मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 461–470
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 461–470
पृष्ठ 461
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३८५ भाष्य — केतित उपनिमन्त्रितः । हव्ये कव्ये दैवे पित्र्ये च । अङ्गीकृत्य निमन्त्रणमभ्युपगम्य श्राद्धभोजनम् । यदि कथञ्चिदतिक्रामति, भोजनकाले न सन्नि-धीयते, ब्रह्मचर्यं च न रक्षति, तदा सूकरतां गच्छति स ब्राह्मण: । कथञ्चित्कामाद्विस्मृत्य वा । यथान्यायमिति वृत्तपूरणम् । अन्ये त्वाहुः । प्रार्थ्यमानस्यानभ्युपगम एव ' अतिक्रमः ' । तथा च श्राद्धकल्पे उक्तम् “ अनिन्दितेनामन्त्रितो नातिक्रामेत् ” इति । शास्त्रतः । तत्रासस्वा एतच्चायुक्तम् । लिप्सया प्रवृत्तिः श्राद्धे, न पुनः शास्त्रतः । तत्रासत्यां लिप्सायां यदि नाङ्गीकरोति तदा को दोषः ॥१८० ॥
हिन्दी — हव्य - कव्य ( देवकार्य या पितृश्राद्ध ) में विधिवत् निमन्त्रित ( तथा उस निमन्त्रण को स्वीकार किया हुआ ) ब्राह्मण किसी कारण से भी भोजन नहीं करने पर उस पाप से ( दूसरे जन्म में ) सूअर होता है ॥ १८० ॥
निमन्त्रित ब्राह्मण को शूद्रा- गमन का ( विशेष ) निषेध -आमन्त्रितस्तु यः श्राद्धे वृषल्या सह मोदते । दातुर्यद्दुष्कृतं किञ्चित्तत्सर्वं प्रतिपद्यते ॥ १८१ ॥
भाष्य—– वृषलीशब्दः स्त्रीमात्रोपलक्षणार्थ:, सामान्येन ब्रह्मचर्यस्य विधानात् । अतो ब्राह्मण्यपि वृषल्येव । वृषस्यति चालयति भर्तारमिति यौगिकत्वं दर्शयति । अतोऽयमर्थः । भोजनमङ्गीकृत्य तदहः यः स्त्रिया सह मोदते रमते, तथा सह सुरत-सम्भोगेच्छया संलापालिङ्गनाद्यपि यो जनयति, तस्यायं दोषः । दातुः श्राद्धस्य कर्तुः । यद्दुष्कृतं पापं किञ्चित्तत्सर्वं तस्मिन् सङ्क्रामति । अनिष्ट-फलयोगमात्रमनेन निर्दिश्यते । अन्यथा यत्र दाता पुण्यकृत् तत्र न कश्चिद्दोषः
स्यात् । ‘ मोदनं ’ हर्षोत्पत्तिः । तेन संलापालिङ्गनाद्यपि न कर्तव्यम् ॥ १८१ ॥।
हिन्दी — श्राद्ध में निमन्त्रित जो ब्राह्मण शूद्रा के साथ सम्भोग करता है, वह श्राद्धकर्त्ता के पापों को प्राप्त करता है ॥ १८१ ॥
विशेष — यदि श्राद्धकर्त्ता पापी नहीं होता तब भी वह ब्राह्मण पापभागी होता ही है । ‘ नियतात्मा— ' ( ३।१०७ ) से मैथुन निषेध करने पर भी विशेषदोष - प्रदर्शनार्थ यह वचन है तथा मेधातिथि और गोविन्दराज के मत से " निमन्त्रित - ( ३।१७८ )
श्लोक से सामान्यतः मैथुन का निषेध करने पर निमन्त्रित ब्राह्मण की विवाहिता
समान वर्ण की पत्नी के साग्रह सम्भोग की इच्छा करने वाली होने पर ' शूद्रा ' अर्थात्
पृष्ठ 462
पाठ पढ़ें पाठ छिपाएँ
३८६ मनुस्मृतिः [ तृतीय: शूद्रा के तुल्य है । अत: ऐसी ब्राह्मणी के साथ में भी सम्भोग करने पर उक्त दोष होता है " यह अर्थ है ।
श्राद्धभोक्ता को क्रोधादि करने का निषेध-अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः ।
न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः ॥ १८२ ॥
भाष्य — अक्रोधनाः क्रोधवर्जिताः । शौचपराः । ‘ शौचं ’ शुद्धता मृद्वारिभ्यां प्रायश्चित्तेनान्तः शुद्ध्या वा । सततं शुद्धेर्विशेषणम् । तेन निष्ठीवनादावाचमनादि तत्क्षणमेव कर्तव्यम् । ब्रह्मचारिणः स्त्रीसम्भोगं परिहरन्ति । न्यस्तशस्त्राः । न्यस्तं त्यक्तं शस्त्रं यैः । शस्त्रग्रहणं दण्डपारुष्योपलक्षणार्थम् । महाभागाः । औदार्यधनित्वादिगुणयोगो ‘ महाभागता ’ । अत एवंविधं पितॄणां रूपं, ते च ब्राह्मणानाविशन्ति, अतस्तैस्तद्रूपधारिभिर्भवित-व्यमित्यर्थवादेनायमर्थो विधीयते । पूर्वदेवताः पितरो नाम, कल्पान्तरेऽप्येते देवता एवेति स्तुतिः । पूर्वकालं पितॄणामर्चनीयत्वात्पूर्वग्रहणम् ॥१८२ ॥
हिन्दी - पितर लोग क्रोधरहित, ( मिट्टी तथा पानी से ) बाहरी एवं ( राग - द्वेषादि शून्य अन्त: करण से ) भीतरी शुद्धि रखने वाले, नित्य ब्रह्मचारी, युद्ध से पराङ्मुख और दया आदि गुणों से युक्त सृष्टि के आदि काल से ही देवतारूप हैं । ( अत एव श्राद्ध में भोजन करने वाले ) ब्राह्मण तथा श्राद्ध करने वाले यजमान को भी वैसा ही ( पितरों के समान ही क्रोधरहित आदि गुणों से युक्त ) होना चाहिए ॥१८२ ॥
पितरों की उत्पत्ति-यस्मादुत्पत्तिरेतेषां सर्वेषामप्यशेषतः ।
ये च यैरुपचर्याः स्युर्नियमैस्तान्निबोधत ॥ १८३ ॥
भाष्य – यत एतेषां पितॄणामुत्पत्तिर्ये च पितरो यैरुपचर्याः || ब्राह्मणेन सोमपाः, क्षत्रियेण हविष्मन्तः इत्यादि । तत्सर्वमप्यशेषत इदानीमुच्यमानं निबोधत बुध्यध्यम् । नियमैरित्यनुवादः । पूर्वमेव विहितत्वात् “ नियमात्मा भवेत् ” इति । बहुवचनं बहुत्वान्नियमानाम् ॥१८३ ॥
हिन्दी – ( भृगु मुनि महर्षियों से कहते हैं कि ) इन सब पितरों की जिनसे उत्पत्ति है और ये पितर ब्राह्मणादि के द्वारा जिन नियमों से पूजनीय हैं, उनको सुनिये ॥१८३ ॥।
पृष्ठ 463
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता ३८७
मनोहिरण्यगर्भस्य ये मरीच्यादयः सुताः ।
तेषामृषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः ॥ १८४ ॥
भाष्य — हिरण्यगर्भः प्रजापतिः । तस्य पुत्रो हैरण्यगर्भो मनुः । तथा चोक्तं प्रथमाध्याये— “ एवं सर्वं स सृष्ट्वेदं मां चेति ” । तस्य मनोर्ये मरीच्यादयः पुत्राः अत्र्यङ्गिरसावित्यादयस्तेषामृषीणां यं पुत्रास्त एते पितृगणाः । " ननु च पित्रादयः सर्वस्यात्मीयाः पितरः । एवं हि चोदितं ' पित्रे पितामहाय प्रपितामहाय पिण्डान्निर्वपेत् ' । तथा ' अत ऊर्ध्वं पुत्रास्त्रिभ्यो दद्युरिति ' । तत्र किमिद-मुच्यते — ‘ ऋषीणां पुत्राः पितरः, सोमपा नाम विप्राणामिमि ' । न च विकल्पः शक्यः प्रतिपत्तुं — ‘ सोमपेभ्यो दद्यात्पितृपितामहेभ्यो वेति ’ । यत उत्पत्तौ ‘ पुत्रेण कर्तव्यमिति ' श्रूयते । सम्बन्धिशब्दश्च पुत्रशब्दः । तथा ' पिता यस्य तु वृत्तः स्यादिति ' । तस्माद्वक्तव्योऽस्य प्रकरणस्यार्थः ” । उच्यते । स्तुतिरियं पूर्वविधिशेषभूता । नात्र तेषां सम्प्रदानता श्रुता । " ननु चोपचर्या इति विधिरस्ति ” । नायं चरतिः सामान्यक्रियारूपो विधिविषयो भवितुमर्हति । उपचारो नाम कश्चिद्दानयागादिवद्वेदे न प्रतीयते । प्रायेण ह्ययं करोतिवत् सन्निहितक्रियापरतया प्रयुज्यते । सन्निहितं च श्राद्धम् । तच्च विशिष्टसम्प्रदानकं विहितं न शक्यं पुनर्विधातुं, विधेयत्वेन च न सन्निधिरस्ति असन्निहितस्य चरतिर्बाधकः । योऽपि लोके ' गुरव उपचर्या ' इतिप्रतियोगस्तत्रापि शुश्रूषालक्षणार्थ: पादधावनादिः प्रतीयते । सोऽपि यथोदितानां पितॄणां न सम्भवति । प्रकृत्यैकवाक्यतया चार्थवत्तोपपत्तेर्नार्थान्तरकल्पनाऽपि सम्भवति । यदि च सोमपादयो यथावर्णं श्राद्धे वेदतात्वेनाभिप्रेताः स्युस्ततोऽ-भिजनवर्णनमुपयोगि । स्तावकत्वे तु सर्वमुपपद्यते । यः कश्चित्पितृद्वेषात्पित्र्ये कर्मण्युपहतबुद्धिरनादरवान्त्यात्तस्य प्रवृत्त्यर्थमिदमार-भ्यते । मैवं मंस्थाः ‘ मृतमनुष्यरूपाः पितरः, ये न तर्पिताः, श्राद्धे कं दोषं करिष्यन्ति, तर्पिता वा कं गुणमिति ' । यत एते महाप्रभावाः । सर्वस्य जगतः प्रभुर्हिरण्यगर्भस्तस्य पुत्रो मनुः तस्यैते पौत्राः । अत एव ऋषीणां चेत्युच्यते । न मनोर्ये केचिदन्ये पुत्राः, किंतर्हि ऋषयस्ते च प्रथितप्रभावाः मरीच्यादयः । तेषां पुत्राः ' पितरः ' । बहुविधाश्च प्रतिपत्तारो य एतादृशेभ्योऽर्थवादवाक्येभ्यः प्रवर्तन्तेतराम् । ये च व्याचक्षते— “ सोमपादिदृष्टिः पितृषु कर्तव्येति ” – ते प्रमाणाभावादु-पेक्षणीयाः । न हि यथाऽऽदित्ये ब्रह्मदृष्टिरुपदिश्यते एवमिह तादृशं किञ्चन वचनमस्ति । येऽप्याहुः ‘ गृहीत्वा गोत्रनामनी पितृभ्यो दद्यादिति, तच्चैतद्गोत्रं सोमपाः इत्यादि-
पृष्ठ 464
पाठ पढ़ें पाठ छिपाएँ
३८८ मनुस्मृतिः [ तृतीयः वर्णभेदेन ” । तदप्ययुक्तम् । नामनिर्देशोऽयं न गोत्रनिर्देशः, सोमपानामितिश्रवणात् । “ गोत्रनामधेयत्वेऽपि नामशब्द उपपद्यत एवेति चेत् । एवं तर्हि गोत्रनिर्देशे वैयधिक-रण्यं स्यात्, ‘ पितॄणां सोमपा गोत्रमिति ', न तु पितरः सोमपा इति । “ अथाभेदोपचारेण गोत्रेण सन्तानव्यपदेशो दृष्ट इत्युच्यते । यथा बभ्रुर्मन्दुरिति ” । अत्रोच्यते । इदमिह निरूप्यं किमेतद्गोत्रं नाम । आदिपुरुषः संज्ञाकारी विद्यावित्तशौर्यौदार्यादिगुणयोगेन ख्याततम:, येन कुलं व्यपदिश्यते । एवं तर्हि सर्वेषामेव ब्राह्मणादीनामवान्तरगोत्रभेदाः सन्तीति । स्मरन्ति च यादृशं पुरुषं तत्सन्तानजाः पुरुषा ' वयममुष्य कुले जाता ' इत्यतस्तेनैव व्यपदेशो युक्त: । न हि ‘ सोमपा वयमिति ' कश्चिद्गोत्रत्वेन सोमपान्स्मरति, यथा भृगुगर्गगालवान् । ब्राह्मणानां च तैरेव गोत्रव्यपदेशो युक्तः । तानि हि मुख्यानि गोत्राणि । रूढिरूपेण तत्र गोत्रशब्दः प्रवर्तते । न हि तेषां गोत्रत्वे एतल्लक्षणमस्ति ' आदिपुरुषः संज्ञाकारी गोत्रमिति ' । अनादित्वादेतद्गोत्राणां, ब्राह्मणादिजातिवत् । न हि पराशरजन्मत ऊर्ध्वं पाराशरव्यपदेशः केषाञ्चिद्ब्राह्मणानाम् । एवं सति आदिमत्ता वेदस्य प्रसज्येत । अतो नित्यत्वादेतस्य गोत्रव्यपदेशस्योदकतर्पणादौ तदेव गोत्रं श्रयितव्यम् । ये तु संज्ञाकारिणस्ते न नित्याः, इदानींतनाः । न च नित्ये सम्भवत्यनित्यसोमपादानं वैदिके कर्मणि युक्तम् । अतो ब्राह्मणैर्यथागोत्रं गार्ग्याय गर्गगोत्राय वा स्वधा इदं उदकमस्त्विति एवमादिशब्देनोद्देशं कृत्वा ततो नामोच्चार्य उदकदानादि कर्तव्यम् । क्षत्रियादीनां नैतादृशो गोत्रव्यवहारो विद्यते । न हि यथा ब्राह्मणो गोत्रं नियतं स्मरति, एवं क्षत्रियादयः । तस्मात्तेषां लौकिकमेव गोत्रम् — आदिपुरुषः संज्ञाकारी ख्याततम इति । अतस्तेन गोत्रेण श्राद्धादौ व्यपदिश्यन्ते आदिमताऽपि नामधेयेनैव । न तु तेषां क्षत्रियाणां हविर्भुगित्यादिगोत्रतया श्राद्धादौ व्यपदेशमर्हन्ति । येऽप्याहुः– “ अज्ञातपित्रादिनामका ये तेषामेतैः शब्दैः श्राद्धादि चोद्यते ' सोम-पानाह्वयामि सोमपेभ्यः स्वधेति ' – एतदपि न सम्यक् । उक्तं हि " नामान्यविद्वांस्ततः पितामहप्रपितामहेति ” ।
यदि चार्थवादतया न प्रकृतशेषत्वेनार्थवत्ता लभ्येत, तत एव कल्पा आश्रियेरन् ।
न त्वेकवाक्यतयाऽन्वये सम्भवति वाक्यभेदकल्पनेनार्थो न्याय्यः ॥ १८४ ॥
हिन्दी — हिरण्यगर्भ ( ब्रह्मा ) के पुत्र मनु के जो मरीचि तथा अत्रि आदि ( ऋषि ) पुत्र पहले ( १।३४ ) कहे गये हैं, उन ऋषियों ( सोमपा आदि ) के पुत्र पितर कहे गये हैं॥१८४ ॥
विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः ।
अग्निष्वात्ताश्च देवानां मारीचा लोकविश्रुताः ॥ १८५ ॥
पृष्ठ 465
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता ३८ ९ भाष्य – श्राद्धार्थवादा अमी श्लोकाः, अशेषेणैकवाक्यत्वात् । न हि साध्यानां पितरः श्राद्धसम्प्रदानं शिष्यन्ते । देवतात्वात् साध्यानाम् । देवतानां च न कर्मस्वधिकारो, नियोज्यत्वाभावात् । न हि देवता नियोक्तुं शक्यते देवतात्वहानिप्रसङ्गात् । अधिकारे सति प्रतिपत्तव्यं कर्तृत्वम् । कर्तृत्वे च कुतः सम्प्रदानभावः । न चान्यद्देवतारूपम् । विराजः सुताः विराट्सुताः सोमसदो नाम, ते साध्यानां पितरः । ईदृशमेव नित्यं कर्मावश्यं कर्तव्यम् – यत्साध्याः पूर्वदेवाः कृतकरणीया अपि पितॄनर्चयन्ति । अग्नौ पक्वं चरुपुरोडाशादिकं स्वदन्ते अग्निष्वात्ताः देवानामिन्द्राग्न्यादीनां
पितरः । मरीचेर्जाता मारीचाः ।
लोकविश्रुताः प्रसिद्धाः ॥१८५ ॥
हिन्दी – विराट् के पुत्र ' सोमसद् ', साध्यों के पितर हैं और मरीचि के पुत्र लोक - प्रसिद्ध अग्निष्वात्त, देवों के ( पितर हैं ) ॥१८५ ॥
दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
सुपर्णकिन्नराणां च स्मृता बर्हिषदोऽत्रिजाः ॥ १८६ ॥
भाष्य - सर्व एते दैत्यादयः शास्त्रानधिकृताः अर्थवादार्थं सङ्कीर्त्यन्ते । तेषां च स्वरूपमितिहासप्रसिद्धम् । सुपर्णा पक्षिविशेषाः । किन्नरा अश्वमुखास्तिर्यञ्चः । एवंविधमेतत्पित्र्यं कर्म यद्दैत्यदानवरक्षांसि यज्ञविध्वंसकराण्यपि नातिवर्तन्ते
तथा तिर्यञ्चोऽप्यसंज्ञास्मृतिकाः ।
अर्जाता बर्हिषदो नाम ॥ १८६ ॥
हिन्दी — अत्रि के पुत्र बर्हिषद् – दैत्य, दानव, यक्ष, गन्धर्व, उरग ( सर्प, नाग ), राक्षस, सुवर्ण और किन्नरों के ( पितर ) हैं ॥१८६ ॥
सोमपा नाम विप्राणां, क्षत्रियाणां हविर्भुजः ।
वैश्यानामाज्यपा नाम, शूद्राणां तु सुकालिनः ॥ १८७ ॥
भाष्य — उक्तार्थः प्रागेवायं श्लोकः । सोमं पिबन्ति ज्योतिष्टोमादिदेवता इन्द्रादयः । हविर्भुजश्चरुपुरोडाशादिदेवताः । आज्यपा आघारावाज्यभागप्रयाजादिदेवताः । सुकालिनः । कालयन्ति अप-वर्जयन्ति कर्मेति ‘ सुकालिनः ' । कर्मापवर्गहोमदेवता “ अयाश्चाग्नेस्यनभिशस्तीत्यादि ’ ” विहिताः ॥१८७ ॥
मनु I- 29
पृष्ठ 466
पाठ पढ़ें पाठ छिपाएँ
३ ९ ० मनुस्मृतिः [ तृतीय: हिन्दी – सोमपा ब्राह्मणों के, हविर्भुज् ( अग्नि ) क्षत्रियों के, आज्यप वैश्यों के -और सुकाली शूद्रों के ( पितर ) हैं ॥१८७ ॥
सोमपास्तु कवेः पुत्रा हविष्मन्तोऽङ्गिरः सुताः ।
पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः ॥ १८८ ॥
भाष्य - हविर्भुज एव हविष्मन्तः । कविर्भृगुः । ‘ काव्यं वदन्त्युशनसमिति ' स्मरन्ति भार्गवम् । यथैता देवता ऋषीणां पुत्रा एवं त्वदीयाश्चापि पितरो देवतारूपा एवेति माऽवमंस्थाः ॥१८८ ॥
हिन्दी – सोमपा कवि ( भृगु ) के पुत्र हैं, हविर्भुज् ( अग्नि ) अङ्गिरस् के पुत्र हैं, आज्यप पुलस्त्य के पुत्र हैं और सुकाली वसिष्ठ के ( पुत्र हैं ) ॥१८८ ॥
अनग्निदग्धानग्निदग्धान्काव्यान्बर्हिषदस्तथा I अग्निष्वात्तांश्च सौम्यांश्च विप्राणामेव निर्दिशेत् ॥ १८ ९ ॥ भाष्य - अनग्निदग्धः सोमः । न ह्यग्निना तस्य पाकोऽस्ति । तेन या देवता इज्यन्ते ता अप्यनग्निदग्धाः समृद्धास्तद्गुणत उच्यन्ते । एवमग्निदग्धानि चरुपुरोडाशादीनि हवींषि अग्निना पच्यन्ते । तैर्या देवता इज्यन्ते ता अग्निदग्धाः । पूर्ववदेवमभिसम्बन्धः क्रियते । ये अग्निदग्धा उच्यन्ते तानग्निदग्धान्निर्दिशेत् । ये अनग्निदग्धास्तान्त्सोमपानेव निर्दिशेत् । एवं काव्यान्बर्हिषद इति । कवेः पुत्राः काव्यास्ते च “ सोमपास्तु कवेः पुत्राः ” इत्युक्ताः । बर्हिषदोऽत्रिजा उक्ता: । नायमेवकारो यथादेशं द्रष्टव्यः । तथा ह्ययमर्थः स्यात् विप्राणामेवेति पितरो, न क्षत्रियादीनाम् । तच्च प्रागुक्तेन विरुध्येत । न चैते वर्णभेदेन पितृत्वेनोक्ताः, येन तस्मादाच्छिद्य ब्राह्मणादिसम्बन्धिता एषामुच्येत । तस्मादपकृष्य एवकारोऽग्निष्वात्तानेव सौम्यानेव निर्दिशेदित्येवं सम्बन्धनीयः । विप्रग्रहणमनुवादत्वात्क्षत्रियादिप्रदर्शनार्थम् । एवंनामानश्चैते पितरो वेदे श्रूयन्ते “ अग्निष्वात्ताः पितरोयेऽग्निदग्धा ये अन-ग्निदग्धा ” इति तान्मन्त्रानुदाहृत्य विवृणोति । अथवैवं सम्बन्धः क्रियते । ' य एतैः शब्दैः पितर उच्यन्ते तान् विप्राणामेव
पृष्ठ 467
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३ ९ १ निर्दिशेत् स्वपितॄन् । न च शब्दभेदेनार्थभेदशङ्का कर्तव्या ' । विप्रग्रहणमधिकार्युपलक्षणार्थं प्राधान्यात् । प्रधानेन ह्युपलक्षणं भवति ' राजा गच्छतीति ' ॥१८ ९ ॥ हिन्दी - अग्निदग्ध, अनग्निदग्ध, काव्य, बर्हिषद्, अग्निष्वात्त और सौम्य -सब ब्राह्मणों के पितर हैं ॥ १८ ९ ॥ [ अग्निष्वात्ता हुतैस्तृप्ताः सोमपाः स्तुतिभिस्तथा । पिण्डैर्बर्हिषदः प्रीताः प्रेतास्तु द्विजभोजने ॥ २१ ॥ ]
[ हिन्दी — अग्निष्वात्त हवन से, सोमपा स्तुति से, बर्हिषद् पिण्ड - दान से और प्रेत ब्राह्मण - भोजन से तृप्त होते हैं || २१ || ] मुख्यपितृगणों के अनन्त पुत्र - पौत्रादि भी पितर —
य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः ।
तेषामपीह विज्ञेयं पुत्रपौत्रमनन्तकम् ॥ १ ९ ० ॥
भाष्य— एते तु मुख्या गणाः सोमपादयः पितॄणाम् । तेषामपि पुत्रपौत्राः अनन्ता विद्यन्ते । तेऽपि पितर एव । अस्माद्वाऽनियमवचनादेतद्गम्यते न सोमपादय उद्देश्याः । यदि हि तेषामपि पुत्रपौत्रा: ' पितरः ’ तेह्युद्देश्या: स्युः, न च तेषां किञ्चिन्ना-मधेयमाम्नातम् । तस्मादर्थवादतैवावसीयते ।
गवाश्वप्रभृतित्वात्पुत्रपौत्रमित्येकवद्भावः ।
अनन्तकमपरिमितम् । स्वार्थे कः ॥१९ ० ॥
हिन्दी – ( भृगु मुनि महर्षियों से कहते हैं - ) जो ये ( ३।१८४-१८९ ) पितरों के मुख्य • गण ( समूह, मैंने ) कहे हैं, उनके अनन्त पुत्र - पौत्रों को इस संसार में पितर समझना चाहिए ॥ १ ९ ० ॥
ऋषिभ्यः पितरो जाताः पितृभ्यो देवभानवाः ।
देवेभ्यस्तु जगत्सर्वं चरं स्थाण्वनुपूर्वशः ॥ १ ९ १ ॥
भाष्य — न पित्र्यं कर्म दैवात्कर्मणो न्यूनं द्रष्टव्यम् । अति तु तदेव प्रधानतमम् । यतो जन्मज्येष्ठाः पितरो देवानाम् । तथाहि ऋषिभ्यः पितर उत्पन्नाः पितृभ्यो देवा इत्येष सृष्टिक्रमः । देवेभ्योऽन्य-त्सर्वं जगत् चरं जङ्गमं स्थाणु स्थावरं अनुपूर्वशः, प्रथमेऽध्याये उक्तः क्रमः । अतिक्रान्तोऽर्थवादसम्पातः ॥१९ १ ॥ हिन्दी — ऋषियों ( मरीचि आदि ) में पितर उत्पन्न हुए, पितरों से देवता तथा मनुष्य उत्पन्न हुए, देवताओं से चराचर ( चर - जङ्गम - चलने वाला, अचर — स्थिर )
पृष्ठ 468
पाठ पढ़ें पाठ छिपाएँ
३ ९ २ मनुस्मृतिः यह संसार क्रम से उत्पन्न हुआ ॥१ ९ १ ॥ [ तृतीयः विमर्श - उक्त श्लोक में पितरों की उत्पत्ति सोमपा आदि से कही गयी है, पितृश्राद्ध में सोमपा आदि की भी पूजा करनी चाहिये; क्योंकि विधिवत् पूजित ये भी श्राद्ध फल को देने वाले हैं, इन सोमपा आदि का उल्लेख पितृ श्राद्ध का प्रशंसापरक है अथवा श्राद्ध में पिता आदि का आवाहन करते समय सोमपा आदि के रूप में उन ( पिता आदि ) का ध्यान करना चाहिये ।
पितरों के लिये चाँदी का पात्र-राजतैर्भाजनैरेषामथो वा रजतान्वितैः ।
वार्यपि श्रद्धया दत्तमक्षयायोपकल्पते ॥ १ ९ २ ॥
भाष्य - राजनानि च भाजनानि रूप्यमयानि पात्राणि । तदभावे रजतान्वितैः दारुमयानि ताम्रमयानि सौवर्णानि वा रौप्येणैकदेशयुक्तानि कर्तव्यानि । एतच्च पात्रं देयं घृतमध्वादिव्यञ्जनसौहित्याक्षिप्तं पात्रं, तत्रेयं रूप्यमयता विधीयते पात्रे । यच्च पिण्डनिर्वपणादि तद्धस्ताभ्यामेव कर्तव्यम् । यदप्युदकनिनयनं पिण्डेष्ववनेजनादि च तदपि हस्ताभ्यामेव । ' अपसव्येन हस्तेनेति ' वचनात् । यत्तूद-कतर्पणमान्वाहिकं तदपि हस्तेनापसव्येन सव्येन वा कर्तव्यम् । “ इदं हि श्राद्धप्रकरणे पठितम् ” । तन्न । अप्राकरणिकस्य कर्मणोऽङ्गमप्यनारभ्याधीतम् । “ तत्रैव वचनमस्ति ” । भवतु, अनुवादः स्यात् । वार्यपि । अपिशब्दः पात्रप्रशंसां सूचयति । तिष्ठतु तावत्संस्कृतभोजनदानं वारिमात्रमपि यदि रूप्यपात्रेण दीयते तद्रूप्यगुणसम्बन्धादक्षयं भवति । अक्षयायोप-कल्पते । अक्षयायास्तृप्तेर्हेतुर्भवतीथ्यर्थः । श्रद्धयेति सर्वदानेषु विहितत्वादनुवादः ॥१९ २ ॥ हिन्दी — पितरों के लिये चाँदी के या चाँदी से मिश्रित ( ताँबा आदि के बने हुये बर्तनों से श्रद्धापूर्वक दिया हुआ जल भी अक्षय सुख के लिये होता है । ( फिर श्रेष्ठ पायस — दूध की खीर आदि ) भोज्य पदार्थ के दान करने पर कहना ही क्या है? अर्थात् वह तो अत्यन्त अक्षय सुख के लिये होगा ) ॥१९ २ ॥
श्राद्ध की प्रधानता-दैवकार्याद् द्विजातीनां पितृकार्यं विशिष्यते ।
दैवं हि पितृकार्यस्य पूर्वमाप्यायनं स्मृतम् ॥१९ ३ ॥
पृष्ठ 469
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३ ९ ३ देवानुद्दिश्य यत्क्रियते तद्दैवं कार्यम् । ततः पितृकार्यं विशिष्यते, विशेषेण कर्तव्यमुपदिश्यते । अनेन पित्र्यस्य प्राधान्यमाह । दैवं तत्राङ्गं कर्मेत्युक्तं भवति । अङ्गकर्मतामेव स्पष्टयति । दैवं हि यद्ब्राह्मणभोजनं तत्पितृकार्यस्याप्यायनं वृद्धिकरम् । न स्वत: प्रधानं, पित्र्यस्यैव पोषकम् ॥१९ ३ ॥ हिन्दी — देवताओं के उद्देश्य से किये जानेवाले कार्य ( यज्ञ आदि ) से पितरों के उद्देश्य से किया जानेवाला कार्य ( श्राद्ध आदि ) द्विजों के लिये विशेष ( प्रधान ) कर्त्तव्य कहा जाता है; क्योंकि देवकार्य पितृकार्य से पहले होने से पितृकार्य का पूरक ( पूर्ति करने वाला ) माना गया है ( उससे यह सिद्ध होता है कि देवकार्य अङ्ग अर्थात् अप्रधान तथा पितृकार्य अङ्गी अर्थात् प्रधान है ) ॥ १ ९ ३ ॥
पितृकार्य के आद्यन्त में देवकार्य-तेषामारक्षभूतं तु पूर्व दैवं नियोजयेत् ।
रक्षांसि विप्रलुम्पन्ति श्राद्धमारक्षवर्जितम् ॥ १ ९ ४ ॥
भाष्य— रक्षैव आरक्षः, तम्प्राप्तं, आरक्षभूतं आरक्षार्थमित्युक्तं भवति । उपमायां वा भूतशब्दः — रक्षार्थमिव । यदा तु रक्षार्थं अतः पूर्वं दैवं ब्राह्मणं नियोजयेत् निमन्त्रयेत् आसने चोपवेशयेत् । अपारोऽर्थवादः । रक्षांसि अदृश्यानि कानिचित्सत्वानि इतिहासे । क्रिया विप्रलुम्पन्ति आच्छिन्दन्ति पितृभ्यः श्राद्धम् । के “ पुनर्देवा उद्देश्या: ”? गृह्ये तावत् “ विश्वान्देवान् हवामहे ” इतिमन्त्रस्य विनियोगाद्विश्वेदेवाः प्रतीयन्ते । पुराणेऽप्युक्तं “ विश्वेदेवा इति श्रुतिरिति ” ॥१ ९ ४ ॥ हिन्दी — पितरों ( के कार्य ) के रक्षक विश्वेदेव ब्राह्मणों को पहले निमन्त्रित करना चाहिये ( पितृ - श्राद्ध के पहले देवश्राद्ध करना चाहिए ), क्योंकि रक्षा ( देवश्राद्ध ) से वर्जित ( पितृ ) श्राद्ध को राक्षस नष्ट कर देते हैं ॥ १ ९ ४ ॥
दैवाद्यन्तं तदीहेत पित्राद्यन्तं न तद्भवेत् ।
पित्र्याद्यन्तं त्वीहमानः क्षिप्रं नश्यति सान्वयः ॥ १ ९ ५ ॥
भाष्य — आदिश्च अन्तश्च आद्यन्तौ । दैवं आद्यन्तावस्येति दैवाद्यन्तम् । दैवेन कर्मणा आदिरुपक्रमः श्राद्धस्य कर्तव्यः । अतश्च निमन्त्रणं दैवानां पूर्वं कर्तव्यम् ।
पृष्ठ 470
पाठ पढ़ें पाठ छिपाएँ
३ ९ ४ मनुस्मृतिः [ तृतीय: अन्तः समाप्तिः । विसर्जितेषु पित्र्येषु ब्राह्मणेषु पश्चाद्दैवानां विसर्जनं कर्तव्यम् । गन्धादिदानेऽपि दैवोपक्रमतां मन्यन्ते । न तु तेषां पदार्थानां दैवेनोपक्रमसमाप्ती सम्भवतः, आवृत्तिप्रसङ्गात् । प्रयोगधर्मश्चायं दैवाद्यन्तता, न प्रतिपदार्थधर्मः । पदार्थानां तु गन्धमाल्यादीनां दैवोपक्रमता विशेषेण कर्तव्यमुद्दिश्यते । तावत्प्रवृत्तिकेनैव क्रमेण सिद्ध्यति । निमन्त्रणं तावद्दैवपूर्वं कर्तव्यम् । अत एव प्रथमः पदार्थ आरब्धस्तत एवान्येषामारम्भो युक्तः । पदार्थः पदार्थान्तरारम्भं नियच्छति यत: । तदुक्तं ‘ प्रकृत्याकृतकालानां गुणानां तदुपक्रमादिति ' । तच्छ्राद्धकर्म ईहेत कुर्यात् । परिशिष्टोऽर्थवादः । पित्र्याद्यन्तं न तद्भवेत् । दैवाद्यन्तत्वस्य विहितत्वात् पित्र्याद्यन्तप्रतिषेधोऽर्थवादतया लौकिकवाक्यवन्नेयः । लोके हि किञ्चिद्विधाय तद्विपरीतमप्राप्तमपि निषेधति । क्रिया हि द्रव्यं विनयति नाद्रव्यमिति । क्षिप्रं नश्यति सान्वयः । सन्तानाफलप्रदर्शनरूपोऽयं निन्दार्थवादः । अतश्च सर्वं परिवेषणादि दैवपूर्वकं कर्तव्यम् । यत्त्वन्तरा भक्ताद्युपनयनं पिपासतां च पानादिदानं तद्यस्यैवेच्छा प्रथममुपजाता तस्मा एवोपनेतव्यम् । अनर्थिनस्तद-नुरोधेनोपनीयमाने प्रधानविधिबाधः स्यात् “ हर्षयेत् ब्राह्मणानिति ” । तथा कश्चिन्मधुर-रसप्रियोऽपरोऽम्लरससात्म्यस्तत्र — ' भक्ष्यं भोज्यं च विविधं पानानि सुरभीणि चेति'-बहुषु पानकेषु सत्सु यद्यन्यानुरोधेन न अन्यत्र रससात्म्यमापादयेत्ततो व्याधिरस्य
जनितः स्यात् ।
तस्मादुपक्रमसमापने एव भोजने दैवादिना ॥१९ ५ ॥
हिन्दी - पितृकार्य के आदि तथा अन्त में देवकार्य ( आदि में देवावाहन, हवन आदि तथा अन्त में देवविसर्जन ) करना चाहिए, पितृकार्य को आदि और अन्त में करने वाला सन्तान के सहित नष्ट हो जाता है ॥ १ ९ ५ ॥
श्राद्ध के योग्य स्थान-शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् ।
दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥ १ ९ ६ ॥
भाष्य – शुचिर्भस्मास्थिकपालकाद्यनुपहतः । विविक्तो विस्तीर्णो बहुभिर्जनैर-नाकीर्णः । दक्षिणाप्रवणो दक्षिणस्यां दिश्यवनतः । तादृशं देशं यत्नेन सम्पादयेत् ।
स्वभावतश्चेत्तादृशो न लभ्यते तथा कर्तव्यं यथा स्वव्यापारेण सम्पाद्यते ।
तं च गोशकृतोपलेपयेत् । मृदादयो निवर्तन्ते, गोमयेनोपलेपनियमात् ॥१ ९ ६ ॥