मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 671–680

मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 671–680

पृष्ठ 671

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 671 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ५ ९ १ विशेषणार्थो विज्ञेयः । एवं हि चेह विड्वराहग्रहणमर्थवद्भवति । ग्रामवासी शूकरो ‘ विड्वराहः ’ । “ ननु च यदि तत्र प्रकरणाद् ग्रामवासिनः पक्षिणो गृह्यन्ते, इहापि ‘ मत्स्यादा: ’ पक्षिण एव ग्रहीतुं न्याय्याः ' नैवम् । न चात्र शकुनीनां प्रकरणमस्ति विड्वराहमत्स्यानामपक्षिणामपि निर्देशार्थम् ।

सर्वशः सर्वदा ।

उत्सर्गोऽयं अस्यापवादं वक्ष्यामः ॥१४ ॥

हिन्दी - बगुला, बलाका ( बक जातीय पक्षिविवेष ), काकोल ( करेरुआ ), खजन ( खँड़लिच ), इन पक्षियों के मांस को, मछलियों को खाने वाले ( पक्षिभिन्न नक्र आदि ) ग्राम्य सूअर और सब मछलियों के मांस को – ( न खावे ) ॥१४ ॥

मछली के मांस के भक्षण का निषेध-यो यस्य मांसमश्नाति स तन्मांसाद उच्यते ।

मत्स्यादः सर्वमांसादस्तस्मान्मत्स्यान् विवर्जयेत् ॥ १५ ॥

भाष्य — पूर्वस्य मत्स्यप्रतिषेधविधेरर्थवादोऽयम् । यत्सम्बन्धिमांसं योऽश्नाति स तन्मांससम्बन्धिन्याऽशनक्रियया व्यपदिश्यते । यथा

सर्पादो नकुलः, मार्जारो मृषकादः, इत्यादि । यस्तु मत्स्यादः स सर्वमांसाशी भवति ।

गोमांसाद इत्यपि व्यपदेष्टुं युक्तः । अतो निन्दातिशयान्मत्स्यान्विवर्जयेत् ॥ १५ ॥

हिन्दी — जो जिसके मांस को भक्षण करता है, वह उसका ' मांसाद ' कहा जाता है और मछली के माँस को भक्षण करने वाला ' सर्वमाँसाद ' ( सबके माँस का भक्षण करने वाला ) कहा जाता है, इस कारण से मछली ( के माँस ) को छोड़ दे ॥ १५ ॥

हव्यकव्य में पाठीनादि भक्ष्य-पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः ।

राजीवाः सिंहतुण्डाश्च सशल्काश्चैव सर्वशः ॥ १६ ॥

भाष्य— पाठीनरोहितौ मत्स्यजातिविशेषौ तयोर्हव्यकव्यनियोगेन श्राद्धादौ भक्ष्य-ताऽभ्यनुज्ञायते, नान्वाहिके भोजने । राजीवसिंहतुण्डसशल्कानां सर्वशः हव्यकव्याभ्या-मन्यत्राप्यनिवृत्तिर्भोजने । राजीवाः पद्मवर्णाः कश्चिदिष्यन्ते । अपरैस्तु ' राजयो ' रेखा येषां सन्ति ।

सिंहतुण्डाः सिंहाकृतिमुखाः ।

सशल्काः शकलिनः ॥१६ ॥

पृष्ठ 672

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 672 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५ ९ २ मनुस्मृतिः [ पञ्चमः हिन्दी — हव्य और कव्य ( देवकार्य और पितृकार्य ) में विहित पाठीन ( पोठा या · पोठिया ), रोहित ( रोहू ), राजीव ( बरारी ), सिंहतुण्ड और चोइँटा से युक्त सब प्रकार की मछलियाँ भक्ष्य हैं ( किन्तु हव्य - कव्य कर्म के बिना ये भी अभक्ष्य ही हैं ) ॥१६ ॥

विमर्श — मेधातिथि तथा गोविंदराज ने इस श्लोक की ' पाठीन और रोहित हव्य-कव्यों में ही भक्ष्य है, तथा राजीव आदि मछलियाँ हव्यकव्य के बिना भी भक्ष्य हैं ' यह व्याख्या की है वह ठीक नहीं है; क्योंकि ' हव्यकव्य में नियुक्त पाठीन और रोहित श्राद्ध-भोक्ता के ही भक्ष्य हैं, श्राद्धकर्ता के नहीं तथा राजीव आदि मछलियाँ हव्य - कव्य के विना भी भक्ष्य हैं ' इसमें कोई प्रमाण नहीं है; इसके साथ ही अन्य मुनियों के वचन से भी विरोध पड़ता है, यथा— - ( १ ) शङ्खने राजीव, सिंहतुण्ड, चोइँटेवाली मछलियाँ, पाठीन और रोहित— ये मछलियों को सामान्यतः भक्ष्य कहे गये हैं ' ऐसा कहा है ' । ( २ ) महर्षि याज्ञवल्क्य ने ‘ पञ्चनखों में शाही, गोह, कच्छप, शल्लकी और खरगोश, तथा मछलियों में सिंहतुण्ड, रोहित, पाठीन, राजीव और चोइँटेवाली मछलियाँ द्विजातियों के भक्ष्य हैं ऐसा कहा है । ( ३ ) हारीत ने भी ' न्यायप्राप्त सशल्क ( चोइँटेवाली ) मछलियों को खाबे ' ऐसा कहा है । अत: उक्त वचनत्रय के विरोध होने से श्राद्ध में पाठीन और रोहित श्राद्ध-भोक्ता को ही खाना चाहिये ( श्राद्धकर्ता को नहीं ) राजीव आदि वैसे नहीं अर्थात् सामान्यतः खाना चाहिए यह ( मेघातिथि और गोविंदराज की ) व्याख्या मुनि सम्मत नहीं है । ४ भक्ष्य मृग - पक्षी तथा पञ्चनखादि का अपवाद— न भक्षयेदेकचरानज्ञातांश्च

मृगद्विजान् ।

भक्ष्येष्वपि समुद्दिष्टान् सर्वान् पञ्चनखांस्तथा ॥ १७ ॥

१. तथा च शङ्खः— ‘ राजीवा: सिंहतुण्डाश्च सशल्काश्च तथैव च । गोगर पाठीनरोहितौ चापि भक्ष्या मत्स्येषु कीर्तिताः ॥ ' इति म ० मु ० । परं समुपलब्धपुस्तके— राजीवान् सिंहतुण्डाँश्च शकुलाश्च तथैव च । पाठीनरोहितौ भक्ष्यौ मत्स्येषु परिकीर्तितौ ॥ ' ( १३।२५ ) इत्येवं पाठ उपलभ्यते, तत्रापि स एवार्थः पर्यवस्यति इति ध्येयम् ।

२. तथा च याज्ञवल्क्यः-‘ भक्ष्याः पञ्चनखाः श्वाविद्गोधाकच्छपशल्यकाः ।

शशश्च मत्स्येष्वपि हि सिंहतुण्डकरोहिताः ॥

तथा पाठीनराजीवसशल्काश्च द्विजातिभि: । ' इति ( या ० स्मृ ० १।११८-१७८ ) ३. तथा हि हारीत: -‘ सशल्कान्मत्स्यान्यायोपपन्नान् भक्षयेत् ' इति । ( इति म ० मु ० ) ४. ' भोक्त्रैवाद्यौ न कर्त्रापि श्राद्धे पाठीनरोहितौ । राजीवाद्यास्तथा नेति व्याख्या न मुनिसम्मता । ' इति ( म ० मु ० )

पृष्ठ 673

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 673 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता भाष्य - एकचराः सर्पोलूकादय एकाकिनश्चरन्ति । अज्ञातान्नामतो जातिविशेषतश्च । मृगद्विजान् । मृगाः पक्षिणश्च न भक्ष्याः ५ ९ ३ भक्ष्येष्वपि समुद्दिष्टान् । येऽप्रतिषिद्धास्ते ताद्रूप्ये असति भक्ष्यतां प्राप्ताः समु-द्दिष्टा इव भवन्ति । न तु भक्ष्याणां समुद्देशोऽस्ति । परिहर्तव्यतया विशेषतोऽविज्ञाता भक्ष्यपक्षपतिता ‘ भक्ष्येष्वपि समुद्दिष्टा ' इत्येवमुच्यन्ते ।

पञ्चनखाश्च वानरशृगालादयः ।

सर्वग्रहणं पादपूरणार्थम् ॥ १७ ॥

हिन्दी - अकेले विचरने वाले ( साँप आदि ), नाम तथा जाति में विशेषत: अज्ञात मृग तथा पक्षी और भक्ष्यों में कहे गये भी ( विशेष निषेध के विना सामान्यतः कहे गये भी ) पञ्चनख ( पाँच नखवाले ) प्राणी ( यथा – वानर, लंगूर आदि ) को नहीं खावें || १७ ||

उक्त वचन का प्रतिप्रसव-श्वाविधं शल्यकं गोधां खड्गकूर्मशशांस्तथा ।

भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः ॥ १८ ॥

भाष्य – पञ्चनखानां मध्याच्छ्वाविधादयो भक्ष्याः । स्मृत्यन्तरे तु खड्गे विकल्पः । तथा च वशिष्टः ( १४।४७ ) " खड्गे तु विवदन्ते ” इति । उष्ट्रवर्जिता एकतोदतो गोव्यजमृगा भक्ष्याः । “ ननु च श्वावित्प्रभृतीनां पञ्चनखानां भक्ष्यत्ववचनादन्येषामभक्ष्यतासिद्धेः सर्वान्प-ञ्चनखानिति प्रतिषेधवचनमनर्थकम् ” । नैष दोषः । सर्वशब्देन प्रतिषेधे स्पष्टा प्रतिपत्तिर्भवति । भक्ष्यविशेषनिर्देशेन तद-न्येषां या अभक्ष्यताप्रतिपत्तिः सा आनुमानिकी प्रतिपत्तिः । गौरवं हि तथा स्यात् ॥१८ ॥

हिन्दी — सेह या शाही, शल्यक, गोह, गेंडा, कछुआ और खरगोश इन छवों को तथा एक तरफ दाँत वाले पशु में ऊँट को छोड़कर शेष पशु का ( मनु आदि ) पञ्चनखों में भक्ष्य कहते हैं ॥ १८ ॥

छत्राक आदि के भक्षण का निषेध-छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् ।

पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद् द्विजः ॥ १ ९ ॥

भाष्य — छत्राकं कवकानि । विड्वराहः ग्रामशूकरः स्वतन्त्रविहारः ।

पृष्ठ 674

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 674 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५ ९ ४ मनुस्मृतिः [ पञ्चम: एतानि भक्षयित्वा पतितो भवेत् । पतितप्रायश्चित्तं कुर्यात् । वक्ष्यति च ( ११।५६ ) “ गर्हितान्नाद्ययोर्जग्धिः सुरापानसमानि षट् ” ॥१ ९ ॥। हिन्दी — छत्राक ( कवक - भूकन्धविशेष ), ग्राम्य सूकर, लहसुन, ग्राम्य मुर्गा, प्याज और गृञ्जन ( लाल मूली या सलगम, किसी - किसी के मत से गाजर ) को बुद्धिपूर्वक खाने से द्विज पतित होता है ( बुद्धिपूर्वक या अभ्यासपूर्वक इनको खाने वाले द्विज पतित, प्रायाश्चित्त को करें ) ॥१९ ॥

अभक्ष्य भक्षण करने पर प्रायश्चित्त-अमत्यैतानि षड् जग्ध्वा कृच्छ्रं सान्तपनं चरेत् । यतिचान्द्रायणं वाऽपि शेषेषूपवसेदहः ॥ २० ॥

भाष्य - अमत्या अबुद्धिपूर्वं षट् जग्ध्वा षण्णामन्यतममपि । भक्षणस्य अविधेयत्व-निमित्ततया साहित्यस्याविवक्षा । शेषेषु अभक्ष्येषु भक्षणे लोहितवृक्षनिर्यासादिषु एकमहोरात्रं न भुञ्जीत । अहःशब्दो रात्रावपि दृष्टप्रयोगः । “ अहश्च कृष्णमहरर्जुनं चेति ” ( ऋग्वेद ६।९ ।१ ) । येषु चात्र प्रकरणे प्रतिषिद्धेषु प्रायश्चित्ताधिकारे प्रतिपदं प्रायश्चित्तमन्यद्वक्ष्यते “ क्रव्यादसूकरे ” त्यादि ( ११ । १५६ ) तत्र तदेव द्रष्टव्यं प्रतिपदविहितत्वात् । अस्य चोपवासस्यान्यत्र चरितार्थत्वात् ॥२० ॥

हिन्दी – इन छ: ( ५।१ ९ ) को खानेवाला ( द्विज ) कृच्छ सान्तपन ( ११।२१२ ) या यतिचान्द्रायण ( ११।२१८ ) व्रत करे और अन्य अभक्ष्य पदार्थों ( ५।५-१७ ) को खाकर एक दिन उपवास करे ॥२० ॥

वर्ष में एक कृच्छ्र व्रत की अवश्यकर्तव्यता—

संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः ।

अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ २१ ॥

भाष्य- भोज्यशूद्रगृहभोजिनो ब्राह्मणस्येदमुच्यते । Spre is jpf क यस्य शूद्रस्य गृहे यानि ब्राह्मणानामभोज्यान्यन्नानि सम्भवन्ति, न दूरतः परिह्रियन्ते, तादृशस्य गृहे यो ब्राह्मणोऽन्नं भुङ्क्ते तस्य प्रतिषिद्धान्नभोजनाशङ्कायां प्राजापत्यकृछ्रचरण-मुपदिश्यते । अविशेषनोदनायां प्राजापत्यं कृछ्रं प्रतीयत इति वक्ष्यामः । अज्ञातभुक्तशुद्ध्यर्थमज्ञातदोषशङ्कायामाह । दोषो यदि भुङ्क्ते तस्य शुद्ध्यर्थम् । “ ननु च ईदृशस्य शुद्धि वक्ष्यति ( ५।१२७ ) “ अदृष्टमद्भिर्निर्णिक्तमिति ” । तस्य विषयं तत्रैव दर्शयिष्यामः ।

पृष्ठ 675

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 675 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ५ ९ ५ ज्ञातस्य तु दोषस्य विशेषतः वैशेषिकं प्रायश्चित्तं कर्तव्यम्, यस्य यद्विहितं प्रतिपदम् ॥२१ ॥

हिन्दी— श्रेष्ठ द्विज विना जाने ( अज्ञात रूप में ) खाये गये अभक्ष्य पदार्थों को खाने की शुद्धि के लिए वर्ष में एक बार प्राजापत्य कृच्छ्रव्रत ( ११।२११ ) अवश्य करे तथा जानकर खाये गये अभक्ष्य पदार्थों की शुद्धि के लिए तो विशेष रूप से ( अवश्य ही ) उन स्थलों में कथित प्रायश्चित्त करे ॥ २१ ॥

यज्ञार्थ विहित पशु - पक्षी का वध -यज्ञार्थं ब्राह्मणैर्वध्याः प्रशस्ता मृगपक्षिणः । भृत्यानां चैव वृत्त्यर्थमगस्त्यो ह्याचरत् पुरा ॥ २२ ॥

भाष्य - भक्ष्यप्रसङ्गेन हिंसाऽभ्यनुज्ञायते । अत्यर्थं क्षुत्पीडायां भृत्यादेभोजनान्तरासंभवे भक्ष्यमृगपक्षिवधः कर्तव्यः । भृत्याः प्राग्व्याख्याताः । अगस्त्यस्तथाकृतवानित्यगस्त्यग्रहणं प्रशंसार्थम् । यज्ञार्थमित्याद्योऽर्धश्लोकोऽर्थवाद एव तत्र हि वधः प्रत्यक्षश्रुतिविहितत्वादेव सिद्धः ।

प्रशस्ता ये भक्ष्यतयाऽनुज्ञाताः ।

एष एवार्थ उत्तरश्लोके विस्तरतः कर्मार्थवादतया कथ्यते ॥२२ ॥

हिन्दी — द्विज यज्ञ के लिए तो अवश्य तथा रक्षणीय माता- पितादि की रक्षा के लिए शास्त्रविहित पशु - पक्षियों का वध करे । ऐसा अगस्त्य ऋषि ने पहले किया था ॥ २२ ॥

बभूवुर्हि पुरोडाशा भक्ष्याणां मृगपक्षिणाम् ।

पुराणेष्वृषियज्ञेषु ब्रह्मक्षत्रसवेषु च ॥ २३ ॥

भाष्य — षट्विंशत्संवत्सरं नाम सत्रं तत्र मृगपक्षिवध आम्नातः सोऽनेनानूद्यते । इदं तत्र ब्राह्मणं “ संस्थितेऽहनि गृहपतिर्मृगयां याति स तत्र यान्यान्मृगान्हन्ति तेषां तरसाः पुरोडाशा भवन्ति ” । अर्थवादत्वाद्बभूवुरिति भूतप्रत्यये न विवक्षा । तेनाद्यत्वेऽपि भवन्ति । एवं पुराणेष्वपि । न केवलं कश्चिदद्यत्वे सत्राणां व्यवहार इति दर्शनाभिप्रायमेतत् पुराणेष्विति । न पुन: ' अद्यत्वे यदि केचित्सर्वाण्येव हरेयुस्तेषामेष विधिर्न भवतीति ’ मन्तव्यम् । अथवा यः स्वयं शास्त्रार्थं वेदितुमसमर्थः केवलं परप्रसिद्ध्या " महाजनो येन गतः स पन्थाः ” इति न्यायेन प्रवर्तते तत्र त्वेतदुच्यते पुराणेष्विति । नायमिदं प्रथमको धर्मः किंतर्हि अनादिः ।

पृष्ठ 676

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 676 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५ ९ ६ मनुस्मृतिः [ पञ्चमः पुराणा ऋषयः । ब्राह्मणाः केचन तपः सिद्धाः, जात्यन्तरं वा । यथा महाभारतादौ वर्णितम् । न चात्र निर्बन्धः कर्तव्यः " ऋषीणां जात्यन्तरत्वे गन्धर्वादिवत्कथं यागेष्वधिकार ” इति । यतोऽयमर्थवादो येनकेनचिदालम्बनेन प्रतीयते ब्रह्मक्षत्रसवाः ब्रह्मक्षत्रिययज्ञाः ॥ २३ ॥

हिन्दी — क्योंकि पहले भी मुनियों तथा ब्राह्मण - क्षत्रियों के यज्ञों में ( शास्त्रानुसार ) भक्ष्य पशु - पक्षियों का पुरोडाश ( हविष्य - हव्य ) बना था, ( अतः शास्त्र - विहित पशु - पक्षियों का वध यज्ञ के लिये करना चाहिये ) ॥२३ ॥

पर्युषित ( बासी ) भोज्य द्रव्य-यत्किंचित्स्नेहसंयुक्तं भक्ष्यं भोज्यमगर्हितम् ।

तत्पर्युषितमप्याद्यं हविः शेषं च यद्भवेत् ॥ २४ ॥

भक्ष्यं यत्किंचित्स्नेहसंयुक्तम् । भोज्यमोदनादि । भुक्तिभुज्योरेकार्थत्वेऽपि पृथगु-पादानाद्विषयभेदोऽयं प्रतीयते । अगर्हितं शुक्ततामनापन्नम् । तत्पर्युषि तमप्याद्यम् । रात्र्यन्तरे पर्युषितमुच्यते । पूर्वेद्युः सिद्धमप्यपरेद्युः पर्युषितं भवति । स्नेहसंयुक्तमिति । एवं संदिह्यते । किं यत्स्नेहसंयुक्तं सत्पर्युषितं रसमिश्रशाकादि तत्पर्युषितमशितव्यम्, उत शुष्कस्यापि पर्युषितस्य भक्षणकाले स्नेहसंयोगः कर्तव्यः । भक्ष्यापूपाद्यपि पर्युषितं भोजनकाले स्नेहेन संयोज्य भक्षयितव्यमिति । अत्र सन्दिह्यते— “ स्नेहयुक्तानां भक्ष्यतोच्यते, ' तत्पर्युषितमाद्यमिति ' । उद्दिश्यमानं स्नेहसंयुक्तमिदं न पुनर्विधेयार्थे । न हि तच्छब्दसम्बन्धोऽस्य श्रुतो यत्पर्युषितं तत् स्नेहसंयुक्तमाद्यमिति ” । उच्यते । हविःशेषाणां पर्युषितानामस्नेहसंयुक्तानां तेषां वचनमनर्थम् । न च तेषां स्नेहसंयुक्तानां परिवासः संभवति । एवं च तेषां वचनमर्थवद्भवति यदि भोजनकाले तेषां स्नेहसंयोगो नापेक्ष्यते । अतस्तेषां तावद्भोजनकाल एव स्नेहसंयोगनिरपेक्षतया वचन-स्यार्थवत्त्वम् । “ यद्येवं तथापि न संदेहः । अर्थवत्त्वाद्विशेषपदस्य विधेयार्थता स्नेहसंयुक्तशब्दस्य न्याय्या ” । उच्यते । एतावदत्र सन्देहे बीजम् । यथाश्रुतसम्बन्धस्य बलीयस्त्वात्किं हविःशेष-पदमनुवादोऽस्तु उतानर्थकत्वं मा प्रापदिति यत्पर्युषितं तेन स्नेहसंबन्धः क्रियताम् ।

पृष्ठ 677

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 677 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता ५ ९ ७

तत्रानर्थक्याद्व्यवहितकल्पना ज्यायसी । समाचारान्निर्णयः ।

सर्पिस्तैलवसामज्जा: ‘ स्नेहाः'॥२४ ॥

हिन्दी — जो मोदक आदि तथा विकारहीन अन्य भोज्य पदार्थ पर्युषित ( बासी ) है, उन्हें भी स्नेह ( घृत - तैल ) से संस्कारयुक्त कर तथा बचे हुए पर्युषित यज्ञान्न को बिना संस्कार किये ही खाना चाहिये ॥२४ ॥

विमर्श— वासी मोदकादि को पुनः घृत आदि से संस्कृत कर खाने का विधान ' कुलूकभट्ट ' के मतानुसार है, वे अपने मत की पुष्टि में ' मसूर - मांस से संयुक्त तथा बासी पदार्थ को धोकर तथा अभिधारित ( छौंक बघार ) कर खाना चाहिये ' इस आशय वाले स्मृति - वचन ' को प्रमाण रूप में उपस्थित करते हैं । उनका कथन है कि यदि ' स्नेहादि से संस्कृत बासी पदार्थ तथा यज्ञशेष हविष्यान्न – इनको बासी होने पर खाने का आदेश देना ' मनु ' को इष्ट होता तब वे यज्ञशेष हविष्यान्न को अलग नहीं कहते; क्योंकि उस ( यज्ञशेष हविष्यान्न ) का ग्रहण भी घृत से संस्कृत होने से ही स्वतः हो जाता ' किन्तु उक्त निर्णय आयुर्वेद सिद्धान्त के विरुद्ध मालूम पड़ता है; क्योंकि एक बार अग्नि में संस्कृत पदार्थ का पुनः अग्नि में संस्कार करने से वह पदार्थ अभक्ष्य हो जाता है, जैसे यशस्तिलकचम्पू में कहा है-‘ पुनरुष्णीकृतं त्याज्यं सर्वं धान्यं विरूढकम् । दशरात्रोषिते वाद्यात्कंसे च निहितं घृतम् ॥ ( आश्वास ३ श्लो ० ३४१ ) ।

चिरस्थितमपि त्वाद्यमस्नेहाक्तं द्विजातिभिः ।

यवगोधूमजं सर्वं पयसश्चैव विक्रिया ॥ २५ ॥

भाष्य - चिरस्थितं द्विरात्राद्यन्तरितम् । अपिशब्दादाक्तमित्यत्रापि सम्बन्धयितव्यम् ।

स्नेहाक्तमपि यवगोधूमजं सक्त्वपूपादि ।

पयसो विक्रिया विकारा दधिमथितादयः ॥२५ ॥

हिन्दी — चिरकाल ( अनेक रात्रियों ) के रक्खे हुए भी यव तथा गेहूँ के बने विना स्नेह ( घृत - तैल ) के संस्कार किये सब पदार्थ तथा दूध के बने पदार्थ ( खीर, खोआ, मलाई, रबड़ी आदि ) द्विजों को खाना चाहिये ॥२५ ॥

एतदुक्तं द्विजातीनां भक्ष्याभक्ष्यमशेषतः ।

मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवर्जने ॥ २६ ॥

भाष्य — आद्येन श्लोकार्धेन पूर्वप्रकरणमवच्छिनत्ति । तदेतदनन्तरमनुक्रान्तं प्रकरण-१. तदुक्तम् — ‘ मसूरमांसं संयुक्तं तथा पर्युषितं च यत् । मनु I- 42 तत्तु प्रक्षालितं कृत्वा भुञ्जीत ह्यभिधारितम् ॥ ' इति ।

पृष्ठ 678

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 678 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५ ९ ८ मनुस्मृतिः [ पञ्चम: मेतत् द्विजातीनां च शूद्राणामिति, उत्तरं तु यद्वक्ष्यते तच्छूद्राणामपीति प्रकरणव्यव-च्छेदप्रयोजनम् । अतश्च मांसभक्षणे प्रकारो वक्ष्यते । यच्च तद्वर्जनेन फलं तच्छूद्रस्यापि भवतीति । अन्यथा “ अभक्ष्याणि द्विजातीनाम् ” ( श्लो ० ५ ) इत्यधिकाराल्लशुनादिष्विव शूद्रस्य मांसभक्षणेऽपि कामचारः स्यात् । “ यद्येवं देवाद्यर्चने शिष्टस्य मांसस्य भक्ष्यता वक्ष्यते ( श्लो ० ३२ ) ‘ देवान्पितॄंश्चार्च-यित्वा खादन्मांसं न दुष्यतीति ' । देवाद्यर्चनं मेध्येन मांसेन । ये च द्विजातीनां प्रतिषिद्धा मृगशकुन्तास्तेऽमेध्याः । अतश्च तेषां मांसेन देवार्चनासंभवादतच्छेषस्याभक्ष्यत्वादन्येऽपि प्रकरणभेदाः- - • यथा ब्राह्मणादीनां मृगपक्षिणः प्रतिषिद्धाः- ते शूद्रस्यापि प्रकारान्तरेण प्रतिषिद्धा भवन्ति ' तत्र प्रकरणभेदेन न किञ्चिदुच्यते । लशुनादिप्रतिषेधः शूद्रस्य न भवति ” । अस्ति तावत्प्रकरणभेदेन प्रयोजनं लशुनादिप्रतिषेधे शूद्रस्याधिकारो मा भूदिति । मांसेऽपि देवाद्यर्चने गृहस्थस्याधिकारादगृहस्थस्य शूद्रस्य यथाकाम्यम् । “ ननु च पाकयज्ञे शूद्रस्याधिकारः स्थित एव । भोजनं गृहस्थानां च विहितम् । न च लशुनादिभिः पाकयज्ञाः क्रियन्ते । ततश्च नापि शूद्रस्य यथाकाम्यं लशुनादयो भक्ष्याः स्युः ” को दोषः । “ द्विजातिग्रहणमनर्थकम् ” । परिहृतमेतदगृहस्थस्य प्रोषितस्य वा कामचारः । न च गृहस्थेन यदहुतं तन्न भोक्त-व्यम् शेषभुग्भवेदित्यस्यायमर्थः ‘ अकृतवैश्वदेवक्रियेण न भोक्तव्यम् ' । तत्र यस्यैव यागसाधनता द्रव्यस्य तदेव मेध्यं होतव्यम् । अन्ये तु भोजनकाले कुतश्चिदाहृत्य मध्य-गेहे वा भुञ्जते । तच्चाहुतशेषमपि न प्रतिषिद्धम् । मांसे तु पुनर्वचनान्नियम: ‘ न कदाचिद्दे-वानुपयुक्तं भोज्यमिति ' । “ यदि चातुर्वर्ण्यस्यात्राधिकारस्तदा यद्वक्ष्यति परस्तात् शुद्धिविधौ— ‘ चतुर्णामपि वर्णानामिति’— तदनर्थकम् ” तत्रैव तस्य प्रयोजनं वक्ष्यामः । अथ — “ श्वमांसाद्यपि शूद्रस्य भक्ष्यं प्राप्नोति द्विजातिग्रहणात्पूर्वत्र ” । किं त्वेकादशे ‘ विड्वराहखरोष्ट्राणामित्यादिश्लोकत्रयनिर्दिष्टाः ( ११।१५४ ) शूद्र-स्यापि न भक्ष्या इति ज्ञापकं दर्शयिष्यामः || २६ ॥ हिन्दी - ( भृगु मुनि महर्षियों से कहते हैं कि - ) द्विजों के सम्पूर्ण भक्ष्य और अभक्ष्यों को यह ( मैंने ) कह दिया, अब मांस के खाने और न खाने की विधि को कहूँगा ॥२६ ॥

पृष्ठ 679

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 679 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ५ ९९

प्रोक्षित आदि मांस का भक्षण-प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानां च काम्यया ।

यथाविधि नियुक्तस्तु प्राणानामेव चात्यये ॥ २७ ॥

भाष्य – अग्नीषोमीये पशौ हुतशिष्टं मांसं लक्षणया प्रोक्षितमुच्यते । “ ननु प्रोक्षितशब्दो यौगिक उक्षसेचन इत्यस्य धातोः प्रक्षालनक्रियानिमित्तकः । तथा च ‘ प्रोक्षणीरासादय ’ ' घृतं प्रोक्षणीयमिति ' ' प्रोक्षणीभिरुद्वेजिताः स्थ ' इति सर्वत्र क्रियायोगात्प्रयुज्यते । यद्यासेचनसाधनम्, तत्र कुतो वैदिकसंस्कारनिमित्तकानां स्वसम्बन्धे पशुलक्षणाद्वारेण मांसे प्रवर्तते । मुख्यं च शब्दार्थमतिक्रम्य किमिति लक्षणाऽऽश्रीयते । अतः प्रक्षालितमुदकादिना युक्तम् ” । सत्यम् । यद्यत्र वाक्यान्तराण्यर्थवादाश्च शेषभूता न स्युः— ‘ अनुपाकृतमांसानि ’ ‘ असंस्कृतान्पशून्मन्त्रैरिति ’ । अतस्तत्पर्यालोचनयाऽयमेवार्थोऽवतिष्ठते । “ यद्येवं तत एव सिद्धत्वात्किमनेन ” । केचिदाहुः- अनुवादोऽयम् । मांसेच्छया भक्षणस्य विधिस्तावदयं न भवति क्षुत्प्रतिघातार्थिनो लिप्सया प्रवृत्त्युपपत्तेः । स ह विधिरुच्यते यः पुरुषस्य दृष्टेन प्रयोजनेन प्रवृत्तावसत्यां प्रवृत्त्यवबोधकः, ' यावज्जीवमग्निहोत्रं जुहुयादिति ' । शास्त्रमेवात्र प्रमाणम् । यत्र — अस्मिन्कृते इदमभिमतमभिनिर्वर्तते अकृतेवाऽयमनर्थ आपतति ' एवमन्वयव्यतिरे-काभ्यामवगम्यते तत्र न शास्त्रमेव मृग्यते । यत्र तु नायमन्यतोऽवगमः केवलागमैकगोचरः स विधिरिति चोच्यते । इह तु भोजने कृते पुष्टिरुपजायते, यद्दुःखं तन्निवर्तत इति, बाला अपि स्तनपायिनोऽनुपदिष्टमवयन्ति । नियमोऽपि न भवति, तद्रूपानवधारणात् । यदि तावत्प्रोक्षितं च भक्षयेदेवेति नियमस्तदा कालविशेषावच्छेदाभावादाहारविहारकाला अप्यवसीदेयुरनवरतमश्नन्नेवासीत्, अशक्यश्चार्थ उपदिष्टः स्यात् । यथोक्तम् ' अश्राद्ध-भोजीति ” ‘ यदहरेव प्रत्यवेयादिति ' । महाभाष्यकारेण विधिविशेष एव च नियम उक्तः । असम्भवति च विधौ कुतो नियमः । न चान्येन प्रोक्षितमन्येन लभ्येत । तस्मादयमनर्थः । अथ- “ प्रोक्षितमेवेति अप्रोक्षितं नेति परिसंख्या । न हि प्रोक्षिताप्रोक्षितोभयभक्षणस्य त्यागादशनाया निवृत्तौ युगपत्पर्यायेण वा प्रवृत्त्या परिसंख्यालक्षणस्य विद्यमानत्वात् ” । तथाऽप्यनुपाकृतमांसानीत्येव सिद्धम् । अन्ये त्वस्य पक्षस्यैवं दोषमुपपादयन्ते । अविशेषेण सर्वाप्रोक्षितप्रतिषेधे शकुनीना-मपि प्रतिषेधः प्राप्नोति । न च येषामेव प्रोक्षणं विहितं तेषां तु प्रतिविधानाद्यभावादिति न विशेषपरिग्रहे प्रमाणमस्ति । तदयुक्तं मन्यन्ते । एवं सति भेदेन शकुनीनां प्रतिषेधानुक्रमेण, गमकत्वात् ।

पृष्ठ 680

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 680 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६०० मनुस्मृतिः [ पञ्चमः तस्माच्छ्रुतकर्माङ्गत्वेन नियमस्य प्रोक्षितमांसभक्षणस्यायमनुवाद इति युक्तं दृष्टा-न्ततया । यथा यज्ञेऽवश्यं भक्षणम्, अभक्षणाच्छास्त्रातिक्रमः, एवमुत्तरेष्वपि निमित्तेषु । अनुवादश्चेत्परिसंख्यापेक्षाऽप्यस्तु । गोव्यजमांसमप्रोक्षितं न भक्षयेदित्यनेनैतदनुपाकृता-नामेवासद्रूपमनूद्यते अप्रोक्षितस्यापि ब्राह्मणकाम्यादिनिमित्तेष्वनुज्ञापनार्थः । अन्यच्च “ अनर्चितं वृथामांसमपि ” ( ४।२१२ ) चातुर्थिकेन वृथामांसशब्देन एतदनुपरिज्ञातार्थमितरथा न विज्ञायेत किं तद्वृथामांसमिति । अथवा एकत्र भोक्तुरुपदेशो-ऽन्यत्र कल्पयित्वायेन देवाद्यर्चनं न कृतं तदीयं मांसमन्येनाप्यतिथ्यादिना न भोक्तव्यम् । अनधिकृतेनापि देवाद्यर्चनेन ह्यतिथ्यादयः परगृहे तदीयेन मांसेन देवार्चनेऽधिक्रियन्ते । अथ कल्पयित्वा यदि कृतं तदाऽर्हत्यशितुम् । द्वितीयस्तु प्रतिषेधो “ देवान्पितृनिति ’ ” ( ३२ ) स्वगृहेऽधिकृतानामकृतवतां भक्षणाय । यस्तर्हि “ असंस्कृतान्पशूमन्त्रैरिति ’ ( ३६ ) स उक्तः प्रोक्षणशब्दार्थः । एवं पञ्चापि निषेधवाक्यानि पृथगर्थानि दर्शितानि । ब्राह्मणानां च काम्यया । ' काम्या ' कामना इच्छा । काम्याशब्दः छान्दसः । “ यदा ब्राह्मणादीनामप्रोक्षितानामिदमनुज्ञानं, तदा किं पुनरयं नियमः? अभक्षणे शास्त्रातिक्रमः? उत प्रतिप्रसवमात्रम्? प्रतिप्रसवे भोक्तव्यं विवाहे पुनर्भोक्तव्यमिति वचनादपि प्रतिषेधाप्रवृत्तिर्विवाहे गम्यते ” युक्तः । न भोजनार्थमावश्यकं किंतुब्राह्मणा यदि गरीयांसस्तदा तद्वचनातिक्रमो न अन्ये तु ‘ क्रीत्वादि ’ श्लोके ( ३२ ) ब्राह्मणानामित्यनुवर्त्य शशादिमांसस्यापि विधिमिच्छन्ति । यज्ञविवाहयोरन्यत्र च गोष्ठीभोजनादौ यदि ब्राह्मणा अर्थयन्ते तदा तेषां मांसं स्वरूपेण देवौद्देशिकया न प्रतिषिद्धम्, अवस्थाविशेषेण प्रोक्षणं देवार्चनादीनि कर्तव्यानि । विशेषः प्रतिषिद्धः । तस्य ब्राह्मणकामनानिमित्तत अभ्यनुज्ञाता, नतु “ क्रव्यादान्शकुनान् ” इत्यादेः प्रतिषेधस्य – “ निवृत्तिस्तु महाफलेति ” ( श्लो ० ११ ) कृतसङ्कल्पस्तस्याप्यनुज्ञानमिष्यते । प्रोक्षितेऽप्रोक्षिते च कृतार्चनेऽकृतार्चने वा । यथाविधिनियुक्तस्तु प्राणानामेव चात्यये । मधुपर्के च श्राद्धे च नियुक्तोऽप्रोक्षणे-नापि भक्षयेत् । एष हि यथाशास्त्रं नियोगस्तत्र श्राद्धे नियमा उक्ता एव । “ केतितस्तु यथान्यायं ’ ” ‘ “ कथञ्चिदप्यतिक्रामन्निति ” ( ३ । १०० ) । श्राद्धं भोक्ष्ये इत्यभ्युपेत्येदमहं नाश्नामीति न लभ्यते वक्तुम्, अभक्ष्यमशुचिकरं व्याधिजननं च वर्जयित्वा, हविष्य-विधानान्न भक्ष्यं यद्यद्रोचते तत्तन्नाप्रीतिकरं दीयते । अत इदं वचनं मधुपर्क एव । “ ननु मधुपर्के नास्ति नियोगः ” । अशितव्यं मधुपर्कार्हणेति नियमः, नासौ मधु-पर्कस्य विधिः । स हि तत्राधिकृतो न धन्यो राजादिः । यथैव “ नास्यानश्नन्गृहे वसेदिति ”