मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 471–480
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 471–480
पृष्ठ 471
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३ ९ ५ हिन्दी - पवित्र ( हड्डी, मल, मूत्र तथा राख आदि से वर्जित ) एकान्त ( बहुतों के सञ्चार से रहित ) स्थान को गोबर लिपवावे तथा उस स्थान को दक्षिण दिशा की ओर ढालू रखे ॥१९ ६ ॥
एकान्त वन या नदीतट आदि की श्रेष्ठता-अवकाशेषु चोक्षेषु जलतीरेषु चैव हि ।
विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥ १ ९ ७ ॥
भाष्य — अवकाशो देशः । चोक्षाः स्वभावशुचयो मन: प्रसादजनका अरण्या-दयः । जलतीराणि सरित्समीपपुलिनादीनि । विविक्तेषु विजनेषु तीर्थेषु च । विध्यन्तरमिदम् । अतश्च गोमयोपलेपननियमो नास्ति । उपपादयेदिति वचनात् । यत्र सम्पाद्यं शुचित्वं तत्रासौ नियमः । स्वभावतः शुचिषु ' दृष्टमद्भिर्निर्णिक्त ' मित्येता-वतैव योग्यता | एतेषु देशषु दत्तेन कृतेन श्राद्धेनात्यन्ततुष्टाः पितरो भवन्तीति ॥१९ ७ ॥ हिन्दी – स्वभाव से ही पवित्र वन आदि की भूमि, नदी का किनारा और एकान्त स्थान में किये गये श्राद्ध आदि से पितर सर्वदा सन्तुष्ट होते हैं ॥ १ ९ ७ ॥ निमन्त्रित ब्राह्मणों को आसन देना-आसनेषूपक्लृप्तेषु बर्हिष्मत्सु पृथक् पृथक् । उपस्पृष्टोदकान्सम्यग्विप्रांस्तानुपवेशयेत् ॥ १ ९ ८ ॥ भाष्य — उपक्लृप्तेषु कल्पितेषु विन्यस्तेषु पृथक् पृथक् विभागेन । नैकमासनं दीर्घधौतफलकादि सर्वेभ्यो दद्यात् । परस्परं यथा न स्पृशन्ति तथोपवेशनीया इति पृथग्ग्रहणम् । बर्हिष्मत्सु दर्भविष्टरास्तीर्णेषु ।
उपस्पृष्टोदकान् स्नातान् कृताचमरविधींश्च ।
तान् पूर्वनिमन्त्रितानुपवेशयेत् ॥ १ ९ ८ ॥
हिन्दी- — उस पवित्र श्राद्धस्थान पर पूर्वदिशा में पृथक् - पृथक् रखे हुए कुश के आसनों पर स्नान तथा आचमन किये हुए निमन्त्रित ब्राह्मणों को बैठावें ॥। १ ९ ८ ॥ विमर्श - देवकार्य - सम्बद्ध निमन्त्रित ब्राह्मणों ' को पूर्वाग्र ( जिनका अग्रभाग पूर्व १. ये चात्र विश्वेदेवानां विप्राः पूर्वनिमन्त्रिताः । प्राङ्मुखान्यासनान्येषां द्विदर्भोपहितानि च ॥
दक्षिणामुखयुक्तानि पितॄणामासनानि च । दक्षिणाग्रैकदर्भाणि प्रोक्षितानि तिलोदकैः ॥
इति ( म ० मु ० ) ।
पृष्ठ 472
पाठ पढ़ें पाठ छिपाएँ
३ ९ ६ मनुस्मृतिः [ तृतीयः की ओर हो ऐसे ) दो - दो कुशाओं का आसन दे तथा पितृ कार्य से सम्बद्ध ब्राह्मणों को दक्षिणाग्र ( जिनका अग्रभाग दक्षिण दिशा की ओर हो ऐसे ) एक - एक कुशाओं का आसन दे और इन आसनों की कुशाओं को तिलोदक से छिड़ककर शुद्ध कर ले । आसन स्थित उन ब्राह्मणों की गन्धादि से पूजा-उपवेश्य तु तान्विप्रानासष्वजुगुप्सितान् । गन्धमाल्यैः सुरभिभिरर्चयेद्दैवपूर्वकम् ॥ १ ९९ ॥ भाष्य — उपवेशनानन्तरं गन्धमाल्यैरर्चयेत् । गन्धान् कुङ्कुमकर्पूरादीन् दद्यात् । माल्यानि कुसुमस्रजः । सुरभिग्रहणं माल्यंविशेषणम् । निर्गन्धानि पुष्पाणि न दद्यात् । गन्धेष्वपि युक्तं विशेषणम्, सन्ति गन्धा असुरभयस्तन्निवृत्त्यर्थम् । अथवा सुरभिभिर्धूपैः । स्वतन्त्रं सुरभिग्रहणम् । दैवेभ्यो ब्राह्मणेभ्यः पूर्वं दत्वा ततः पित्र्येभ्यो दातव्यम् । इदं तु दैवपूर्वग्रहणं प्राग्भोजनप्रवृत्तेः पदार्थानां तदादिनियमार्थम् । प्रवृत्तभोजनानां तु पानव्यञ्जनादिषु न नियम इत्येवमर्थमाहुः । अन्यथा कोऽर्थः पुनरभिधाने स्यात् । अजुगुप्सितान् अनिन्दितान् विप्रान् । अनुवादोऽयम् । तादृशानामेव विधानम् । अथवा सत्यपि भूतप्रत्ययनिर्देशे प्रकृत्यर्थकर्तव्यतानिषेध एवायम् । उपरिष्टान्न जुगुप्सेत न निन्देतेत्युक्तं भवति । प्रत्ययार्थमात्रत्यागो वरं न सर्वपदार्थत्याग इति मन्यन्ते । अनुवादे हि कृस्नमेव पदमनर्थकम् ॥१९९ ॥
हिन्दी — आसन पर बैठे हुए उन अनिन्दित ब्राह्मणों की सुगन्धित कुङ्कुमादि तथा पुष्पमालाओं से देवपूर्वक ( पहले देवकार्य से सम्बद्ध ब्राह्मणों की पूजा बाद में पितृकार्य से सम्बद्ध ब्राह्मणों की ) पूजा करे ॥ १ ९९ ॥ तेषामुदकमानीय
उनकी आज्ञा से हवनकर्म-सपवित्रांस्तिलानपि ।
अग्नौ कुर्यादनुज्ञातो ब्राह्मणो ब्राह्मणैः सह ॥ २०० ॥
भाष्य – अनुलिप्तेषु स्रग्विषु सुरभिधूपाञ्जिप्रत्सु अर्धोदकमुपनेतव्यम् । तेनैवं सपवित्रांस्तिलानपि । पवित्रशब्दो दर्भेषु वर्तते । तेषां ब्राह्मणानामुदकमानीय दत्वा तैरनुज्ञातोऽग्नौ होमं कुर्यात् । ब्राह्मणैरनुज्ञातः कुर्यादितिसम्बन्धः । सह सर्वे युगपद-नुज्ञां दद्युः । अनुज्ञापनवाक्यमपि सामर्थ्यप्राप्तम् । न हि तेऽप्रार्थिता अनुजानीरन् । ततश्च
पृष्ठ 473
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३ ९ ७ ‘ अग्नौ करवाणि ’ ‘ करिष्ये ' इत्येवमादीनि प्रश्नवाक्यानि लभ्यन्ते । अनुज्ञावाक्यमपि सामर्थ्यात्प्राप्तम् । सर्वं चैतत्साधुभिः शब्दैः कर्तव्यम् । प्रदर्शितं चैतत् गृह्यकारैः “ अग्नौ करवाणि करिष्य इति चानुज्ञापयेदोङ्कुर्वित्येवं ब्रूयुः ” ॥२०० ॥
हिन्दी – उन ब्राह्मणों के अर्घ्य में तिल तथा जल मिलावे तथा उनसे आज्ञा लेकर उनके साथ आगे कही हुई विधि से हवन करे । विमर्श - आज्ञा की असमर्थता होने पर ' अपने गृह्येोक्त विधि से हवन करूँ या करूँगा ' ऐसी प्रार्थना करे तथा वे ब्राह्मण अच्छा, करो ( ॐ या कुरुष्व ) ऐसी आज्ञा को दे ॥२०० ॥
अग्नि, सोम आदि के हवन के बाद पितरों का हवन-अग्नेः सोमयमाभ्यां च कृत्वाऽऽप्यायनमादितः । हविर्दानेन विधिवत्पश्चात्सन्तर्पयेत्पितॄन् ॥ २०१ ॥
– यदग्नौकर्तव्यं तदुच्यते । भाष्य-अग्नेः चतुर्थ्यर्थे षष्ठी । अग्निरेका देवता । सोमयमाभ्यामिति द्वन्द्वस्य देवतात्वं अग्नीषोमवत् । अनयोर्देवतयोरादित आप्यायनं हविर्दानेन कृत्वा पश्चात्सन्तर्पयेत्पितॄन् । पिण्डनिर्वपणं ब्राह्मणभोजनं च कुर्यादित्यर्थः । गृह्येत्वन्या देवताः समाम्नाताः ।
येषां गृह्यं नास्ति तेषामिदं देवतावचनम् ।
आप्यायनं पोषणम् । ‘ हविषा देवताः पुष्यन्ती'त्यर्थवादः ॥२०१ ॥
हिन्दी – पहले अग्नि, सोम और यम को विधिपूर्वक ( पर्युक्षणादि के साथ ) हविष्य के हवन से तृप्तकर बाद में पितरों को अन्नादि ( पायसादि ) द्रव्यों से तृप्त करे ॥२०१ ॥
अग्नि के अभाव में ब्राह्मण के हाथ पर आहुतिदान-अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् । यो ह्यग्निः स द्विजो विप्रैर्मन्त्रदर्शिभिरुच्यते ॥ २०२ ॥
भाष्य — स्मार्तस्य वैवाहिकस्य दायादेर्वा अग्नेरभावे विधिरयमुच्यते । लौकिकस्य तु पितृयज्ञनिषेधात् भावाभावावचिन्त्यौ । ' न पैतृयज्ञिको होमो लौकिकेऽग्नाविति ’ वक्ष्यति । “ कथं पुनस्तस्याग्नेरभावः ” । प्रोषितस्याग्निना विना द्रव्यब्राह्मणदेशसम्पत्तौ च श्राद्धकाल उक्तः, नामावास्यैव 1
पृष्ठ 474
पाठ पढ़ें पाठ छिपाएँ
३ ९ ८ मनुस्मृतिः [ तृतीयः तत्र प्रोषितेन यदि पङ्क्तिपावनः प्राप्तो द्रव्यं वा कालशाकादि तत्रायं विधिरुच्यते । “ ननु च प्रोषितस्य कथं श्राद्धाधिकारः । यदि तावद्भार्या प्रवसति अग्निनाऽपि तत्रैव सन्निधातव्यम् । यतोनोभाभ्यामग्नेर्विरह इष्यते, भार्यया यजमानेन च । एवं हि श्रूयते ‘ नाग्निरन्तरितव्यः प्रवसताम् ' इति । अथ केवल एव गृहस्थः प्रवसेत्तदा भवेदग्न्यभावः । किन्तु मध्यकत्वादेतस्य सहाधिकाराच्च, भार्यायामसन्निहितायां, तदिच्छाया अभावात् कथं साधारणस्य श्राद्धे विनियोगः । साधारणे हि द्रव्ये अन्यतरानिच्छायां त्याग एव न संवर्तते । अथोच्यते— ' तीर्थेष्वपि श्राद्धकरणमनेन न्यायेन न प्राप्नोति । तत्रेमानि वचनानि विरुध्यन्ते “ पुष्करेष्वक्षयं श्राद्धं तपश्चैव महाफलम् । महादधौ प्रभासे च तद्वदेव विनिर्दिशेत् ' । इति । नैष दोषः । भार्यया सह तीर्थयात्रां गच्छतः साग्निकस्योपपत्स्यते । इह तु यदि भार्यया सह प्रवासः, तदा नास्त्यग्नेरभावः । अथ केवलस्य, तदा भार्येच्छाया अपरिज्ञानादनधिकारः ” । उच्यते । प्रवसन् भार्यामनुज्ञापयति “ धर्माय विनियोगं द्रव्यस्य करिष्यामि ” इति । तत्प्राप्तानुज्ञोऽधिकरिष्यते । प्राक् चोपनयनादसत्यग्निपरिग्रहे विधिरयं भविष्यति । अस्ति चानुपनीतस्य श्राद्धाधिकारः । “ स्वधानिनयनादिति " दर्शितम् । स्नातस्य च प्राग्विवाहात् पितृमरणा-दावग्न्यभावः । “ ननु च परमेष्ठिमरणेऽग्निपरिग्रहः काठके पठ्यते ” । कृतदारस्यासौ द्रष्टव्यो न स्नातकमात्रस्य । द्वौ हि कालौ स्मार्तकस्याग्नेर्विहितौ— भार्यादिर्दायादिर्वा ( गौतम ५।७ ) । तत्र येन विवाहकाले न परिगृहीतोऽग्निः, पित्राऽ-विभक्तत्वात्, ज्येष्ठेन वा सह वसता “ भ्रातॄणामविभक्तानामेको धर्मः प्रवर्तत ” इति अनेन, तस्यासौ द्वितीयः कालः " दायकालादृते वा ” इति । एष एव दायकालो यदा पिता म्रियते । तदपेक्षमेवैतत् । “ शुचिर्भूतः पितृभ्यो दद्यात् ” । “ भ्राष्ट्रयो हाग्निमानीय प्रतिजागृयात् ”, इति । न चेदमाग्न्याधानं श्राद्धाङ्गम् । तथा सति न तदर्वागस्योत्पत्तिः श्राद्धं वा वर्तते । न चाप्यत्यागोऽस्ति । एष औपसदोऽग्निस्तस्मिन् पाकयज्ञः ” इति पठ्यते । न च पाकयज्ञेऽप्यभार्यस्त्याधिकारः । “ पत्न्यवेक्षितमाज्यं भवति ” । “ व्रतं च पत्न्युपेयादिति ” दर्शपूर्णमासयोः श्रूयते । न च ' यदा पत्नी, तदैतत् व्रतोपायनाज्यावेक्षणे पत्नीकर्तृके भविष्यत ' इति शक्यमवकल्पयितुं, नित्यव-दाम्नानात् । तत्रौपसदोऽग्निरित्येष विधिर्हातव्यः प्राप्नोति । “ ननु च न पितृमरणमेव दायकालः । एवं हि पठ्यते — ‘ सपिण्डीकरणं कृत्वा विभजेरन् ततः सुताः ' इति ” ।
पृष्ठ 475
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता ३ ९९ विभागस्यायं कालो, न दायस्य । विभागेऽपि नायं नियम:, यतो ' धर्म्या पृथक् क्रियेति ' पठ्यते । तस्याश्च धर्मत्वं विभक्तानां पृथक् पृथक् श्राद्धकरणे-नातिथ्यादिपूजया च । न च “ नव श्राद्धं सह दद्युः " इत्यादीनि वाक्यानि समाप्तविद्याविषयाणि । ईषद्विद्यो रागोद्रेकात्स्वदारनियमं मातिक्रमिषमिति कृतविवाहः प्रक्रान्तवेदार्थप्रवणस्तस्य संवत्सरमात्रेण विद्यासमाप्ताविदमुच्यते “ सपिण्डीकरणं कृत्वा विभजेरन्निति ” । तथा मृतभार्यस्य पुनर्दारांश्चिकीर्षत आदारप्राप्तेर्भवत्यग्नेरभावः । सर्वथा पल्या सह यष्टव्य-मित्यस्तित्ववचने सति नाकृतविवाहस्याग्निपरिग्रहः । एवं स्थितेऽग्नेरभावे आहुती ब्राह्मणस्य हस्ते प्रक्षिपेत् । " कस्य ब्राह्मणस्य " । य एव निमन्त्रितास्तेषामन्यतमस्य दैव उपवेशितस्यान्यस्य वा निमन्त्रितस्य ।
अर्थवादो यो ह्यग्निरिति ।
मन्त्रदर्शिभिः सम्मतञ्चेदमर्थविद्भिः ॥ २०२ ॥
हिन्दी - अग्नि के अभाव में उन ब्राह्मणों के हाथ पर ही ( श्राद्धकर्त्ता ) तीन आहुति दे; क्योंकि ' जो अग्नि है वही ब्राह्मण है ' ऐसा मन्त्रद्रष्टा महर्षियों ने कहा है॥२०२ ॥
विमर्श - यज्ञोपवीत संस्कार के नहीं होने तक, यज्ञोपवीत संस्कार होने पर समावर्तन संस्कार के बाद विवाह संस्कार नहीं होने तक और विवाह संस्कार होने पर स्त्री के मर जाने पर – इन तीनों अवस्थाओं में ' अग्नि का अभाव ' हुआ है ॥
अक्रोधनान्सुप्रसादान्वदन्त्येतान् पुरातनाः ।
लोकस्याप्यायने युक्तान् श्राद्धे देवान् द्विजोत्तमान् ॥ २०३ ॥
भाष्य — अयमर्थवाद एव । ब्राह्मणानां देवतारूपत्वं सम्पादयति । अग्निर्देवता । तत्र हुतं तन्मुखेन देवता अश्नन्ति । ब्राह्मणोऽप्येवंरूपः । तद्धस्तेऽपि क्षिप्तं देवता अश्वन्त्येव । “ किंपुनर्देवतानां रूपं येन ब्राह्मणोऽपि देवतारूप उच्यते ” । अत आह अक्रोधनानिति । कथमेवं ब्रुवते? तदर्थं दर्शयति । य एवं स्वभावा ब्राह्मणास्तेषां हस्ते आज्याहुती प्रक्षेप्तव्ये । अन्ये त्वाहुः । पूर्वत्राक्रोधना इत्यादिना पितॄनुद्दिश्य निमन्त्रितानां स्तुत्यानाम-क्रोधनादिधर्मो विहितः । अनेन देवनिमन्त्रितानामिति विशेषः । तथा चाह । श्राद्धे देवानिति ।
पृष्ठ 476
पाठ पढ़ें पाठ छिपाएँ
४०० मनुस्मृतिः [ तृतीयः पुरातना मुनय एवं वदन्ति । द्वितीयान्तो वा पठितव्यः । पुरातनानेतान्देवान्त्साध्य-देवानस्मिन्कल्पे समुत्पन्नान् । लोकस्याप्यायने युक्तान् । एवं श्राद्धं भुञ्जते । तत्र नैवं मन्तव्यम् — ' दृष्टसुखार्थिनो लोभात्स्वार्थे प्रवर्तन्तेऽतश्च किमित्येषां पूजा क्रियते ' । यत आप्याययन्ति लोकं पृथिवीमन्तरिक्षं दिवं चातो नैषामवज्ञा कर्तव्या ॥ २०३ ॥
हिन्दी— ( मनु आदि महर्षि गण ) सर्वदा क्रोधहीन, प्रसन्नमुख, ( अनादि काल से चले आने के कारण ) पुरातन और ( ३।७६ के अनुसार ) संसार की उन्नति के लिए संलग्न ब्राह्मणों को श्राद्ध का देव ( श्राद्ध के योग्य उत्तम सत्पात्ररूप ) कहते हैं ॥ २०३ ॥
अपसव्य होकर हवनादि—
अपसव्यमग्नौ कृत्वा सर्वमावृत्परिक्रमम् ।
अपसव्येन हस्तेन निर्वपेदुदकं भुवि ॥ २०४ ॥
भाष्य — अग्नौ यत्कर्तव्यं ‘ अग्नये स्वधा नम ' इति आहुतिप्रक्षेपलक्षणं कार्यं तदपसव्यम् । दक्षिणेन हस्तेन कर्तव्यं, न सव्येन, नोभाभ्यां, ‘ “ उभयोर्हस्तयोर्मुक्तम् ” इतिनिषेधात् । हस्तद्वयसंयोगेन कर्तव्यताशङ्कायामपसव्येनेत्युक्तमिति केचित् । इदं त्वयुक्तम् । या अग्नावाहुतयो हूयन्ते तासां च या आवृत्परिक्रमस्तस्यापसव्यता विधीयते । दक्षिणासंस्था आहुती: कुर्यात् नोदक्संस्थाः, यथा दैवे । दर्व्या वा हवि-र्भिस्तु कारयितव्यं नोदीच्यां किंतर्हि दक्षिणाभिमुखं यथोदकं पित्र्येण तीर्थेन कार्यते । सर्वग्रहणादन्यदपि परिवेषणाद्यपसव्यमेव कर्तव्यम् । अपसव्येन हस्तेनोदकं निर्वपेत् । ' शनैरिति ' वा पाठः । अत्रार्थः – अन्यथा “ राजतैर्भाजनैः " इत्यनेन राजतभाजनप्राप्तये सव्यहस्त-विधिः | आवृत्तिरावृत् ॥२०४ ॥
हिन्दी —– अग्नि में पर्युक्षणादि ( हवन करने का क्रम ) अपसव्य ( प्राचीनावीती ३।६३ ) होकर करने के बाद दाहिने हाथ से ( पिण्ड के आधारभूत ) पृथ्वी पर जल छिड़के ॥२०४ ॥
पिण्डदान की विधि-त्रींस्तु तस्माद्धविःशेषात्पिण्डान्कृत्वा समाहितः ।
औदकेनैव विधिना निर्वपेद्दक्षिणामुखः ॥ २०५ ॥
भाष्य — यत्तद्धोमार्थं पात्रे गृहीतमन्नं तस्माद्भुतशिष्टात् त्रीन् पिण्डान् कृत्वा
पृष्ठ 477
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य'मणिप्रभा ' हिन्दीटीकासहिता दक्षिणस्यां दिशि मुखं कृत्वा निर्वपेत् । दभेषु पितृनुद्दिश्य प्रक्षिपेत् । संहतं द्रव्यं पिण्डशब्देनोच्यते । तेन विशदमन्त्रं न दातव्यम् । ४०१ औदकेन । औदको विधिर्यः समनन्तरमेवोक्तः ' अपसव्येनेत्यादि ' ( २०४ श्लोके ) । अत्रेदं संदिह्यते । किं यत्तदन्नं ब्राह्मणभोजनार्थं साधितं ततोऽप्युद्धृत्य हविःसंस्कारः कर्तव्य उत पृथक् चरुः साधनीय इति । किंपरिमाणं च तद्धविरिति । न ह्यत्र ' चतुरो मुष्टीनि’त्यादिपरिमाणसम्भवः । विचारितमेतत् । विशेषाश्रवणात् कामचारः । परिमाणं यावता अर्थसिद्धिर्भवति ।
औदकविध्यतिदेशाच्च स्वहस्तेनापसव्येन पिण्डनिर्वपणं, न राजतैः पात्रैः ।
समाहितग्रहणं वृत्तपूरणार्थम् ॥२०५ ॥
हिन्दी — हवन से बचे हुए अन्न से तीन पिण्ड बनाकर एकाग्रचित्त हो दक्षिण दिशा की ओर मुख करके कुशाओं पर उन पिण्डों को रखे ॥२०५ ॥
कुशा की जड़ में हाथ पोछना-न्युप्य पिण्डांस्ततस्तांस्तु प्रयतो विधिपूर्वकम् ।
तेषु दर्भेषु तं हस्तं निर्मृज्याल्लेपभागिनाम् ॥ २०६ ॥
भाष्य – न्युप्य दत्वा दर्भेषु तान् पिण्डान् तं हस्तं निर्मृज्याद्दर्भेषु तेषु येष्वेव पिण्डनिर्वपणं कृतम् । स्मृत्यन्तरदर्शनात् दर्भमूलेषु मार्जनम् । अपरे च — न हस्तसंलग्नस्यान्नस्योदकस्यैव दर्भेषु संश्लेषणम् । यदि न किञ्चिदपि हस्ते संश्लिष्येत्तथापि हस्तं दर्भेषु निर्मृज्यादेव । न ह्येतत्प्रतिपत्तिकर्मैव । येनासति वचनप्रयोजने न क्रियेत । नेह श्रूयेत हस्तलग्नं निर्मृज्यात् ’, किंतर्हि ‘ हस्तमेव ' । “ ननु च लेपभागिनामिति श्रूयते । तत्रासति लेपे न प्राप्नोति । अत: किमुच्यते ' यदि न किञ्चिदपि हस्ते संश्लिष्येत्तथापि कर्तव्यमिति ' । ” उच्यते । साक्षात् मूर्तमन्नं कदाचिन्न श्लिष्यति । पिण्डेष्वनुवर्त्यमानेषु अन्नरस उष्मावसम्पर्कात् संक्रामति हस्ते । स एव ' लेप ' उच्यते । लेपभागिनामिति षष्ठी निर्मार्जनस्य तत्सम्बन्धितामाह । न च लेपभागिनः प्रत्यक्षदृश्याः सन्ति येषां स्वस्वाम्यादिसम्बन्धो लेपस्य क्रियेत । तस्माल्लेपभागिनामयं भागोऽस्त्विति मनसा ध्यायेत । शब्देन वोद्दिशेत् । अन्ये तु प्रपितामहात्पूर्वे ये पितरस्तान् ' लेपभागिन ' आहुः । अस्मिन्दर्शने ‘ प्रपिता-महपित्रे ’ ‘ प्रपितामहपितामहाये ' त्यादिभिः शब्दैरुद्देशः कर्तव्योऽसति तन्नामनिवेदने ।
पृष्ठ 478
पाठ पढ़ें पाठ छिपाएँ
४०२ मनुस्मृतिः [ तृतीयः हस्तमित्येकवचननिर्देशादेकेनापसव्येन हस्तेन पिण्डनिर्वपणं दर्शयति । प्रयत इत्यनुवादो, विहितत्वात् । विधिपूर्वकमितिशास्त्रान्तरदृष्टं विधिं परिगृह्णाति । ' गन्धमाल्यधूपाच्छादन-सिद्धोपहारैः पिण्डं निर्वपेदिति ' शङ्खः । यस्त्विह विधिः श्रुतः स स्वमतेनैवोक्त इति विधिपूर्वकमित्येतदनर्थकम् । तस्माच्छास्त्रान्तरविध्युपसंहारार्थं विधिपूर्वकमिति वचनम् ॥२०६ ॥
हिन्दी — विधिपूर्वक ( अपने गृह्येोक्त विधि से ) उन पिण्डों को कुशाओं पर रखकर ( जिन पर पिण्ड रखे हुए हैं ) उन कुशाओं की जड़ में लेपभागी ( वृद्धप्रपिता-महादि ३ ) पितरों की तृप्ति के लिए हाथ को रगड़ना ' ( काछना पोछना ) चाहिये || २०६ ॥ ऋतु का नमस्कार आदि-आचम्योदक्परावृत्य त्रिरायम्य शनैरसून् ।काकार षड्ऋतूंश्च नमस्कुर्यात्पितॄनेव च मन्त्रवत् ॥ २०७ ॥
दर्भेषु पिण्डान् दत्वोदीचीं दिशं परावर्तेत । सव्येन मार्गेण । स्मृत्यन्तरे हि ' सव्यावृदुदक्परावृत्येति ' पठ्यते । उत्तराभिमुखः स्थित्वा आचामेत् । आचम्य त्रीन् प्राणायामान् कुर्यात् । असून्प्राणानायम्य सन्निरुध्य इत्येव, अत्र च " गायत्री शिरसा " इत्यादिविधिर्नास्ति । शनैर्यथा नातिपीडा भवति । तथा चाह । यथाशक्यं प्राणानासित्वा । तदभिमुख एव सकृन्नमस्कुर्यात् । वसन्ताय नम इत्यादि । पितॄंश्च नमस्कुर्यात् । मन्त्रवत् । ' नमो वः पितर ' इत्यादिना मन्त्रेण । पितॄणां नमस्कारः पिण्डाभिमुखेन कर्तव्य: । ' अभिपर्यायवृत्त्येति ' हि स्मृत्यन्तरम् ॥२०७ ॥।
हिन्दी – फिर उत्तर की ओर मुखकर शक्ति के अनुसार धीरे - धीरे प्राणायाम करके मन्त्र - पूर्वक ( ‘ वसन्ताय नमस्तुभ्यं ' ) -मन्त्र से आदि ऋतुओं को और ( ' नमो वः पितरः ' –मन्त्र से ) पितरों को नमस्कार करे ॥२०७ ॥
प्रत्यवनेजन आदि-उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः ।
अवजिघ्रेच्च तान्पिण्डान्यथान्युप्तान्समाहितः ॥ २०८ ॥
भाष्य — यत एव पात्रादुदकेन प्राक्पिण्डदानाद्दर्भेषूदकनिनयनं कृतं तत एव १. ‘ दर्भमूलेषु करावघर्षणम् ' इति विष्णुवचनात् ' इति । ( म ० मु ० )
पृष्ठ 479
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ४०३ पुनर्निनयनं पिण्डान्तिके पिण्डसमीपे कर्तव्यमिति । शेषग्रहणं प्रतिपत्त्यर्थं तस्योदकस्य । तथाहि शेषशब्द उपपन्नो भवति । अतश्च कथञ्चित्तस्याभावे नास्ति पुनर्निनयनम् । गृह्ये तु ‘ नित्यं निनयनमि’त्युक्तम् । अवजिघ्रेच्च तान् पिण्डान् । अवघ्राणं गन्धोपलब्धिः । गृह्ये तु “ चरो: प्राणभक्षं भक्षयेत् ” इत्युक्तम् ।
थथान्युप्तान् येन क्रमेण निरुप्तान् पित्रे पितामहाय प्रपितामहायेति ।
समाहित इति श्लोकपूरणम् ॥२०८ ॥
हिन्दी — फिर जलपात्र में बचे हुए जल को सावधानचित्त होकर तीनों पिण्डों के पास में क्रम से ( जिस क्रम में पिण्ड रखे गये हैं उसी क्रम से ) धीरे - धीरे गिरा दे और उसी क्रम से उन पिण्डों को सूँघे ॥२०८ ॥
पिण्ड के कुछ भाग का पितृ ब्राह्मण को भोजन कराना-पिण्डेभ्यः स्वल्पिकां मात्रां समादायानुपूर्वशः । तानेव विप्रानासीनान्विधिवत् पूर्वमाशयेत् ॥ २० ९ ॥ भाष्य — अत्यन्ताल्पिका मात्रा अवयवो भागस्तमेव । यो ब्राह्मणो यं पितरमुद्दिश्य उपवेशितः, तदीयात्पिण्डात् किञ्चिन्मात्रं स एवाशयितव्यः । अनुपूर्वश इत्युक्तार्थम् ।
इह तच्छब्दात्प्रकृतपरामर्शकादग्न्यभाव इत्यत्र न प्रकृतवचनम् ।
पूर्वमन्यस्माददनीयात् ॥२०९ ॥
हिन्दी — क्रम से उन पिण्डों में से थोड़ा - थोड़ा भाग लेकर ( पिण्ड में से लिए हुए भाग को पिता आदि के उद्देश्य से ) बैठे हुए निमन्त्रित ब्राह्मणों को पहले खिलावे ॥२०९ ॥
पिता के जीते रहने पर पितामह आदि का पार्वणश्राद्ध-ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् । विप्रवद्वाऽपि तं श्राद्धं स्वकं पितरमाशयेत् ॥ २१० ॥
भाष्य — उक्तं “ पितृभ्यः पिण्डान्निर्वपेत् ” इति । क एते पितरो नाम । अनेकार्थो हि पितृशब्दो जनयितरि वर्तते । जनकः पितेति सम्बन्धिशब्दो दृश्यते । पूर्वप्रमीताः पित्रादयोऽन्ये च सम्बन्धिनः प्रेताः पितर उच्यन्ते । तथा च " नमो वः पितरः ” इत्यादिमन्त्रा बहुवचनान्ताः समर्था निगदा भवन्ति । अत एव स्त्रीश्राद्धे नोह्यन्ते । नमस्ते मातर्नमस्ते पितामही इत्यादि न क्रियते । अत एकोद्दिष्टे संख्योहः क्रियते,
पृष्ठ 480
पाठ पढ़ें पाठ छिपाएँ
४०४ मनुस्मृतिः [ तृतीय: न प्रातिपदिकोहः । तथा च सूत्रकारः “ एकवन्मन्त्रानूहेत ” इत्यादि । ‘ नमस्ते पितरि’-त्येवमूहः क्रियते । यो भ्रातुः पितामहादेव एकोद्दिष्टं करोति स चैवमूहति — ' नमस्ते भ्रात: ’ नमस्ते पितामह ' नमस्ते पितृव्य ' इत्यादि । पितृव्यादीनामनपत्यानां श्राद्धं विहितम् । ‘ यो यत आददीत स तस्मै दद्यादिति ' 1 । देवताविशेषवचनोऽप्यस्ति पितृ-शब्दः कूटस्थनित्येऽर्थे वर्तते । निरुक्तकारा हि दैवते मध्यस्थान् पितॄन् समामनन्ति “ मरुतः रुद्राक्षभृतः पितर ” इति । एवमनेकार्थे पितृशब्दे विशेषावधारणार्थमाह । ध्रियमाणे जीवति पितरि सति पूर्वेषां पितामहप्रपितामहतत्पितॄणां निवपेत्, त्रयाणां, बहुवचननिर्देशात् । तथा च गृह्ये “ येभ्यः पिता दद्यात्तेभ्यः पुत्रो दद्यात्पितापुत्रौ चेदाहिताग्नो स्यातामिति ” । “ ननु च न चतुर्थं पिण्डो गच्छतीत्याहुः ” । सत्यम् । नैवात्र चतुर्थः पिण्डो दीयते । पक्षान्तरमाह विप्रवद्वा । यथा ब्राह्मणा निमन्त्रणापूर्वकं ब्रह्मचारिणो नियमवन्तश्च पूज्यन्ते, तथैव जीवत्पितृकेण पिता भोजनीयः । श्राद्धं श्राद्धार्थमन्नं श्राद्धम् । अत्र च पितृत्वमेव भोज्यत्वे कारणं न जातिगुणावपेक्ष्यौ । एवं ह्याहुः -' पितृप्रीत्यर्थं श्राद्धम्, तत्र मृतस्य प्रीतौ कर्तव्यायां को जीवति पितरि परिभवो येनासौ न भोजयेत् । ’ स्वकमित्यनुवादः, सम्बन्धिशब्दत्वादेव सिद्धेः । भोजनमत्र पितुश्चोदितं हितं, पिण्डनिर्वपणं तु दर्भेषु पितॄणां कर्तव्यमेतत्त इति विरोधात् । यदि हि पात्रस्थानीया दर्भास्तदा जीवतः पितुः स्वाम्ये दानोत्पत्तौ अल्पिकां मात्रामाशयेदिति न युज्यते । जीवतो हि स्वमिच्छाविनियोज्यम् । न च तस्मिन्पिण्डे उज्जनादिदानमुपपद्यते अर्धजरतीयप्रसङ्गात् । न ह्यत्राञ्जनादिसंस्कृतेन पितुः किञ्चित्प्रयो-जनमस्ति । तस्माददृष्टार्थमञ्जनादिदानम् । अञ्जनादिरहितं तु कदाचिदात्मनः पितुः परस्य वा भोजनयोग्यं भवतीत्येवमर्धजरतीयम् । तस्मादस्मिन्पक्षे पिण्डनिर्वपणं द्वयोः पितामहप्रपितामहयोः । गृह्यकारास्तु स्मरन्ति “ जीवत्पितृकस्य न पिण्डपितृयज्ञो न श्राद्धम् ”, किंतर्हि “ अनारम्भ एव तस्य कर्मणो, होमान्तता वा ” ॥२१० ॥
हिन्दी — पिता के जीवित रहने पर पितामह आदि तीन पुरुषों ( पितामह, प्रपितामह बृद्धप्रपितामह ) का ही श्राद्ध करे अथवा पितामहादि के उद्देश्य से निमन्त्रित किये जाने वाले ब्राह्मण के समान पितृ - विप्रस्थान में पिता को ही भोजन करावे । ( इस