मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 491–500
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 491–500
पृष्ठ 491
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता आदि जो श्राद्ध में आवे तो उन्हें भी हटा देना चाहिए ॥ २३२ ॥
भिक्षुक आदि को भोजन कराना -४१५
ब्राह्मणं भिक्षुकं वाऽपि भोजनार्थमुपस्थितम् ।
ब्राह्मणैरभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ॥ २३३ ॥
भाष्य — अतिथित्वेनागतं ब्राह्मणं भिक्षुकं भिक्षार्थिनं ब्राह्मणमपि भोजनप्रवृत्तै-ब्रह्मणैरनुज्ञातः शक्त्या पूजयेत् । भोजनेन भिक्षादानेन वा युक्तार्थतयाऽर्चयेत् । यतः स पाकस्तदहस्तदर्थ एव ॥ २३३ ॥
हिन्दी - ( श्राद्धकाल में ) भिक्षार्थी ब्राह्मण या और कोई भोजनार्थी आ जावे तो उसका भी ब्राह्मणों की आज्ञा लेकर यथाशक्ति भोजनादि देकर सत्कार करें ॥ २३३ ॥
अनग्निदग्धादि के लिये अन्न बिखेरना-सार्ववर्णिकमन्नाद्यं सन्नीयाप्लाव्य वारिणा ।
समुत्सृजेद्भुक्तवतामग्रतो विकिरन् भुवि ॥ २३४ ॥
भाष्य — वर्णशब्दः प्रकारे द्रष्टव्यः । सर्वप्रकारैर्व्यञ्जनैरुपेतमन्नाद्यं सन्नीय एकीकृत्य वारिणा आप्लाव्य भुक्तवतां तृप्तानां ' तृप्ताः स्म ' इतिवचनान्तरं अग्रतः समुत्सृजेत् विकिरेत्; नैकस्मिन्नेव देशे, किं तर्हि विशीर्णम् । भुवि । न पात्रेषु । भूमावपि न शुद्धायां, किंतर्हि, वक्ष्यति “ दर्भेषु विकिर ” इति । “ सकृत्त्रिर्वा विकिरं कुर्यात् ” इति शङ्खः ॥।२३४ ॥ हिन्दी- - सब प्रकार के अन्न को लेकर तथा पानी से आप्लावित ( सान ) कर भोजन किये हुए ब्राह्मणों के आगे ( कुशाओं पर ) विखेरता हुआ छोड़ दे॥२३४ ॥
असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् ।
उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरश्च यः ॥ २३५ ॥
भाष्य — ‘ नास्य कार्योऽग्निसंस्कार ' इत्यत्रिवर्षा असंस्कृतास्तेषां प्रमीतानाम् । पात्रस्थं उच्छिष्टं दर्भेषु विकिरश्च तेषां भागधेयम् । भाग एव भागधेयशब्देनोच्येते । न हि तेषां श्राद्धोपकारो नास्ति । त्यागिनां गुर्वादीनाम् । अथवा कुलयोषितां कुलस्त्रीणामदृष्टदोषाणां भार्याणां त्यक्तारः । स्वतन्त्रे तु कुलयोषितामित्यस्मिन्ननूढाः कन्याः कुलयोषित इति व्याचक्षते । अत उच्छिष्टं तेभ्य उद्येष्टव्यम् । न च वाच्यम् “ अपवित्रमुच्छिष्टं कथं भागधेयेन कल्पतामिति ” । वचनान्नास्त्य-पवित्रता, सोमोच्छिष्टवत् ॥२३५ ॥
पृष्ठ 492
पाठ पढ़ें पाठ छिपाएँ
४१६ मनुस्मृतिः [ तृतीयः हिन्दी — जो अन्न कुशाओं पर बिखेरा जाता है, वह जिन मृतकों का “ नास्य कार्योऽग्निसंस्कारः– ( ५ / ६ ९ ) " वचन के अनुसार अग्निसंस्कार नहीं किया गया है उन बालकों का तथा बिना दोष देखे ही कुलस्त्रियों का त्याग करने वालों का हिस्सा होता है ॥२३५ ॥
विमर्श — अग्निसंस्कार के अयोग्य दो वर्ष से कम अवस्था वाले बालक । अन्याचार्यों का मत है कि ' त्यागिनाम्, कुलयोषिताम् ' ये दोनों पृथक् - पृथक् स्वतन्त्र पद हैं । अत: ‘ त्यागिनां ’ पद से गुरु आदि त्यागियों का और ' कुलयोषितां ' पद से अविवाहित कन्याओं का भाग उक्त अन्न होता है । गोविन्दराज का मत है कि ' त्यागिनां कुलयोषितां पद का अपने कुल को छोड़कर गयीं हुई कुलस्त्रियों का भाग कुशाओं पर बिखेरा हुआ वह अन्न है ॥
भूमि पर गिरा उच्छिष्टभागी दास - समूह-उच्छेषणं भूमिगतमजिह्मस्याशठस्य च ।
दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते ॥ २३६ ॥
भाष्य— ' पात्रस्थस्य पूर्वेण प्रतिपत्तिरुक्ता । भूमौ निपतितस्योच्छिष्टस्य दासवर्गा-र्थताऽनेन कथ्यते ।
अजिह्मोऽकुटिलः । अशठः अनलसः । तादृशस्य दासवर्गस्य स भाग: ।
तस्मात्प्रभूतं दातव्यं, येन भूमौ भुञ्जानस्य पततीति ॥२३६ ॥
हिन्दी — पितृश्राद्ध में भूमि पर गिरा हुआ उच्छिष्ट ( जूठा अन्न ) अकुटिल और शाठ्यरहित दास - समूह का भाग होता है ॥ २३६ ॥
सपिण्डीकरण तक विश्वेदेववर्जित ब्राह्मणभोजनादि-आसपिण्डक्रियाकर्म द्विजातेः संस्थितस्य तु । अदैवं भोजयेच्छ्राद्धं पिण्डमेकं च निर्वपेत् ॥ २३७ ॥
भाष्य- '- ' संस्थितस्य द्विजातेरासपिण्डक्रियाकर्म प्रथममृतस्य आसहपिण्ड-करणाख्यं कर्म कर्तव्यम् । सहपिण्डदानं पूर्वाभ्यां न कर्तव्यम् । कथं तर्हि कर्तव्यम् । पिण्डमेकं च निर्वपेदिति । चशब्द एवशब्दस्यार्थे, तस्मा एव प्रेतायैकं पिण्डं निर्वपेत् । ब्राह्मणी हि तस्मा एव भोजयितव्यः । स्मृत्यन्तरे अन्याऽपीतिकर्तव्यता वैशेषी स्मर्यते ' आवाहनाग्नौ करणरहितमिति ' । अग्नौ करणशब्देन चात्र ' अग्नौकरिष्य ' इत्यनुज्ञापनं प्रतिषिध्यते, न पुनर्होम: । तथाहि गृह्ये प्रेतश्राद्धमेवाधिकृत्य होम आम्नायते । यस्मिंश्च काले कर्म कर्तव्यं यावन्तं च कालं तत् स्मृत्यन्तरादन्वेष्टव्यम् ।
पृष्ठ 493
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ४१७ ‘ आद्यमेकादशेऽहनि ’ । “ मृतोहेऽपि च कर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसंवत्सरं चैव श्राद्धं वै मासिकार्थवत् " ॥ इति । तथा च काठके ' एवं सांवत्सरिकमिति ' । एकादशग्रहणं चाशौचनिवृत्त्युपलक्षणार्थम् । यतः ‘ शुचिर्भूतः पितृभ्यो दद्यादिति ’ श्रूयते । संवत्सरान्ते हि सपिण्डीकरणं गृह्यकाराः स्मरन्ति । एतच्च श्राद्धमेकोद्दिष्टं तदङ्गभूतं च निर्वपणम् । यत्तु श्रौते — पितृभ्यो दद्यादितिवचनात् पितृपितामहाय प्रपितामहाय चेति— अकृते सपिण्डीकरणे नेह दानं युक्तम् । न हि स्मृत्या श्रुतिर्बाधितुं शक्यत इति ॥२३७ ॥
हिन्दी — सपिण्डीकरण ( सपिण्डन ) श्राद्धतक ( कुछ समय पूर्व ) मरे हुए द्विजाति का विश्वेदेव ( ब्राह्मण भोजन ) से रहित श्राद्ध करे ( तथा एक ब्राह्मण को श्राद्धान्न का भोजन करावे ) और एक पिण्ड दे ॥ २३७ ॥
सपिण्डीकरण के बाद पार्वणश्राद्ध-सहपिण्डक्रियायां तु कृतायामस्य धर्मतः ।
अनयैवावृता कार्यं पिण्डनिर्वपणं सुतैः ॥ २३८ ॥
भाष्य — ' यदा तु सपिण्डीकरणं कृतं भवति तदा अनयैवावृता पार्वणश्राद्ध-विधिना त्रिभ्यो दद्यात् । आवृदितिकर्तव्यता । सपिण्डीकरणश्राद्धं दैवपूर्वं नियोजयेत् । पितॄनेवाशयेत् तत्र पुनः प्रेतन्न निर्दिशेत् । पितरश्चात्र प्राक्सपिण्डीकृताः पितृवर्गमनुप्रवेशिताः पितामहादय उच्यन्ते । तानाशयेत् । ‘ तत्र पुनः ’ शब्दस्तेष्वेव ब्राह्मणेषु प्रेत आवाहयितव्यः, तत्र हि सर्वैस्तैः सह संसर्गस्तस्य संसृजनाय तत्कर्म । यदपि विष्णुना पठितं " प्रेताय ब्राह्मणान् भोजयेत् प्रेतपित्रे प्रेतपितामहाय च प्रेतप्रपितामहायेति ’ ”, अत्रापि नैवं श्रूयते पृथक् भोजयेदिति । तत्र यथा बहुदैवत्यं हविर्बह्वीर्देवता उद्दिश्य सकृदेकं हूयते, एवं ब्राह्मणोऽपि बहूनुद्दिश्य भोज्येतेति न किञ्चिदनुपपन्नम् । तथाहि सहवचनमनुगृहीतं भवति, पित्र्ये च न युग्मा भोजिता भवन्ति । यथा ' एकैकमुभयत्र ' वेति येषां विधिस्तन्मते एकः सर्वोद्देशेन भोज्यते । एवमेतद्द्रष्टव्यम् । “ नन्वेवं सति पितृकृत्ये त्रीनिति सर्वदैव सहोद्देशः प्राप्नोति । एकैकस्मिन् ब्राह्मणे सर्व उद्देश्येरन् तत्रापि न पृथक्ग्रहणमस्ति ' । कथं नास्ति । गृह्ये हि पठ्यते " न त्वेवैकम् । सर्वेषां पिण्डैर्व्याख्यातम् ” किञ्च
पृष्ठ 494
पाठ पढ़ें पाठ छिपाएँ
४१८ मनुस्मृतिः [ तृतीय: ‘ प्रेतपात्रं पितृपात्रेषु सेचयेदर्घार्थ ' मित्याह । तत्र कृतासन्नपात्राभावे प्रेतपात्रोदकस्य कुतः पात्रादर्घदानं? यदि तावत्सम्मीलितात्, तदुक्तं पितामहादेस्तत्कल्पितं, न पितुः । न चान्यार्थं कल्पितादित्यन्यार्थता युक्ता । यथ कृत्वाऽर्घदानं पश्चात्सन्नयनं कुर्यात्, तदा कृत्वाऽर्घदानं तदर्थं सन्नयनस्य स्वतन्त्रार्घार्थं प्रसेचयेदिति विरुध्येद् वचनम् । उक्तेनात्र प्रकारेण न कश्चन विरोधः । “ अथ कोऽयं प्रेतो नाम | प्रपितामहाय पिण्डः सपिण्डीकरणादूर्ध्वं न दीयते यतस्तेष्वेवानुप्रविष्टः । तथा च स्मृतिः-“ यः सपिण्डीकृतं प्रेतं पृथक् पिण्डेन योजयेत् । विधिघ्नस्तेन भवति पितृहा चोपजायते ” ॥ इति ॥ पृथगेव हि तस्मै निरूप्यते । न त्वेकः सर्वेभ्य इति । मन्त्राश्च एतमेवार्थमभिवदन्ति ‘ ये समाना ' इत्यादयः । अत्रोच्यते । नायं प्रेतशब्दोऽयतेः क्रियायोगेन वर्तते । रूढिरियं मृतः प्रेत ‘ इदानीं प्रेत ’ उच्यते । न हि दूरमध्वानं गतः प्रेत उच्यते । अस्ति च क्रियायोगः अविशेषेण पूर्वप्रेत इदानीं प्रेते च । तथा च श्रुतिः “ प्रयन्नेवास्माँल्लोकाद्ये समाना ” इति अचिरमरणे प्रेतप्रयोगं दर्शयति ' प्रेतायान्नं दिनत्रयमिति ' सद्यः संस्थितमधिकृत्य । यत्तु ‘ पृथक्पिण्डेनेति ’ अस्यायमर्थः । सपिण्डीकरणादूर्ध्वमेकोद्दिष्टं न कर्त्तव्यम् । यदा यदा श्राद्धं तदा तदा त्रिभ्यः, मृताहनि पितृभ्यस्त्रिभ्य एव कर्तव्यम् । नैकस्मा एव पित्रे । तथा ‘ अनयैवावृता कार्यमितिथे ' पार्वणश्राद्धेतिकर्तव्यता वाऽतिदिश्यते । “ ननु चानयैवेति प्रकृतपरामर्शाः प्रतीयन्ते, सन्निहितवचनत्वात्सर्वनाम्नां, सन्नि-हितश्चैकोद्दिष्टविधिः ” । नैवम् । यदि हि कृतेऽपि सपिण्डीकरणे एकस्यैव क्रियेत, तदा भेदनिर्देश एव नोपपद्यते । तुशब्दश्च प्रकृतायामितिकर्तव्यतायां भेदं सूचयति, ‘ असपिण्डक्रियायामेष विधिः, सहपिण्डक्रियायां पुनः कृतायां नायं मन्तव्य ' इति । अतो व्यवहिताऽपि वृद्धिस्थत्वात्पार्वणताऽतिदिश्यते । किञ्च कृते सपिण्डीकरणे यदैकोद्दिष्टं स्यात्कर्तव्यं, तदा त्रिभ्यो दानमिति अमावास्यायामिति चेत् को विशेषः 1 । तत्रापि सहपिण्डक्रिया-मित्येवमर्थः किं नास्ति । न च मानवशास्त्रे कालान्तरं ' मृताहे प्रतिसंवत्सरं ' चेत्यादि प्रतीतं येन तद्विषयमेतद् व्याख्यायते । अतोऽविशेषात्सर्वत्रैकोद्दिष्टानि प्राप्नुवन्ति । तत्र महाभारतवचनं विरुध्येत, तीर्थानि प्रकृत्योक्तं “ श्राद्धेन तर्पयामास स वै पूर्वं पितामहान् ” इति । यदपि स्मृत्यन्तरं ‘ प्रतिसंवत्सरं चैव श्राद्धं वै मासिकार्थवत् ’ – तत्रापि मासिक-शब्देनामावास्यायामेव श्राद्धमुच्यते । सर्वश्राद्धानां तस्य प्रकृतित्वात् । तत्र हि धर्माः
पृष्ठ 495
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ४१ ९ समाम्नाताः । न तु “ प्रतिमासं तु वत्सरमिति " एतन्मासिकशब्देनाभिधातुं युक्तम् । न हि तस्य विशिष्टाः केचिद्धर्माः समाम्नाता यैर्भिद्येत । एकोद्दिष्टं त्वाद्यमेकादशे, क्षत्रियस्य त्रयोदशे इत्याद्यत्रापि विद्यते । अतो नैकोद्दिष्टं मासिकशब्देनाभिधातुं युक्तम् । मासकालसम्बन्धाद्धि तन्मासिकमुच्यते । न च तस्य मासेनैव सम्बन्धः । कालान्तरेणापि सम्बन्धस्य दर्शितत्वात् । ' शुचिर्भूतः पितृभ्यो दद्यादिति ' मासादूर्ध्वमपि करणान्मासे चाकरणान्नात्र मासिकशब्देन तस्याभिधानम् । अमावास्याया उत्पत्तौ पौर्णमासिक-शब्दश्रवणात् ‘ पिण्डानां मासिकश्राद्धमिति ' नियतत्वात्कालान्तरसंयोगस्याभावा-द्धर्मवत्वाच्च युक्तस्तदीयधर्मातिदेशः । आमश्राद्धमपि पार्वणप्रकृतिकमेव । तत्प्रकृतित्वे च त्रिभ्यो दाने प्राप्ते एकोद्दिष्टता विधीयते । यदपि याज्ञवल्क्यवचनं ( आचारे २५६ श्लो ० ) । “ मृताहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि ” । तत्राप्येवमेतादृशीतिकर्तव्यता उच्यते । तत्रापि ह्यमावास्यमेव प्रकृतत्वेनावगतम् । अतो न मासकालयोगेऽपि एकोद्दिष्टे तदीयधर्मातिदेशोऽन्यत्र युक्तः । न हि भिक्षुको भिक्षुकाद्याचते । सोऽपि यतोऽन्यस्य विकारः । किञ्च एकमेव श्राद्धम् । तस्मान्न मासिकशब्दस्य सामान्यस्यैकोद्दिष्टविशेषविषय-तायां प्रमाणमस्ति । याज्ञवल्क्येऽप्येवमिति । यद्यनन्तरावमर्शः तदा सपिण्डीकरणेतिकर्तव्यतातिदेशः प्राप्नोति । तदनन्तरं ह्येतच्छ्रुतम् । एतत्सपिण्डीकरणमिति ( याज्ञव ० आचार २५४ ) पठित्वाऽ‘र्वाक्सपिण्डीकरणादिति ( याज्ञ ० आ ० २५५ ) ', च ततोऽनन्तरमुक्तम् “ मृता-हनीत्यादि ( याज्ञ ० आ २५६ ) " । तस्मात्सन्निधानमकारणीकृत्य धर्मवत्वेनामावास्यस्यैवमिति निर्देशः । मन्त्राश्चास्मत्पक्षमेव सुतरामवद्योतयन्ति । “ संसृज्यध्वं पूर्वैः पितृभिः सहेति ” ' पूर्वैः पितृभिः सह ' वर्त्तमाना उच्यन्ते । ' संसृज्यध्वमिति ' बहुवचनं पूजायाम् । तथा च निरुक्तकार: “ एता ( उ त्या ) उषस इति । एतास्ता उषस इत्येकस्या एव पूजनार्थे बहुवचनमिति ” । अथ “ संसृज्यध्वमिति येषु पिण्डेषु निक्षिप्यन्ते त उच्यन्ते । यश्च निक्षिप्यते स बहुवचनेन पूर्ववत्पूर्वेभिः पितृभिरिति । एवं च पूर्वेभिरित्येवमेव बहुवचनं प्रायोगिकं भविष्यति । इतरथा संसृज्यध्वमितिनिक्षिप्यमाणपिण्डाभिधाने उभयत्र बहुवचनमयथार्थं कल्प्यमिति ” । तदेतदपि न किञ्चित् । यत एकैकेन पिण्डेन पिण्डांशः संसृज्यते । ‘ चतुर्थं ’
पृष्ठ 496
पाठ पढ़ें पाठ छिपाएँ
४२० मनुस्मृतिः क [ तृतीयः पिण्डमुत्सृज्य त्रैधं कृत्वा पिण्डेषु निदध्यादिति । अतो नैवात्र युगपदधिकरणवचनता-ऽस्ति येन बहुवचनमवकल्पेत । “ एकैकाभिधानेन संसृज्यध्वमिति बहुवचनं परोक्षवत्वाभिधानं कुत आन्वयिकं न कल्प्यते । पूर्वेभिरिति निक्षिप्यमाणपिण्डवचनाच्च न एभिरिति निर्देशो युक्तः स्यात् ” । न चायं मन्त्रो विधायको येन तदर्थनिर्णये प्रयतामहे । अभिधायकोऽयम् । अभिधानगुणं च विनियोगतः विनियोगश्च संसर्गः तञ्च प्रकाशयति । संख्याऽत्र न विनियुक्ता न प्रकाशाप्ता, सम्भवमात्रेणान्वीयते । तस्य च मन्त्रात्पूर्वं प्रतिपत्तिः । येऽप्याहुः —— चतुर्थशब्दः पूर्वतर उपपद्यते । पिता हि प्रथमः तदपेक्षया प्रपितामहः पूर्वश्चतुर्थः ” इति । एतदपि न सम्यक् । पूर्वेषां पिण्डान्निधाय चतुर्णां पूर्णश्चतुर्थः प्रेतपिण्ड एव भवति । पित्रुपक्रमं चेदं श्राद्धं न प्रेतोपक्रमम् । एवं ह्युच्यते ‘ पितॄनेवाशयेत्पुनः प्रेतं न निर्दिशेदिति ” । यस्यायं प्रेताय प्रथमः पिण्डस्ततस्तत्पित्रे इत्यादिक्रमः, तस्यापि कृतोऽयन्नियमः, य एवासौ चतुर्थस्तस्यैवेदं त्रैधं करणं पिण्डेषु निधानं विधीयते । एतावद्धि तद्वाक्यम् चतुर्थं पिण्डमुत्सृजेत्त्रैधं कृत्वेति । तत्रानन्तर्यादुत्सृजतिना सम्बन्ध‘श्चतुर्थं ’ ‘ पिण्ड’मित्यनयोः प्रतीयते । त्रैधं कृत्वेत्यत्र तु कस्येदं त्रैधं करण-मित्यपेक्षायां सन्निहितः पिण्डः सम्बध्यते । तावतैव निराकाङ्क्षीकृते वाक्ये चतुर्थमित्यस्य सम्बन्धे न किञ्चित्प्रमाणमस्ति । तत्र यस्य कस्य विभागे प्राप्ते स्मृत्यन्तरान्निर्णय:
“ निरुप्य चतुरः पिण्डान्पिण्डदः प्रतिनामतः ।
ये समाना इति द्वाभ्यामाद्यं तु विभजेत्त्रिधा " इति ॥
आद्यत्वं दानाभिप्रायेण, न पुनरादिपुरुषसम्बन्धात् । तथाहि प्रपितामहादिः-स्यात्पितामहात्पूर्वः, पितामहोऽपि पितुः पूर्व इत्यनवस्थानादप्रतिपत्तिः । दाने तु नियतक्रमतो व्यवस्थितमादित्वम् । एवं च चतुर्थमितिपदेन विशिष्टे पिण्डे क्रियात्रयेऽपि स्मृत्यन्तरवशाद्दानक्रमेणैवा-द्यस्य विभागो युक्तः । अतो यदुक्तं काठके “ पूर्वप्रेतस्येष्टो विभागः प्रतीयते ” इति कासावस्येष्टता । यच्चोक्तम् — ‘ अत एव तस्मै अदानं यत एव वाऽसावन्तर्भावितः ” तन्त्र किञ्चित् । वचनान्न दीयते— ' न चतुर्थं पिण्डो गच्छतीति ' । तथा ' त्रिषु पिण्डः प्रवर्तते ' इति । यत्स्वयं स्वकृतः पाठः ' पुनः प्रेतं न निर्दिशेदिति ' व्याख्यातं च “ अन्तर्भाविते पर्वप्रेते पुनर्दानं निषेधति ” – नैवायं पाठोऽस्ति प्रतिषेधार्थीयो ‘ न ’
पृष्ठ 497
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ४२१ पठ्यते, समुच्चयार्थीयश्चकारः पठ्यते । सत्यपि वा तत्र पाठे ‘ यः सपिण्डीकृत’मित्यत्र पृथक्पिण्डप्रतिषेधस्य या गतिरुक्ता सैवात्र वेदितव्या । यानि तु वाक्यानि – “ सपिण्डीकरणादूर्ध्वं प्रतिसंवत्सरं सुतः । एकोद्दिष्टं तु कुर्वीत पित्रोरन्यत्र पार्वणम् ” । इत्यादीनि— यद्येतानि वाक्यानि सन्ति तदा किममावास्याया नामघोष-णिकया । न चैतानि वाक्यानि शिष्टपरिगृहीतासु प्रसिद्धासु स्मृतिषु कासुचिदुपलभ्यन्ते । तस्मान्न किञ्चिद्विशेषे लिङ्गमस्ति येन पूर्वप्रेतपिण्डान्निधीयत इति प्रतिपद्ये-महि । तस्मात्समाचारो न त्याज्यः । अयमेव पक्षो युक्तियुक्त इति दर्शितः । तस्मान्मत-भेदेनापच्छेदतः पूर्वप्रेतनिधानपक्षोपन्यासः केषाञ्चित्—
“ असपिण्डक्रियाकर्म द्विजातेः संस्थितस्य च ।
अदैवं भोजयेच्छ्राद्धं पिण्डमेकं च निर्वपेत् ” ॥
अत्र सपिण्डीकरणं मृते पितरि जीवति पितामहे पाक्षिकं ज्ञेयम् । यदा ‘ न जीवन्तमतिक्रम्य ददातीत्येवं नाश्रीयते । यदा तु स एषाग्रता स्यादिति पक्षस्तदा पितामहमतिक्रम्य पूर्वैः संसर्जनीयः । एवं तु पुत्रस्यापि मृतस्य पित्रा विकल्पेनैव कर्तव्यमेवमनपत्यभार्यामरणे जीवन्मातृकस्यैष एव विधिः । “ प्रमत्तानामितरे कुर्वीरंस्ताश्च तेषामिति ” । सुतैरपत्यैरित्यर्थः । यद्यपि सुतग्रहणं तत्स्थानापन्नानामन्येषामपि ग्रहणं, यदि स्वशब्देन नास्ति निषेधः ॥२३८ ॥
हिन्दी – धर्मानुसार सपिण्डीकरण के बाद इसी पार्वण श्राद्ध की विधि से पुत्रों को पिण्डदान करना चाहिए ॥ २३८ ॥
शूद्र को उच्छिष्टान्न देने का निषेध-श्राद्धं भुक्त्वा य उच्छिष्टं वृषलाय प्रयच्छति । समूढो नरकं याति कालसूत्रमवाक्शिराः ॥ २३ ९ ॥ भाष्य — ‘ यद्यपि श्राद्धभुजो दोषग्रहणं तथापि कर्तुरयमुपदेशः । तेन तथा कर्तव्यं यथा न प्रयच्छति । ऋत्विनियमवत् । वृषलः शूद्रः । अवाक्शिरा ऊर्ध्वपादः । प्रकृत एव सपिण्डीकरणम्मा विज्ञायीति श्राद्ध-ग्रहणम् ॥२३९ ॥
हिन्दी— श्राद्ध में ब्राह्मण - भोजन करने के बाद उच्छिष्ट ( जूठे अन्नों ) को जो मनु I- 31
पृष्ठ 498
पाठ पढ़ें पाठ छिपाएँ
४२२ मनुस्मृतिः [ तृतीयः मूर्ख शूद्र के लिए देता है; वह अधोमुख होकर कालसूत्र नरक को जाता है ॥ २३ ९ ॥ श्राद्ध भोजनोपरान्त स्त्री- सम्भोग का निषेध-श्राद्धभुग्वृषलीतल्पं तदहर्योऽधिगच्छति । तस्याः पुरीषे तं मासं पितरस्तस्य शेरते ॥ २४० ॥
भाष्य- - ' वृषली स्त्रीमात्रोपलक्षणार्थमेतदित्याहुः । निरुक्तं कुर्वन्ति वृषस्यास्ति चलयति भर्तारमिति वृषली । सा च ब्राह्मणी अन्या वा सर्वा निषिध्यते । तथा च स्मृत्यन्तरं “ तदहर्ब्रह्मचारी स्यान्नियत ” इति । तल्पशब्देन मैथुनसंयोगो भण्यते । न शयनारोहणप्रतिषेध एव । अहर्ग्रहणमहोरात्रलक्षणपरम् । रात्रावपि निषेधः स्यात् । पुरीष इति निन्दार्थवादो निवृत्त्यर्थः । पितरस्तस्य श्राद्धभुजः । अयमपि पूर्ववद्वचनीयः । इदं तु युक्तं यदुभयोर्नियम इति । नैमित्तिकोऽयं
भोक्तुर्धर्मः श्राद्धभोजने निमित्ते विधीयते । प्रकरणाच्च कर्मार्थोऽपि ॥ २४० ॥
हिन्दी – श्राद्ध में भोजनकर जो ब्राह्मण उस दिन वृषली ( मैथुनेच्छु स्त्री ) के साथ सम्भोग करता है, उसके पितर उसके पुरीष ( वृषली - मैला ) में एक मास तक सोते ( रहते ) हैं ॥२४० ॥
तृप्त ब्राह्मणों को विसर्जित करना—
पृष्ट्वा स्वदितमित्येवं तृप्तानाचामयेत्ततः ।
आचान्तांश्चानुजानीयादभितो रम्यतामिति ॥ २४१ ॥
भाष्य — ‘ आचमनिकमन्नपानं दत्वा प्रष्टव्याः, ' स्वदित ' मित्यनेन शब्देन । स्मृत्यन्तराच्चान्नं परिगृह्य प्रश्नोऽयं कर्तव्यः । भवति हि कस्यचिदयं स्वभावो यदसन्निहितमन्नं सत्यपि तदभिलाषे यन्त्रणया न मृगयते सन्निहितं तु गृह्णाति । तृप्तानाचामयेत् । अन्ये तु ‘ तृप्ताः स्थ ' इत्यनेन शब्देन प्रष्टव्याः । ज्ञात्वा च तृप्तान् ‘ स्वदितमिति ’ अनेन शब्देन बृंहणीयाः । वक्ष्यति – “ पित्रे स्वदितमित्येव वाच्यमिति ” । आचान्तांश्चानुजानीयादभितो रम्यतामिति । ' अभितः ' उभयतः, इहैव स्वगृहे वा यथेष्टमास्यतामित्यर्थः ॥२४१ ॥
हिन्दी – उन ब्राह्मणों को तृप्त जानकर ' भोजन कर लिये? ' ऐसा ' पूछकर फिर
पृष्ठ 499
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा’हिन्दीटीकासहिता ४२३ उन्हें आचमन करावे और आचमन किए हुए उन ब्राह्मणों से ' हे ब्राह्मणों, अब आप लोग जाइये ’ ( ‘ भो अभिरम्यताम् ' ) ऐसा कहे ॥ २४१ ॥
ब्राह्मणों का ' स्वधा ' कहकर आशीर्वचन—
स्वधाऽस्त्वित्येव तं ब्रूयुर्ब्राह्मणास्तदनन्तरम् ।
स्वधाकारः परा ह्याशीः सर्वेषु पितृकर्मसु ॥ २४२ ॥
भाष्य— ' भुक्तवद्भिर्गृहगमनाभ्यनुज्ञातैरनन्तरं स्वधेति वाच्यम् । स्वधाकारः स्वधाशब्दोच्चारणम् । प्रकृष्टा आशीः । पितृकार्येषु सर्वेषु पक्वान्ना-पक्वान्नश्राद्धेषु ॥२४२ ॥
हिन्दी — उसके बाद वे ब्राह्मण ‘ स्वधास्तु ' ( स्वधा हो ) ऐसा ( श्राद्धकर्त्ता से ) कहे, ( क्योंकि ) सब पितृकार्यों ( श्राद्धों ) में ' स्वधाकार ' सर्वश्रेष्ठ आशीर्वाद है || २४२ ॥ बचे अन्न को ब्राह्मणाज्ञानुसार काम में लाना-ततो भुक्तवतां तेषामन्नशेषं निवेदयेत् । यथा ब्रूयुस्तथा कुर्यादनुज्ञातस्ततो द्विजैः ॥ २४३ ॥
भाष्य - ' भुक्तमन्नं तेभ्यो निवेदयितव्यम् । प्रष्टव्यास्ते ‘ इदमस्तीति ’ । यथा
ब्रूयुस्तथा कुर्यादनुज्ञातः । अतोऽननुज्ञातेन नान्यत्र विनियोक्तव्यम् ॥२४३ ॥
हिन्दी – बचे हुए अन्न को भोजन किये हुए उन ब्राह्मणों से निवेदन करे ( यह अन्न बचा है, ऐसा कहे ), फिर वे ब्राह्मण उस अन्न से जो कार्य करने के लिये कहें, वैसा, करे || २४३ ॥ एकोद्दिष्टादि श्राद्ध में तृप्ति - प्रश्न की विधि-पित्र्ये स्वदितमित्येव वाच्यं, गोष्ठे तु सुभृतम् । सम्पन्नमित्यभ्युदये, दैवे रुचितमित्यपि ॥ २४४ ॥
भाष्य — ‘ अन्येनापि तत्कालोचितोपस्थितेनैवमेभिः शब्दैः मोदयितव्याः । अन्यस्त्वाह । अनुज्ञापनमेतैः शब्दैर्भोजनादिप्रवृत्तौ कर्तव्यम् । अतश्च श्राद्धकृता परितुष्ट्यैवं वक्तव्यम् — स्वदध्वमिति न हि स्वदितम् । स्वदतु इति वा पाठः । एतस्यार्थस्य प्रतिपादकं एतद्व्याख्यानं स्मृत्यन्तरसमाचारसापेक्षम् तस्मात्प्रवृत्तभो-जनाः श्राद्धकृताऽन्येन वैवं प्रीणयितव्याः । गोष्ठे गोषु तिष्ठन्तीष्वेकदेशेषु सुशृतमिति वाच्यम् ।
अस्त्विति सर्वत्र प्रतीयते ।
दैवे रुचितं रोचितमिति वा ॥२४४ ॥
पृष्ठ 500
पाठ पढ़ें पाठ छिपाएँ
४२४ मनुस्मृतिः [ तृतीय: हिन्दी – भोजन किये हुए उन ब्राह्मणों की तृप्ति पूछने के लिये श्राद्धकर्त्ता पितृश्राद्ध ( निरपेक्ष पितृ - मातृ - देवता वाले एकोदिष्ट श्राद्ध ) में ' स्वदितम् ' ', गोष्ठी श्राद्ध में ‘ सुश्रुतम् ’, वृद्धि श्राद्ध ( आभ्युदयिक श्राद्ध ) में ' सम्पन्नम् ' और देव श्राद्ध में ‘ रुचितम् ' ऐसा प्रश्न करे ॥२४४ ॥
विमर्श — मेधातिथि तथा गोविन्दराज ने ' श्राद्ध में आये हुए दूसरे व्यक्ति ' भी ‘ स्वदितम् ’ ऐसा कहकर ही ब्राह्मणों से तृप्ति विषयक प्रश्न करे ' ऐसा कहा है । बारह प्रकार के श्राद्धों में विश्वामित्र ' गोष्ठीश्राद्ध ' को गिनाया है । भविष्यपुराणोक्त वचन के अनुसार देवताओं के उद्देश्य से विशिष्ट हविष्य के द्वारा सप्तमी आदि में जो यत्नपूर्वक श्राद्ध किया जाता है, वह ' देव श्राद्ध ' ' है । श्राद्ध कर्मों में श्रेष्ठ सम्पत्तियाँ—
अपराह्णस्तथा दर्भा वास्तुसम्पादनं तिलाः ।
सृष्टिर्मृष्टिर्द्विजाश्चाग्र्याः श्राद्धकर्मसु सम्पदः ॥ २४५ ॥
भाष्य — ‘ अपराह्ने श्राद्धं कर्तव्यम् । श्राद्धकर्मसु सम्पदः । सम्पादयितव्यान्येतानि वस्तूनि । अविशेषाभिधानेऽप्यपराह्णे न सर्वश्राद्धेषु । एवं हि स्मृत्यन्तरम् ।
“ पूर्वाह्णे दैविकं कार्यमपराह्ने तु पैतृकम् ।
एकोद्दिष्टं तु मयाह्ने प्रातर्वृद्धिनिमित्तकम् ' इति ॥
वास्तु वेश्म, तस्य सम्पादनं सम्मार्जनं सुधादिना भित्तीनां गोमयेन भूमेरुपलेपनं दक्षिणप्रवणता च । सृष्टिर्विसर्गः अकार्पण्येनान्नव्यञ्जनदानम् । मृष्टिर्मार्जनम् । अन्न-संस्कारविशेषः । अन्ये तु व्याचक्षते । सम्पदेषा विभवशक्तिः, न त्वेतैर्विना अकरणम् ॥२४५ ॥
हिन्दी — अपराह्न काल, ( विष्टर पवित्री आदि के लिये ) कुशा, गोबर आदि से १. ' स्वदितमिति तृप्तिप्रश्न: ' इति गोभिलसांख्यायनौ । २. तथा ह्युक्तम्— ‘ श्राद्धे स्वदितमित्येतद्वाच्यमन्येन केनचित् । नानुरुद्धमिदं विद्वद्वृद्धैनं श्रद्धधीमहि ॥ ' इति । ३. ‘ गोष्ठ्यां शुद्ध्यर्थमष्टमम् ' इति विश्वामित्रवचनात् । ४. तथा च भविष्यपुराणे-' देवानुद्दिश्य यच्छ्राद्धं तत्तु दैविकमुच्यते । हविष्येण विशिष्टेन सप्तम्यादिषु यत्नतः ॥ ' इति ।