मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 641–650
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 641–650
पृष्ठ 641
पाठ पढ़ें पाठ छिपाएँ
• अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता ५६५ करने वाला उत्तम ( रोगादिरहित ) नेत्र को पाता है ॥२२९ ॥
भूमिदो भूमिमाप्नोति दीर्घमायुर्हिरण्यदः ।
गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ॥ २३० ॥
भाष्य — भूमेराधिपत्यं प्राप्नोति ।
-हिरण्यं सुवर्णम् ।
रूप्यद उत्तमं रूपं लभते ॥ २३० ॥
हिन्दी – भूमिदान करने वाला भूमि ( भूस्वामित्व ) को, सुवर्ण ( सोना ) दान करने वाला पूर्यायु को, गृहदान करने वाला उत्तम गृहों को और चाँदी दान करने वाला उत्तम रूप को ( पाता है ) ॥२३० ॥
वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः
।
अनडुहः श्रियं पुष्टां गोदो व्रध्नस्य विष्टपम् ॥ २३१ ॥
भाष्य — चन्द्र इव लोक्यते सर्वस्य प्रियदर्शनो भवति । इतिहासदर्शने चन्द्रलोको नाम स्वर्गस्थानविशेषस्तमाप्नोति । अश्विनामश्ववतां सालोक्यं बह्वश्वतां प्राप्नोति । दर्शने पुनरश्विनोर्लोकमाप्नोति । अनड्वान्पुङ्गवः शकटवहनसमर्थस्तं ददतः पुष्टा महती श्रीर्गोजाविधनधान्या-दिसम्पद्भवति । ब्रध्न आदित्यस्तस्य विष्टपं स्थानमाप्नोति । महातेजाः सर्वस्योपरि भवति ।
स्वर्गो वा ब्रध्नविष्टपम् ।
स्मृत्यन्तरेऽनसो विशेषाश्रयः फलविशेषः श्रूयते ॥
" हेमशृङ्गी रूप्यखुरा सुशीला वस्त्रसंवृता । सकांस्यपात्रा दातव्या क्षोरिणी गौः सदक्षिणा ॥ " सुदक्षिणेति पाठेऽन्यदपि सुवर्णादि तत्र दातव्यम् । शोभनार्थे वा सुशब्दः पठितव्यः सा गौ: शोभना दक्षिणादानम् । कांस्योपदोहेति पाठान्तरम् । कांस्यं नाम परिमाणविशेषः । तत्रोपदुह्यते बहुक्षीरेत्यर्थः । “ मुक्तालाङ्गलभूषितां भूमिं तु रूपसंच्छन्नां कृत्वा ” इत्यादि-स्मृत्यन्तरदृष्टो विधिः फलविशेषार्थिनाऽऽश्रयणीयः । तथा— “ कपिला चेत्तारयति भूय आ सप्तमात्कुलात् । सवत्सा रोमतुल्यानि युगान्युभयतोमुखी ॥ ” वत्सवत्याः कपिलाया दान एतत्फलम् । उभयतोमुखी दीयमाना रोमतुल्यानि वर्षसहस्राणि स्वर्गं प्रापयति तारयती पापान्मोचयति । मनु I- 40
पृष्ठ 642
पाठ पढ़ें पाठ छिपाएँ
५६६ मनुस्मृतिः [ चतुर्थ: भारते सर्वफलं गोदानमुक्तम् । ( अनु ० १०६-१०९ । २३५ ( ३१-५० ); आश्व १०२'५ ) । वार्यादीन्यपि स्वर्गफलानि श्रूयन्ते । “ भूमिपश्वन्नवस्त्राम्भस्तिलसर्पिष्प्रतिश्रयान् । नैवेशिकमथ स्वर्णं दत्वा स्वर्गे महीयते । ” ‘ नैवेशिकं ’ वेश्म ॥२३१ ॥
हिन्दी — वस्त्रदान करने वाला चन्द्रमा के सालोक्य ( चन्द्रलोक में निवास ) को, घोड़े का दान करने वाला बहुत ( दृढ़ - स्थिर ) धन को, गाय का दान करने वाला सूर्यलोक को ( पाता है ) ॥२३१ ॥
यानशय्याप्रदो
भार्यामैश्वर्यमभयप्रदः ।
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसार्ष्टिताम् ॥ २३२ ॥
भाष्य — ऐश्वर्य्यमीश्वरत्वं प्रभुत्वम् । सुखित्वं सौख्यम् । धान्यानि व्रीहिमाषमुद्गादीनि । तिलानां फलान्तरमुक्तम् । ब्रह्म वेदः तद्ददाति योऽध्यापयति व्याख्याति च । ब्रह्मसार्ष्टिता । अर्षणमृष्टिः । समा ऋष्टिर्यस्य असौ सार्ष्टिः । छान्दसत्वात्समानस्य सभावः । ऋषि गतौ । अर्षणं वा साष्टिः । तद्भावः । साष्र्ष्टिता I । उभयथाऽपि ब्राह्मणः समानगतित्वमेतत्तुल्यत्वमित्युक्तं भवति ॥२३२ ॥
हिन्दी – रथ आदि सवारी तथा शय्या का दान करने वाला स्त्री को, अभयदान करने वाला ( या किसी की हिंसा नहीं करने वाला ) ऐश्वर्य को, धान्य ( जौ, धान, चावल, गेहूँ, चना आदि ) का दान करने वाला चिरस्थायी सुख को और वेद दान ( वेद का अध्यापन या व्याख्यान ) करने वाला ब्रह्मा की समानता को ( पाता है ) ॥ २३२ ॥
सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते ।
वार्यन्नगोमहीवासस्तिलकाञ्चनसर्पिषाम् ॥ २३३ ॥
भाष्य - पूर्वस्य विधेरर्थवादः । दीयन्त इति दानानि देयद्रव्याणि । दानक्रियैव वा दानम् । ब्रह्मदानं वेदाध्ययन-व्याख्याने । वार्यादीनां सर्वदानोत्तमत्वाद्ग्रहणम् ॥२३३ ॥
दान हिन्दी – जल, अन्न, गौ, भूमि, वस्त्र, तिल, सुवर्ण और घृत; इन सबके से ब्रह्मदान ( वेद का पढ़ाना ) श्रेष्ठ फल देने वाला है ॥२३३ ॥
पृष्ठ 643
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ५६७ भावानुसार दानफल-येन येन तु भावेन यद्यद्दानं प्रयच्छति तत्तत्तेनैव भावेन प्राप्नोति प्रतिपूजितः ॥ २३४ ॥
भाष्य - भावशब्दोऽयं चित्तधर्मे वर्तते । यादृशेन भावेन प्रसन्नेन चित्तेन श्रद्धयाऽ-ऽदरेण ददाति तादृशेनैव लभते । अथाश्रद्धयाऽवज्ञया क्लिष्टं परिभूय ददाति सोऽपि तथैव प्राप्नोति । यद्यदपि न द्रव्यजात्यभिप्रायम् । किंतर्हि फलं? एतदुच्यते । तां तां प्रीतिं तत्तद्-द्रव्यसाध्यां प्राप्नोति । जात्यभिप्राये ह्यातुरायौषधदाने औषध एवं लभ्येत । तच्चा-व्याधितस्यानुपयोगीति सोऽप्याक्षिप्येत । तस्मात् यादृश्युल्लासाद्यस्य प्रीतिस्तादृशीं चैव प्राप्नोति । अतश्च सर्वदैवौषधदान अरोगित्वमुक्तं भवति । अथवा इदं मे स्यादिति या फलकामना स ' भाव: ' । यत्फलमभिसंधाय यद्यद्द्रव्यं ददाति तत्तत्प्राप्नोति । तेनैव भावेन तयैवेच्छया यदेवेच्छति तदेव लभत इत्युक्तं भवति । सर्वफलत्वं सर्वद्रव्याणां प्रदर्शितं भवति ॥ २३४ ॥
हिन्दी – ( दानकर्ता ) जिस - जिस भाव ( अभिलाषा - कामना ) से जो - जो दान देता है, उसी - उसी भाव से ( जन्मान्तर में ) पूजित होता हुआ उस - उस वस्तु को प्राप्त करता है ॥२३४ ॥
सविधि दान लेने और देने की श्रेष्ठता-योऽर्चितं प्रतिगृह्णाति ददात्यर्चितमेव वा ।
तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये ॥ २३५ ॥
भाष्य — पूजापूर्वकं दातव्यम् । तादृशमेव च प्रतिग्रहीतव्यम् । नावज्ञया दातव्य-मिति श्लोकस्य तात्पर्यम् । अचितमिति क्रियाविशेषणम् ॥२३५ ॥
हिन्दी — जो सत्कार सहित दान लेता है और जो सत्कार सहित दान देता है, वे दोनों स्वर्ग को जाते हैं । इसके विरुद्ध करने ( असत्कारपूर्वक दान लेने या देने ) से वे नरक को जाते हैं ॥ २३५ ॥
तप: सिद्धि आदि से विस्मयादि का निषेध-न विस्मयेत तपसा वदेदिष्ट्वा च नानृतम् ।
नार्तोऽप्यपवदेद्विप्रान्न दत्वा परिकीर्तयेत् ॥ २३६ ॥
भाष्य – तपसाऽनुष्ठितेन विस्मयं न कुर्यात् । अतितीव्रं तपो मया कृतं सुदुश्चरमि-
पृष्ठ 644
पाठ पढ़ें पाठ छिपाएँ
५६८ त्येवं मनसि न कर्तव्यम् । मनुस्मृतिः [ चतुर्थः इष्ट्वा यागं कृत्वाऽनृतं न वदेत् । अविशेषेण प्रतिषिद्धस्यापि पुरुषार्थतया पुनः प्रतिषेधो यागाङ्गत्वज्ञापनार्थः । प्रतिषेधातिक्रमे हि ज्योतिष्टोमादेरङ्गहीनता भवति ।
आर्त्तः पीडितोऽपि ब्राह्मणैर्न तानपवदेन्न निन्देत ।
दत्वा गवादि द्रव्यं न कस्यचिदग्रतः परिकीर्तयेदिदं मया दत्तम् ॥२३६ ॥
हिन्दी- - तपस्या से विस्मय ( चान्द्रायण या कृच्छ्र आदि कठिन तपस्या की पूर्णता होने पर देखो किस प्रकार मैंने इसे पूरा कर लिया ऐसी भावना ) न करे, यज्ञ करके असत्य न बोले, पीड़ित होकर भी ब्राह्मणों को दुर्वाच्य न कहे और दान देकर नहीं कहे ॥ २३६ ॥
उक्त कार्य से विपरीताचरण का फल-यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् ।
आयुर्विप्रापवादेन दानं च परिकीर्तनात् ॥ २३७ ॥
भाष्य – पूर्वस्यप्रतिषेधस्यार्थवादोऽयम् ।
अनृतेन हेतुना यज्ञः क्षरति स्रवति निष्फलो भवति । यदर्थं कृतं तन्न सम्पद्यते ।
एवं सर्वत्र ॥२३७ ॥
हिन्दी — असत्य बोलने से यज्ञ नष्ट हो जाता है, विस्मय से तपस्या नष्ट हो जाती है, ब्राह्मण को दुर्वाच्य कहने से आयु और ( दान दी हुई वस्तु को ) कहने से दान ( का फल ) नष्ट हो जाता है ॥२३७ ॥
धीरे - धीरे धर्म का सञ्चय करना-धर्मं शनैः सञ्चिनुयाद्वल्मीकमिव पुत्तिकाः ।
परलोकसहायार्थं सर्वभूतान्यपीडयन् ॥ २३८ ॥
भाष्य - महति दाने महति च तपसि महति च यज्ञे ज्योतिष्टोमादौ यद्यसमर्थस्तदा नोदासीनेन भवितव्यम् । किंतर्हि शनैः शनैः स्वल्पेन दानेन स्वल्पेन तपसा यथाशक्ति परोपकारेण जपहोमाभ्यां स्मार्ताभ्यां धर्मः सञ्चेतव्यः । यथा मृत्सङ्घातं पुत्तिकाः पिपी-लिका: सञ्चिन्वन्ति ।
परलोकसहायार्थमिति धर्मफलानुवादः ।
सर्वभूतान्यपीडयन् । याञ्चया धर्मार्थया भूतानां पीडा न कर्तव्या ॥२३८ ॥
हिन्दी — जिस प्रकार दीमक वल्मीक ( वामी - दियकाँड़ ) का सञ्चय करते हैं, उसी प्रकार परलोक की सहायता के लिये सब जीवों को पीड़ा नहीं देते हुए धीरे - धीरे धर्म का सञ्चय करे ॥२३८ ॥
पृष्ठ 645
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता
धर्म की प्रशंसा-नामुत्र हि सहायार्थं पिता माता च तिष्ठतः ।
न पुत्रदारं न ज्ञातिर्धर्मस्तिष्ठति केवलः ॥ २३ ९ ॥
भाष्य — भूतानुवादोऽयम् । ५६ ९ अमुत्र जन्मान्तरे सहायार्थं नरकादिदुःखादुद्धरणार्थं न कस्यचित्सुहृद्वान्धवादेः शक्तिरस्ति । केवल एव जीवता यो धर्मः कृतः स तमुद्धरति ॥२३ ९ ॥ हिन्दी — क्योंकि परलोक में माता, पिता, स्त्री और ज्ञाति सहायता के लिये नहीं रहते हैं; केवल धर्म ही ( सहायता के लिए ) रहता है ॥२३९ ॥
एकः प्रजायते जन्तुरेक एव प्रलीयते ।
एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ॥ २४० ॥
भाष्य — यथा जन्तुः प्राण्येक एव जायते न सुहृद्वान्धवादिना स एक एव प्रलीयते । न सुहृदो बान्धवाः सहमरणमनुभवन्ति । यदि नाम भार्याऽन्यो वा भक्तो जनस्तन्मरणकाल आत्मानं हन्यात्तथापि पृथगेवासौ मरणक्रिया । अनया न गर्भैक्यमत्रिवदनुभवन्ति । एवं सुकृतदुष्कृते अपि पृथगेवानुभवन्ति । ननु च ‘ न पुत्रदारम् ' इत्युक्तम् । यावता पुत्रः श्राद्धादिक्रियया पितुरुपकरोत्येव मृतस्यैवं भार्याऽपि । सत्यम् । धार्मिकस्यैव तादृश: पुत्रो भवतीति तत्परमेतत् । यथा जीवतः कस्य-चिद्धस्तग्राहिकया कश्चित्सहायो भवत्येवं मृतस्य पुत्रो धर्मद्वारेणैवोपकरोति ॥२४० ॥
हिन्दी — प्राणी अकेला ही पैदा होता है, अकेला ही मरता है, अकेला ही पुण्य ( जन्य स्वर्ग - आदि फल ) भोगता है, और अकेला ही पाप जन्य ( नरक आदि फल ) को भोगता है ॥ २४० ॥
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ ।
विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति ॥ २४१ ॥
भाष्य- सह गच्छति । इदं प्रत्यक्षसिद्धप्रसंख्यानार्थमुच्यते । मृतस्य शरीरं क्षितावुत्सृज्य काष्ठमिव निष्प्रयोजनं विमुखा बान्धवाः प्रतिगच्छन्ति । धर्मस्तु केवलं पुरुषमनुगच्छति ॥२४१ ॥
पृष्ठ 646
पाठ पढ़ें पाठ छिपाएँ
५७० मनुस्मृतिः [ चतुर्थः हिन्दी — बान्धव लोग मरे हुए ( निर्जीव ) शरीर को लकड़ी और ढेले के समान भूमि पर छोड़ पराङ् मुख होकर चले जाते हैं ( उसके साथ नहीं जाते, किन्तु ) एक धर्म ही उसके पीछे जाता है ॥२४१ ॥
तस्माद्धर्मं सहायार्थं नित्यं सञ्चिनुयाच्छनैः ।
धर्मेण हि सहायेन तमस्तरति दुस्तरम् ॥ २४२ ॥
भाष्य — उपसंहारोऽयम् । दुस्तरं तमः कृच्छ्रेण यत्तीर्यते 1 । तमो दुःखम् । तदपि धर्मेण सहायेन सुतरं भवति । न हि तादृशे तमसि मज्जतीत्यर्थः ॥ २४२ ॥
हिन्दी - इस कारण ( परलोक में ) सहायता के लिए धीरे - धीरे धर्म का सर्वदा सञ्चय करे; क्योंकि धर्म से दुस्तर ( कठिनाई से पार करने योग्य ) तम ( नरकादि के दु: ख ) को पार करता है ॥२४२ ॥
धर्मात्मा को स्वर्गादि की प्राप्ति-धर्मप्रधानं पुरुषं तपसा हतकिल्विषम् ।
परलोकं नयत्याशु भास्वन्तं स्वशरीरिणम् ॥ २४३ ॥
भाष्य — धर्मः प्रधानं यस्यासौ धर्मप्रधानो धर्मपरायणो यथाविहितकर्मानुष्ठायी । तपसा हतकिल्विषं कथंचित्प्रमादकृतव्यतिक्रमे तपसा प्रायश्चित्तेन हतकल्मषं शास्त्रव्यतिक्रमे जातोऽसौ दोषस्तस्मिंस्तत्प्रायश्चित्तेन नष्टे परलोकं नयति भास्वन्तं पर-लोकं देवस्थानं स्वर्गादि नयति प्रापयति । कः? प्रकृतत्वाद्धर्म एव । शरीरिणं पुरुषं स्वेन शरीरेण ' स्वशरीरी ' । न यथाऽन्येषां पुरुषाणां पाञ्चभौतिकं
शरीरमेवं तस्य । किंतर्हि? स्वमेव शरीरं ब्रह्म । विभुत्वमनेनोच्यते ॥२४३ ॥
हिन्दी – तपस्या से पापहीन, प्रकाशमान और ब्रह्मस्वरूप धर्मपरायण पुरुष को ( धर्म ही ) परलोक ( ब्रह्मलोक, स्वर्गलोक आदि ) को ले जाता है ॥ २४३ ॥
उत्तम के साथ सम्बन्ध करना—
उत्तमैरुत्तमैर्नित्यं सम्बन्धानाचरेत्सह ।
निनीषुः कुलमुत्कर्षमधमानधमांस्त्यजेत् ॥ २४४ ॥
भाष्य — बहुप्रकारत्वादुत्तमस्य तदपेक्षा वीप्सा । कश्चिज्जात्योत्कृष्टः कश्चिद्विद्यया कश्चिच्छीलेन । अथवा सम्बन्धिभेदाद्यः कश्चित्सम्बन्धो येन केनचिदुत्तमेन योग्य: ।
पृष्ठ 647
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ५७१ उत्तमैरुत्तमैर्जात्यादिभिरुत्कृष्टैः कन्यादानादिलक्षणान्सम्बन्धानाचरेत्कुर्यान्निनीषु-तुं प्रापयितुमिच्छुः कुलमुत्कर्षं श्रेष्ठ्यम् । अधमानधमांस्त्यजेत् । उत्तमैरेव विधानादधमानां त्यागे सिद्ध उत्तमासम्भवे
मध्यमानुज्ञानार्थं त्यागवचनम् । अधमा निकृष्टाः ॥ २४४ ॥
हिन्दी – वंश को उन्नत करने की इच्छा वाला सर्वदा ( अपने से ) बड़ों - बड़ों के साथ सम्बन्ध करे और ( अपने से ) नीचों - नीचों के साथ छोड़ दे ( उनसे सम्बन्ध न करे ) ॥२४४ ||
उत्तमानुत्तमानेव गच्छन् हीनांस्तु वर्जयन् ।
ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम् ॥ २४५ ॥
भाष्य -:– उत्तमान्गच्छंस्तैः सह सम्बन्धं कुर्वन्ब्राह्मणः श्रेष्ठतामेति । ब्राह्मण-ग्रहणं क्षत्रियवैश्ययोरपि प्रदर्शनार्थम् ।
प्रत्यवायेन विपरीताचरणेन हीनै: सह सम्बन्धेन प्रातिलोम्येन शूद्रतां गच्छति ।
जातेरनपायात् तत्तुल्यतां प्राप्नोतीत्युक्तं भवति ॥२४५ ॥
हिन्दी – ( अपने से ) बड़ों - बड़ों के साथ सम्बन्ध करता हुआ ( अपने से ) नीचों - नीचों का त्याग करता हुआ ब्राह्मण श्रेष्ठता को पाता है तथा इसके विरुद्ध आचरण करता हुआ शूद्रता को पाता है ॥ २४५ ॥
दृढकारी मृदुर्दान्तः क्रूराचारैरसंवसन् ।
अहिंस्रो दमदानाभ्यां जयेत्स्वर्गं तथाव्रतः ॥ २४६ ॥
भाष्य — कर्तव्येषु दृढनिश्चयो दृढकारी । यत्करोति तदवश्यं समापयति न पुनः कार्यमारभ्यासमाप्य निवर्तते । नानवस्थित इत्यर्थः । तदुक्तं “ प्रारब्धस्यान्तगमनम् ” । मृदुरनिष्ठुरः । क्रूराचारैः स्तेनादिभिर्न सम्बन्धः । तैः सह सम्बन्धमकुर्वन् । तथा दमदानाभ्यां स्वर्गं जयेत्प्राप्नुयात् । तथाव्रतः । एतद्द्व्रतं नियमं धारयन् । दमस्य पृथगुपादानाद्दान्तो द्वन्द्वसहिष्णु-र्द्रष्टव्यः ॥२४६ ॥
हिन्दी – दृढकर्ता ( विघ्नादि के आने पर भी प्रारम्भ किये गये कार्य को पूरा करने वाला ) निष्ठुरता से रहित, सुखदुःखादि द्वन्द्वों को सहने वाला, क्रूर आचरण वालों का साथ नहीं करता हुआ, अहिंसक जैसा व्रत ( नियम, यम इन्द्रिय संयम तथा दानादि ) करने वाला स्वर्ग को जीत लेता ( प्राप्त करता ) है ॥ २४६ ॥
पृष्ठ 648
पाठ पढ़ें पाठ छिपाएँ
५७२ मनुस्मृतिः काष्ठ अन्न आदि सबसे ग्राह्य—
एधोदकं मूलफलमन्नमभ्युद्यतं च यत् ।
सर्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम् ॥ २४७ ॥
[ चतुर्थ: भाष्य — एध इन्धनं काष्ठादि । अन्नं पक्वमामं वा । अभ्युद्यतमभिमुखमुपनीतम् । एतत्सर्वतः प्रतिग्रहीतव्यम् । पतिताभिशस्तचाण्डालादिप्रतिलोमवर्जं शूद्रादन्यस्माद्वा ईषत्पापकर्मणः । मधु माक्षिकम् । अभयं दक्षिणेव । दृष्टान्तार्थमेतत् । प्रतिग्रहो हि परकीयस्य द्रव्यस्य तदिच्छया स्वीकारो न चान्नरूपता । न ह्यत्र कस्यचित्स्वाम्यं निवर्तते न च कस्यचिदुपजायते । अतः स्तुत्या दक्षिणाशब्दप्रयोगः । यथा चण्डालादिभ्योऽप्यरण्ये कान्तारे वा रक्षा चौरादिभ्योऽङ्गीक्रियमाणा न दोषायैवमेतदेधादि गृह्यमाणं न दोषाय । अनापदि चायं विधिः । आपदि तु चण्डालादिभ्योऽपि वक्ष्यति । अभ्युद्यतशब्दश्चान्नेनैव सह सम्बध्यते प्रत्यासत्त्या, नैधादिभिः । अत एधादिषु याञ्चाऽविरुद्धा । “ धार्मिकेभ्यो द्विजातिभ्यः कर्तव्यस्तु परिग्रहः ” इत्यधार्मिकेभ्यो द्विजेभ्यः शूद्राच्चाप्राप्तः । इष्यते च द्रव्यविशेषोपयाञ्चा । तदर्थमिदम् ॥२४७ ॥
हिन्दी— लकड़ी, जल, मूल, फल बिना माँगे आया हुआ अन्न, मधु, ( शहद ) और अभयदान ( अपने रक्षार्थ ) सबसे ग्रहण करे ॥ २४७ ॥
विमर्श — याज्ञवल्क्य के ' वचनानुसार उक्त वस्तु कुलटा, नपुंसक, पतित और शत्रु को छोड़कर बाकी सबसे ग्रहण करना चाहिये । अन्न - मनूक्त ( ४।२२६ ) वचन के अनुसार वृत्ति के अभाव में शूद्र का अन्न कच्चा हो और केवल एक रात भोजन करने योग्य ही लेना चाहिये । आत्मरक्षा रूप अभयदान तो चण्डाल से भी ग्रहण करना चाहिये ।
पापियों की भिक्षा लेने की मर्यादा-आहृताभ्युद्यतां भिक्षां पुरस्तादप्रचोदिताम् ।
मेने प्रजापतिर्ग्राह्यामपि दुष्कृतकर्मणः ॥ २४८ ॥
१.
कुशं शाकं पयोमत्स्या, गन्धाः पुष्पं दधिक्षितिः ।
मांसं शय्यासनं धाना प्रत्याख्येयं न वारि च ॥
अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः । छु अन्यत्र कुलटाषण्ढपतितेभ्यस्तथा द्विषः ॥ देवताऽतिथ्यर्चनकृते गुरुभृत्यार्थमेव च । सर्वतः प्रतिगृह्णीयादात्मवृत्त्यर्थमेव च । इति ॥ ( या ० स्मृ ० २।२१४-२१६ )
पृष्ठ 649
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता — एधादतिरेकेण यदन्यद्द्रव्यं तस्याप्यनेन विशेषेण ग्राह्यतोच्यते । भाष्य-५७३ भिक्षाशब्दश्च प्रशंसायां प्रयुक्तो न भिक्षैव विवक्षिता । यद्यप्ययं सिद्धान्नाल्पता-वचन: । भिक्षा किल स्वल्पत्वान्नातीव दोषावहा । ब्रह्मचारिणश्च सार्ववर्णिकी विहिता । एवमन्यदप्यनेन विशेषेण तत्तुल्यं दृष्टम् । भिक्षाशब्दस्येवंविधार्थविवक्षया प्रयोगः । तथाहि महाभारते ( १।२०६१ )
“ गत्वा ह्युभौ भार्गवकर्मशालां पार्थौ पृथां प्राप्य महानुभावौ ।
तौ याज्ञसेनीं परमप्रतीतौभिक्षेत्यथावेदयतां नराग्र्यौ ” ॥ इति ॥
आहृतोपहृता तं देशमानीता यत्र प्रतिग्रहीता स्थितः । अभ्युद्यताऽये स्थापिता वचनेनेङ्गितेन वा गृह्यतामिति निवेदिता । पुरस्तात्पूर्वमप्रचोदिताऽयाचिता प्रतिग्रहीत्राः । स्वयं परमुखेन वा दात्रा पूर्वं नोक्तमिदं मे द्रव्यमस्ति तत्प्रसादमाश्रित्य गृह्यतामिति केवलमतर्कितोपपादिता तत्काल एव दर्शिताभिप्राया । तादृशीं भिक्षां प्रजापतिर्हिरण्यगर्भो मेने मन्यते स्म । किमिति दुष्कृतकर्मणोऽपि सकाशाद्ग्राह्येति । दुष्कृतं पापं कर्म यस्यासौ दुष्कृतकर्मा ॥२४८ ॥
हिन्दी — दान लेने वाले के पास सामने रक्खी हुई, स्वयं ( दान लेने वाले के द्वारा ) अथवा अन्य किसी के द्वारा प्रेरणा करके नहीं मँगायी गयी और ' आप ( दान लेने वाले ) को अमुक वस्तु, अमुक प्रमाण या अमुक समय में दूँगा ' इस प्रकार दाता के द्वारा पहले नहीं कही हुई भिक्षा वस्तु ( हिरण्य आदि ) पापियों ( पतित रहित ) से भी लेनी चाहिये; ऐसा ब्रह्मा मानते हैं । २४८ ॥
उक्त भिक्षा न लेने में दोष-नाश्नन्ति पितरस्तस्य दशवर्षाणि पञ्च च ।
न च हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते ॥ २४ ९ ॥
भाष्य— अथाग्रहणनिन्दार्थवादः । अथ यो यत्रैतामवधीरयति तस्य पितरः श्राद्धं नाश्नन्ति न प्रतीच्छन्तीति । श्रग्निश्च देवेभ्यो हव्यं न वहति । पित्र्याद्दैवाच्च कर्मणो न फलं लभ्यत इत्यर्थः अत्र कश्चिदाह । “ अनुपयुज्यमानमपि दातुरनुग्रहार्थमवश्यमीदृशं ग्रहीतव्यम् ” । तत्त्वयुक्तम् । निर्दोषताऽस्यायाचितप्रतिग्रहस्योच्यते । प्रतिप्रसवो ह्ययम् । प्रतिषिद्धस्य च प्रतिप्रसवो भवति । लौकिक्या चार्थितया प्राप्तिः प्रतिषिद्धा सैव प्रतिप्रसूयते ॥ २४ ९ ॥ हिन्दी – जो उस ( ४।२४८ ) भिक्षा को अपमानित करता ( नहीं लेता ) है, उससे दिये गये कव्य ( श्राद्धान्न ) को पन्द्रह वर्ष तक पितर लोग नहीं लेते और अग्नि हव्य ( आहुति में दिया गया हविष्यान्न ) को नहीं लेती ॥२४९ ॥
पृष्ठ 650
पाठ पढ़ें पाठ छिपाएँ
५७२ मनुस्मृतिः
काष्ठ अन्न आदि सबसे ग्राह्य-एधोदकं मूलफलमन्नमभ्युद्यतं च यत् ।
सर्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम् ॥ २४७ ॥
[ चतुर्थः भाष्य — एध इन्धनं काष्ठादि । अन्नं पक्वमामं वा । अभ्युद्यतमभिमुखमुपनीतम् । एतत्सर्वतः प्रतिग्रहीतव्यम् । पतिताभिशस्तचाण्डालादिप्रतिलोमवर्जं शूद्रादन्यस्माद्वा ईषत्पापकर्मणः । मधु माक्षिकम् । अभयं दक्षिणेव । दृष्टान्तार्थमेतत् । प्रतिग्रहो हि परकीयस्य द्रव्यस्य तदिच्छया स्वीकारो न चान्नरूपता । न ह्यत्र कस्यचित्स्वाम्यं निवर्तते न च कस्यचिदुपजायते । अतः स्तुत्या दक्षिणाशब्दप्रयोगः । यथा चण्डालादिभ्योऽप्यरण्ये कान्तारे वा रक्षा चौरादिभ्योऽङ्गीक्रियमाणा न दोषायैवमेतदेधादि गृह्यमाणं न दोषाय । अनापदि चायं विधिः । आपदि तु चण्डालादिभ्योऽपि वक्ष्यति । अभ्युद्यतशब्दश्चान्नेनैव सह सम्बध्यते प्रत्यासत्त्या, नैधादिभिः । अत एधादिषु याञ्चाऽविरुद्धा । “ धार्मिकेभ्यो द्विजातिभ्यः कर्तव्यस्तु परिग्रहः " इत्यधार्मिकेभ्यो द्विजेभ्यः शूद्राच्चाप्राप्तः । इष्यते च द्रव्यविशेषोपयाञ्चा । तदर्थमिदम् ॥२४७ ॥
हिन्दी — लकड़ी, जल, मूल, फल बिना माँगे आया हुआ अन्न, मधु, ( शहद ) और अभयदान ( अपने रक्षार्थ ) सबसे ग्रहण करे ॥ २४७ ॥
विमर्श — याज्ञवल्क्य के ' वचनानुसार उक्त वस्तु कुलटा, नपुंसक, पतित और शत्रु को छोड़कर बाकी सबसे ग्रहण करना चाहिये । अन्न - मनूक्त ( ४।२२६ ) वचन के अनुसार वृत्ति के अभाव में शूद्र का अन्न कच्चा हो और केवल एक रात भोजन करने योग्य ही लेना चाहिये । आत्मरक्षा रूप अभयदान तो चण्डाल से भी ग्रहण करना चाहिये । पापियों की भिक्षा लेने की मर्यादा-आहृताभ्युद्यतां भिक्षां पुरस्तादप्रचोदिताम् । मेने प्रजापतिर्ग्राह्यामपि दुष्कृतकर्मणः ॥ २४८ ॥
१. कुशं शाकं पयोमत्स्या, गन्धाः पुष्पं दधिक्षितिः ।
मांसं शय्यासनं धाना प्रत्याख्येयं न वारि च ॥
अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः ।
अन्यत्र कुलटाषण्ढपतितेभ्यस्तथा द्विषः ॥
देवताऽतिथ्यर्चनकृते गुरुभृत्यार्थमेव च । सर्वतः प्रतिगृह्णीयादात्मवृत्त्यर्थमेव च । इति ॥ ( या ० स्मृ ० २।२१४ - २१६ )