मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 541–550
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 541–550
पृष्ठ 541
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता “ ननु च श्रोत्रियग्रहणं किमर्थं स्नातकत्वेनैव सिद्धत्वात् ” । अतिशयार्थम् । तेन वेदाभ्यासरता गृह्यन्ते श्रोत्रियाः । ४६५ गृहमेधिनो गृहस्थाः । नानेन भिक्षुतापसब्रह्मचारिणामपूजनीयत्वमुच्यते— किंतर्हिभैक्ष्यभोजित्वात्तेषां नातिथित्वसंभवः । ब्रह्मचारिणो गुरुगृहात्तापसस्य च वना-न्नान्यत्र वासः । प्रव्रजितस्यापि ' भैक्षार्थी ग्राममियादिति ' न ग्रामे वासः । अतोऽन्येषा-माश्रमिणां गृहादन्यत्र वासात्कथंचित्सम्भवेऽपि प्रायिकमेतद्गृहमेधिन इति ।
हव्येन कव्येन । दैवकर्मणि शान्त्यादौ पित्र्ये वा श्राद्धे त एव पूज्याः ।
विपरीताः अस्नातकाः वर्ज्याः पूर्वोक्तदोषाभावेऽपि ॥३१ ॥
हिन्दी — विद्यास्नातक, व्रतस्नातक, उभय ( वेद - विद्या ) स्नातक और श्रोत्रिय गृहा-श्रमियों की हव्य तथा कव्य देवकर्म तथा पितृकर्म में पूजा करे और दूसरों को ( इनसे प्रतिकूल आचरण वालों ) का त्याग करे ( पूजन न करे ) ॥३१ ॥
विमर्श - स्नातक तीन प्रकार के होते हैं— विद्यास्नातक, व्रतस्नातक और विद्या-व्रतस्नातक । उनमें वेदों को समाप्त कर व्रतों को समाप्त नहीं करने वाला ‘ विद्यास्नातक ’ व्रतों को समाप्तकर वेदों को समाप्त नहीं करने वाला ' व्रतस्नातक ' और वेद तथा विद्या दोनों को समाप्त करने वाला ' विद्याव्रतस्नातक ' ( उभयस्नातक ) कहलाता है । '
ब्रह्मचारी आदि के लिये अन्नदान-शक्तितोऽपचमानेभ्यो दातव्यं गृहमेधिना ।
संविभागश्च भूतेभ्यः कर्तव्योऽनुपरोधतः ॥ ३२ ॥
भाष्य — अपचमाना ब्रह्मचारिपरिव्राजका इत्याहुः । तदुक्तम् । तेभ्यो नित्यव-द्दानं विहितमेव ‘ भिक्षां च भिक्षवे दद्यादिति ' ( ३ । ९ ४ ) तस्माद्ये दरिद्रा भैक्षजीवनाश्च पाखण्ड्यादयः तेभ्यः शक्तितो दातव्यम् । यावद्भयः शक्यते यावच्च पच्यते । पचिक्रिया-विरहनिमित्तत्वाच्च सिद्धान्नदानमेवेदम् । संविभागश्च । अन्येनापि धनेन इन्धनपरिधानौषधाद्युपयोगिना संविभागः कर्तव्यः कंश्चिदंशो दातव्यः । सर्वभूतेभ्यः । भूतशब्दोयं चेतनात्मकं जगदाचष्टे । यथा “ गायत्री वा इदं सर्वं भूतमिति ” । अचेतनानां चेतनवदुपकारार्थतया संविभागानुपपत्तेः चेतनावत्स्वेवावतिष्ठते । १. यथाह हारीत: — “ यः समाप्य वेदानसमाप्य व्रतानि समावर्तते, स ' विद्यास्नातकः । यः समाप्य व्रतान्यसमाप्य वेदान् समावर्तते, स ' व्रतस्नातकः ' । उभयं समाप्यं यः समावर्तते, स विद्याव्रतस्नातकः ” इति । ( म ० मु ० ) ।
पृष्ठ 542
पाठ पढ़ें पाठ छिपाएँ
४६६ मनुस्मृतिः [ चतुर्थः अतश्च “ प्ररोहधर्मकाश्चेतनावन्तः " । इति दर्शने वृक्षादीनामपि जलसेकाद्यर्थो धन-संविभागः कर्तव्यः । बह्वर्थोऽयं भूतशब्दः । कश्चित्प्राधान्ये वर्तते ' भूतमियं ब्राह्मण्यस्मिन् गृहे ' । क्वचित्पैशाचवचनो ‘ भूतोपसृष्ट ' इति । क्वचिद्विपरीतेऽर्थे वर्तते ‘ भूतमाहेति ’ । क्वचिदति-क्रान्तकालवचनो ‘ भूतो धात्वर्थ ' इति । क्वचिद्देवताविशेषे ' भूतेभ्यो बलिरिति ’ । क्वचिच्चेत-नावन्मात्रवचनो ‘ न हिंस्याद् भूतानीति ' । क्वचित्प्राप्तिवचनो ' महद्भूतश्चन्द्रमा ' इति । क्वचिदुपमायां वर्तते ‘ यथा काव्यभूत ' इति । क्वचिदुत्पत्तिवचनो यथा ' देवदत्तस्य पुत्रो भूत ' इति । इह तु यः पदार्थस्तद्व्याख्यातम् । भूतेभ्य इति तादर्थ्ये चतुर्थी । अनुपरोधतः । आत्मकुटुम्बपीडा यथा न भवति तत्पर्याप्तं स्थापयित्वा, अधिकेन संविभागः कर्तव्यः । तदुक्तं “ भृत्यानामुपरोधेनेति ” ( मनुस्मृ ० अ ० ११ श्लो ० १० ) || ३२ ॥ हिन्दी — अपने हाथ से भोजन - पाक नहीं करने वाले ब्रह्मचारी, परिव्राजक ( संन्यासी ) और पाखण्डी आदि के लिये गृहाश्रमी अन्न देवे और परिवार, भृत्यादि के उदरपूर्ति आदि में कमी नहीं करते हुए ही जीवों वृक्षादि पर्यन्त जीवों तक ) के लिये ( जलादि का यथायोग्य ) विभाग करे ॥३२ ॥
विमर्श— यद्यपि कृत्वैतत्— ( ३।९ ४ ) वचन से ब्रह्मचारी तथा संन्यासी को अन्न देने के लिए कह चुके हैं, तथापि पचमान ( स्वयं भोजनपाक करने वालों की अपेक्षा श्रेष्ठता तथा स्नातक व्रतत्व की सूचना के लिए प्रकृत वचन पुनः कहा, गया है । मेधातिथि तथा गोविन्दराज का मत है कि - ' कृत्वैतत् ' ) ( ३।९ ४ ) वचन से ब्रह्मचारी तथा संन्यासी के लिए अन्नदान का विधान पहले कर चुकने से यह वचन पाखण्डी आदि के लिए ही मुख्यतः ) है । क्षत्रियादि से धन लेना-राजतो धनमन्विच्छेत्संसीदन्स्नातकः
क्षुधा ।
याज्यान्तेवासिनोर्वाऽपि न त्वन्यत इति स्थितिः ॥ ३३ ॥
भाष्य — राजग्रहणमाढ्यवर्णोपलक्षणार्थम् । तथा च वक्ष्यति ( अ ० १० श्लो ० ११३ ) “ सीदद्भिः कुप्यमिच्छद्भिर्धनं वा पृथिवीपतिः । याच्यः । स्यादिति ” । तेन राजशब्दः क्षत्रियजातौ मुख्यः । तथापि शास्त्रान्तपर्यालोचनया जनपदेश्वरवचन इति गम्यते । जनपदेश्वरा हि बहुधना भवन्ति । तेनैतदुक्तं भवति — ' येऽत्यन्तसम्पन्ना गोऽ-जाविधनधान्यैस्तेभ्यः प्रतिग्रहीतव्यम् ' । तथा सत्यद्रोहेणेत्येतदादृतं भवति । आढ्या हि ददतो नातीव पीड्यन्ते । स्वल्पधनेभ्यस्तु परिगृह्णतो दोषः स्यात् । मुख्यार्थवृत्तौ च
पृष्ठ 543
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता ४६७ राजशब्दे ब्राह्मणादिभ्यः प्रतिग्रहः प्रतिषिध्येत । तत्र सर्वस्मृतिविरोधः स्यात् । स्मृत्यन्तरे हि पठ्यते “ आददीत प्रशस्तद्विजादिभ्यः शुश्रूषोश्च शूद्रादपक्वान्नमिति ” । प्रतिषेधेऽपि “ न राज्ञः प्रतिगृह्णीयादिति ” राजशब्दो जनपदेश्वरवचन एव । किंच न क्षत्रियस्य तत्र प्रतिषेधः ‘ “ अराजन्यप्रसूतित ” इति वचनात् । अत एव न क्षत्रियजातीयात्तत्र तन्निषेधस्तथा सत्यराजन्यप्रसूतित इति न वक्तव्यं स्यात् । न ह्यराजन्यप्रसूतितः क्षत्रिया भवन्ति । तेनेयमत्र व्यवस्था— क्षत्रियाद्राज्ञो यथाशास्त्रवर्तिनः प्रतिग्रहः कर्तव्यः । अन्यस्मात्पुनर्न । याज्यान्तेवासिनोः । धनापेक्षा षष्ठी । तसंतो वा पठितव्यः । क्रियानिमित्तत्वादे-तयोः शब्दयोर्याजनाध्यापनाभ्यां जीवेदित्युक्तं भवति । अन्ये त्वाहुः– अन्येषामुपपातकप्राप्तिश्चौर्यादीनां चोपायानां निषिद्धत्वात् ईश्वर-माराध्य जीवेत्प्रीतिदायेन स्वस्तिवाचनकेन वा । न चायं सेवकः । सा वृत्तिर्निषिद्धा । एवं कृतोपकारादयाजयन्नपि याज्यादाददीत । निवृत्तेऽपि सम्बन्धे कृत्यो वर्तत इति । संसीदन्निति । पित्रादिधने सति न कर्तव्यम् । तदुक्तम् “ न कल्पमानेष्वर्थेषु ” । तस्यैवायमनुवादः । न चायमापद्धर्मः । नहि ‘ अवसाद ' आपत्, किंतर्हि अर्जितधनाभावः । ‘ आपत् ’ तु विहितोपायाभावो धनक्षयश्च । सत्यपि धान्यधनबहुत्वे अन्नपरिक्षये दुर्भिक्षादावातिथ्य-सन्निहितान्नता क्षुत्पीडितस्य ' आपत् ', अक्षुधितस्यापि धनाभावात् ‘ अवसाद ' इत्येष एतयोर्विशेषः । न त्वन्यतः - स्वल्पधनान्नानुपकार्यात् गृह्णीयात् ॥३३ ॥
हिन्दी - ' भूख से पीड़ित स्नातक क्षत्रिय, यजमान और शिष्य से धन लेने की इच्छा करे, दूसरे किसी से नहीं ' ऐसी स्थिति ( शास्त्रोक्त वचन ) है ॥ ३३ ॥
" " विमर्श – “ न राज्ञः प्रतिगृह्णीयात् — ” ( ४।८४ ) वचन द्वारा आगे राजा से धन लेने के लिए किया गया निषेध " क्षत्रिय राजा " के लिये है । अतः धर्म तत्पर ‘ क्षत्रिय ’ से धन लेने में कोई दोष नहीं है; क्योंकि क्षत्रिय के अधिक धनसम्पन्न होने से उसे दान देने में कष्ट नहीं होगा तथा यजमान एवं शिष्य के उपकृत होने से उसके भी अभाव में— आपत्काल में “ सर्वतः प्रतिगृह्णीयात् – ” ( १०।१०२ ) वचन के अनुसार दूसरे ( राजा आदि ) से भी धन लेने में दोष नहीं । यहाँ पर ' न त्वन्यतः ' पद से दूसरे से धन लेने का निषेध होने से आगे ( १०।१०२ ) सर्व से प्रतिग्रह लेने का विधान करने से यह प्रकृत वचन आपत्ति काल परक नहीं हो सकता, आपत्ति काल के लिए क्षत्रिय जातीय राजा से प्रतिग्रह की प्राप्ति होना असम्भव होने पर ' सीदद्भिः कुप्यमिच्छद्भिर्धनं वा पृथिवीपतिः ' ( १०।११३ ) वचन के अनुसार शूद्र को राजा से प्रतिग्रह लेने का विधान किया गया है ।
पृष्ठ 544
पाठ पढ़ें पाठ छिपाएँ
४६८ मनुस्मृतिः भूख आदि से दुःखी होने का निषेध—
न सीदेत्स्नातको विप्रः क्षुधा शक्तः कथञ्चन ।
न जीर्णमलवद्वासा भवेच्च विभवे सति ॥ ३४ ॥
[ चतुर्थ: भाष्य – यदि च कुतश्चिद्धनार्थाद्व्यापाराद्व्याहन्येत न तदैवापद्धर्मानाश्रयेत् । किंतर्हि पुनरुत्पाद्येत । तदुक्तम् “ आमृत्योः श्रियमन्विच्छेदिति ” ( अ ० ४ श्लो ० १३७ ) । अतश्च यदि कथञ्चित् कृषतो वर्षाद्यभावेन सस्यनाशो भवेन्नेयता त्यागेन सहसैव परपिण्डोपजीवनायाञ्चापरेण भवितव्यम् । सत्यां युक्तौ जीर्णमलिने च वाससी धनविभवे सति नेष्येते ॥ ३४ ॥
हिन्दी— ( विद्या आदि के द्वारा प्रतिग्रह आदि लेने में ) समर्थ होता हुआ स्नातक किसी प्रकार दु: खित न होवे तथा धन ( वैभव ) रहने पर फटे और मैले कपड़ों को न पहने ॥३४ ॥
स्वाध्यायादि में तत्परता-क्लृप्तकेशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिः ।
स्वाध्याये चैव युक्तः स्यान्नित्यमात्महितेषु च ॥ ३५ ॥
भाष्य — कल्पनम् । ‘ छेदनं दन्तवासस ' इत्येतदपेक्षं चैतत्कल्पनं नियमतः । अत एव शुचिरित्याह । दीर्घकेशस्य हि स्नानादिषु क्लेशसाध्यत्वात् अलसः स्यात्तथा-ऽशुचित्वप्रसङ्गः । यदि तु केशादिप्रसृतोऽपि स्नानपरः स्यान्नैव धारणं दुष्येत् । दान्तः दर्पवर्जितः । शुचिः अर्थेषु, शुद्धिनिमित्तैर्मृद्वार्याचमनादिभिश्च । वेदाध्ययने च नित्याभियुक्तः । उक्तोऽप्ययमर्थ आदरार्थः पुनः पुनरुच्यते । आत्महितानि व्याधेः प्रतीकारादिना अजीर्णाति-वेलगुरुविदाहिभोजनवर्जनादीनि ॥३५ ॥
हिन्दी- - बाल, दाँत तथा दाढ़ी को कटवाता हुआ ( मुण्डन कराता हुआ नहीं ) तप के कष्ट को सहन करता हुआ, श्वेत कपड़ों को पहनने वाला, स्वाध्याय ( वेदादि के पाठ ) में तत्पर ( ब्राह्मण गृहस्थ ) सर्वदा अपने हित ( औषधादि के द्वारा स्वास्थ्य - रक्षा ) में तत्पर रहे || ३५ ॥
दण्ड तथा कमण्डलु आदि का ग्रहण-वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ।
यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥ ३६ ॥
भाष्य – यज्ञोपवीतकुण्डलयोर्धारणं शरीरसंयोगः । यस्य च यस्मिन्नङ्गे समुचित:
पृष्ठ 545
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ४६ ९ सन्निवेशः स तत्रैव विनियोजनीयः । यथा कुण्डलं कर्णयोरुपवीतं काय इति । कर्णा-भरणस्य कुण्डलाख्यत्वात् । कण्ठसक्तस्य च सूत्रस्य दक्षिणबाहूद्धारणेनोपवीतत्वात् । दृष्टप्रयोजनत्वाच्च यष्ट्यादीनां सर्वदाऽङ्गसङ्गः तथाहि यष्टिधारणं श्रान्तस्यावलम्बनार्थे सम्मुखागतघातकगवादिनिवारणार्थं च । उद्धृतोदकेन शौचस्य विहितत्वात् आधारापेक्षया कमण्डलुर्नियम्यते । स च तुल्यकार्यत्वात् कलशादीन् निवर्तयति, न कुण्डलकटकादीन् । अतश्च पुरीषनिमित्तस्योदकशोध्याशुचि-त्वापनोदार्थं सोदकत्वं कमण्डलो: । उक्तं च “ मुहूर्तमपि शक्तिविषये नाशुचि तिष्ठेदिति ” । ‘ शक्तिविषय ’ इति– यदि पूर्वगृहीतमुदकमुपयुक्तमन्यथाप्राप्तमशुचित्वनिमित्तं च श्लेष्म-निष्ठोवनाद्युत्पन्नं तत्रोदकालाभादशुचित्वं न दोषः । तथापि मूत्रपुरीषविस्रंसने स्नानं वक्ष्यति ( अ ० ११ श्लो ० २०२ ) “ विनाऽद्भिरप्सु वार्य्यातः शारीरं संनिवेश्य तु । सचैलो बहिराप्लुत्येति ” ॥ शुचिश्च स्मृत्यन्तरे प्रतिपदमाम्रात: । एवं ह स्माह भगवान्-वसिष्ठः [ अ ० १२ श्लो ० १५-१७ ]
“ अप्सु पाणौ च काष्ठे च कथितः पावकः शुचिः ।
तस्मादुदकपाणिभ्यां परिमृज्य कमण्डलुम् ॥
“ पर्यग्निकरणं होमं मनुराह प्रजापतिः ।
कृत्वा चावश्यकार्याणि आचामेच्छौचवित्तमः ” ॥
बौधायनेनाप्युक्तम् “ अथ कमण्डलुं धार्यम् ” इत्युपक्रम्य
“ तस्माच्छौचं ततः कृत्वा परिमृज्य कमण्डलुम् ।
पर्यग्निकरणं ह्येतद्यद्वस्तुपरिमार्जनम् " ॥
तथा । “ कमण्डलुं परिहरेत्पूर्वावस्थोऽप्यशौचतः । न चैनं कुत्सयेद्विद्वान्न शङ्केन्न च दूषयेत् ॥ ” नए आकारविशेषनिमित्तश्चायं शब्दो न जातिमाद्रियते । अतो मृण्मयस्य सौवर्णस्य राजतस्य वा एषैव शुद्धिर्न प्रकृतिजातिसम्बन्धिनी । मूत्रादिस्पर्शे तु प्रकृतिजातिशुद्धि-रवधेया । हस्तमार्जनं तूच्छिष्टपुरुषसंस्पर्शाद्यशुचित्वात् । तथा च गौतम:, “ क्वचिच्छौचार्थं सन्निधाय ” इत्याह । अत इहापि सन्निधानमेवाभि-प्रेतं, न स्वात्मना ग्रहणम् । वेदो दर्भमुष्टिस्तस्य च “ प्राणोपस्पर्शनं दर्भैः ” इत्यादि प्रयोजनम् । अतश्चादृष्टार्थानां सार्वकालिकशरीरसम्बन्धो, दृष्टार्थानां तु संनिधिर्नित्यं, प्रयोजन-तस्तु ग्रहणमिति । मनु I- 34
पृष्ठ 546
पाठ पढ़ें पाठ छिपाएँ
४७० मनुस्मृतिः [ चतुर्थः शुभे दर्शनीये, आकारतः तापच्छेदकषैश्च सुवर्णशुद्ध्या ॥३६ ॥
हिन्दी — बाँस की छड़ी, जप सहित कमण्डलु, यज्ञोपवीत, वेद और सोने के दो सुन्दर कुण्डलों को ( ब्राह्मण गृहाश्रमी ) धारण करे ॥ ३६ ॥
काल विशेष में सूर्यदर्शन का निषेध-नेक्षेतोद्यन्तमादित्यं नास्तं यान्तं कदाचन ।
नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥ ३७ ॥
भाष्य— उपसृष्टो ग्रहोपरक्त: ।
उदके प्रतिबिम्बितो वारिस्थः ।
नभः अन्तरिक्षं तस्य मध्यगतं पश्येन्न मध्याह्नकाले ॥३७ ॥
हिन्दी — उदय तथा अस्त होते हुए, ग्रहण लगे हुए, पानी में प्रतिबिम्ब और ( मध्याह्न में ) आकाश के मध्य में स्थित सूर्य को कभी न देखे— ॥३७ ॥
वत्स आदि की रस्सी के लङ्घनादि का निषेध-न लङ्घयेद्वत्सतन्त्रीं न प्रधावेच्च वर्षति । न चोदके निरीक्षेत स्वरूपमिति धरणा ॥ ३८ ॥
भाष्य — वत्सबन्धनार्था रज्जुर्वत्सतन्त्री वत्सपङ्क्तिर्वा, तां न लङ्घयेन्नापक्रामेत् । तथा च गौतमः ( अ ० ९ सू ० ५२ ) “ नोपरि वत्सतन्त्रों गच्छेत् ” ।
स्वरूपं शरीरसंस्थानम् । स्वग्रहणात्परस्य रूपप्रेक्षणं न पर्युदस्यते ।
इति धारणा एष निश्चयः शास्त्रेषु ॥ ३८ ॥
हिन्दी — बछवाँ बाँधने की रस्सी ( पगहा ) को न लांघे, पानी बरसते रहने पर न दौड़े और पानी में पड़ी हुई अपनी परछाई को न देखे, यह शास्त्र की मर्यादा है ॥ ३८ ।
मिट्टी, गौ आदि को दाहिने करके जाना-मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् ।
प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन् ॥ ३ ९ ॥
भाष्य- – प्रस्थितस्याभिमुखागतान् मृदादीन् प्रत्ययं विधिः । मृदादयो येन दक्षिणो हस्तः तेन कर्तव्यः । उद्धृता च मृदेवं कर्तव्या । एवं हि शास्त्रान्तरं प्रस्थानाधिकारे पठति ' प्रदक्षिणमावर्त्येति ' । दैवतंपटादिलिखितम् अर्चार्थम् । गौतमस्तु " देवतायतनानि सप्रदक्षिणमनुव-तेंतेति ” पठति । लोकप्रसिद्ध्या चतुर्भुजमार्तण्डागारादि देवतायतनं विज्ञेयम् । ' यज्ञ-गृहाणि चेति ' वक्ष्यति ।
पृष्ठ 547
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता मधु घृतसाहचर्यात् सारघं, मङ्गल्यमध्यपाठाच्च । ४७१ प्रज्ञाता वनस्पतयो महाप्रमाणाः प्रसिद्धा वनस्पतयो महावृक्षाः प्रमाणतः पुष्पफलातिशयतो वा प्रसिद्धा उदुम्बरादयः । “ ऊर्व्वा उदुम्बरः ” इत्यर्थवादः । ये तु गुणाधिकान् ‘ प्रज्ञातान् ’ आचक्षते ते निर्मूलप्रसिद्धिमात्रप्रमाणका उपेक्षणीयाः ॥३९ ॥
हिन्दी— ( कहीं जाते - आते समय रास्तें में मिले हुए ) मिट्टी के ढेर, गौ, देव-प्रतिमा ब्राह्मण, घी, मधु, ( शहद ), चौरास्ता और परिचित बड़े - बड़े वनस्पति ( पीपल बड़ आदि के पेड़ ) के प्रदक्षिण क्रम से ( उन्हें अपने दाहिने भाग में करके ) जावे ॥३९ ॥
रजस्वला - संभोग का निषेध-नोपगच्छेत्प्रमत्तोऽपि स्त्रियमार्तवदर्शने ।
समानशयने चैव न शयीत तया सह ॥ ४० ॥
भाष्य — प्रमत्तः कामशरैः पीडितोऽपि आर्तवं स्त्रीलिङ्गशोणितं मासि मासि प्रसिद्धम् । तद्दर्शने न गच्छेत् । एकस्यां च शय्यायां तया सह न शयीत । “ स्पर्शप्रतिषेधादेव तत्सिद्धमिति ” चेत्, नायं प्रतिषेधः । व्रतमिदं, प्रायश्चित्त-भेदश्च ॥४० ॥
हिन्दी - कामवश उन्मत्त ( पागल ) होकर भी रजोदर्शन होने पर ( रजस्वला होने पर उसके साथ ) संभोग न करे और उस ( रजस्वला ) के साथ एक आसन या शय्या पर न ( बैठे और न ) सोवे || ४० ||
रजस्वला सम्भोग से बुद्ध्यादि हानि-रजसाऽभिप्लुतां नारीं नरस्य ह्युपगच्छतः ।
प्रज्ञा तेजो बलं चक्षुरायुश्चैव ग्रहीयते ॥४१ ॥
भाष्य — रजः पूर्वोक्तमार्तवम् । अभिप्लुतां तेन सम्बद्धाम् । पूर्वस्यार्थवादः॥४१ ॥
हिन्दी – रजस्वला के साथ सम्भोग करते हुए पुरुष की बुद्धि, तेज, बल, नेत्र ( देखने की शक्ति ) और आयु क्षीण हो जाती है ॥४१ ॥
रजस्वला के संसर्गत्याग से बुद्ध्यादि - वृद्धि-तां विवर्जयतस्तस्य रजसा समभिप्लुताम् । प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रवर्धते ॥ ४२ ॥
भाष्य — वृद्धिवचनं स्तुतिरेव ॥४२ ॥
हिन्दी - उस ( रजस्वला स्त्री ) को छोड़ के ( सम्भोग तथा स्पर्श का त्याग करते ) हुए ( गृहस्थ की ) बुद्धि, तेज, बल, नेत्र ( देखने की शक्ति ) और आयु बढ़ती है || ४२ ॥
पृष्ठ 548
पाठ पढ़ें पाठ छिपाएँ
४७२ मनुस्मृतिः' ' [ चतुर्थः स्त्री के साथ भोजनादि निषेध—
नाश्रीयाद्भार्यया सार्धं नैनामीक्षेत चाश्रतीम् ।
क्षुवतीं जृम्भमाणां वा न चासीनां यथासुखम् ॥४३ ॥
भाष्य— “ नित्यमास्यं शुचिस्त्रीणामिति ” ( मनु ० अ ० ५ श्लो ० १३० ) शुचित्व-वचनं— “ स्त्रीशूद्रोच्छिष्टमिति ” च प्रतिषेधः । द्वयमपि विषयविभागेन व्यवस्थितम् । तत्र शुचित्ववचनं “ स्त्रियश्च रतिसंसर्ग ” इति स्मृत्यन्तरदर्शनेन रतिस्त्रीविषयं विज्ञायते । अतः प्रतिषेधोऽपि पारिशेष्यादरतिस्त्रीषु मातृभगिन्यादिषु द्रष्टव्यः । यतो रतिर्नेह प्रीति-मात्रं, किंतर्हि मन्मथनिमित्तो भावविशेष इति शृङ्गारपूर्वकोऽभिलाषादिरूपः । अतस्तद्युक्तासु शुचित्वं, विपरीतासु प्रतिषेधः । रतिनिमित्तार्थतया भार्यया सह भोजने प्राप्ते वचनमिदमारभ्यते नाश्नीयाद्भार्यया सार्धमिति । अथ “ संसर्गग्रहणेन वृषस्यतो संप्रयोगविशेषः कथ्यते । तदानीं परिचुम्बनादेव शुचित्वमिति नास्ति भार्यया सह भोजनप्राप्तिः " । तत्रेदं पुनर्वचनं व्रतज्ञापनार्थम् । ततश्च यावज्जीविकः सङ्कल्पः कर्तव्यो यथा भार्यया सह भोजनं न भवति । एतच्च सहभोजनमेकाधिकरणमेककालदेशं नञर्थविषयतया चोद्यत इति गतो-च्छिष्टप्रतिषेधगतार्थशङ्केति । स पुनरयमीदृशः । सहार्थविशेषः प्रमाणान्तरतः स्मृत्य-न्तरसमाचारादेः । शेषशब्दार्थो ह्यन्योप्तेक्षितमात्रम् । तथा “ इतरानपि सख्यादीन्... भोज-येत् सह भार्ययेति ” ( अ ० ३ श्लो ० १०३ ) नात्रैकाधिकरणता भुजेरवगम्यते— किंतर्हि भार्यया समानदेशता भोक्तुः, समानकालता वा । अन्ये त्वन्यदुच्छिष्टमिति व्याचक्षते— भुक्तोञ्झितमुच्छिष्टम् । एकस्यां तु पत्ल्यां एकस्मिन् पात्रे सहभोजनम् । एवं तु व्याख्यायमाने शूद्रेण सह भोजनं प्रतिषिद्धं स्यात्, प्रसिद्धिश्च त्यक्ता भवेत् । अस्य संस्पर्शादुच्छिष्टव्यवहारः, सहभोजनेनापि तदस्ति । केचित्तु समानदेशकालमेव भोजनं प्रतिषिद्धं, दृष्टार्थत्वादुपदेशस्येति । पुंसा स्व-भावभेदात् कश्चिद्वहुभोजिन्या न तुष्येत्, अन्यः स्वल्पभोजिन्यामपि विश्रंभयतीति छद्मना वर्तते— मम पुरतः स्वल्पमश्नाति इति । तथासदृशा एवमन्येऽपि नियमाः । नैनामीक्षेत चाश्श्रतीम् । पश्यतो हि भुञ्जाना विवृतास्यतया रूपविकारेण भर्त्रे न रोचेत । क्षवथुः शिरस्थेन वायुना पूर्यमाणाया नासिकायाः शब्दस्तत्रापि वक्तृवैकृत्यात् प्रीतिर्न स्यात् । जृम्भमाणाऽऽस्येन विलम्बितं
पृष्ठ 549
पाठ पढ़ें पाठ छिपाएँ
अअध्यायः ‘ मेधातिथि’भाष्य’मणिप्रभा ' हिन्दीटीकासहिता ४७३ व्वायोरुच्छ्वसनमङ्गप्रत्यङ्गप्रसारणं वा । तदप्येवमेव । यथासुखं चासीना अनवग्रथित-केशो भूमौ निपतितगात्रो वा ॥४३ ॥
हिन्दी — स्त्री के साथ ( एक पात्र में ) भोजन न करे और भोजन करती हुई, छींकती हुई, जम्भाई लेती हुई तथा सुखपूर्वक ( पुरुषादि के न रहने से स्वेच्छापूर्वक जैसे - तैसे ) बैठी हुई स्त्री को न देखे ॥ ४३ ॥
आंजन लगाती हुई आदि स्त्री को देखने का निषेध-नाञ्जयतीं स्वके नेत्रे न चाभ्यक्तामनावृताम् । न पश्येत्प्रसवन्तीं च तेजः कामो द्विजोत्तमः ॥४४ ॥
भाष्य – परस्याञ्जयन्ती शोभत एव । अनावृतां अपावृतवसनाम् । अवगुण्ठितामेव हि विशेषेण स्पृहयन्ति । निर्वसनाङ्गीं
निपुणतरं वीक्ष्यमाणां न सर्वतः सर्वा सुसंस्थाना भवतीति निरम्बरा नेक्षणीया ।
तेजःकामः । तेजः वर्णोज्ज्वलता, उत्साहप्रयोगश्च ॥४४ ॥
हिन्दी - आंजती ( अपनी आँखों में अञ्जन अर्थात् काजल - सुर्मा आदि लगाती हुई तेल आदि से अभ्यक्त, आवरण रहित ( स्तनादि पर वस्त्र नहीं हो, ऐसी अवस्था में ) और प्रसव करती हुई स्त्री को तेज चाहने वाला द्विजोत्तम न देखे ॥ ४४ ॥
[ उपेत्यं स्नातको विद्वान्नेक्षेन्नग्नां परस्त्रियम् । सरहस्यं च संवादं परस्त्रीषु विवर्जयेत् ॥ ३ ॥ ]
[ हिन्दी — विद्वान् स्नातक ( गृहाश्रमी ) समीप जाकर नंगी परस्त्री को न देखे अर्थात् उसके पास ही न जावे और एकान्त में परस्त्री के साथ बातचीत भी न करे ॥ ३ ॥
एक वस्त्र पहने भोजननिषेध आदि-नान्नमद्यादेकवासा न नग्नः स्नानमाचरेत् ।
न मूत्रं पथि कुर्वीत न भस्मनि न गोव्रजे ॥ ४५ ॥
भाष्य — सत्यपि यज्ञोपवीते नित्यानुगतत्वात्तस्य अनाच्छादकत्वादुपनयनविभेदेनो-पदेशात् एकवासाः । अङ्गच्छादकादि द्वितीयं वासो भोजनकाले स्यात् । न मूत्रम् । मूत्रग्रहणमूत्रोत्सर्गस्योपलक्षणार्थम् ।
पथि रथ्यायाम् ।
गोव्रजे । येन यत्र वा गावश्चरितुं व्रजन्ति ॥४५ ॥
। -हिन्दी – एक वस्त्र ( केवल धोती, गमछी या लंगोट आदि ) पहनकर भोजन न करे । नंगा होकर स्नान न करे; रास्ते ( बीच रास्ते ) में, भस्म ( राख ) पर और गोशाला ( गौओं के ठहरने का स्थान ) में मल और मूत्र त्याग ( पाखाना - पेशाब न करे ) ॥४५ ॥
पृष्ठ 550
पाठ पढ़ें पाठ छिपाएँ
४७४ मनुस्मृतिः [ चतुर्थः
न फालकृष्टे न जले न चित्यां न च पर्वते ।
न जीर्णदेवायतने न वल्मीके कदाचन ॥ ४६ ॥
भाष्य — चित्यां अग्न्यर्थ इष्टकाकूटे । पर्वतग्रहणं अरण्योद्यानोपलक्षणार्थम् । तथाहि विशेष - प्रतिषेधो भविष्यति “ पर्वत-मस्तक इति ” । सामान्येन च प्रतिषेधे पर्वतवासिनाममेहनप्रसङ्गः । वल्मीकः कृमि-कृतो मृत्तिकासञ्चयः ॥४६ ॥
हिन्दी – जोते हुए खेत में, पानी में, चिति ( ईंट का भट्ठा और बर्तनों का आँवा ) पर, पहाड़ पर पुराने देव मन्दिर में, वामि ( दिअंकाड़ ) पर कभी ( मल - मूत्र का त्याग न करे ) ॥ ४६ ॥
न ससत्त्वेषु गर्तेषु न गच्छन्नापि च स्थितः ।
न नदीतीरमासाद्य न च पर्वतमस्तके ॥ ४७ ॥
भाष्य — न गच्छन्नापि च स्थितः । गच्छतस्तिष्ठतश्च प्रतिषेधादासीनस्याभ्यनु-ज्ञानम् । न चासन्ने नद्यास्तीरे, नदीजले न । संसर्गशङ्का यत्र भवति तदासन्नम् । पर्वतस्य मस्तकं शृङ्गम् ॥४७ ॥
हिन्दी — जीवयुक्त ( चींटी, चूहा आदि के ) बिलो में, चलते हुए, खड़े होकर, नदी के किनारे पहुँचकर और पहाड़ी की चोटी पर ( मल - मूत्र का त्याग न करे ) ॥४७ ॥
विमर्श— पूर्वश्लोक ( ४।४६ ) में पर्वत पर मल - मूत्र त्याग का निषेध करके पुन: इस श्लोक में ‘ पर्वतमस्तके ’ अर्थात् पहाड़ की चोटी पर निषेध करना पुनरुक्ति है; क्योंकि सामान्यत: पर्वत मात्र का निषेध करने से ही पर्वत की चोटी का भी निषेध स्वतः ही हो जाता है; तथापि विकल्प - प्रदर्शन के लिये ( पर्वत की चोटी को छोड़कर उसके निचले भाग पर मल - मूत्र - त्याग का निषेध न करने के लिये ) यह ( पर्वतमस्तके ) शब्द पुनः कहने पर पुनरुक्ति दोष नहीं है । यद्यपि इच्छाविकल्प का आश्रय कर अन्यथा भी अर्थ होने से सामान्य निषेध की व्यर्थता सम्भव है तथापि यहाँ इच्छाविकल्प का आश्रय न कर व्यवस्था - विकल्प का आश्रय करने से अत्यन्त आर्त को पर्वत पर मल - मूत्र त्याग करने पर भी दोष नहीं है ।
वाय्वग्निविप्रमादित्यमपः पश्यंस्तथैव गाः ।
न कदाचन कुर्वीत विण्मूत्रस्य विसर्जनम् ॥ ४८ ॥
भाष्य — सम्मुखीनत्वाद्वाय्वादीनामङ्गविप्रेक्षितेनापि न मूत्रयन्पश्येत् । वायोश्चा-रूपत्वाद्दर्शनं तत्प्रेरितपर्णलोष्ठादिभ्रमणादवसेयम् । वायुचक्रे त्वयं प्रतिषेधो विप्रयुक्तः । सर्वतो हि वायुर्वाति ॥४८ ॥