मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 661–670
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 661–670
पृष्ठ 661
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ५८३ किंचिद्वस्तुत्पद्यते ततः स्यादपि । यतस्तु किंचिन्मेध्याज्जायते किंचित्संसृष्टात्ततोऽयं प्रति-षेधः केवलेऽमेध्यप्रभवे, न संसृष्टे, अवतिष्ठते । मांसस्य सत्यपि शुक्रशोणितामेध्यप्रभवत्वे नायं प्रतिषेधः, पृथक्प्रकरणारम्भात्तस्य॥५ ॥
हिन्दी – लहसुन, सलगम ( या लाल मूली, कोई गृञ्जन का गाजर भी अर्थ करते हैं ), प्याज, छत्राक ( भूकन्द - विशेष ) और अपवित्र स्थान ( श्मशानादि ) में उत्पन्न शाक आदि द्विजातियों के लिए अभक्ष्य है ॥५ ॥
गोंद आदि के भक्षण का निषेध-लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस्तथा ।
शेलुं गव्यं च पीयूषं प्रयत्नेन विवर्जयेत् ॥ ६ ॥
भाष्य – वृक्षकोटरस्रावेण हेत्वन्तरेण वा बहिर्यन्मूलस्कन्धफलपलाशशाखाकुसुम-व्यतिरिक्तं वृक्षलग्नं जायते स वृक्षनिर्यासः । लोहितग्रहणात्कर्पूरादीनामप्रतिषेधः । व्रश्चनाच्छेदनाद्येषां प्रभवो जन्म । एवं वृक्षादेर्वल्कप्रदेशा ये तत्रैव जायन्ते तेषाम-लोहितानामप्रतिषेधः । शेलुः श्लेष्मातकः प्रसिद्धो वैद्यकादिशास्त्रेभ्यः । न तु सुतस्य क्षीरस्य सन्तानिका, अप्रसिद्धत्वात् ॥ यत्तु “ पीयूषसाहचर्यात्सन्तानिका युक्तेति ", - भवति साहचर्यं विशेष-हेतुरुभयत्र प्रयोगे सति, न पुनः साहचर्यमदृष्टप्रयोगाणां प्रयोगज्ञापकम् । गव्यं च । गव्यग्रहणान्माहिषादेरप्रतिषेधः । अनाद्यमग्निमात्रसंयोगात्पिण्डीभूतम-नासक्तं च । सद्यःप्रसूताया गो: क्षीरं ' पीयूष ' शब्देनोच्यते । " ननु च क्षीरस्य सविकारस्य दशाहं चाभक्ष्यतां वक्ष्यति । त्रिचतुराणि वाऽहानि तादृशं क्षीरं भवति ' ।
सत्यम् । यदि कथंचित्कस्या अपि दशाहात्परेण भवति तदिदमर्थवत् ।
प्रयत्नेनेत्यादि पदद्वयं श्लोकपूरणार्थम् । अभक्ष्याणीत्यनुवर्तते ॥६ ॥
हिन्दी - पेड़ों का लाल गोंद तथा पेड़ों को काटने ( त्वचा का कुछ अंश छिलने ) से उत्पन्न गोंद, लसोड़ा और गाय का फेनुस; इनको ( खाना ) यत्नपूर्वक छोड़ दें ॥६ ॥
वृथा कृसर- मांसादि के भक्षण का निषेध-वृथाकृसरसंयावं पायसापूपमेव च ।
अनुपाकृतमांसानि देवान्नानि हवींषि च ॥७ ॥
भाष्य - उ- अत्र कृसरसंयावमिति समाहारे द्वन्द्वः । तिलैः सह सिद्ध ओदनः
पृष्ठ 662
पाठ पढ़ें पाठ छिपाएँ
५८२ मनुस्मृतिः [ पञ्चमः उच्यते । अनभ्यासेनेत्यादिदृष्टान्तत्वेनोच्यते । यथा भवद्भिः प्रतिपन्ना वेदानभ्या-सादयः पुरायुषो मरणहेतवः, एवं वक्ष्यमाणोऽन्नदोषः । सत्स्वपि वेदाभ्यासादिषु न तावत्स्वधर्मो यः पूर्वत्र कथितः, किं त्वयमन्नदोषो गरीयस्तरः । पृथक् प्रकरणाच्चैतद-भिधीयते ॥४ ॥
हिन्दी — वेदों का अभ्यास नहीं करने से, आचार के त्याग से; आलस्य से और अन्न ( भोज्य पदार्थ ) के दोष से मृत्यु ब्राह्मणों को मारने की इच्छा करती है || ४ ||
लहसुन आदि के भक्षण का निषेध-लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च ।
अभक्ष्याणि द्विजातीनाममेध्यप्रभवानि च ॥ ५ ॥
भाष्य— लशुनादयः पदार्था लोके प्रसिद्धा एव । कवकशब्दो जातिशब्दः । क्वचित्कृयाकुरिति प्रसिद्धेऽर्थे मन्यते । छत्राकानि कव-कान्येव । तथाहि कवकशब्देन प्रतिषिद्धं, छत्राकशब्देन प्रायश्चित्तं वक्ष्यति ( श्लो ० १ ९ ) “ छत्राकं विड्वराहं चेति ” । न च छत्राकं नाम पदार्थान्तरं प्रसिद्धम् । न चाक्षरवर्णसामान्येन यो यच्छत्राकारस्तं तं छत्राकमिति युक्तं प्रतिपत्तुम् । तथा सति सुवर्चलादीनां समाचार-विरोधी प्रतिषेधः प्राप्नोति । तस्माद्यान्येव कवकानि तान्येव छत्राकाणि । तथा च निरुक्तकारः– “ क्षुण्णमहिच्छत्रकं भवति यत् क्षुद्यत इति ” । तेन यान्येतानि भूमाव-कृष्टायामनुपूर्वजायां च सितवर्णानि जायन्ते तानि च कवकानि । वक्ष्यति च “ भौमानि कवकानीति ” । दर्शितं च ‘ पदाक्षुण्णमिवेति ' । पादप्रहारेण यानि क्षुद्यन्ते । तयो यानि वृक्षाद्गुल्माज्जायन्ते तेषां तदाकाराणामप्रतिषेधः । कुकुण्डानि कवकानि वैद्यके व्याख्यातानि । एतच्च व्याख्यानं न गवादिशब्दवत् । शाके कवकशब्दो लोके प्रयुज्यते । अतोऽस्य समाचाराद्वैद्यकादिशास्त्रार्थे निश्चयः । प्रदर्शितश्चासौ । लशुनादीनां तु समानवर्णगन्धा अपि विष्णुना प्रतिषिद्धाः पाराशरिकायां तु शब्देनैव निषेधः प्रायश्चित्तविशेषार्थ उक्तः “ चान्द्रायणमिति ” ( अ ० ११ श्लो ० १०६ ) । तेन लवतककर्णिकारादीनां प्रतिषेधः । अमेध्यप्रभवान्यमेध्यजातानि च संसर्गजातानि । अन्ये त्वाहुर्मूलवास्तूकवत्केवलामेध्यप्रभवानां युक्तः प्रतिषेधः । ततश्च यान्यधिक-पुष्ट्यर्थं धान्यशाकादीन्यमेध्यक्षेत्रजातानि संसृज्यन्ते तानि न दुष्यन्तीति । तदयुक्तम् । श्रुतेः सर्वस्याप्यभक्ष्यत्वात् । इहापि च यद्यमेध्यसंसर्गमन्तरेण न
पृष्ठ 663
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ५८३ किंचिद्वस्तुत्पद्यते ततः स्यादपि । यतस्तु किंचिन्मेध्याज्जायते किंचित्संसृष्टात्ततोऽयं प्रति-षेधः केवलेऽमेध्यप्रभवे, न संसृष्टे, अवतिष्ठते । मांसस्य सत्यपि शुक्रशोणितामेध्यप्रभवत्वे नायं प्रतिषेधः, पृथक्प्रकरणारम्भात्तस्य ॥५ ॥
हिन्दी - लहसुन, सलगम ( या लाल मूली, कोई गृञ्जन का गाजर भी अर्थ करते हैं ), प्याज, छत्राक ( भूकन्द - विशेष ) और अपवित्र स्थान ( श्मशानादि ) में उत्पन्न शाक आदि द्विजातियों के लिए अभक्ष्य है ॥ ५ ॥
गोंद आदि के भक्षण का निषेध-लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस्तथा ।
शेलुं गव्यं च पीयूषं प्रयत्नेन विवर्जयेत् ॥ ६ ॥
भाष्य — वृक्षकोटरस्रावेण हेत्वन्तरेण वा बहिर्यन्मूलस्कन्धफलपलाशशाखाकुसुम-व्यतिरिक्तं वृक्षलग्नं जायते स वृक्षनिर्यासः । लोहितग्रहणात्कर्पूरादीनामप्रतिषेधः । व्रश्चनाच्छेदनाद्येषां प्रभवो जन्म । एवं वृक्षादेर्वल्कप्रदेशा ये तत्रैव जायन्ते तेषाम-लोहितानामप्रतिषेधः । शेलुः श्लेष्मातकः प्रसिद्धो वैद्यकादिशास्त्रेभ्यः । न तु सुतस्य क्षीरस्य सन्तानिका, अप्रसिद्धत्वात् । यत्तु “ पीयूषसाहचर्यात्सन्तानिका युक्तेति ", - भवति साहचर्यं विशेष-हेतुरुभयत्र प्रयोगे सति, न पुनः साहचर्यमदृष्टप्रयोगाणां प्रयोगज्ञापकम् । गव्यं च । गव्यग्रहणान्माहिषादेरप्रतिषेधः । अनाद्यमग्निमात्रसंयोगात्पिण्डीभूतम-नासक्तं च । सद्य: प्रसूताया गो: क्षीरं ' पीयूष ' शब्देनोच्यते । “ ननु च क्षीरस्य सविकारस्य दशाहं चाभक्ष्यतां वक्ष्यति । त्रिचतुराणि वाऽहानि तादृशं क्षीरं भवति ” ।
सत्यम् । यदि कथंचित्कस्या अपि दशा हात्परेण भवति तदिदमर्थवत् ।
प्रयत्नेनेत्यादि पदद्वयं श्लोकपूरणार्थम् । अभक्ष्याणीत्यनुवर्तते ॥६ ॥
हिन्दी — पेड़ों का लाल गोंद तथा पेड़ों को काटने ( त्वचा का कुछ अंश छिलने ) से उत्पन्न गोंद, लसोड़ा और गाय का फेनुस; इनको ( खाना ) यत्नपूर्वक छोड़ दें ॥६ ॥
वृथा कृसर- मांसादि के भक्षण का निषेध-वृथाकृसरसंयावं पायसापूपमेव च ।
अनुपाकृतमांसानि देवान्नानि हवींषि च ॥७ ॥
भाष्य- अत्र कृसरसंयावमिति समाहारे द्वन्द्वः । तिलैः सह सिद्ध ओदनः
पृष्ठ 664
पाठ पढ़ें पाठ छिपाएँ
५८४ मनुस्मृतिः [ पञ्चमः ‘ कृसर ’ - शब्देनोच्यते । संयावो भोज्यविशेषः सर्पिर्गुडतिलादिकृतः पुरेषु प्रसिद्धः । “ ये तु यौतेर्मिश्रणार्थत्वाद्यानि मिश्रीकृत्यान्नानि साध्यन्ते मुद्गकुष्ठकादिभिस्तानि संयावशब्देनोच्यन्त ” इति, तेषां कृसरग्रहणमनर्थकम् । सोऽपि ह्यनेन प्रकारेण ' संयाव ’ एव । वृथाशब्दः सर्वत्रानुषज्यते । यदात्मार्थं क्रियते, न देवपित्रतिथ्यर्थम् । तदा कृसरा-दीनामुपदेश इति । तदयुक्तम् । न हि गृहस्था एकेनार्थेन पचन्ति । हविष इवावापात्प्रभृति तादर्थ्ये नोद्देशः । किंतर्हि अनुद्दिष्टविशेषस्य सामान्यतः कृतस्यान्नस्य पञ्चयज्ञानुष्ठानं विहितम् । तत्राकृतवैश्वदेवस्य भोजने विहितातिक्रमः, न पुनः प्रतिषेधः समस्ति । तथा हि द्वे प्राय-श्चित्ते भवतः । विहितातिक्रमात्प्रतिषिद्धसेवनाच्च । कृसरादयस्तु देवताविशेषं वास्तुयज्ञादि-विषयमनुद्दिश्य वृताश्चेदाह्निकविधयोऽपि प्रतिषिध्यन्ते । यश्चापि ‘ नात्मार्थं पचेदिति ’ सोऽप्यवश्यकर्तव्यत्वात् कृतातिक्रमस्य भोजनप्राप्त्यनुवादो न पुनः प्रतिषेधः । तथा सति द्विमूलकल्पनाप्रायश्चित्तं स्यादित्युक्तम् । न चान्यार्थत्वेनापि कृतस्यात्मार्थता पाकस्य निषेद्धुं शक्यते । पच्यमानार्थो हि पाकस्तस्य तद्द्वारिका न शक्या आत्मार्थता निषेद्धुं, तेनैव वृत्तिविधानात् । न हि भृत्यादिशिष्टभोजनं गृहस्थस्य शेषसंस्कारो न चात्र सङ्कल्पः श्रुतो, येन ' मदर्थं पच्यतामिति ' पाककाले संकल्पमात्रं निषिद्ध्यते । आत्मार्थं चोत्तरकालमविचार्येत्युच्यते । विथ्यासङ्कल्पदोषश्च स्यात् — देवतार्थ-तया सङ्कल्पितस्यात्मार्थतया योग इति । तस्मादयमनुवादो ‘ यत्पचेन्नात्मार्थमेवोपयोज्यं प्राग्विधेर्वैश्वदेविकादिति ' । तथा च अपक्वभोजनेऽपि विधिमेतं स्मरन्ति – “ यदन्नः पुरुषो राजंस्तदन्नास्तस्य देवता ” इति ( रामायणे अयोध्याकाण्डे ) । न च बुभुक्षमाणस्यैवाधिकारः, गार्हस्थ्यप्रतिपत्तिनिमित्तत्वात् । तेन यदहर्न भुञ्जीत तदहरण्यकुर्वन्प्रत्यवैति । एतदुक्तं भवति । स्वार्थं वा पचतु परार्थं वा, मा पाक्षीदिति सर्वथा कृतवैश्वदेवाति-क्रमणव्रता अपि न प्रवर्तन्ते इति नित्यतामनुवदति । यच्चापि पठति — “ लौकिके वैदिके वाऽपि हुतोत्सृष्टे जले क्षितौ । वैश्वदेवस्तु कर्तव्यः पञ्चसूनापनुत्तये ” इति— अनेनापि नित्यतैवोच्यते । न हि वैदिके वैश्वदेवसम्भवः । न च स्मार्तवचने प्रमाणमस्ति । पायसापूपमिति । पयसा सिद्ध ओदनः ' पायसः ', न दध्यादि पयोविकारः । अपूपाः पुरोडाशाः । देवान्नानि समाचारप्रमाणकानि । हवींषि श्रुतिविहितानि होतव्यानि - प्राग्ग्रहहोमाद् — यतो हविः शेषस्य भक्ष्यतां वक्ष्यति ।
पृष्ठ 665
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ५८५ अनुपाकृतस्य अयज्ञाहतस्य पशोर्मांसानि । ' उपाकरणं ' पशोः संस्कारविशेषः । स पशुयागेषु विहितः । एतेन च यज्ञोपयुक्तशेषभक्ष्यता मांसस्य लक्ष्यते । वृथाशब्दाधिकारेऽप्यनुपाकृतग्रहणमतिथ्यादिशिष्टस्यापि गोव्यजमांसस्य प्रतिषेधार्थम् । गोव्यजमांसमेव वाऽनुपाकृतशब्देन विवक्षितम् । गोव्यजस्यैव तत्रालम्भश्चोदितो यतः शिष्टं प्रोक्षितमित्युक्तम् ॥७ ॥
हिन्दी – वृथा ( विना देवादि के निमित्त - अपने लिये तैयार किया ) कृसरा'न ( तिलमिश्रित भात ), संयाव ( हलुआ या मोहनभोग ), खीर, पूआ या मालपूआ, अनुपाकृत ( विना यज्ञ के हत ) मांस, देवान्न ( नैवेद्य के निमित्त निकाला हुआ अन्न ); हविष्य— ( इनको न खावे ) || ७ || विमर्श – ' वृथा ' शब्द का ' कृसर ' से लेकर ' अपूप ' तक सब के निमित्त समझना चाहिये । ‘ देवान्न ’ को नैवेद्यरूप में देवता को अर्पण करके भोग लगाने के बाद तथा ' हविष्य ' को अग्नि में होम करने के बाद ग्रहण करने में दोष नहीं है ।
उष्ट्री आदि के दूध - भक्षण का निषेध-अनिर्दशाया गोः क्षीरमौष्ट्रमैकशफं तथा ।
आविकं सन्धिनीक्षीरं विवत्सायाश्च गोः पयः ॥८ ॥
भाष्य – यदीह ' अनिर्दशाहं गो: क्षीरमिति ' पाठः उष्ट्रादीनामपि दशाहादिकः प्रतिषेध आशङ्क्यते । अनिर्दशाग्रहणानुवृत्त्या तत्र समाचार आत्यन्तिकप्रतिषेधार्थ आश्रयणीयः । अनिर्दशाया इति तु स्त्रीलिङ्गपाठे आशङ्कैव नास्ति । न हि तद्धितान्तरैरनिर्दशाया औष्ट्र-मित्यादिभिः सम्बन्धोपपत्तिः । उत्तरत्र च पुनः क्षीरग्रहणात्समाचाराच्च उष्ट्रैकशफाविकानिर्दशगवीक्षीराणि सविका-राणि प्रतिषिध्यन्ते । सन्धिनीविवत्सयोस्तु क्षीरमेव । अनिर्दशा च गौरुच्यते यस्याः प्रसूताया दशाहान्यनतिक्रान्तानि । सन्धिनी या उभयोः प्राप्तदोहा कथंचिदन्यतरस्मिन्दुह्यते । प्रातरप्रदुग्धा सायं दुह्यते । सा तु स्वल्पक्षीरत्वादेकस्मिन्नेव काले, साऽसौ सन्धिनी । कश्चिदाह या मृतस्ववत्सा परकीयं वत्सं संचार्य दुह्यते सा ' सन्धिनी ' । ' विवत्सा ' तु या सत्येव वत्से विनाकृतवत्सा वत्सप्रस्रवणमनपेक्ष्य कुष्ठकयवशालितुषादिना भोजनविशेषेण दुह्यात् । १. तदुक्तं छन्दोगपरिशिष्टे— ' तिलतण्डुलसंपक्वः कृसरः सोऽभिधीयते । ' इति ( म ० मु ० )
पृष्ठ 666
पाठ पढ़ें पाठ छिपाएँ
५८६ मनुस्मृतिः पञ्चमः विवत्साया इति । एतेनैव वत्सग्रहणेनावत्सा धेनुरानीयतामितिवद्गोरिति लब्धे गोग्रहणमजामहिष्योरप्रतिषेधार्थम् । न पुनरनिर्दशाया इत्यत्र । अतश्च गोग्रहणं तत्राजाद्यु पलक्षणार्थम् । तथा च गौतम: ( १७ । २२-२३ ) “ गोश्च क्षीरमनिर्दशायाः सूतके । अजामहिष्योश्च ' इत्याह । पयोग्रहणं सन्धिनीक्षीरमिति समासान्तवर्तिनः क्षीरपदस्य नातिसुकरः सम्बन्धो यतः ॥८ ॥
हिन्दी - व्याने ( प्रसव करने ) के दिन से जिसको १० दिन न बीते हों ऐसी गाय ( भैंस, बकरी आदि ' भी ), ऊंटिनी, एक खुरवाली ( घोड़ी गधी, आदि ) पशु, भेंड़, गर्भवती होने की इच्छा करने वाली ( उठी हुई - गरमाई हुई ) पशु, जिसका बच्चा मर गया हो ऐसी गाय; इनके दूध को- ( छोड़ दे - • न पीवे ) ॥ ८ ॥
विमर्श— ' जिसका बच्चा मर गया हो या अलग हो गया हो, ऐसी गौ के ही दूध को छोड़ने का विधान है भैंस, बकरी आदि के दूध को छोड़ने का विधान नहीं हैं, यह ‘ वत्स ' शब्द से ही ' गौ ' का ग्रहण न्यायप्राप्त होने से प्रकृतवचन में फिर ' गो ' शब्द के ग्रहण से सिद्ध होता है, ऐसा म ० मु ० कार का कथन है । [ क्षीराणि यान्यभक्षाणि तद्विकाराशने बुधः । सप्तरात्रं व्रतं कुर्यात्प्रयत्नेन समाहितः ॥ १ ॥ ]
[ हिन्दी – जो अभक्ष्य दूध ( ४/८ ) हैं, उनके विकार ( बने पदार्थ – दही, खोआ आदि ) के खाने पर विद्वान् सावधान होकर सात रात्रि व्रत करे || १ || ] वन्य पशु तथा स्त्री के दुग्धादि के भक्षण का निषेध-आरण्यानां च सर्वेषां मृगाणां माहिषं विना । स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥९ ॥
आरण्या गोहस्तिमर्कटादयः । पुंसां क्षीराभावः । सर्वेषां मृगाणामिति जातिमात्रविवक्षायां पुंल्लिङ्गनिर्द्देश-सामर्थ्यात्स्त्रीभिः सम्बन्ध: । मृगक्षीरं कुक्कुटाण्डमितिवत् । दर्शितं चैतत्पुम्भावविधौ महाभाष्यकारेण । माहिषं विना । पयोपेक्षया नपुंसकनिर्देशः स्त्री मानुषी । यद्यपि ' स्त्री गौ: सोमक्रयणी ' त्यादौ सास्नादिमत्यर्थे प्रयोगदर्शनम् तथापि जात्यन्तरस्याप्रकृतत्वात् प्रसिद्धतरत्वात् तत्र प्रयोगः स्यात् । “ स्त्रियो मधुरमिच्छन्ति १. तथा च यमः— ‘ अनिर्दशाहं गोक्षीरमाजं माहिषमेव वा । ' इति ( म ० मु ० ) ।
पृष्ठ 667
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता स्त्रियो रत्नामनुत्तमिति ” नार्येव प्रतीयते । ५८७ एवकारमञ्जनादिप्रतिषेधे व्याचक्षते । न केवलं स्त्रीक्षीरं भक्षणे वर्ज्यं किंतर्ह्यन्या-स्वप्येवंविधासु क्रियासु । एष तु स्मृत्यन्तरसमाचारसापेक्ष एव शब्दः सूचको युक्तः, न त्वस्यार्थस्य वाचक: ॥९ ॥
-हिन्दी – भैंस को छोड़कर जंगली पशु ( नीलगाय, हरिण आदि ) तथा स्त्री का दूध और सब प्रकार के शुक्त ( कांजी या सिर्का आदि— जो अधिक समय तक रखने आदि के कारण से स्वभावत: मधुर होते हुए भी खट्टे हो गये हों, उन्हें ) छोड़ दें ॥९ ॥
शुक्तों में दधि आदि भक्ष्य—
दधि भक्ष्यं च शुक्तेषु सर्वं च दधिसम्भवम् ।
यानि चैवाभिषूयन्ते पुष्पमूलफलैः शुभैः ॥१० ॥
भाष्य— अविशेषेण सर्वशुक्तेषु प्रतिषिद्धेषु केषुचिदयमपवादः । शुक्तान्युच्यन्ते यानि प्राप्तसारस्यानि कालात्ययेन द्रव्यान्तरसंसर्गेण वाऽऽम्लतामापद्यन्ते । यथाऽऽम्रातका-दीनि मधुराणि चिरकालमतिरसत्वाच्छुक्तानि भवन्ति । निष्पीडितो मधुररसः काल-तोऽम्लतामेतीत्यादिना एवंविधानि । यानि तु स्वभावतोऽम्लानि दाडिमामलकजम्बीरादीनि तानि नैव ‘ शुक्तानि ’ । यानि च प्राप्तकालोत्पत्त्यादीनि । न ह्ययमाम्लपर्यायः शुक्तशब्दः । तत्र केवलानि पाकतः शुक्तानि प्रतिषिध्यन्ते । द्रव्यान्तरैश्च पुष्पमूलकादिभिर्योजितान्यत्र ज्ञायन्ते । तथा च गौतम: ( अ ० १७ सू ० १४ ) “ शुक्तं केवलमदधि ” । अभिषूयन्ते । अभिषव उदकेन संसृज्य परिवासनम् । “ यद्येवं काल एव तर्ह्यम्लताहेतुः ” । खः सत्यम् । एतान्यपि द्रव्याणि । तृतीया च करणे सहयोगे वा । पुष्पादिभिरुदकेन सह अभिषूयन्ते सन्धीयन्ते । केचित्त्वाहुः– यत्र पुष्पमूलान्यम्लतां जनयन्ति । यानि दाडिमामलकादीनि शुक्तानि तानि भक्ष्याणि, यानि द्राक्षादिभिर्मधुरैराभिषूयन्ते सन्धीयन्ते तानि न भक्ष्यन्ते । अभिषवो ह्युच्यते शुक्तजातननम् । यानि पुष्पादिभिः शुक्तीक्रियन्ते । न च द्राक्षादीनि शुक्ततापादकानि । किंतर्हि केवल एव कालः । एतत्तु न सम्यक् अशब्दार्थत्वात् । न हि ' सोममभिषुणोतीति ' शुक्तं करोतीति
प्रतिपत्तिः । किंतर्हि य एव प्राग्व्याख्यातोऽर्थः ।
दधिसम्भवं उदश्विन्मस्तुकिलाटकूर्चिकादि ॥१० ॥
हिन्दी - शुक्तों ( पूर्वश्लोक देखिये ) में दही और दही के बने पदार्थ ( छाछ, मठ्ठा,
पृष्ठ 668
पाठ पढ़ें पाठ छिपाएँ
५८८ मनुस्मृतिः [ पञ्चमः तक्र आदि ) और जो शुभ ( नशा नहीं करने वाले ) फूल, जड़ एवं फल से बने पदार्थ हैं, वे भक्ष्य हैं ॥१० ॥
आममांसभक्षी तथा ग्राम्यपक्षियों के मांसभक्षण का निषेध-क्रव्यादः शकुनीन् सर्वान् तथा ग्रामनिवासिनः । अनिर्दिष्टांश्चैकशफांष्टिट्टिभं च विवर्जयेत् ॥ ११ ॥
भाष्य — क्रव्याद आममांसभक्षकाः कङ्कगृध्रादयः । अभक्ष्यवत्केवलाममांसभक्षका गृह्यन्ते । न तूभयरक्ता मयूरादयः । ग्रामनिवासिनः अक्रव्यादा अपि । एकशफा अश्वाश्वतरगर्दभादयः । अनिर्दिष्टास्तु नभक्ष्यत्वेनोक्तास्ते न भक्ष्या इति । ये तूक्तास्तत्रैव भ भक्ष्याः । ये तूष्ट्रवडवऋक्षगौरगर्दभाः प्रजाकामस्तेषां च मांसमश्नीयादिति । “ ननु च श्रुतित एव तत्र भक्ष्यावाप्तिः । प्रत्युत निर्दिष्टग्रहणे सति श्रुतौ चोदिताना-मन्यत्र भक्ष्यताशङ्का, ‘ अनिर्दिष्टान्वर्जयेन्न निर्दिष्टानिति ' वाक्यार्थप्रतिपत्तेः । न च स्मृतौ केचिद्भक्ष्यत्वेन निर्दिष्टाः, येन तद्व्यतिरिक्तविषयमनिर्दिष्टग्रहणं व्याख्यायेत । अतः श्रुतौ योऽनिर्दिष्टास्ते न भक्ष्या इति प्राप्नोति ” । उच्यते । आचाराविरोधी स स्मृत्यर्थः । अनिर्दिष्टग्रहणमनुवादः । टिट्टिभः शकुनिरेव, टिटीति यो वाशते । प्रायेण शब्दानुकरणनिमित्तं शकुनीनां नामधेयप्रतिलम्भः । तदुक्तं निरुक्तकारेण ' काक इति शब्दानुकृतिस्तदिदं शकुनिषु बहुलमिति ' ॥११ ॥
हिन्दी - कच्चा मांस खाने वाले ( गीध, बाज, चील आदि ) तथा ग्रामवासी ( कबूतर, मैना आदि ) पक्षी, नामतः निर्देश नहीं किये गये एक खुरवाले पशु ( गधा आदि ) और टिटहरी को छोड़ दे ( इनका मांस भक्षण न करे ) ॥११ ॥
गोरैया आदि के भक्षण का निषेध-कलविङ्कं पल्वं हंसं चक्राह्वं ग्रामकुक्कुटम् ।
सारसं रज्जुदालं च दात्यूहं शुकसारिके ॥ १२ ॥
भाष्य — कलविङ्को ग्रामचटको निगमेषूक्तः । ग्रामवासित्वात्तस्य सिद्धे प्रतिषेधेः पुनः प्रतिषेधः स्त्रियाश्चटकाया अभ्यनुज्ञानार्थः । पुंशब्दो ह्ययं वृषभवत् । अन्ये त्वारण्यस्य निवृत्त्यर्थं मन्यन्ते । ते हि वर्षासु वनवासिनो भवन्ति । बाहुल्यव्यपदेशाच्च ग्रामचटका उच्यन्ते । यथा महिषा आरण्याः । प्लवहंसचक्रवाकानां वक्ष्यमाणजालपादप्रतिषेधात्सिद्धे प्रतिषेधे नित्यार्थं ग्रहणम् ।
पृष्ठ 669
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ५८ ९ अत आट्यादीनां विकल्पेन भक्षणं गम्यते । ग्रामकुक्कुटम् । ग्रामग्रहणादारण्याभ्यनुज्ञानम् । “ कृतः पुनरारण्यस्याभक्ष्यताशङ्का ” । स्मृत्यन्तरे हि " कुक्कुटो विकिराणामिति " पठ्यते I । अतश्चाविशेषेणाभक्ष्यता प्राप्ता वचनेन । तस्य सामान्यप्रतिषेधस्य विशिष्टविषयता प्रज्ञायते । “ ननु विकल्पः कस्मान्न भवत्यनेन शास्त्रेणास्याभ्यनुज्ञानाच्छास्त्रान्तरेण चाविशेषेण तस्यापि प्रतिषेधात् ” । नायं विकल्पस्य विषयः । विरोधे हि तुल्यबलानां विकल्पो न चात्र विरोधोऽस्ति । न ह्यनयोः स्मृत्योः शास्त्रभेदोऽपि । सामान्यस्य विशेष उपसंहर्तुं न्याय्यत्वात् । शाखा-न्तरतस्तृतीयस्याप्येकशास्त्रस्य दर्शितत्वात् । “ यद्येवं जालपादप्रतिषेधस्यापि हंसादिविशेष एवोपसंहारो युक्तो नाविशेषेण काकजालपादानां सर्वेषां प्रतिषेधः ” । भवेदेवं यद्यपौरुषेयोऽयं ग्रन्थः स्यात् । भिन्नकर्तृके त्वपौरुषेयत्वे न सामान्यस्य किंचित्प्रयोजनं हंसादिविशेषमात्रपर्यवसाने । भिन्नकर्तृकत्वे तु पौरुषेयत्वे सति सामान्य-दर्शिनो विशेषविषयमज्ञानं सम्भवति, विशेषदर्शिनोऽपि सामान्यविषयम् । उभयोश्च मूल-कल्पनायामेकस्य सामान्यवेदनं वचनमूलं कल्प्यते, अन्यस्य विशेषवचनम् । तयोश्च वैदिकयोर्भिन्नशाखाधीतयोरसति शास्त्रभेदे, एकवाक्यतैव न्याय्या । न च वेदे पर्यनुयोगो-ऽस्ति, ‘ किं सामान्येन यदि विशेषनिष्ठता '; तस्य कर्तुरभावात् । श्रुताद्धि तत्र प्रतिपत्ति:
केवलशब्दशक्तिसमाश्रिता । न प्रयोजनवशेनार्थान्तरकल्पनम् ।
रज्जुदालादयः शाकुनिकेभ्य उपलब्धव्याः ॥१२ ॥
हिन्दी — गोरैया, प्लव ( एक प्रकार का पक्षी या परेवा ), हंस, चकवा, ग्राम्य मुर्गा सारस, रज्जुवाल ( डोम कौआ ), दात्यूह, ( जल कौआ ), तोता ( सूआ ) और मैना— ( इनके मांस को न खावे ) ॥१२ ॥
प्रतुदान् जालपादांश्च कोयष्टिनखविष्किरान् ।
निमज्जतश्च मत्स्यादान् सौनं वल्लूरमेव च ॥ १३ ॥
भाष्य – प्रतुद्य प्रहृत्य चञ्च्वा ये भक्षयन्ति । स्वभाव एष एषां पक्षिणाम् । प्रतुदाः शतपत्रादयः । जालपादा आट्यादयः । तेषां विकल्प उक्तः । " ननु च यत्र विकल्प अन्यतरत्रेच्छातः प्रवृत्तिः । सा चाप्रतिषिद्धेष्वपि स्थितैव लौकिकं हि भक्षणं, तत्सत्येवार्थित्वे । न शास्त्रीयं, येन नियमतः स्यात् । तत्र विकल्पि-
पृष्ठ 670
पाठ पढ़ें पाठ छिपाएँ
५ ९ ० मनुस्मृतिः तस्य प्रतिषेधस्य न किंचित्प्रयोजनं पश्यामः ” । उच्यते । दत्तोत्तरमेतत् । [ पञ्चम: “ यत्राबुद्धिपूर्वप्रयोगाच्छब्दादेवार्थावगतिः । पौरुषेयस्त्वयं ग्रन्थः समाहितचेतसा प्रयत्नवता शतसाहस्रिकं संक्षेप्तुमाचार्येण प्रणीतः, यत्राशक्यमनर्थकं प्रयोक्तुम् । अत आचार्याभिधानं उन्नीयते । नतु जालपादप्रतिषेधेऽसति तद्विशेषं हंसं स्वशब्देन निषेधयति । यत एतदपि स्मरणमेव । अन्ये तु जालपादस्त्विति प्रमादपाठः स्यात् ” । उक्तं चैतदिङ्गितेन चेष्टितेन महता वा सूत्रप्रणयनेनाचार्याणामभिप्राया लक्ष्यन्ते । विशेषश्चात्रानुमीयते । “ जालपादादि न भक्षयेत् ” इति विवक्षिते सामान्यप्रतिषेध उभयोर-र्थवत्वाय । यत्र मांसविक्रयार्थाः पशवो हन्यन्ते सा सूना । आपणो मांसस्येत्येके । वल्लूरं मांसं संशोष्य चिरस्थापितम् । I नखैर्विकीर्य भक्षयन्ति ते नखविष्किराः । मयूरकुक्कुटादयः । आपत्स्विति वचनात्तु तेषां पाक्षिकी भक्ष्यताऽप्यस्ति । स हि पठति ' कुक्कुटो विकिराणामिति ' । न चास्य मानवस्य कुक्कुटोऽपसंहारः शक्यो वक्तुं कुक्कुटनाम-ग्रहणस्यानर्थक्यप्रसङ्गात् ॥१३ ॥
हिन्दी - प्रतुद ( चोंच से काटकर खाने वाले पक्षी, जैसे— कठफोरवा, आदि ), बत्तख कोयष्टि ( कोहड़ा नामक पक्षि - विशेष ), नाखून ( चंगुल से बिखेरकर खाने वाले पक्षी ) ( तीतर आदि ), पानी में गोता लगाकर मछलियों को खाने वाले पक्षी, इन पक्षियों के मांस को तथा मारने के स्थान ( वधस्थान ) में रखे हुए ( भक्ष्य भी ) मांस को और सूखे मांस को— ( न खावे ) ॥१३ ॥
बकादि के मांस भक्षण का निषेध-बकं चैव बलाकां च काकोलं खञ्जरीटकम् ।
मत्स्यादान् विड्वराहांश्च मत्स्यानेव च सर्वशः ॥ १४ ॥
भाष्य — बकबलाकाकाकोलादीनां मत्स्यादग्रहणात्सिद्धे प्रतिषेधे तदन्येषां विकल्पार्थं पुनर्वचनम् । मत्स्यादा अपक्षिणोऽपि मत्स्यादग्रहणादभक्ष्या विज्ञेयाः नक्रादयः, क्रियानिमित्त-त्त्वान्मत्स्यादशब्दस्य । काकोलश्च श्येनो देशान्तरप्रसिद्धेः, अयं बाह्लीकेष्वेवमुच्यत इति प्रसिद्धम् । विड्वराहप्रतिषेधाच्चारण्याभ्यनुज्ञा ग्रामवासिप्रतिषेधश्च पूर्वसूत्रे प्रकरणाच्छकुनि-