नदी, नहर आदि ) के प्रवाह को रोकने वाला, घर बनाने की जीविका वाला, ) ( घरों का ठेकेदार या राजमिस्त्री आदि ), दूत ( वेतन लेकर ), पेड़ों को लगाने वाला ॥ १५३ ॥

श्वक्रीडी श्येनजीवी च कन्यादूषक एव च ।

हिंस्रो वृषलवृत्तिश्च गणानां चैव याजकः ॥ १५४ ॥

भाष्य — श्वभिः क्रीडति श्वक्रीडी । क्रीडार्थं शुनो बिभर्त्ति । श्येनैर्जीवति क्रयविक्रयादिना । प्रागुक्तः पक्षिणां पोषकः पञ्जरादिसंस्थितानां धारयिता । कन्यामकान्यां यः करोति स कन्यादूषकः । हिंस्रः: स्वभावक्रूरः वधरतः । वृषलवृत्तिः शूद्रेभ्यः सेवादिना यो जीवति । वृषलपुत्र इति पाठान्तरम् । केवला एव वृषलाः पुत्रा यस्य । “ शूद्रापत्यैश्च

केवलैः ” इति गर्हिताचारः ।

गणानां देवतायाजकः । गणयागाः प्रसिद्धाः ॥१५४ ॥

-हिन्दी – कुत्तों से क्रीडा करने वाला, बाजपक्षी से जीविका चलाने वाला, कन्या को ( सम्भोगादि से ) दूषित करने वाला, हिंसक, सूद से जीविका चलाने वाला, गण-यज्ञ ( विनायकशान्ति आदि ) करने वाला - ॥१५४ ॥

आचारहीनः क्लीबश्च नित्यं याचनकस्तथा ।

कृषिजीवी श्लीपदी च सद्भिर्निन्दित एव च ॥ १५५ ॥

भाष्य —– आचारो गृहाभ्यागतानाम् पूजादिप्रयुक्तिर्लौकिकसमाचार:, तेन वर्जितः । क्लीबोऽल्पसत्वः, भग्नोत्साहः कर्तव्येषु । याचनकः सदैव यो याचते, यश्च याञ्च्या परानुद्वेजयति । वस्तुस्वभावोऽयं याञ्च्या याच्यमानोद्वेजनम् । ' नन्द्यादिभ्यो युः ' ( पाणिनि ३ | १ | १३४ ), स्वार्थे कः । कृषिजीवी स्वयंकृतया कृष्या जीवति सति चोपायान्तरे अस्वयंकृतयाऽपि । श्लीपदी एकः पादो महान् यस्य ।

पृष्ठ 447

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 447 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता सद्भिनिन्दितः दुर्भगः, विनाऽपि दोषेण सतां द्वेष्यः ॥१५५ ॥

३७१ हिन्दी - आचरणहीन गुरु - पिता आदि के आने पर अभ्युत्थान प्रणामादि सदाचार का पालन नहीं करने वाला ), नपुंसक ( धर्मकार्य आदि में उत्साहहीन ), सदा याचना करने वाला, ( अन्य वृत्ति के सम्भव होने पर भी स्वयं ) किसानी ( खेती ) करने वाला, हाथी पाँव का रोगी ( जिसके पैर बहुत मोटे हाथी के पैर के समान हो जाते हैं ), किसी कारण से सज्जनों से निन्दित - ॥ १५५ ॥

औरभ्रिको माहिषिकः परपूर्वापतिस्तथा ।

प्रेतनिर्यापकश्चैव वर्जनीयाः प्रयत्नतः ॥ १५६ ॥

भाष्य – ' उरभ्रा ' मेषास्तैश्चरति क्रयविक्रयादिना व्यवहरति, तद्धनप्रधानो वा । एवं माहिषिकः । परः पूर्वो यस्याः, तस्याः ' पतिः ' भर्ता । या अन्यस्मै दत्ता अन्येन वा ऊढा तां पुनः यः संस्करोति, पुनर्भवति भर्त्ता पौनर्भवो नरो भर्त्ताऽसावितिशास्त्रेण ।

प्रेतान् यो निर्यापयति वहति ।

एते यत्नतो वर्जनीयाः ॥१५६ ॥

हिन्दी – भेड़े तथा भैंसे की जीविका करने वाला, विधवा का पति, धन लेकर मुर्दे को बाहर निकालने या फेंकने वाला, इनको प्रयत्न- पूर्वक ( देवयज्ञ तथा पितृश्राद्ध में ) छोड़ देना चाहिये ॥१५६ ॥

एतान्विगर्हिताचारानपाङ्केयान्द्विजाधमान् ।

द्विजातिप्रवरो विद्वानुभयत्र विवर्जयेत् ॥ १५७ ॥

भाष्य — विगर्हितो निन्दितः आचारः कर्मानुष्ठानमेषामिति । काणादयः पूर्वदोष-लिङ्गेन । स्तेनादयोऽनुभूयमानदोषाः प्रत्यक्षादिना । उभयत्र दैवे पित्र्ये च । वर्जयेत् परिहरेत् अपाङ्केयाः, पङ्क्तिं नार्हन्ति । भावार्थे ढक्कर्तव्यः । अनर्हत्वमेव पङ्कावभवनेन प्रतीयते । अन्यैब्राह्मणैः सह भोजनं नार्हन्ति । अत एव ‘ पङ्गिदूषका ’ उच्यन्ते न्ततः । तैः सहोपविष्टा अन्येऽपि दूषिता भवन्ति ॥ १५७ ॥

हिन्दी – इन ( ३।१४०-१५६ ) निन्दित, अपाङ्क्तेय ( पङ्क्ति को दूषित करने वाले ) और द्विजों में अधम ( नीच ) ब्राह्मणों को विद्वान् मनुष्य दोनों ( हव्य - देवयज्ञ तथा कव्य - पितृश्राद्ध ) में वर्जित करे ( नहीं भोजन करावे ) ॥१५७ ॥

पृष्ठ 448

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 448 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३७२ मनुस्मृतिः मूर्ख ब्राह्मण को हविर्दान की निष्फलता-ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति । [ तृतीयः तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ॥ १५८ ॥

भाष्य — यथैते स्तेनादयः पङ्गिदूषकाः – एवमनधीयानस्तत्तुल्यदोष इत्येवमर्थं पुनर्वचनम् । अन्ये तु व्याचक्षते । अधीयानानां काणादीनामसति वर्तमाने विगर्हिताचारत्वे दैवे कदाचित्प्राप्त्यर्थम् । ‘ अनधीयानो ब्राह्मणो वर्ण्यः, यस्तु अधीते तस्मै हव्यं किमिति न दीयते’– एवमर्थमेवात्र हव्यग्रहणम् । हव्ये अनधीयानः केवलो वर्ज्यः । ये च दृश्यमानगर्हिताचाराः । अतो ये च वचनेन उभयत्र प्रतिषिद्धास्ते दैवे पित्र्ये च वर्ज्याः, न तु पित्र्य एव । तथा च वसिष्ठः-“ अथ चेन्मन्त्रविद्युक्तः शारीरैः पङ्क्तिदूषणैः । अदूष्यं तं यमः प्राह पङ्गिपावन एव सः ” । इति ॥ तृणाग्निरिव शाम्यतीति । तृणाग्निर्यथा न शक्नोति हवींषि पक्तं, हुतमात्रेण हविषा शाम्यति उद्वाति च । यस्मिन्नग्नौ हुतं न भस्मीभवति । न ततो होमात्फलम् । एवं हि श्रूयते “ असमिद्धे न होतव्यम् । अग्निर्वै सर्वा देवता ” इति । एवमनधीयानो ब्राह्मणस्तृणाग्नितुल्यः । एतदेवाह न हि भस्मनि हूयत इति । यथा तृणाग्निः प्राग् भस्मीभवति, न तत्र हूयते, एवं तादृशो ब्राह्मणो न भोज्यते ॥१५८ ॥

हिन्दी – जैसे तृण की अग्नि ( हविष्य डालने अर्थात् हवन करने पर ) बुझ जाती है ( और उनमें हवन करना व्यर्थ होता है ), वैसे ही वेदाध्ययन से हीन ब्राह्मण है, अतएव उसे देवतोद्देश्य से हविर्दान नहीं करना चाहिये; क्योंकि भस्म में हवन नहीं किया जाता है ॥१५८ ॥

विमर्श — ‘ श्रोत्रियायैव देयानि ' ( ३।११८ ) वचन से ही यद्यपि वेदाध्ययनहीन ब्राह्मण के लिए हविर्दान का निषेध कहा जा चुका है, तथापि स्तेनादि के समान इसे ( वेदज्ञान हीन को ) भी पङ्क्तिदूषकता बतलाने के लिए यह वचन फिर से कहा गया है । अन्याचार्यों का यह मत है कि ' यदि वेदमन्त्र ज्ञाता ब्राह्मण शारीरिक ( काणत्व आदि ) पङ्क्तिदूषक दोषों से युक्त हो तो उसे ' यम ' दोषहीन बतलाते हैं और वह पङ्गिपावन ही होता है ' इस वसिष्ठ वचनानुसार ' देवकार्य में मूर्ख का ही त्याग करना चाहिए और १. अत एव वशिष्ठः-अथ चेन्मन्त्रविद्युक्तः शारीरैः पङ्गिदूषणैः । अदूष्यं तं यमः प्राह पङ्क्तिपावन एव सः ॥ इति ( म ० मु ० ) ।

पृष्ठ 449

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 449 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३७३ वेदाध्ययनशील काण ( काना एक आँख से हीन ) आदि दोषयुक्त ब्राह्मण का त्याग नहीं करना चाहिए, इसीलिए यह वचन ( ३।१५८ ) कहा गया है I

अपङ्क्त्यदाने यो दातुर्भवत्यूर्ध्वं फलोदयः ।

दैवे कर्मणि पित्र्ये वा तं प्रवक्ष्याम्यशेषतः ॥ १५ ९ ॥

भाष्य — अस्य प्रतिषेधविधेः फलमाह । पङ्क्तिमर्हन्तीति ‘ पङ्क्त्याः ’, न पङ्क्त्याः ‘ अपङ्क्त्याः ’ । दण्ड्यादिदर्शनाद्रूपसिद्धिः । तेभ्यो दाने यः फलोदयः फलोत्पत्तिर्भवति दातुः, तं सर्वमिदानीं ब्रवीम्यवहिता भवतेति ॥ १५ ९ ॥ हिन्दी – ( भृगु मुनि महर्षियों से कहते हैं कि ) पङ्गिदूषक ( पाँत को दूषित करने वाले ( ३।१४०-१५७ ) ब्राह्मणों को ( हव्य - कव्य का ) दान देने के बाद जो फलोदय होता है, उसे कहूँगा ॥१५९ ॥

पङ्गिदूषक के लिए दानादि का निषेध-अव्रतैर्यद्विजैर्भुक्तं परिवेत्रादिभिस्तथा ।

अपाङ्केयैर्यदन्यैश्च तद्वै रक्षांसि भुञ्जते ॥ १६० ॥

भाष्य — अव्रताः असंयताः शास्त्राचारवर्जिताः । परिवेत्तृप्रभृतयो यद्यपि शास्त्रबाह्यास्तथापि भेदेन स्मरणार्थं दोषगुरुत्वार्थं वा कथ्यन्ते । अन्ये चापाङ्केयाः काणश्लीपद्यादयः । तैर्यदन्नं भुक्तं श्राद्धे भवति, तद्रक्षांसि देवद्विषो भुञ्जते, न च पितरः | अतो

निष्फलं तच्छ्राद्धं भवतीत्युक्तं भवति ।

रक्षोग्रहणमर्थवादः ॥१६० ॥

हिन्दी —– वेदाध्ययन व्रत से हीन परिवेत्ता ( ३।१६१ ) आदि तथा अन्य अपाङ्क्तेय ( पङिक्तदूषक स्तेन आदि ३। १४०-१५७ ) ब्राह्मण जो ( हव्य - कव्य ) भोजन करते हैं; उस ( हव्य - कव्य ) को राक्षस भोजन करते हैं ( वह श्राद्धादि कार्य निष्फल होता है । अतः इनको श्राद्धादि में भोजन नहीं करना चाहिये ) ॥१६० ॥

परिवेत्ता तथा परिवित्ति का लक्षण-दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते ।

परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥ १६१ ॥

भाष्य - अग्रे आदौ जातः अग्रजः सोदर्यो भ्रातोच्यते । एवं हि पठ्यते— “ पितृव्यपुत्रान् सापत्नान्परनारीसुतांस्तथा । मनु I- 28

पृष्ठ 450

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 450 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३७४ मनुस्मृतिः [ तृतीय: दाराग्निहोत्रसंयोगे न दोषः परिवेदेने ” इति । अत्र सोदर्योऽग्रजः । तस्मिंस्थितेऽकृतदाराग्निसंयोगे ' तिष्ठतिः ’ प्रकृतव्यापारनिवृत्तौ प्रयुक्तः । अग्निहोत्रशब्दः कर्मवचनोऽपि तदर्थेऽग्न्याधाने वर्तते । स्मृत्यन्तरे विशेषः पठ्यते—

“ उन्मत्तः किल्बिषी कुष्ठी पतितः क्लीब एव च ।

राजयक्ष्माऽऽमयावी च न योग्यः स्यात्प्रतीक्षितुम् ” ॥

एतदप्यनधिकारोपलक्षणार्थम् । अतश्चापाङ्केयोपि गृह्यते । कालविशेषोऽधिको व्यपेक्ष्यते । तथा च स्मृतिः – “ अष्टौ वर्षाण्युदीक्षेत, षडित्येक ” इति ( गौ ० सू ० १८ । १ ९ ) । एषा च वर्षसंख्या यदा कनीयान् प्राप्तविवाह-कालः ततःप्रभृति द्रष्टव्यः । विवाहकालश्च स्वाध्यायविधिनिवृत्तिः । “ ननु च प्रोषिताधिकारे तत्पठितम् । भर्तरि प्रोषिते यः स्त्रीणां प्रवासकालस्तमुप-क्रम्य भ्रातरीत्यादि पठितम् ” सत्यम् । वाक्यान्तरे प्रोषितशब्दस्य प्रत्यक्षः सम्बन्धोऽवगतः । वाक्यान्तरे तु सम्बन्धे प्रमाणं वक्तव्यम् । न च तदस्ति । " यथा स्वरितेनाधिकार इति ” । न चात्र तच्छब्दोऽस्ति । न च तदपेक्षया विनैव तस्य वाक्यस्यापरिपूर्णत्वम् । वसिष्ठेन चाविशेषेणाग्निशब्देन स्मार्तस्याप्यग्नेर्ग्रहणं कृतम् । केचित्पितर्यप्यकृताधाने विधिमिच्छन्ति । अग्रजशब्दस्य यौगिकत्वात् पिताऽ-प्यग्रजो भवतीति । यद्येवमन्योऽपि योऽग्रजस्तत्राप्येवं प्राप्नोति । न चायमग्रजानुजव्यवहारः पिता-पुत्रयोर्विद्यते । स्मृत्यन्तरेऽपि तु पठ्यते ( गौ ० सू ० १८।१८ ) “ भ्रातरि च ज्यायसीति ” । परिवित्तिः पूर्वजो ज्येष्ठः ॥१६१ ॥

हिन्दी – जो छोटा भाई बड़े भाई के अविवाहित रहते अग्निहोत्र नहीं लेने पर ही अपना विवाह तथा अग्निहोत्र ग्रहण कर लेता है, वह ( छोटा भाई ) ‘ परिवेत्ता ' तथा बड़ा भाई ' परिवित्ति कहलाता है ॥१६१ ॥

परिवेत्ता आदि को असत्फल प्राप्ति-परिवित्तिः परीवेत्ता यया च परिविद्यते ।

सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥ १६२ ॥

भाष्य – प्रसङ्गात्परिवेदनसम्बन्धिनामन्येषामपि दोषदर्शनद्वारेण निषेधं करोति । निषेधपरिवर्जितः परिभूतो वा वेदनेन परिवित्तिः । परिवर्ज्यं ज्येष्ठं करोति परिवेदनं