मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 531–540
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 531–540
पृष्ठ 531
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ४५५ हिन्दी - ( जिस किसी प्रकार से अपने को तथा भृत्यों को जिलाते अर्थात् पालन-पोषण करते हुए ) स्वाध्याय ( वेद, स्मृति ) के विरुद्ध कार्यों को छोड़ दे । जिस किसी प्राकार से स्वाध्याय में तत्पर रहना ही इस ( स्नातक ब्राह्मण ) की कृतकृत्यता ( कृतार्थता ) है ॥१७ ॥
वय आदि के अनुसार वेषादिधारण— वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च । वेषवाग्बुद्धिसारूप्यमाचरन्विचरेदिह भाष्य - ' वयस इति सारूप्यापेक्षा षष्ठी ।
वेषवाक्बुद्धीति समाहारे द्वन्द्वः ।
सारूप्यमिति स्वार्थे ष्यञ् ॥। १८ ॥
तेनायमर्थो भवति— वयाद्युचिता वेषादयः कर्तव्याः । सारूप्यमौचित्यम्, अन्य-स्याकृत्यादेः सादृश्यासम्भवात् । वेषः केशाभरणादिविन्यास: । तत्र प्रथमे वयसि शिखण्डकः, यौवने कौन्तलादि-धारणं, वार्धके जटामुण्डनादि । वयोनुरूपा वाक् । एवं बुद्धिः त्रिवर्गानुष्ठानधारणं प्रथमं, जीर्यतः केवलं धर्म-प्रधानम् । कर्मानुरूपो वेषः अर्थानुरूपश्च । तेन हि भावितव्यं - कुलानुरूपेण दशनराग-धम्मिल्लादि उद्धतमपि नौद्धत्यमावहति । तदुक्तं “ अस्य लोकव्यवहारो विषय ” इति । एतदुक्तं भवति । नायं विध्यर्थः, अपरैर्निश्चितार्थत्वात् । लोकव्यवहारमूलस्त्वयमनुवादः – ‘ एवं वर्तमानो लोकवृत्तानु-वर्ती भवति, न लोकद्वेष्यतामेति ' ॥१८ ॥
हिन्दी – अवस्था ( उम्र ), कर्म, सम्पत्ति, शास्त्र ( पठनपाठनादिज्ञान ) और कुल के अनुसार वेष, वचन ( बोलना ) और बुद्धि का व्यवहार करता हुआ इस संसार में विचरण करे ॥१८ ॥
विमर्श— वय - युवावस्था में पुष्प माला, सुगन्धि तैल, इत्र, लेप चन्दनादि तथा वृद्धावस्था में परमात्मा का चिन्तन, सामान्य वेश - भूषा रखना, धन, धान्य, पुत्र, काम-वासनादि से विरक्ति आदि । इसी प्रकार से कर्म आदि के अनुसार अपने आचरण को रखना चाहिये । सर्वदा शास्त्रावलोकन—
बुद्धिवृद्धिकराण्याशु धन्यानि चहितानि च ।
नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान् ॥ १ ९ ॥
पृष्ठ 532
पाठ पढ़ें पाठ छिपाएँ
४५६ मनुस्मृतिः [ चतुर्थ: भाष्य - ' बुद्धिवृद्धिकराणीतिहासपुराणानि तर्कशास्त्राणि बार्हस्पत्यौशनसादीनि । हितानि उपकारकाणि दृष्टार्थानि वैद्यकज्यौतिषादीनि, अर्थशास्त्रस्य पृथगुपदेशात् । वैदिका निगमा वेदार्थज्ञानहेतवो निगमनिरुक्तव्याकरणमीमांसाः । ऋचो रूढिग्रहणे त्वदृष्टार्थता स्यात् ॥१९ ॥
हिन्दी —– शीघ्र बुद्धि को बढ़ाने वाले ( वेद से अविरुद्ध व्याकरण, न्याय, मीमांसा, स्मृति और पुराणादि ), धन को बढ़ाने वाले ( अर्थशास्त्र ) दृष्ट ( प्रत्यक्ष रूप से ) हित करने वाले ( आयुर्वेद, ज्योतिष आदि ) शास्त्रों को तथा वेदार्थ को बतलाने वाले निगम ( निरुक्त ) को सर्वदा देखता ( मनन करता ) रहे ॥१९ ॥
शास्त्रावलोकन से ज्ञाननैर्मल्य—
यथा यथा हि पुरुषः शास्त्रं समधिगच्छति ।
तथातथा विजानाति विज्ञानं चास्य रोचते ॥ २० ॥
भाष्य— “ समधिगमो’ऽभिनिवेश: अभ्यास इति यावत् । विजानाति विशेषेण जानाति— प्रत्यक्षं चैतदभ्यस्यमाने ग्रन्थेऽपि यद्विद्यत इति । तदा विज्ञानं चास्य रोचते । उज्ज्वलं भवतीत्यर्थः । पूर्वस्याः स्मृतेर्मूलकथन-मेतत् । रुचेरभिलाषार्थत्वाद्रुच्यर्थानामिति सम्प्रदानत्वाभावः ॥२० ॥
हिन्दी – मनुष्य जैसे - जैसे शास्त्रों का अच्छी प्रकार अभ्यास करता है वैसे - वैसे विशेष जानने लगता है और उसका विशेष ज्ञान निर्मल होता है ॥२० ॥
[ शास्त्रस्य पारं गत्वा तु भूयो भूयस्तदभ्यसेत् । तच्छास्त्रं शबलं कुर्यान्न चाधीत्य त्यजेत्पुनः ॥ २ ॥ ]
[ हिन्दी — शास्त्र का पारंगामी होकर बार - बार उसका अभ्यास करे । उस शास्त्र को ( निरन्तर अभ्यास के द्वारा ) उज्ज्वल ( सन्देह रहित ) करे और उसे पुनः ( पढ़ने के बाद ) फिर छोड़ मत दे || २ || ]
भाष्य -पञ्चयज्ञों का यथाशक्ति पालन-ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा ।
नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् ॥ २१ ॥
- तृतीयाध्याये विहितानां महायज्ञानामनुवादो विशेषाभिधानार्थः । स च विशेष उत्तरत्र वक्ष्यते ( २२ श्लो ० ) “ अनीहमानाः ” अन्ये तु मन्यन्ते । व्रताधिकारे पुनर्वचनं नियमसिद्ध्यर्थम् । तेनेदृशः सङ्कल्पः कर्तव्यो ‘ यावद्गार्हस्थ्यं मया महायज्ञा न हापयितव्याः ' । न त्वियमाशङ्का कर्तव्या-“ द्विर्वचनं द्विर्विधानार्थम् ’ ” । न ह्यत्र विधिः श्रूयते । केवलं न हापयेदित्युच्यते । नित्य-
पृष्ठ 533
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता
त्वाच्चाहानिः प्राप्तैव न विहितप्रत्यभिज्ञानतः कश्चित् कर्मभेदे हेतुरस्ति ।
यथाशक्ति पक्वान्नेन आमेन वा मूलफलैर्वा ॥२१ ॥
४५७ हिन्दी — सर्वदा ऋषियज्ञ ( वेदस्वाध्याय ), देवयज्ञ ( पार्वणश्राद्धादि ), भूतयज्ञ ( बलिवैश्वदेव ), नृयज्ञ ( अतिथि - भोजनादि ), और पितृयज्ञ ( तपर्ण - श्राद्धादि ) का यथा-शक्ति त्याग न करे ॥२१ ॥
इन्द्रिय यज्ञ–
एतानेके महायज्ञान्यज्ञशास्त्रविदो जनाः ।
अनीहमानाः सततमिन्द्रियेष्वेव जुह्वति ॥ २२ ॥
भाष्य – एतान् महायज्ञान् एके यज्ञशास्त्रविदो गृहस्था इन्द्रियेष्वेव जुह्वति सम्पादयन्ति । कतमे पुनस्ते । अनीहमानाः । ये नेच्छन्ति धनं त्यक्तगृहव्यापारा देहसांन्यासिकादयः । शिलोञ्छवृत्तेरप्येवं विधिमिच्छन्ति, पङ्ग्वादीनां च । तेषां हि दारकरणं वक्ष्यति ( अ ० ९ श्लो ० २० ) " यद्यर्थिता तु दारैः स्यादिति " । न चैतेषां पञ्चयज्ञाधिकारः । अद्रव्यत्वाद्भरणमात्रं ते लभन्ते, नाधिकं कर्मानुष्ठानार्थमपि । जुहोतिः करोत्यर्थनिर्वर्त्यतां लक्ष्यति । न हि क्रियाविशेषो यागः क्रियाविशेषस्य होमस्य कर्मतां प्रतिपद्येत । न हि भवति ' पचति पाकमिति ' । भवति तु ' पाकं करोति ’ ‘ यागं करोतीति ’ । सामान्यविषयाकांक्षास्तु क्रिया द्रव्यकर्माणि साधनीकुर्वन्ति । ' इच्छति भोक्तुं ’, ‘ शक्नोति भोक्तुं ’, ‘ जानाति भोक्तुम् ' । दृष्टश्च विशेषः सामान्यलक्षणार्थः-' अयं गौ: पदा द्रष्टव्य ' इति । एवं च होमं केचिदिन्द्रियेषु तत्संयममेव व्याचक्षते । अपरेषां प्राणसंवादोपनिषदि यद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं सायंप्रथमाहुतिं जुहुयात्प्राणाय स्वाहेत्यादिना । अन्ये तु— य एवोत्तरश्लोके उपासनाविधिरुक्तः स एवायं ' होम: ' । तथा च तयोरेकवाक्यता प्रतीयते । " ननु चोत्तरत्र वाचि प्राणं नेन्द्रियम् । ” नैष दोषः । आध्यात्मिकत्वोपलक्षणार्थमिन्द्रियग्रहणम् । बाह्यसाधनसाध्यता नास्ती-त्येतदत्र विवक्षितम् ॥२२ ॥
हिन्दी - शास्त्रज्ञाता कुछ गृहाश्रमी इन यज्ञों ( ४।२१ ) को नहीं करते हुए सर्वदा
पञ्च ज्ञानेन्द्रियों ( २।९ ० - ९९ ) में हवन करते हैं ॥२२ ॥
पृष्ठ 534
पाठ पढ़ें पाठ छिपाएँ
४५८ मनुस्मृतिः [ चतुर्थ: विमर्श - नेत्र, जिह्वा, नासिका, त्वचा और कान; ये पाँच ज्ञानेन्द्रिय हैं, इनके विषय क्रमशः रूप, रस, गन्ध, स्पर्श और शब्द का ग्रहण है । नेत्र इन्द्रिय से रूप का ग्रहण नहीं करना अर्थात् नेत्र से सुन्दर से सुन्दर या विकृत से विकृत भी रूप को देखते हुए भी उसमें आसक्ति या घृणा नहीं करना ही ' नेत्रेन्द्रिय ' का संयम है । इसी प्रकार अन्य इन्द्रियों के विषयों में भी आसक्ति आदि का त्याग कर उनका संयम करना ही ' इन्द्रियों में हवन ' करना है ।
वाक- यज्ञ-वाच्येके जुह्वति प्राणं प्राणे वाचं च सर्वदा ।
वाचि प्राणे च पश्यन्तो यज्ञनिर्वृत्तिमक्षयाम् ॥ २३ ॥
भाष्य- – यदाऽयं पुरुष उच्छ्वसिति तदैवमनेन ध्यातव्यम् ' वाचं प्राणे जुहो-मीति ’ । भाषमाणेन च ‘ वाचि प्राणं जुहोमीति ' । एतावतैव पञ्चयज्ञा निर्वृत्ता भवन्ति । “ यदि नित्याः फलाय न वक्तव्याः ” । आत्मज्ञाश्चात्राधिक्रियन्ते ।
विहितो ह्ययमर्थः पञ्चाग्न्युपासनायां उपनिषत्सु कौषीतकीब्राह्मणे विस्तरेण ।
अक्षयं फलतः, अपुनरावृत्तिफलत्वात् ॥२३ ॥
हिन्दी — वचन तथा प्राणों में यज्ञ के अक्षय फल को जानते हुए कुछ गृहाश्रमी सर्वदा वचन में प्राणों को तथा प्राणों में वचन को हवन करते हैं ॥ २३ ॥
विमर्श — जैसे कि कौषीतकीरहस्य ब्राह्मण में कहा है— “ जब तक पुरुष बोलता है, तब तक प्राण ( श्वास लेने ) के लिए समर्थ होता है, तब वचन में प्राण का हवन करता है; और जब तक श्वास लेता है, तब तक बोल नहीं सकता, तब प्राण में वचन का हवन करता है; इस प्रकार अनन्त अमृत में हवन करने वाला ( वह ) जागता सोता हुआ सर्वदा हवन करता है । अथवा अनन्तर व्यस्त अन्य आहुतियाँ कर्ममयी होती हैं, इस प्रकार के कर्म को पूर्व के विद्वानों ने उसकी अग्निहोत्र क्रिया कहा है । '
ज्ञानयज्ञ-ज्ञानेनैवापरे विप्रा यजन्ते तैर्मखैः सदा ।
ज्ञानमूलां क्रियामेषां पश्यन्तो ज्ञानचक्षुषा ॥ २४ ॥
-१. ‘ यथा कोषीतकीरहस्ये ब्राह्मणम् – ' यावद्वै पुरुषो भाषते, न तावत् प्राणितुं शक्नोति, प्राणं तदा वाचि जुहोति; यावद्धि पुरुषः प्राणिति, न तावद्भाषितुं शक्नोति वाचं तदा प्राणे जुहोति; एतेऽनन्तेऽमृते आहुती जाग्रत्स्वपंश्च सतत् जुहोति । ' अथवा ' अन्या आहुतयोऽनन्तरन्यस्ताः कर्ममय्यो हि भवन्त्येवं हि तस्यैतत्पूर्वे विद्वांसोऽग्निहोत्रं जुहवाञ्चक्रुः ” इति । ( म ० मु ० ) ।
पृष्ठ 535
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ४५ ९ भाष्य — तैर्मखैः प्रकृतैर्महायज्ञैर्यजन्ते, तद्विषयमधिकारं निष्पादयन्ति ॥ अतोऽर्थ-भेदाद्यजन्ते । यज्ञैरिति साध्यसाधकभावोपपत्तिः । यथा — ऽग्निष्टोमयाजीति ’ । “ कथं पुनर्ज्ञानेन यागनिर्वृत्तिः । देवतोद्देशेन द्रव्यत्यागात्मको यागः । न च ज्ञान-मेवंरूपम् ” । उच्यते । यजन्त इति यागकार्यनिर्वृत्तिरत्राभिप्रेता । “ यदि ज्ञानात्कार्यनिर्वृत्तिः किमर्थं तर्हि कर्मणामनुष्ठानम् । न ह्यविषयः कर्मा-नुष्ठानसम्भवः । अथेयं बुद्धिः, ' य उ चैनमेवं वेदेति ' ज्ञानस्यापि फलसाधनत्वेन श्रवणात् कृतं कर्मानुष्ठानेनेति, – तदसत् । अन्यशेषतया तस्यार्थवादत्वात् । ” अत्रोच्यते । उक्तमस्माभिरनीहमाना आत्मज्ञा अधिक्रियन्ते । त एव ज्ञानिनो-ऽभिप्रेताः, न कर्मानुष्ठानवेदिनः । तेषां वेदसंन्यासिकतया गृहे अवतिष्ठमानानां महा-यज्ञानां भावनेयमुच्यते । द्रव्यसाध्यानां च महायज्ञानां आत्मज्ञानसंपादनमेवमुच्यते । स्वाध्यायोदकतर्पणयोस्तु कर्मसाध्यतामेव षष्ठे वक्ष्यति । अत्र कारणरूपमर्थवादमाह । ज्ञानमूलाम् — ज्ञानं मूलमस्याः क्रियायाः । सर्वस्य कर्मानुष्ठानस्य ज्ञानं मूलम् । न ह्यविद्वान् किञ्चिदनुष्ठातुं शक्नोति । तदुक्तं “ विद्वान्यजेत इति ” । पश्यन्तो ज्ञानचक्षुषा । ज्ञानं चक्षुरिव । यथा चक्षुषा रूपं गृह्यते एवं ज्ञानात् ज्ञायते । न तत् ‘ ज्ञानं ’ वेद एवाभिप्रेतः ॥२४ ॥
हिन्दी – कोई - कोई ( ब्रह्मनिष्ठ गृहाश्रमी, ज्ञानरूपी नेत्र से ही ज्ञान - मूलक इन क्रियाओं ) ( ४।२१ में कथित यज्ञानुष्ठानों ) की उत्पत्ति को देखते हुए ज्ञान से ही इन ( पञ्च ) महायज्ञों को करते हैं ॥ २४ ॥
विमर्श - सम्पूर्ण जगत् ब्रह्म है, ऐसे ज्ञान से इन पञ्चमहायज्ञों को भी ब्रह्म-रूप से ध्यान करते हुए इन यज्ञों का फल प्राप्त करते हैं । पूर्वोक्त इन तीन श्लोकों ( ४।२२-२४ ) में ब्रह्मनिष्ठ वेदसंन्यासी गृहस्थों की यह विधि वर्णित है ।
सन्ध्योपासन, दर्शपौर्णमास श्राद्ध-अग्निहोत्रं च जुहुयादाद्यन्ते द्युनिशोः सदा ।
दर्शेन चार्धमासान्ते पौर्णमासेन चैव हि ॥ २५ ॥
भाष्य — अग्निहोत्रादयः शब्दाः श्रुतौ गृह्यस्मृतिषु च कर्मविशेषवचनतया प्रसिद्धाः । सेतिकर्तव्यताकाः तत्र विहिताः । तेषामयमनुवादो न त्वत्रापूर्वविधिः, रूपावचनात् । केवलं होमविषया कर्तव्यता श्रुता, न द्रव्यं न देवता । अग्निहोत्रादि नामधेयं च विशेषा-कांक्षम् । अतः शास्त्रान्तरावगतविशेषवचनतैव प्रतीयते । “ यद्येवं तत एव कर्तव्यतावगमादनर्थकमिदम् । ”
पृष्ठ 536
पाठ पढ़ें पाठ छिपाएँ
४६० मनुस्मृतिः [ चतुर्थः वेदसंन्यासिकानां प्रकृतोपासनासंवादनार्थम् । तथैव " वाच्येके जुह्वति प्राणं ” ज्ञाने-नैवेति ( श्लो ० २४ ) च पञ्चमहायज्ञाः संपाद्यन्ते — तद्वदेतदपीति । कश्चायमुपालम्भः ‘ किमर्थं पुनर्वचनमिति । ’ सर्वश्रुतीनां स्मृतीनां च यदेकदेशेऽभिहितं तस्यैवान्यत्र पुनर्वचनस्य चोद्यापत्तेः । उक्तश्च सामान्यतः परिहारः - प्रतिपत्तृभेदान्न पौनरुक्त्यमिति । यथा प्रति-पत्तृभेदादिन्द्रियभेदो नैकेन चक्षुषा सर्वे द्रष्टुं शक्नुवन्ति बहूनीन्द्रियाणि प्रयोजनवन्ति, एवं शाखाभेदः स्मृतिभेदश्च । अथोच्यते “ कस्माद्रूपावचनमिति । ” एषोऽपि न दोषः । प्रतिशाखमितिकर्तव्यताया भेद: -सर्वाभिधाने गौरवम् । एकतराभिधाने अन्यत्तरपरित्यागः । " तदपि चोद्यमेव । ” कस्याभिधानं क्रियताम् । उक्तं चानुवादोऽयं न विधिः । विधौ हि चोद्यमेतत् स्यात् ‘ अन्यत्र विहितं किमर्थं पुनर्विधानमिति । ' आद्यन्ते द्युनिशोः । नात्र यथासंख्यम्, किंतर्हि दिव आदौ निशायाश्चादौ, एवं दिवोऽन्ते निशायाश्चान्त इति । सायंप्रात: कालावेतेन परिगृह्येते । तत्रोदितहोमिनां अहरादौ अनुदितहोमिनां निशान्ते । द्युशब्दो दिवसपर्यायः । सदा । यावज्जीवं सायंप्रातर्होमः कर्तव्यः । दर्शेन यजेतेत्यत्राध्याहर्तव्यम् । न हि तत्रोत्पत्तौ जुहुयादित्यस्ति, किंतर्हि ‘ दर्शेन यजेतेति । तदनुवादश्चायम् । अतएवाध्याहारः क्रियते । अत एव अविशेषश्रवणेऽपि अर्धमासान्त इति कृष्णपक्षान्ते दर्शः शुक्लान्ते पौर्णमासः । तथा च श्रुतिः “ दर्शे च दर्शेन यजेत् पूर्णमास्यां पूर्णमासेन यजेतेति ” ॥२५ ॥।
हिन्दी— ( द्विज अनुदित होमपक्ष में ) सर्वदा दिन और रात के अन्त में अग्निहोत्र हवन करे और मासार्द्ध ( कृष्णपक्ष के अन्त में ) दर्शश्राद्ध तथा शुक्लपक्ष के अन्त में पौर्णमास श्राद्ध करे ॥२५ ॥
विमर्श- अग्निहोत्र के लिए दो पक्ष मन्वर्थमुक्तावलीकार ने बतलाए हैं— पहला उदितहोमपक्ष और दूसरा अनुदितहोमपक्ष । इनमें भी दो विकल्प हैं । प्रथम विकल्प के अनुसार दिन और रात्रि के आदि में अग्निहोत्र करना ' उदितहोम ' तथा दिन और रात्रि के अन्त में अग्निहोत्र करना ‘ अनुदितहोम ' है एवं द्वितीय विकल्प के अनुसार दिन के आदि और अन्त में अग्निहोत्र करना ' उदितहोम ' तथा रात्रि के आदि और अन्त में अग्निहोत्रं ' करना ‘ अनुदितहोम ’ है ।
पृष्ठ 537
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता सस्यान्ते नवसस्येष्ट्या तथर्त्वन्ते द्विजोऽध्वरैः । ४६१ पशुना त्वयनान्ते तु समांते सौमिकैर्मखैः ॥ २६ ॥
भाष्य — सस्यशब्दो ब्रीह्यादिधान्यवचनः । तस्यान्तः क्षयः । पूर्वसस्येषु क्षीणेषु नवसस्येष्ट्या यजेत, आग्रयणेनेत्यर्थः । न चात्र पूर्वसस्यक्षय आग्रयणनिमित्तं, नापि नवसस्यागमः, किंतर्हि अकृता-ग्रयणस्य नवान्नाशनं प्रतिषिद्धम् । येनाह “ नानिष्ट्वा नवान्नमद्यादिति ” । अतो नवसस्य-भक्षणमाग्रयणेनेत्यर्थः 1 । तेन यजेतेति व्याचक्षते । अस्मिंस्तु पक्षे पूर्वसस्याभावात् नवसस्यस्य भावादन्यतो वा, असत्यां चाशि-शिक्षायां न नियमतया आग्रयणं प्राप्नोति । अथेदं ' सस्यांत ' इति नवोत्पत्त्युपलक्षणं, तदाऽनिष्ट्वा भक्षणं प्राप्नोति । तस्माद् द्वे एते वाक्ये । ' नानिष्ट्वाऽश्नीयात् ' इत्येकं, ‘ सस्यान्त ’ इति द्वितीयम् । ‘ सस्यान्त’ग्रहणेन च सस्योत्पत्तिरेवाभिप्रेता, नियतत्वात्तस्या निमित्तस्योपपत्तिः । क्षयस्त्व-नियत:, धनिनां हि त्रैवार्षिकान्यपि धान्यान्यत्र प्रवर्तन्ते । अत एव सूत्रकारः “ सस्यं नाश्रीयादग्निहोत्रमहुत्वेति ” । तथा ' यदा वर्षस्य तृप्तः स्यादथाग्रयणेन यजेतेति ” । तथेदमपरं “ शरदि नवान्नमिति ” कालविशेषविधायकम् । तत्र यस्य पूर्वसस्यक्षयो नास्ति, स शरदमाद्रियते, इतरस्तु न । एवमुभयोरर्थवत्ता च भवति । इतरथा एवमेवावक्ष्यत ‘ नव-सस्योत्पत्तौ नवसस्येष्ट्या यजेतेति ' । यतस्त्वाह “ नानिष्ट्वा नवसस्येष्ट्या नवान्नमश्रीया-दिति’— तेन उत्पन्नेष्वपि नवसस्येषु विद्यमानस्य अस्ति शरत्प्रतिपालनम् । नवसस्यो-त्पत्तिनिमित्तत्वाच्च असत्यामपि नवान्नाशनेच्छायां नियमत आग्रयणम् । ऋत्वन्ते । ‘ ऋतुः संवत्सर ’ इतिदर्शनेन चातुर्मास्यानामेतत्करणमुच्यते । अध्वर-शब्देन तान्येवाभिप्रेतानि । अयनयोरादी अयनान्ते । ते च द्वे अयने दक्षिणमुत्तरं च । तत्र पशुयागः कर्त्तव्यो द्विः संवत्सरस्य । सूत्रकारस्त्वाह “ षाण्मास्यः सांवत्सरो वेति ” । समान्ते । समाशब्दः संवत्सरपर्यायस्तस्य चान्तः समाप्तिः, शिशिरे । न च तत्रेदं सौमिकयागविधानं, किंतर्हि गते तस्मिन्वसन्त आगते । तथा च श्रुतिः “ वसन्ते वसन्ते ज्योतिषा यजेतेति ” एतावन्ति नित्यानि कर्माणि । तानि यथाकथंचिद्वेदसंन्यासिकेनापि संपाद्यानीति सर्वस्य तात्पर्यम् ॥२६ ॥
हिन्दी — पुराने अन्न के अन्त समय ( समाप्ति ) में या असमाप्ति ' में भी ‘ नवसस्येष्टि ’ १. ‘ शरदि नवानाम् ' इति सूत्रकारवचनसमाप्तेऽपि पूर्वसस्ये इत्युक्तेः ।
पृष्ठ 538
पाठ पढ़ें पाठ छिपाएँ
४६२ मनुस्मृति [ चतुर्थः ( आग्रहायण यज्ञ ) से, ऋतु के अन्त में ' चातुर्मास्य ' यज्ञ से, अयनों के अन्त में ' पशुबंध ' यज्ञ से और वर्ष के अन्त में ' अग्निष्टोम ' आदि यज्ञ से यज्ञ करे ॥ २६ ॥
विमर्श — इस श्लोक में ‘ ऋतु ' शब्द के ' हेमन्त ' आदि छ: ऋतु इष्ट नहीं हैं किन्तु शीत, ग्रीष्म और वर्षा— ये ही तीन ऋतु इष्ट हैं । उत्तरायण और दक्षिणायन के भेद से अयन दो होते हैं, सूर्य की मकर संक्रान्ति से लेकर मिथुन संक्रान्ति तक ' उत्तरायण ' तथां कर्क संक्रान्ति से लेकर धनु संक्रान्ति तक ' दक्षिणायन ' होता है । ज्योतिःशास्त्र के अनुसार चैत्र शुक्ल प्रतिपद से वर्ष का आरम्भ होने से शिशिर ऋतु के समाप्त होने पर बसन्त ऋतु में वर्षान्त सम्बन्धी ' अग्निष्टोमयज्ञ ' करना चाहिये । नवसस्येष्टि के बिना नवान्न भोजन निषेध-नानिष्ट्वा नवसस्येष्ट्या पशुना चाग्निमान् द्विजः । नवान्नमद्यान्मांसं वा दीर्घमायुर्जिजीविषुः ॥ २७ ॥
भाष्य — अग्निमानाहिताग्निरत्राभिप्रेतः, व्रताधिकारात् । तस्य होमस्य याजुर्वेदिकं व्रतम् । नानिष्ट्वा पशुना मांसं समश्नीयान्नाग्रयणेन नवान्नमिति । नियमानुपालने फलमाह । दीर्घमायुर्जिजीविषुः । आयुःशब्देन प्रबन्धवत्यः प्राणापानवृत्तय उच्यन्ते । द्वितीया च सत्यपि जीवतेरकर्मकत्वेऽपि इषिक्रियापेक्षया । सन्नन्तोऽपि धातुरिच्छायां वर्तते । अत्रापि दर्शने इषेः कर्म प्रकृत्यर्थो न बाह्यम्, इच्छा वेष्यमाणं प्रति गुणभूता, प्रकृतिप्रत्ययौ प्रत्यार्थं सह ब्रुवत इति सन्नंतादन्यत्रापि । अस्मि-न्नपि दर्शने आयु: शब्देन कालो लक्षयिष्यते, दीर्घकालं जीवनमिच्छन् । तत्र ‘ कालताऽ-वाऽवगन्तव्या कर्मसंज्ञा ह्यकर्मणामिति ' कर्मत्वम् । एष चाहिताग्नेः पशुबन्धे नियम:, आग्रयणेऽपि । गृह्याग्निमतोऽपि गृह्यस्मृतिषु नियमतया आग्रयणं विहितम् । यच्चेदं ‘ शरदि नवान्नमिति ’, तत् व्रीहिश्यामाकयोः न यवानाम् । न च सस्यमात्रेण सस्येष्टियागः, न च माषमुद्गादिना । यत इदं शास्त्रान्तरसापेक्षं, न स्वतो विधायकमि-त्युक्तम् । शास्त्रान्तरेषु च व्रीहिश्यामाकयवैराग्रयणेष्टिर्विहिता । किं त्वन्यदपि सस्यं नाशितव्यमकृतायामाग्रयणेष्टौ । यत् उक्तमविशेषेण ‘ सस्यं नाश्नीयादिति ' । तन्निषेधे ह्यभिप्रेते इयदेवावक्ष्यत् ' आग्रयणं व्रीहिश्यामाकयवानां नाश्री-यादग्निहोत्रमहुत्वेति ' । एवं सूत्रकारेण पठितम् “ आग्रयणं व्रीहिश्यामाकयवानां, सस्यं
नाश्नीयादग्निहोत्रमहुत्वेति ” । अतोऽयं सस्यशब्दो न प्रतिनियतविषय एव ॥२७ ॥
हिन्दी - बहुत आयु तक जीने का इच्छुक अग्निहोत्री ब्राह्मण बिना ‘ नवसस्येष्टि ’ ( आग्रहायण ) यज्ञ किये नये अन्न को तथा बिना ' पशुवंध ' यज्ञ किये नये पशु के मांस को नहीं खावे ॥२७ ॥
पृष्ठ 539
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्यमणिप्रभा’हिन्दीटीकासहिता
नवसस्येष्टि आदि यज्ञ के नहीं करने पर -नवेनानर्चिता ह्यस्य पशुहव्येन चाग्नयः ।
प्राणानेवात्तुमिच्छन्ति नवान्नामिषगर्धिनः ॥ २८ ॥
भाष्य — नित्यतामेव समर्थयते अकरणदोषदर्शनेन । ४६३ नवेन सस्येन अनर्चिता अकृतहोमा अग्नयोऽस्याहिताग्नेः प्राणानेवात्तुमिच्छन्ति भक्षयितुम् । गर्धिनः गर्धं अभिलाषातिशय: - तदस्यास्तीति मत्वर्थीय इनिः ॥२८ ॥
हिन्दी — क्योंकि नये अन्न तथा नये पशु से बिना पूजित नये अन्न तथा नये पशु मांस की अतिशय अभिलाषा करने वाले अग्निदेव ( इस अग्निहोत्री के ) प्राणों को ही खाने की इच्छा करते हैं ॥ २८ ॥
यथाशक्ति अतिथिपूजन-आसनाशनशय्याभिरद्भिर्मूलफलेन
वा ।
नास्य कश्चिद्वसेद्गेहे शक्तितोऽनर्चितोऽतिथिः ॥ २ ९ ॥
भाष्य — उक्तमिदमुत्तरार्थमनूद्यते । न कश्चिदतिथिरनर्चितो गृहे वसेत् । सर्वोऽतिथिरर्चितो गृहे वासनीयः । शक्तितः । एको द्वौ बहवो यावन्तः शक्यन्तेऽर्चयितुं सर्वे आसनादिभिरर्चनीयाः । अर्चापूर्वकमेतदेभ्यो वसतां प्रकल्पयितुम्, न तु सर्वेण सर्वमासनाशनशय्यानां स्त्व-निवृत्तिरुच्यते । भक्तयूषमांसान्नाज्याशनासंभवे पृथगुपादानात् मूलफलं दातव्यम् ॥२९ ॥
हिन्दी — जिस गृहस्थ के घर में शक्ति के अनुसार आसन, भोजन, शय्या, जल और मूल - फल से अतिथि की पूजा नहीं होती है, उसमें कोई अतिथि निवास न करे । ( गृहस्थ का कर्तव्य है कि अपनी शक्ति के अनुसार अतिथियों का आसन भोजनादि से सत्कार करे ) ॥२९ ॥
पाखण्डी आदि के सत्कार का निषेध-पाषण्डिनो विकर्मस्थान्वैडालव्रतिकाञ्छठान् ।
हैतुकान्बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् ॥ ३० ॥
भाष्य – अत्र वसेदिति लिङ्गात्सायमातिथ्यप्रतिषेधोऽयं पाषण्ड्यादीनामित्याहुः । तदयुक्तम् । अर्चनीयताऽत्र निवार्यते । न तु सर्वेण सर्वभक्ताद्यदानमेवोच्यते । दिवाऽपि भुञ्जानानां कतिचित् क्षणावास उपपद्यत एव । अतो न लिङ्गं सायंकालस्य ‘ वसेदिति ’ ।
पृष्ठ 540
पाठ पढ़ें पाठ छिपाएँ
४६४ मनुस्मृतिः [ चतुर्थः तत्र पाषण्डिनो बाह्यलिङ्गिनो रक्तपट - नग्न — चरकादयः । विकर्मस्थाः– अत्रानापदि ये वर्णान्तरवृत्त्या जीवन्ति । यथा ब्राह्मणः क्षत्रवृत्त्या, क्षत्रियो वैश्यवृत्त्या इत्यादि । बैडालव्रतिका दास्भिकाः । ये च लोकावर्जनार्थं अग्निहोत्राद्यनुतिष्ठन्ति, ' इति गृहादि लिप्सामह ' इति, न शास्त्रचोदितत्वेन स्वधर्मतया । शठाः । येषामन्यत् हृदयेऽन्यद्वाचि । उपकारं कस्यचित्प्रतिज्ञाय कर्तव्यतया अवधीरयन्ति, न कुर्वन्ति । हैतुका नास्तिका: । ‘ नास्ति परलोक: ', नास्ति दत्तं, नास्ति हुतं, इत्येवं स्थित-प्रज्ञा: । बकवृत्तयः दाम्भिका एव, ईषद्भेदभिन्ना: । भेदः परस्परं दर्शयिष्यते । वाङ्मात्रेणापि । तिष्ठतु तावदासनादिदानं, पूजापूर्वकं स्वागतम्— ‘ आस्यता-मत्र ' इत्येवमाद्यपि न वक्तव्याः | अन्नदानं तु श्वपचादिवदिष्यते । तथा च भगवान् कृष्णद्वैपायनोऽन्नदानमेवाधिकृत्य स्मरतिस्म “ न पृच्छेज्जन्म न श्रुतमिति ” । नात्र पात्र-गवेषणा कर्तव्येत्यर्थः || ३० || हिन्दी — पाखण्डी ( वेद वचन के विरुद्ध व्रत एवं तपस्वी की वेश - भ - जटा- ज - भूषा -काषाय वस्त्रादि को धारण करने वाले ), विरुद्ध कर्म करने वाले ( बौद्धभिक्षु क्षपणक आदि ) वैडालव्रती ( ४।१ ९ ६ ), शठ ( वेद - स्मृति के वचनों में विश्वास नहीं रखने वाले ), हेतुवादी ( धर्म को वेद वचन के अनुसार नहीं मानकर तर्क करने वाले ), बक-वृत्ति ( ४।१ ९ ७ ) अतिथियों का वचन मात्र से भी पूजन न करे ( अतिथि मानकर पूजत्व बुद्धि न रखे, किन्तु ४।३२ में कथित वचन के अनुसार यथाशक्ति उनको भी अन्न आदि देवे ही ) ॥३० ॥
वेद- स्नातकादि का पूजन-वेदविद्याव्रतस्नाताञ्छ्रोत्रियान् गृहमेधिनः ।
पूजयेद्धव्यकव्येन विपरीतांश्च वर्जयेत् ॥ ३१ ॥
भाष्य- ' -'वेदश्च ' ' विद्या ' च ' व्रतानि ' च तैः ' स्नाताः ' तत्र परिसमाप्तिं गताः । विविधा स्नातका गृह्यन्ते । तत्र ' वेदस्नातका ' अधीतवेदाः । ' विद्यास्नातका ' विद्यार्थ-जिज्ञासानिवृत्ताः । ‘ विद्या ’ सन्निधानाद्वेदविषयैव गृह्यते । तस्या एव वस्तुतो विद्यात्वम् । व्रतानि “ षट्त्रिंशदाब्दिकम् " इत्यादीनि ( अ ० ३ श्लो ० १ ) । सत्यामपि वेदतदर्थ-जिज्ञासासमाप्तौ न तावत्येव ' स्नानं ', किंतर्हि षट्त्रिंशदब्दादिकालः पूरयितव्यः इति पक्षोऽप्यस्ति । अन्ये तु येऽनधीत्यैव वेदं वर्षत्रयात् स्नान्ति ते ' ब्रतस्नातका ' इत्याचक्षते । अनधीतवेदस्य कुतः स्नानमित्यपक्षोऽयम् ।