मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 591–600
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 591–600
पृष्ठ 591
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ५१५ त्मानं गोपायेदिति ” । “ का तर्हि तस्य शुद्धिः " मार्जनं मन्त्रवत्प्रोक्षणं वस्त्रत्याग एवमादि कर्तव्यम् । महानिशा चतुर्मुहूर्त उभयतोऽर्धरात्रितः । येतु— “ महती निशा यस्मिन्काले हेमन्तादाविति ” व्याचक्षते - तेषां माघफाल्गुनयोः प्रातःस्नानविधिविरोधादपव्याख्यानम् । नापि हैमन्तिकीषु रात्रिषु निषेध इति प्रमाणमस्ति द्वितीयस्य निशाशब्दस्याभावात् । वासोभिरिति सामर्थ्यलक्षणे शीतादौ वाससां बहुत्वे सति प्रतिषेधः । एकेन विहितमेव “ न नग्नः स्नायादिति ” ( ४ । ४५ ) द्वाभ्यामनियमः । बहूनां प्रतिषेधः ।
जलाशयो जलाधारः अविज्ञातः गाधागाधतया ग्राहादिभयेन च ।
अजस्त्रं सर्वदेत्यर्थः ॥१२९ ॥
हिन्दी – भोजन के बाद, रोगी रहने पर, महानिशा ( रात्रि के मध्य वाले दो प्रहरों ) में, बहुत वस्त्र पहने हुए और अज्ञात जलाशय में ( जिसमें पानी का थाह, गड्ढा या पत्थर आदि और जलजन्तु आदि का रहना ठीक - ठीक मालूम न हो, उसमें ) सर्वदा स्नान न करे ॥१२९ ॥
विमर्श- भोजन के बाद नित्य स्नान की सम्भावना ही नहीं है तथा चाण्डाल आदि का स्पर्श होने पर शक्ति रहते हुए मुहूर्त मात्र भी बिना स्नान किये रुकने का निषेध होने से यह वचन ऐच्छिक स्नान विषयक ' है । रोगी मनुष्य स्नान की शक्ति न रहे तो शिर को छोड़कर, केवल गीले वस्त्र से शरीर पोंछकर या देह पर पानी छिड़कर नैमित्तिक स्नान करे ' । रात्रि के मध्य दो प्रहर को ' महानिशा कहते हैं, उसमें नित्य या ऐच्छिक स्नान का ही निषेध है, काम्य या नैमित्तिक ( चन्द्रग्रहणादि प्रयुक्त ) स्नान तो करना ही चाहिये । देव - प्रतिमादि की छाया के उल्लंघन का निषेध-१. “ मुहूर्तमपि शक्ति विषये नाप्रयतः स्यात् - " इत्यापस्तम्बवचनात् यदृच्छास्नानमिदं भोजनानन्तरं निषिध्यते इति । ( म ० मु ० ) । २. तथा रोगी नैमित्तिकमपि स्नानं न कुर्यात्, किन्तु यथासामर्थ्यम् । “ अशिरस्कं भवेत्स्नानं स्नानाशक्तौ तु कर्मिणाम् । आर्द्रेण वाससा वा स्यान्मार्जनं दैहिकं विदुः । इत्यादिजाबालाद्युक्तमनुसन्धेयम् । इति ( म ० मु ० ) । ३. " महानिशाऽत्र विज्ञेया मध्यस्थं प्रहरद्वयम् I तस्मिन् स्नानं न कुर्वीत काम्यनैमित्तिकादृते ॥ ’ इति देवलवचनाच्च न तत्र स्नायात् । इति ( म ० मु ० ) । -क्रिसी
पृष्ठ 592
पाठ पढ़ें पाठ छिपाएँ
५१६ मनुस्मृतिः
देवतानां गुरोराज्ञः स्नातकाचार्ययोस्तथा ।
नाक्रामेत्कामतश्छायां बभ्रुणो दीक्षितस्य च ॥ १३० ॥
[ चतुर्थः भाष्य - प्रतिकृतयोऽत्र देवतास्तासां छायासम्भवात् । गुरुः पिता । आचार्य उपनेता । भेदोपादानमातिदेशिकगौरवनिवृत्त्यर्थम् । तेन मातुलादिषु नायं विधिरिति । केचित्‘समाचारविरोधान्नैतद्युक्तं गोबलीवर्दवद्भेदो विज्ञेय ” इति वदन्ति । बभ्रुः कपिलो वर्णः । तद्गुणयुक्तं द्रव्यम् । बभ्रवत्र गौ: कपिला, सोमलता वा । उभयोर्बभ्रुशब्देन वेदे
प्रयोगदर्शनात् ।
कामत इत्यबुद्धिपूर्वमदोषः ॥१३० ॥
हिन्दी — देवप्रतिमा, गुरु ( पिता आदि श्रेष्ठ जन ), राजा, स्नातक, आचार्य, कपिल वर्णवाला और यज्ञ में दीक्षित मनुष्यों ( अवभृथ स्नान के पूर्व तक ) की छाया का इच्छापूर्वक उल्लंघन न करे ॥१३० ॥
चौराहे पर ठहरने का निषेध-मध्यंदिनेऽर्धरात्रे च श्राद्धं भुक्त्वा च सामिषम् ।
सन्ध्ययोरुभयोश्चैव न सेवेत चतुष्पथम् ॥ १३१ ॥
भाष्य — मध्याह्नेऽर्धरात्रे महानिशायां समांसं च श्राद्धं भुक्त्वा न सेवेत | चिरं न तत्रासीत् । यदि कथञ्चिद्ग्रामादि गच्छतो नान्तरेण चतुष्पथं मार्गान्तरमस्ति, तदा तावन्मात्रसम्बन्धो न निषिध्यते ।
केचित्तु चकारमेवं योजयन्ति — ' श्राद्धं भुक्त्वा सामिषं चान्यदपि भोजनम् ' ।
अस्मिंश्च सम्बन्धे समाचारोऽन्वेष्यः । नान्यथा व्यवहितः सम्बन्धो लभ्यते ॥१३१ ॥
हिन्दी – दोपहर में, आधी रात में, मांस सहित श्राद्धान्न भोजनकर और दोनों ( प्रात: तथा सायंकाल की ) सन्ध्याओं में चौराहे पर न जावे ( बहुत समय तक न ठहरे ) ॥१३१ ॥
उबटन आदि की मैल पर ठहरने का निषेध-उद्वर्तनमपस्नानं विण्मूत्रे रक्तमेव च ।
श्लेष्मनिष्ठ्यूतवान्तानि नाधितिष्ठेत्तु कामतः ॥ १३२ ॥
भाष्य — उद्वर्तनमभ्यङ्गमलापकर्षणं पिष्टादि । अपस्नानमुपयुक्तमुदकम् । निष्ठ्यू-तमश्लेष्मरूपमपि भुक्त्वा त्यक्तं ताम्बूलवीटिकादि ।
अधिष्ठानं तदुपरिस्थानम् ।
कामतः । अज्ञानपूर्वमदोषः ॥१३२ ॥
हिन्दी — उबटन आदि की मैल, स्नान का पानी, विष्ठा ( मैला ), मूत्र, रक्त, कफ
पृष्ठ 593
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ५१७ ( खकार ), पान आदि की पीक और थूक तथा वमन किये गये अन्नादि पर न ठहरे ( पैर न रखे या खड़ा न होवे ) ॥१३२ ॥
शत्रुआदि की संगति का निषेध -वैरिणं नोपसेवेत सहायं चैव वैरिणः ।
अधार्मिकं तस्करं च परस्यैव च योषितम् ॥ १३३ ॥
भाष्य — बैरी शत्रुस्तस्य सदैव उपायनप्रेषणान्येकत्र स्थानासने गृहमनादिकथा-प्रवृत्तिरित्येवमादि न कार्यम् । अधार्मिकः पातकी, यश्च कुसृत्या वर्तते तस्करश्चौरः । अस्मादेव च भेदोपादानादधार्मिको न सर्वः, किंतर्हि यथा व्याख्यातम् । परस्य योषितं स्त्रियम् । योषिद्गहणान्न पत्न्येव किंतर्ह्यवरुद्धाऽपि, वैरकरणत्वा-दुभयोर्दृष्टदोषनिमित्तैश्च प्रतिषेधः, साहचर्यात् । उत्तरत्र च ' दार ' ग्रहणमदृष्टदोषाति-शयदर्शनार्थम् । न पुनरेवं वक्तव्यं “ योषितमिति सामान्यनिर्देशे दारशब्दार्थवादा-द्विशेषावगतिः । ” नायमस्यार्थवादः । भिन्नमेवैतद्वाक्यम् ॥१३३ ॥
हिन्दी – शत्रु, शत्रु का सहायक, अधार्मिक, चोर और परस्त्री का संग न करे ॥ १३३ ॥
परस्त्री निन्दा-
-न हीदृशमनायुष्यं लोके किंचन विद्यते ।
यादृशं पुरुषस्येह परदारोपसेवनम् ॥ १३४ ॥
भाष्य — अजीर्णकारकभोजनादि सुवर्णापहरणादि न हीदृशमनायुष्यमायुष्यक्षय-करं यादृशं परदारगमनम् । अदृष्टेन दृष्टेन च दोषः ॥ १३४ ॥
हिन्दी – इस संसार में पुरुष की आयु को क्षीण कराने वाला वैसा कोई कार्य नहीं है, जैसा दूसरे की स्त्री का सेवन करना है ( अतएव उसका सर्वदा त्याग करना चाहिये ) ॥१३४ ॥
क्षत्रिय तथा ब्राह्मणादि के अपमान का निषेध-क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् । नावमन्येत वै भूष्णुः कृशानपि कदाचन ॥ १३५ ॥
भाष्य - अवमान अनादरो गौरवाभावस्तिरस्कारश्च ।
कृशानपि तदात्वे प्रीतिं कर्तुमसमर्थानपि ॥१३५ ॥
मनु I- 37
पृष्ठ 594
पाठ पढ़ें पाठ छिपाएँ
५१८ मनुस्मृतिः [ चतुर्थ: हिन्दी – ( धन - गौ आदि सम्पत्ति से ) बढ़ने वाला मनुष्य क्षत्रिय, सर्प और बहुश्रुत ब्राह्मण ये यदि दुर्बल हों तो भी इनका अपमान न करे ॥१३५ ॥
एतत्त्रयं हि पुरुषं निर्दहेदवमानितम् ।
तस्मादेतत्त्रयं नित्यं नावमन्येत बुद्धिमान् ॥ १३६ ॥
भाष्य — निर्दहेत् अवमन्तारं पुरुषम् । त्रयमवमानितम् | क्षत्रियः सर्पों दृष्ट्वा शक्त्या, ब्राह्मणो जपहोमैः अदृष्टेन च दोषेण । तस्मादेतत् त्रयं नित्यमित्युपसंहारः । विधाय दोषदर्शनं पुनरुपसंहारो यत्नेन परिहारार्थः । यत्नातिशयाच्च प्रायश्चित्ते गौरवमप्यनुमीयते ॥१३६ ॥
हिन्दी — अपमानित ये तीनों ( क्षत्रिय, साँप और ब्राह्मण ) अपमान करने वाले पुरुष को भस्म कर देते हैं । अत: बुद्धिमान् मनुष्य इनका अपमान कदापि न करे ॥ १३६ ॥
विमर्श— इनमें क्षत्रिय तथा सर्प देखने से या क्षत्रिय शक्ति से, सर्प दंशन से और ब्राह्मण अभिचार ( मारण, मोहन, उच्चाटनादि ) कर्मों से अपमान करने वाले का बहुत अनिष्ट करते हैं ।
आत्मापमान का निषेध-नात्मानमवमन्येत पूर्वाभिरसमृद्धिभिः ।
आमृत्योः श्रियमन्विच्छेन्नैनां मन्येत दुर्लभाम् ॥ १३७ ॥
= भाष्य – असमृद्धिर्धनाद्यसंपत्ति:, कृष्यादिना धनार्जनावसरे । तत्र नात्माऽवमन्तव्यो ‘ दुर्भगोऽहमकृतपुण्यो, नास्मिन्नवसरे धनं मया लब्धं, कुतोऽन्यदा प्राप्स्यामीति ' नावसादो भावनीयः । आ मृत्योः श्रियमन्विच्छेत् । आऽन्त्यादुच्छ्वासाद्धनार्जनकामो न त्यक्तव्यः । न चैनां श्रियं दुर्लभां मन्येत । ' अवश्यं मम सम्पद्यते मद्व्यवसाय ' इति गृहदौःस्थित्याद्यपरिगणय्य तदर्जने प्रवर्तितव्यम् । अस्ति कस्यचित्सुभाषितम्— “ हीना: पुरुषकारेण गणयन्ति ग्रहस्थितिम् । सत्त्वोद्यमसमर्थानां नासाध्यं व्यवसायिनाम् ॥ ” अनेन चैतद्दर्शयति । ‘ अहं दुर्गतः क्लेशप्राप्यधन आधानादौ नाधिक्रिये 1 । ततोऽ-ग्निहोत्रहोमक्लेशादुत्तीर्णोऽस्मीति ' यस्य बुद्धिः स न सम्यङ्मन्यत इति । अतस्तदर्थं प्रयतेत ॥१३७ ॥
हिन्दी — पहले ( उद्योग करने पर भी ) समृद्धि न होने पर ( ' मैं मन्दभाग्य या अभागा
पृष्ठ 595
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ५१ ९ हूँ ' इत्यादि प्रकार से ) अपना अपमान न करे, ( किन्तु ) मरने तक लक्ष्मी को चाहे ( उन्नति के लिए उद्योग करता ही रहे ), और इसे ( समृद्धि — संपत्ति को ) दुर्लभ कभी न समझे॥१३७ ॥
सत्य तथा प्रिय भाषण-सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् ।
प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥ १३८ ॥
भाष्य— अर्थप्रयुक्तवचनं सत्ये नियम्यते । यथादृष्टं श्रुतं च सत्यम् । प्रियं ब्रूयात् । द्वितीयोऽयं विधिः । औदार्यादिगुणानुकथनं परस्यादृष्टेनापि केनचि-दवसरेण । तथा पुत्रजन्मादि ' ब्राह्मण पुत्रस्ते जात ' इत्यसत्यपि स्वप्रयोजने यदि सत्यं तद्वक्तव्यम् । यदि तस्य तन्न विदितम् । ‘ सत्यं ’ प्रियमप्रियं वाऽस्ति । प्रियं दर्शितं - ब्राह्मण ' पुत्र ' इत्यादि । अप्रियं यथा ‘ ब्राह्मण कन्या ते गर्भिणी ’ - तदसत्यं न ब्रूयात् सत्यमपि कन्यागर्भग्रहणमप्रियत्वादप्रकाश्यम् । सत्यां गतौ तूष्णीमासितव्यम् । ननु गर्भिण्यामगर्भिणीति वक्तव्यं प्रियत्वादत आह प्रियं च नानृतं ब्रूयादिति । एवं च यस्य प्रथमः साक्षात्कारस्तेन तत्र तूष्णीमासितुं लभ्यते । एष सनातनो धर्मः । सनातनो नित्यो वेदस्तेन विहितत्वाद्धर्मोऽपि सनातनः॥१३८ ॥
हिन्दी — सत्य ( जैसा देखा है वैसा ) बोले, प्रिय ( ' तुम्हें पुत्र हुआ है, तुम परीक्षा में उत्तीर्ण हो गये इत्यादि ' प्रीतिजनक वचन ) बोले, सत्य भी अप्रिय ( जैसे- ' तुम्हारा पुत्र मर गया, तुम फेल हो गये ' इत्यादि दुःखजनक वचन ) न बोले और प्रिय भी असत्य ( वचन ) न बोले; यही सनातन ( वेदमूलक होने से अनादि काल से चला आता हुआ ) धर्म है ॥१३८ ॥
दूसरे के कार्य को अच्छा कहना—
भद्रंभद्रमिति ब्रूयाद्भद्रमित्येव वा वदेत् ।
शुष्कवैरं विवादं च न कुर्यात्केनचित्सह ॥ १३ ९ ॥
भाष्य – अत्र प्रथमस्य भद्रशब्दस्य नञ्लोपं व्याचक्षते । यदभद्रं तद्भद्रमिति ब्रूयात् । इतिकरणः प्रदर्शनार्थः । ' कल्याणं ' ' मङ्गलं ' ' सिद्धं ' ' श्रेय ' इत्यादयः सिद्धाः ` शब्दाः प्रयोक्तव्याः । पूर्वपदस्यापि प्रदर्शनार्थत्वेऽन्धे ' चक्षुष्मान् ' मूर्खे ' प्राज्ञ ' इत्यादिवचनं लभ्यते । अथवा भद्रमित्येष एव शब्द एवमादिषु वक्तव्यः । शुष्कबैरं असत्यर्थादिप्रयोजने आहोपुरुषिकं वाक्यं न कर्तव्यम् ।
एवं राजाधिकरणे विवादं शुष्कमेवेत्यादि सम्पद्यते ।
केनचिदसमर्थेनापि ॥ १३ ९ ॥
पृष्ठ 596
पाठ पढ़ें पाठ छिपाएँ
५२० मनुस्मृतिः [ चतुर्थः हिन्दी – ( दूसरे के किये हुए किसी ) बुरे या बिगड़े हुए कार्य को ' अच्छा ' कहे, या ' अच्छा है ' ऐसा सामान्यतः कहे, बिना मतलब किसी के साथ विरोध या झगड़ा न करे ॥१३९ ॥
अज्ञात व्यक्ति के साथ गमन करने का निषेध-नातिकल्यं नातिसायं नातिमध्यंदिने स्थिते । नाज्ञातेन समं गच्छेन्नैको न वृषलैः सह ॥ १४० ॥
भाष्य — अतिकल्यशब्दश्चाहर्मुखे वर्तते । उष: काले न गन्तव्यम् ।
अतिसायं पश्चिमसन्ध्यासमये अज्ञातेन पुरुषेण सह न गच्छेत् ।
असहायश्च वृषलैः शूद्रैश्च सह ॥१४० ॥
हिन्दी — बहुत सबेरे, बहुत शाम होने पर और बहुत दोपहरी होने पर अज्ञात ( कुलशील वाले ) पुरुष तथा शूद्रों के साथ अकेला न जावे ॥१४० ॥
हीनाङ्ग आदि की निन्दा का निषेध-हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोतिगान् ' ।
रूपद्रविणहीनांश्च जातिहीनांश्च नाक्षिपेत् ॥ १४१ ॥
भाष्य — हीनाङ्गाः काणकुष्ठिकुब्जादय: । अतिरिक्तमधिकं अङ्गे येषां श्लीप-द्यादयः । विद्याहीना मूर्खाः । वयोतिगा अत्यन्तवृद्धा: । रूपहीना दुःसंस्थाना-श्चिपिटकेकरादयः । द्रविणहीनाः द्ररिद्राः । द्रविणं धनं तेन हीना वर्जिताः । जात्या हीना निकृष्टजातयः कुण्डगोलकाद्याः । तान्नाक्षिपेत् । ' आक्षेपः ’ कुत्सा । एतेषां एतैः शब्दैराह्वानमेव कुत्सा ॥१४१ ॥
हिन्दी — हीन ( कम या अत्यन्त छोटे ) अङ्ग वाले ( यथा— लङ्गड़ा, लूला, वामन आदि ), अधिक अङ्ग वाले ( यथा— छाँगुर आदि ), मूर्ख, बहुत अधिक उम्र वाले, कुरूप, निर्धन और नीच जाति वालों की निन्दा न करे ( लंगड़ा, काना इत्यादि शब्द को उनके प्रति व्यवहार में न लावे ) ॥१४१ ॥
जूठे मुँह गौ आदि के स्पर्श का निषेध-न स्पृशेत्पाणिनोच्छिष्टो विप्रो गोब्राह्मणानलान् । स न चापि पश्येदशुचिः स्वस्थो ज्योतिर्गणान्दिवि ॥ १४२ ॥
१. “ तथा चापस्तम्बः– ' नाभद्रमभद्रं ब्रूयात्पुण्यं प्रशस्तमिति ब्रूयाद्भद्रमित्येव ' इति ” । ( म ० मु ० ) । २. पाठभेदः - वयोऽधिकान् ।
पृष्ठ 597
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ५२१ भाष्य- - उच्छिष्टो भुक्तवाननाचान्तः कृतमूत्रपुरीषश्च । अशुचिमात्रमिहोच्छिष्ट-शब्देनोच्यते । तथा चोच्छिष्टस्य गवादिस्पर्शः प्रतिषिध्यते । अशुचिशब्देन प्रायश्चित्तं वक्ष्यति । पाणिग्रहणमतन्त्रम् । अन्येनाप्यङ्गेन स्पर्शो नेष्यते । वस्त्राद्यन्तरिते न निषेधः । दिवि ज्योतिर्गणं न पश्येत् । स्वस्थोऽनातुरः । दिवीतिवचनाद्भूमौ ज्योतिषो-ऽग्नेरप्रतिषेधः ॥ १४२ ॥
हिन्दी — उच्छिष्ट मुख ( जूठे मुँह ) रहकर ( तथा मलमूत्र त्यागकर ) गौ, ब्राह्मण और अग्नि का हाथ से स्पर्श न करे और अपवित्र रहते हुए स्वस्थावस्था में आकाश में सूर्य, चन्द्र, ग्रह, तारा आदि को न देखे ॥ १४२ ॥
उक्त स्पर्श करने पर प्रायश्चित्त-स्पृष्ट्वैतानशुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् । गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु ॥ १४३ ॥
भाष्य — अविशेषवचनेऽपि प्राणाश्चक्षुरादय एव मूर्धन्या उच्यन्ते । प्राणशब्दश्च-क्षुरादिवचनो वेदे प्राणसम्भव उपनिषदि दृश्यते ।
गात्राणि अंसजानुपादादीनि ।
पाणितलेनापो गृहीत्वा स्पृशेत् ॥१४३ ॥
हिन्दी - अशुद्ध ( जूठे मुँह रहकर तथा मल - मूत्र त्यागकर ) इन ( गौ, ब्राह्मण और अग्नि ) का हाथ से स्पर्शकर पाणितल ( तलहथी ) पर पानी रखकर उससे प्राणों नेत्रादि इन्द्रियों ( शिर, कन्धा, घुटना चरणों ) एवं सम्पूर्ण शरीर और नाभि का स्पर्श करे ॥ १४३ ॥
इन्द्रियों तथा गुप्त रोगों के स्पर्श का निषेध-अनातुरः स्वानि खानि न स्पृशेदनिमित्ततः । रोमाणि च रहस्यानि सर्वाण्येव विवर्जयेत् ॥ १४४ ॥
भाष्य - अनिमित्ततः छिद्राणि न स्पृशेत् । ततः कण्डूयनादिनिमित्तं विना | स्वानि खानि चक्षुरादीनि रहस्यानि कक्षोपस्थगतानि विवर्जयेत् प्रकृतेन स्पर्शेन । श्लोकपूरणार्थमाख्या-तान्तरोपादानम् । अन्ये त्वाहुः आख्यातान्तरनिर्देशाद्दर्शनं प्रतिषिध्यते ॥ १४४ ॥
हिन्दी – स्वस्थ रहते हुए बिना कारण इन्द्रियों तथा गुप्त रोमों ( कक्ष या उपस्थादि के बालों ) का स्पर्श न करे ॥१४४ ॥
पृष्ठ 598
पाठ पढ़ें पाठ छिपाएँ
५२२ मनुस्मृतिः मङ्गल द्रव्य तथा आचार से युक्त रहना-मङ्गलाचारयुक्तः स्यात्प्रयतात्मा जितेन्द्रियः । जपेच्च जुहुयाच्चैव नित्यमग्निमतन्द्रितः ॥ १४५ ॥
-[ चतुर्थः भाष्य – अभिलषितायुर्धनादिसिद्धिर्मङ्गलम् । तदर्थमाचारो मङ्गलाचारो गोरोच-नातिलकशुभफलादिस्पर्शस्तेन युक्तो नित्यं तत्सेवापरः स्यात् । “ ननु चाचारस्य प्रामाण्यमुक्तमेव ” । सत्यम् । अदृष्टस्यार्थस्यानेनोच्यते । दृष्टबुद्ध्या हि क्रियमाणस्य व्यभिचारदर्शनेन कश्चिदनादरपरः स्यात् । तदर्थं पुनरुच्यते । यथा प्रस्थानकाले सन्निहिते पुनः कथनं दध्यादौ वन्दनं, शुक्लनिवसनदर्शनं, दक्षिणतः कपिञ्जलवासितं, फलिते वृक्षे दक्षिणत एव वायसस्य, — एवमादि मङ्गलार्थमादरणीयं; विपरीतं वर्जनीयम् । जितेन्द्रियो विषयेष्वलालसः । पुरुषार्थतयैतदसकृदुक्तमपि विनिपातनिवृत्त्यर्थमुच्यते ।
अग्नेरन्यत्रापि होमसम्भवाज्जुहुयादग्निमित्याह ।
अतन्द्रित इत्युक्तानुवादः ॥१४५ ॥
हिन्दी — मङ्गल ( गोरोचनादि मङ्गल द्रव्य - विशेष ) तथा आचार ( गुरुसेवा आदि ) से युक्त, बाहर ( मिट्टी जलादि से ) - भीतर ( राग - द्वेषादि - त्याग से ) शुद्ध, जितेन्द्रिय और निरालस होकर सर्वदा ( गायत्री का ) जप करे तथा हवन करे ॥ १४५ ॥
उक्ताचरण से लाभ—
मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् ।
जपतां जुह्वतां चैव विनिपातो न विद्यते ॥ १४६ ॥
भाष्य — विनिपातः प्राकृताशुभनिमित्तको दैवोपद्रवो व्याधिर्धननाश इष्टवियोगादिः । स एवमाचाराणां माङ्गल्यकान्निवर्तते । अनेनापि नित्यतैवोक्ता भवति, सत्यपि फलार्थत्वे । न हि कश्चिद्दैवोपद्रवानिवृत्ति-मर्थयते । अतो ‘ नित्य'ग्रहणमनुवादः । अथापि कश्चिदनर्थी स्यात्तथापि नित्य एवायं विधिः । एवं चोभयार्थता तस्य नित्याधिकारवृत्तिर्विनिपातनिवृत्तिश्च ॥१४६ ॥
हिन्दी — मङ्गल द्रव्य और आचार से युक्त, नित्य बाहरी - भीतरी शुद्धि रखने वाले, ( गायत्री का ) जप तथा हवन करते हुए द्विज का विनिपात ( दैवकृत या मनुष्यकृत उपद्रव ) नहीं होता है ॥१४६ ॥
पृष्ठ 599
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य’मणिप्रभा ' हिन्दीटीकासहिता ५२३
गायत्री आदि के जप की श्रेष्ठता-वेदमेव जपेन्नित्यं यथाकालमतन्द्रितः ।
तं ह्यस्याहुः परं धर्ममुपधर्मोऽन्य उच्यते ॥ १४७ ॥
भाष्य — जपेच्च जुहुयाच्चैवेत्युक्तम् । तत्र तावज्जपस्य साधनमाह— वेदमेव जपेदिति । अवशिष्टोऽर्थवादः । यथाकालं यस्मिन्यस्मिन्काले । वीप्सायामव्ययीभावः । यदैव ह्यैहिकी चेष्टा नातिपद्यते तदैव जपेत् । अन्यान्यग्निहोत्रादिकर्माणि नियतकालानि । जपस्य तु शुचित्वमेव कालः । अयं मुख्यो धर्मः । उपधर्मः । धर्मस्य समीपे उपधर्मः । समीपप्रधानस्तत्पुरुषो ना-व्ययीभावः । “ उपमानानि सामान्यवचनैरिति ” ( व्या ० सू ० २।१।५५ ) यथा । धर्मान्तर-निन्दा वेदजपस्तुत्यर्था, न तन्निषेधार्था ||| १४७ ॥ हिन्दी — निरालस होकर यथासमय ( मङ्गल कारक होने से नित्यकृत्य के समय ) सर्वदा वेद का ही अभ्यास ( गायत्री का जप ) करे । मनु आदि आचार्यों ने उसी ( गायत्री के जप ) को श्रेष्ठ धर्म कहा है और दूसरे को उपधर्म कहा है ॥ १४७ ॥
सतत वेदाभ्यासादि से पूर्वजातिस्मरण–
वेदाभ्यासेन सततं शौचेन तपसैव च ।
अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम् ॥ १४८ ॥
भाष्य - अद्रोहोऽहिंसा । भूतानि स्थावरजङ्गमानि । जातिस्मरफलान्येतानि कर्माणि चत्वारि यावज्जीवमनुष्ठीयमानानि भवन्ति ।
जातिर्जन्मान्तरम् ।
पूर्वभवा पौर्विकी ॥ १४८ ॥
हिन्दी— ( मनुष्य ) निरन्तर वेदाभ्यास ( गायत्री जप ), पवित्रता, तपस्या और प्राणियों के साथ द्रोह का अभाव ( हिंसादि से उन्हें दुःखित न करने ) से पूर्व जाति का स्मरण करता है ( उसे पूर्वजन्म की बातें स्मरण होती हैं ) ॥१४८ ॥
पूर्वजाति स्मरण से वेदाभ्यास द्वारा मोक्षलाभ—
पौर्विकीं संस्मरन् जातिं ब्रह्मैवाभ्यस्यते द्विजः ।
ब्रह्माभ्यासेन चाजस्रमनन्तं सुखमश्नुते ॥ १४ ९ ॥
भाष्य - ननु चेष्टफलकामः सर्वं समीहते । न च जन्मान्तरानुस्मरणमेकान्तसुखं येन फलत्वेन वेदाभ्यासादिचतुष्टयस्य वर्ण्यते । तत आह पौर्विकीं जातिं स्मरन् ब्रह्म
पृष्ठ 600
पाठ पढ़ें पाठ छिपाएँ
५२४ मनुस्मृति [ चतुर्थ: वेद अभ्यस्यते तत्र श्रद्धावान् भवति । ' ईदृशो ब्रह्माभ्यासो येन जन्मान्तरं स्मर्यते ' इति । स्मरन्पुनस्तदभ्यासे वर्तते । तस्माच्चानेकजन्माभ्यस्तादनन्तरं ब्रह्मप्राप्तिलक्षणं सुखम् । अजस्रमपुनरावृत्तिं अश्नुते प्राप्नोति । ' अनन्त ' शब्देन सुखविशेष उपलक्ष्यते, असाधना परितृप्तिरात्मनः । तस्याजस्रपदेन शाश्वतं प्रतिपाद्यते । तादृशं सुखं प्राप्यते, न चैतत्क्षीयते ।
समानार्थावप्यपुनरुक्तौ । यथा ‘ वृत्तकं वहतः पुरीषमिति ' । वृत्तकमुदकं पुरीषं च ।
तत्रैको रूढोऽपरः क्रियाशब्दः । ' पुरीषं ' पूरणसमर्थं ' वृत्तक’मुदकम् ॥१४९ ॥
हिन्दी – ( इससे वह ) पूर्वजाति का स्मरण करता हुआ, ( जन्मजन्य जरामरणादि विविध क्लेशों का स्मरण करता हुआ उससे छुटकारा पाने के लिए ) फिर ब्रह्म का ही ( श्रवण, मनन और ध्यान के द्वारा ) निरन्तर अभ्यास करता है और ब्रह्माभ्यास से परमानन्द की प्राप्तिरूप अनन्त सुख ( मोक्ष ) को प्राप्त करता है ॥१४९ ॥
हवन अष्टकाश्राद्धादि कर्तव्य— सावित्रान् शान्तिहोमांश्च कुर्यात्पर्वसु नित्यशः । पितॄंश्चैवाष्टकास्वर्चेन्नित्यमन्वष्टकासु भाष्य- –पूर्वोक्तानां होमानां स्वरूपमुच्यते । सावित्राः सवितृदेवताकाः । पवसु च पौर्णमास्यमावास्ययोः कर्तव्याः ।
शान्त्यर्था होमा अनिष्टनिवृत्तिप्रयोजनाः ।
च ॥ १५० ॥
द्रव्यं चात्राज्यमेवानुपात्तद्रव्यविशेषेषु सर्वहोमेषु श्रूयते “ सर्वस्मै वा एतद्यज्ञाय गृह्यते यत् ध्रुवायामाज्यमिति ” । पर्वस्विति च सप्तमी द्वितीयार्थे द्रष्टव्या । अधिकरण-मग्निर्होमस्य, न कर्म क्वचित् । होतव्यानि पठ्यन्ते — ' लाजाज्यमांससक्तुदधिपयोधानाः पिष्टमित्यादि ' । एते च होमा अपूर्वाः । यावती च समाचारादितिकर्तव्यता सा प्राग्दर्शिता । अष्टका ऊर्ध्वमाग्रहायण्यास्तमित्रपक्षाणां तिस्रोऽष्टम्यः । केषांचित् " हेमन्त-शिंशिरयोश्चतुर्णामपरपक्षाणामिति " वचनम् । तत्र पितॄनर्चयेच्छ्राद्धेन । पितृशब्दः पूर्वप्रमीत-पित्रादिवचनः । अन्वष्टकास्ता एव नवम्यः ॥१५० ॥
हिन्दी — पर्वों ( अष्टमी तथा पूर्णिमादि तिथियों ) में सर्वदा सावित्रिदेवताक ( सावित्री है देवता जिसका ऐसा तथा अनिष्ट निवृत्ति के लिए ) शांति हवनों को करे । अग्रहण के बाद कृष्णपक्ष की तीन अष्टमी तिथियों में अष्टकाख्य तथा उसके बाद वाली नवमी तिथियों में अन्वष्टकाख्य श्राद्ध कर्म से ( स्वर्गगत ) पितरों का अर्चन करे ॥१५० ॥