मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 681–690
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 681–690
पृष्ठ 681
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ६०१ गृहस्थस्य नियमो दृश्यते । एतेनावगम्यते अमतिके न दातव्यमिति । यैस्तु कामचार एवं पूजितसमादानेन पूज्यस्याशनेन, न हि तत्तदर्थं कर्म । “ ननु चातिथ्यमेवानित्यम् ” । सत्यम् । दृष्टं प्रीत्युत्पादनेन धर्मार्थमनुष्ठानम् । तस्य नियमोक्तधर्मार्थमेव दातुस्तस्य हि गोरुत्सर्गपक्षे विहितो “ नामांसो मधुपर्कः स्यादिति । नन्वार्त्विज्ये वचनस्यापि विषय इति चेत् । अस्त्वयमपि पूर्ववदनुवादः श्राद्धे आर्त्विज्ये च । “ ननु चार्त्विज्ये उक्तमेव इडादिभक्षणं यजमानस्य तत्र शास्त्रनिबन्धनो नियमः, नर्त्विजाम् ” । सत्यम् । किंतु ऋत्विजो यदि न भक्षयन्ति ते प्रवाद्यन्ते । अविदितेन अदृष्टेनापि दोषेण युज्यन्ते । ननु तेषां भक्षणमधिकृतानामास्ताम् । न हि ते कर्मफलेन युज्यन्ते । भृत्यादिर्हि परिक्रीतो विहितान्पदार्थाननुतिष्ठति । विहितञ्च “ यजमानपञ्चमा इडां भक्ष्यन्तीति ” । तेषां भक्षणतोऽस्याभ्युपगतार्त्विज्यानां नियतं भक्षणं तदा तेनानूद्यत इति युक्तम् । न हि श्राद्धभुजामृत्विजां च भक्षणे शास्त्रीययोगः । यजमानस्यैवानुवादः । किमर्थ इति चेन्नानुवादः प्रयोजनमपेक्षते । किंतर्हि प्राप्तमस्ति चात्रोच्यते । अत्रापि यदा गोपेन गोवधपूजाऽभ्युपगता तदावश्यमशितव्यम् । तदनुग्रहार्थमसौ मधुपर्कपूजां प्रतीक्षति । अतः पूर्वा तेन क्रिया सम्पादनीया । अन्यथा प्राक्रमिकस्याभावादपरिपूर्णेन मधुपर्केण तदनुग्रहासम्पत्तेस्त-स्मिन्प्रतिषिद्धमांसाशने मधुपर्कपूजार्त्विज्यं च प्रथममेवाभ्युपगन्तव्यम् । ब्राह्मणभोजने च । ब्रह्मचारिणस्तु व्रतवदनुज्ञानादनशनमेव ग्राह्यं मांसस्य । प्राणानामेव चात्यये । प्रकृतत्वाद्देवाद्यर्चनमन्तरेण अभक्ष्यमाणे व्याधिना क्षुधा भोजनान्तरासम्भवे जीवनाशशङ्कायां गोजावि भक्षयितव्यम् । ' सर्वत एवात्मानं गोपायेदि’-त्येतच्छ्रुतिमूलोऽयं नियमः । अतश्चेदृशे निमित्ते मांसमनश्रन्नात्महा सम्पद्यते । आत्मवधश्च “ सर्वत एवात्मानं गोपायेत्तस्मादुह न पुरायुषः स्व: कामी प्रेयादलोक्यं ह्येतद्भवतीत्यादि ’ ” श्रुतिभिर्मन्त्रार्थवादैश्च तैर्दोषवान्नेति ज्ञापितम् । तथाहि मन्त्र: । “ असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः । तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ” इति ब्रह्मचारिणोऽपि प्राणात्यये भक्षणमिष्यते । तस्यैव बाल्याद्यवस्थानिमित्तं वाचनिकं प्रायश्चित्तं भविष्यतीति— “ ब्रह्मचारी तु योऽश्रीयान्मधु मांसं कदाचनेति ” ( ११।१५८ ) । क्षुधा तु प्राणात्ययाशङ्कायां प्रतिषिद्धमांसाशनमपीति व्यासः ( ब्र ० सू ० ३। ४। २८ ) । जाघनीनिदर्शनेनैकाहिकं चेष्यते । एतावता अतीतव्याधौ तु न शक्यमेतत् ज्ञातुमवश्य-
पृष्ठ 682
पाठ पढ़ें पाठ छिपाएँ
६०२ मनुस्मृतिः [ पञ्चम: मशितेनानेन जीवतीति । तत्र न प्रतिषिद्धग्राम्यकुक्कुटादिमांसभक्षणमिष्यते 1 । प्रोक्षण-देवाभ्यर्चनरहितस्य तु प्रकृतत्वादस्त्यनुज्ञानम् । व्याधेश्च न केवलमुत्पन्नस्य निवृत्त्यर्थं यावत्कृशक्षय्यातुरदुर्बलादीनां सर्वकालं मांसाशनं नियमत इष्यते । “ स्त्रीमद्यनित्याः क्षयिणः, श्रमव्याध्या च कर्शिताः । नित्यमांसरसाहारा आतुराश्चापि दुर्बलाः ॥ ” अप्रोक्षितस्यापि छागमांसस्य देवताद्यर्चनं ` तु तैरवश्यं कर्तव्यम् । असम्भवे तु कस्मिंश्चिदहनि न दोषः ॥२७ ॥
हिन्दी – मन्त्र द्वारा ‘ प्रोक्षण ' संस्कार से युक्त यज्ञ में हवन किया गया मृगादि पशु का मांस, ब्राह्मणों की इच्छा से हो तब ( एक ही बार, दुबारा नहीं ), शास्त्रोक्त विधि के अनुसार मधुपर्क तथा श्राद्ध में नियुक्त होने पर और प्राण - सङ्कट ( अन्य खाद्य के अभाव या रोग - विशेष के ) होने पर मांस को अवश्य खाना चाहिये ॥ २७ ॥
स्थावर - जङ्गमादिकी ब्रह्मकल्पित खाद्यता—
प्राणस्यान्नमिदं सर्वं प्रजापतिरकल्पयत् ।
स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् ॥ २८ ॥
भाष्य - प्राणः कौष्ठ्यो वायुःजीवबीजभूतः । पञ्चवृत्तस्योदानादिकस्य शरीर-स्थित्यर्थम् इदं सर्वं जगत्प्रजापतिरन्नत्वेनाकल्पयत् । इदमिति सामान्यतो निर्दिश्य विशेषणं निर्दिशति स्थावरं जङ्गममिति । अतो हेतोः सर्वं प्राणस्य भोजनम् । तिर्यक्पक्षिमनुष्यसरीसृपावस्थहेतुमद्भेद-निर्देशात् द्वितीयं सर्वग्रहणमपुनरुक्तम् । यतः प्रजापतिना सर्वमापदि प्राणस्य कल्पितम् । अतः सर्वमेतस्य भोजनम् । तथा च प्राणसंवादोपनिषदि श्रूयते ( छान्दोग्य ० ५। २ । १ ) “ सहोवाच किं मेऽन्नं भविष्य-तीति । यदिदं किंचित् आऽश्वभ्य आ कीटपतङ्गेभ्य ” इति ॥२८ ॥
हिन्दी — प्रजापति ( ब्रह्मा ) ने जीव का सब कुछ खाद्य कहा है, सब स्थावर ( धान्य, फल, लतादिजन्य पदार्थ ) तथा जङ्गम ( पशु, पक्षी, जलचर आदि ) जीव जीवों के खाद्य, भक्ष्य हैं । २८ ॥ उक्त विषयका स्पष्टीकरण—
चराणामन्नमचरा दंष्ट्रिणामप्यदष्ट्रिणः ।
अहस्ताश्च सहस्तानां शूराणां चैव भीरवः ॥ २ ९ ॥
भाष्य — चराश्चरणपतनरणोत्साहयोगिनः श्येननकुलादयः तेषामचराः सर्प-कपोतादयः अन्नम् ।
पृष्ठ 683
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ६०३ एवं दंष्ट्रिणां सिंहव्याघ्रादीनां अदंष्ट्रिणः रुरुपृषतादयो मृगाः । अहस्ताः सर्प-मत्स्यादयः सहस्तानां नकुलनिषादादीनाम् । शूराणां महोत्साहयुक्तानां जीवितनिरपेक्षाणां भीरवः प्रियजीविताः । अल्पसत्त्वा अन्नत्वेन हन्यन्ते ॥ २ ९ ॥। हिन्दी —चर ( चलने - फिरने वाले - मृगादि ) जीवों के अचर ( नहीं चलने-फिरनेवाले - तृण, लता आदि ); दाँतवाले ( व्याघ्र सिंह आदि ) जीवों के बिना दाँतवाले ( हरिण आदि ) जीव, हाथ सहित ( मनुष्य आदि ) जीवों के विना हाथवाले ( मछली, पशु, पक्षी आदि ) जीव और शूरवीर ( व्याघ्र, सिंह आदि ) जीवों के भीरु ( डरने वाले— हाथी, मृग आदि ) जीव खाद्य ( भक्ष्य ) हैं ॥२ ९ ॥ विमर्श – यहाँ पर ' दंष्ट्रों ' ( दाँतवाले ) शब्द से जिन जीवों के बड़े - बड़े दाँत होते हैं तथा दाँत ही जिनका अस्त्र का काम देता है, ऐसे व्याघ्र, सिंह आदि जीवों का ग्रहण है, इसी प्रकार ' अदंष्ट्री ' ( बिना दाँतवाले ) शब्द से छोटे - छोटे दाँतवाले ( मृग, मनुष्य आदि ) जीवों का ग्रहण है; अन्यथा अदंष्ट्रो ( बिना दाँतवाले ) जीवों का मिलना ही प्राय: दुर्लभ हो जायेगा । भक्ष्य को प्रतिदिन खाने पर भी दोषाभाव-नात्ता दुष्यत्यदन्नाद्यान् प्राणिनोऽहन्यहन्यपि । धात्रैव सृष्टा ह्याद्याश्च प्राणिनोऽत्तार एव च ॥ ३० ॥
भाष्य – अत्ता भक्षयिता । आद्यान्प्राणिन: अत्तुं शक्यान् । प्रतिदिवसं भक्षयन्न
दुष्यति । धात्रैव प्रजापतिना अत्तार आद्या उभयेऽपि सृष्टाः ।
तस्मात्प्राणात्यये मांसमवश्यं भक्षणीयमिति त्रिश्लोकी विधेरस्यार्थवादः ॥ ३० ॥
हिन्दी - प्रतिदिन भक्ष्यजीवों को खानेवाला भी भक्षक दोषी नहीं होता है; क्योंकि ब्रह्मा ने ही भक्ष्य तथा भक्षक- दोनों जीवों को बनाया ॥३० ॥
प्रोक्षितादि मांस के भक्षण का विधान-यज्ञाय जग्धिर्मांसस्येत्येष दैवो विधिः स्मृतः । अतोऽन्यथाप्रवृत्तिस्तु राक्षसो विधिरुच्यते ॥ ३१ ॥
भाष्य - यज्ञार्थं मांसस्य पिण्डप्राशित्रादिजग्धिरशनम् । एष दैवो विधिर्देवैरेतद्विहितम् ।
अन्यथा तु मांसाशिनः शरीरपुष्ट्यर्थकमांसाशने प्रवृत्तिः स राक्षसो विधिः ।
पिशाचानां मांसभक्षणे स्थितिरिति निन्दा ॥ ३१ ॥
पृष्ठ 684
पाठ पढ़ें पाठ छिपाएँ
६०४ मनुस्मृतिः [ पञ्चमः हिन्दी – यज्ञ के लिए ( शास्त्रोक्त विधि से ) मांस का भक्षण करना दैव ( देव सम्बन्धी ) विधि है और इसके विपरीत ( अपने लिए या शास्त्रविरुद्ध यज्ञ के नाम पर ) मांस का भक्षण करना राक्षस ( राक्षस - सम्बन्धी ) विधि है ( अत: अपने उदर के लिए या शास्त्रविरुद्ध यज्ञ के नाम पर - जैसा प्रायः आजकल बलिदान के नाम पर सहस्रों बकरे आदि का वध किया जाता है— मांस का भक्षण करना सर्वथा त्याज्य माना गया है ) ॥ ३१ ॥
क्रीत्वा स्वयं वाऽप्युत्पाद्य परोपकृतमेव वा ।
देवान्पितॄंश्चार्चयित्वा खादन्मांसं न दुष्यति ॥ ३२ ॥
भाष्य – मृगपक्षिमांसविषयमिदं शास्त्रम् । रुरुपृषतादीनां शशकपिञ्जलादीनां मांसं देवानां पितॄणां चार्चनं कृत्वा खादतो न दोषः । यथा गृहे वैश्वदेवाद्यर्थे कृते संविधानं विनाऽपि वैश्वदेवेनोदनादिभोजनमस्ति, न तथा मांसस्य । एवमर्थमेतत्पुनर्वचनं देवान्पितॄंश्चार्चयित्वेति । अन्यथा गृहस्थस्य पूर्वमेव भोजनमेवंरूपम् । देवेभ्य इति तेन शब्देनोद्दिश्य शुचौ देशे मांसस्य प्रक्षेपः । यदि वा अग्नये वायवे सूर्याय जातवेदस इति देवार्चनं कर्तव्यम् । अग्नौ एवंरूपा आहुतयः कृता अग्निमतोऽन्यत्र न भवन्ति । नचाग्नौ होमेन विना बलिहरणं कर्तव्यम् । कर्मान्तरस्य प्रयोगान्तरस्य च प्रतिपादितत्वात् । आस्तां तावदेतत् । अन्ये तु श्राद्धं पितॄणामर्चनमाहुः । दृष्टश्च श्राद्धेऽर्च्चनप्रयोगः । पितॄंश्चैव देवान्वदन्ति । ततश्च सर्वस्मृतिकारैः श्राद्धमेव विहितम्, न पुनरन्या काचिदेव क्रिया । “ कथं पुनर्मांसस्य क्रयसम्भवः यावता आपणभूमेर्मांसं क्रीयमाणं सौनमापद्यते । सौनिकैरहतस्य स्वयं मृतस्य पशोर्मांसमभक्ष्यमनारोग्यकरत्वात् ” । उच्यते । व्याधशाकुनिकादिभिराहृतं क्रेष्यते । न च ते सौनिका इति प्रसिद्धास्तैश्च विक्रयार्थं भ्राम्यद्भिर्गृह आनीतं भवति । तदा सम्भवति क्रयः । न हि तत्सौनमुच्यते ।
स्वयं वाऽप्युत्पाद्य । ब्राह्मणो याञ्च्या, क्षत्रियो मृगयाकर्मणा ॥३२ ॥
हिन्दी – खरीदकर, स्वयं मारकर या किसी के द्वारा दिये हुए मांस को देवता तथा पितरों के लिए समर्पण कर खाने वाला दोषी नहीं होता है ॥३२ ॥
विधिरहित मांस भक्षण का निषेध-नाद्यादविधिना मांसं विधिज्ञोऽनापदि द्विजः ।
जग्ध्वा ह्यविधिना मांसं प्रेतस्तैरद्यतेऽवशः ॥ ३३ ॥
पृष्ठ 685
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ६०५ पूर्वोक्ताद्देवाद्यर्चनशिष्टात् ब्राह्मणकामनादिनिमित्तात् अन्तरं यद्भक्षणं सोऽविधिस्तेन नाश्नीयात् मांसम् । उक्तानुवादोऽयम् । आपदि प्राणात्यये देवाद्यर्चनमपि नापेक्ष्यम् । “ ननु चैतदपि निमित्ततयोक्तमेव । ततश्च विधिरेवायं नाविधिः ” । सत्यम् । प्रोक्षितसम्बन्धाद्गोव्यजस्यैव तत्र संनिधानाशङ्कायां शशादिविषयेऽ-भ्यनुज्ञानार्थमनापदीत्युच्यते । विध्यर्थानुष्ठानपरो विधिज्ञ उच्यते । तथा लौकिकानुष्ठानेऽपि जानातिरुपचा-रात्प्रयुज्यते । एष स तज्जानातीति अनुष्ठानपरे प्रयुञ्जते । अत्र फलकथायां— जग्ध्वा अशास्त्रीयेण निमित्तेन । प्रेतो मृतस्तैः प्राणिभिर-वशोऽद्यते । येन विषयेण यो येषां मांसमश्नाति तस्य विविधा पीडा भवति, एता-वन्मात्रपरमेतत् । अन्यथा प्रायेण छागादिमांसमश्रन्ति लोकाः, न च छागादयो मांसा-शिन: । अथवा तत्कृतेन पापेन क्रव्याद्भिरप्यद्यमानस्तैरद्यत इत्युच्यते ॥३३ ॥
हिन्दी — विधान को जानने वाला द्विज बिना आपत्तिकाल में पड़े विधिरहित ( देवों या पितरों को बिना समर्पण किये ) मांस को न खावे; क्योंकि विधिरहित मांस को खाने वाला मरकर उन ( जिसका मांस खाया है, उन ) के द्वारा विवश ( लाचारपरवश ) होकर खाया जाता है ॥३३ ॥
न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः ।
यादृशं भवति प्रेत्य वृथामांसानि खादतः ॥ ३४ ॥
भाष्य – प्रसिद्धार्थः श्लोकः ॥ ३४ ॥
-हिन्दी- -धन के लिए पशु ( पक्षी आदि ) का वध करने वाले ( वधिक - व्याध आदि ) को वैसा पाप नहीं होता, जैसा पाप व्यर्थ ( देव - पितर के कार्य के बिना ) माँस भक्षण करने वाले को मारने पर होता है ॥ ३४ ॥
श्राद्ध तथा मधुपर्क में नियुक्त होकर माँस भक्षण आवश्यक-नियुक्तस्तु यथान्यायं यो मांसं नात्ति मानवः । स प्रेत्य पशुतां याति संभवानेकविंशतिम् ॥ ३५ ॥
भाष्य — सम्भवान् जन्मानि । अवश्यं प्राणात्ययसम्भवे देवार्चनं यो न करोति अथ च मांसमश्नाति स दुष्यत्येव ॥३५ ॥
हिन्दी – शास्त्रानुसार ( श्राद्ध तथा मधुपर्क में ) नियुक्त जो मनुष्य माँस को नहीं खाता है, वह मरकर इक्कीस जन्म तक पशु होता है ॥ ३५ ॥
पृष्ठ 686
पाठ पढ़ें पाठ छिपाएँ
६०६ मनुस्मृतिः [ पञ्चम: विमर्श - जिसने मांस का सर्वथा त्याग कर दिया है, उसके लिए उक्त वचन लागू नहीं है, उसी सिद्धान्त को लक्ष्य में रखकर कविकुलशिरोमणि ' भवभूति ' ने अपनी अमररचना ‘ उत्तररामचरित ' के चतुर्थ अंक में महर्षि वसिष्ट के लिए मांससहित तथा राजर्षि जनक के लिए मांसरहित मधुपर्क देने का उल्लेख ‘ सौधातकि ' नामक वाल्मीकि शिष्य के द्वारा कहकर ' दाण्डायन ' नामक दूसरे वाल्मीकि शिष्य के द्वारा मांसभोजियों के लिए मांसभक्षण का विधान ऋषियों ने माना है और पूज्य जनक मांसत्यागी हैं ( अत: उनके लिए महर्षि वाल्मीकि जी ने दही तथा मधु से ही मधुपर्क दिया हैं ), ऐसा कहा है । अप्रोक्षित- मांसभक्षण का निषेध-असंस्कृतान्पशून्मन्त्रैर्नाद्याद्विप्रः
कदाचन ।
मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः ॥ ३६ ॥
एक भाष्य- -- प्रोक्षणादयः पशुबन्धे मन्त्रवन्तः संस्कारा विहितास्ते येषां क्रियन्ते पशूनां वैदिकयागशेषाणां मांसमद्यात् । सीतायज्ञादिषु च सत्यपि सामयाचारिकयाग-शेषत्वे मन्त्रसंस्काराभावादभक्ष्यता ।
शाश्वतम् । शाश्वतो नित्यो वैदिक इत्यर्थः ।
आस्थित आश्रितः ॥३६ ॥
हिन्दी — ब्राह्मण ( द्विजमात्र, केवल ब्राह्मण ही नहीं ) मन्त्रों से असंस्कृत मांस को कदापि न खावे । नित्य ( प्रवाह नित्यता से चला आता हुआ ) विधि को मानता हुआ मन्त्रों से संस्कृत मांस को ही खावे ॥ ३६ ॥
पशुभक्षण की अधिक आकाङ्क्षा में-कुर्याद्घृतपशुं सङ्गे कुर्यात्पिष्टपशुं तथा ।
न त्वेव तु वृथा हन्तुं पशुमिच्छेत्कदाचन ॥ ३७ ॥
भाष्य — यद्येषां बुद्धिः स्यात् — “ सीतायज्ञखण्डियज्ञचण्डिकायागादिषु समाचार-प्रमाणेषु, पशुवधः फलकामस्य न्याय्यः, दृष्टाहि पशुवधोपयाचितकेनातिशयवती सस्य-सम्पत्तिरिति " - तन्निषेधार्थमाह । सङ्गे प्रस्तावात्पशुवधप्रसङ्गे घृतपशुं कुर्यात् घृतपशु--१. तथा चोत्तररामचरिते— ' सौधातकिः - येनागतेषु वसिष्ठमिश्रेषु वत्सतरी विशसिता । अद्यैव प्रत्यागतस्य राजर्षजनकस्य भगवता वाल्मीकिना दधिमधुभ्यामेव निर्वतितो मधुपर्कः । वत्सतरी पुनर्विसर्जिता ' । दाण्डायनः अनिवृत्तमांसानामेवं कल्पं व्याहरन्ति केचित् । निवृत्त-मांसस्तु तत्रभवान् जनकः । ' इति ( अङ्क ४ पृ ०२०८ )
पृष्ठ 687
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता ६०७ मेव कुर्यात् । पशुना यष्टव्ये तत्स्थाने घृतेन यजेत देवताः । तद्धि सामान्येन यागद्रव्यम् । अथवा पिष्टपशुं पिष्टमयपशुपतिकृतिं कृत्वा देवताभ्य उपहरेत्, पिष्टेन वा पुरोडा-शादि कृत्वा । “ कथमयं वृथा पशुवधः उच्यते । हिंसायां समाचारः प्रमाणम् ” । ननु स्त्रीशूद्रजनानामवैद्यत्वान्नात्र वैदमूलता शक्या कल्पयितुम् । देवताराधनार्थं तदा ह्येतदाचरन्ति । न च देवताराधनार्थानि वेदिकानि कर्माणि, गुणत्वेन देवताश्रुतेः । अन्वयव्यतिरेकमूलतां चात्रेच्छन्ति, दृश्यते पशुवधोपयाचितकेन फलसम्पत्तिरिति मन्य-माना: । अतो न वेदमूलता । अन्वयव्यतिरेकावपि भ्रान्तिमात्रम् । असकृद्व्यभिचारात् । अतोऽयं श्लोको न्यायप्राप्तार्थानुवाद एव सौहादाचार्येण पठित: ॥३७ ॥
हिन्दी – पशु - मांस भक्षण की अधिक आकाङ्क्षा होने पर घी या आटे का पशु बनाकर खावे, किन्तु व्यर्थ ( यज्ञ - श्राद्धकार्य के बिना ) पशु को मारने की इच्छा कभी न करे || ३७ || विमर्श— यहाँ व्यर्थ ( यज्ञादि कार्य के बिना ) पशु को मारने की इच्छा को भी निषेध किया गया है, फिर उसे मारकर मांस खाना तो बहुत दूर की बात है ।
व्यर्थ पशुहिंसा से दोष-यावन्ति पशुरोमाणि तावत्कृत्वोह मारणम् ।
वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥ ३८ ॥
भाष्य- - तावतीर्जन्मनामावृत्तीर्मारणं प्राप्नोति । वृथापशुघ्नः श्रुतिस्मृत्योरचोदितं पशुवधं यः करोति । तच्च प्रकरणान्महानव-म्यादिषु लौकिकैर्यत्क्रियते । ' पशुघ्न ' इति कप्रत्यये छान्दसं रूपम् ॥३८ ॥
हिन्दी – वृथा ( यज्ञ तथा श्राद्धकार्य के बिना ) पशु को मारने वाला, पशु के शरीर में जितने रोंए हैं, उतने जन्म तक उस पशु को मारकर प्रत्येक जन्म में मारा जाता है । यज्ञार्थ पशुवध में दोषाभाव—
यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयम्भुवा ।
यज्ञोस्य भूत्यै सर्वस्य तस्माद्यज्ञेवधोऽवधः ॥ ३ ९ ॥
भाष्य- –नायमनन्तरोक्तां दोषः श्रुतिस्मृतिचोदिते वधे । यो वधो यज्ञाङ्गभूत-स्तन्निर्वृत्त्यर्थमेव स्वयंभुवा प्रजापतिना पशबः सृष्टा उत्पादिताः । स्वयमेवेत्यर्थवादः । अस्य जगतो विश्वस्य । यज्ञो ज्योतिष्टोमादिः । भूत्यै भूतिर्विभवः पुष्टिः स्फीतिः । तस्मात्तत्र यो वधः सोऽवधो विज्ञेयः । हिंसाजन्यस्य पापस्य निवृत्तिरेवमुच्यते ॥३ ९ ॥
पृष्ठ 688
पाठ पढ़ें पाठ छिपाएँ
६०८ मनुस्मृतिः [ पञ्चमः हिन्दी- - ब्रह्मा ने यज्ञ के लिये पशुओं को स्वयं बनाया है और यज्ञ सम्पूर्ण संसार की उन्नति के लिये है; इस कारण यज्ञमें पशुका वध ( वधजन्य दोष न होने से ) वध नहीं माना गया है ॥३९ ॥
यज्ञार्थ मारे गये पशु आदि की जन्मान्तर में जात्युन्नति-ओषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितीः पुनः ॥ ४० ॥
भाष्य— “ कथं पुनर्यज्ञे हिंसादोषो नास्ति ” । उच्यते । हिंसा हिंस्यमानस्य महानपकारः । प्राणवियोगेन पुत्रदारधनविभवादि-वियोगेन सर्वानर्थोत्पत्तेर्दुष्कृतस्य च समनन्तरं नरकादिफलविपाकस्य प्रत्यासत्तेः । यज्ञे तु हतानामुपकारः, नापकारः, नरकादिफलानुत्पत्तेः । यतो यज्ञे निधनं विनाशं गता उच्छ्रितीरुत्कर्षं, जातितो देवगन्धर्वयोनित्वं द्वीपान्तरेषूत्तरकुरुप्रभृतिषु वर्षान्तरे वा जन्म प्राप्नुवन्ति । अर्थवादश्चायम् । न ह्यत्र विधि: श्रूयते प्राप्नुवन्तीति वर्तमानोपदेशात् । न चार्थ-वादात्प्रतितिष्ठन्तीतिवद्विधिप्रतिपत्तिर्युक्ता । विध्यन्तरस्याभावादसम्भवाच्च । सर्वोऽयमविधिमांसभक्षणप्रतिषेधशेषः । ऐहलोकसंपाद्यतयाऽप्ययं प्रतिषेधो " न त्वेव तु वृथा हन्तुं पशुमिच्छेदिति ” । यच्चाभ्यनुज्ञानं “ यज्ञार्थं पशवः सृष्टा " इति तत्सर्वं भक्षणप्रतिषेधतया प्रतीयते । तथा च वक्ष्यति “ नाकृत्वा प्राणिनां हिंसाम् " इत्यादि । न चात्र विधेरस्ति सम्भवः । न तिरश्चामधिकारः सम्भवति, विशेषविज्ञानाभावात् । न चानधिकृतस्य कर्तृत्वम् । नाप्यकर्तृत्वे शास्त्रीयात्कर्मण: फलोत्पत्तिः । न ह्यत्र दृष्टवस्तु स्वाभाव्येन फलोत्पत्तिः । यथा विषमविदुषोऽपि पीतवतो जनयत्येव स्वफलम् । नैवं वैदिकार्थाः । अचैतन्याच्चौषधादीनामृत्विङ्न्यायोऽपि नास्ति । दृष्टं किल कुतश्चन कर्मण: परप्रयुक्तादप्यृत्विजां फलम् “ यः कामयेत पापीयान् स्यात् " इत्यादि । तत्र विध्यन्तरशेष-त्वाभावात्स्पष्टत्वाच्च विधिप्रतिपत्तेर्मनुष्याधिकारत्वाच्च । शास्त्रस्य युक्तोऽङ्गव्यापारसमा-श्रितो वाचनिकस्तावन्मात्रोऽधिकारः । यथा परकीयाश्वमेधावभृथे ब्राह्मणस्य प्रायश्चित्त-मुक्तम् । इह त्वधिकार एव नास्तीत्युक्तम् । ओषध्यो दर्भादयः । पशवश्छागादयः । वृक्षाः पूज्याः । तिर्यञ्चोऽपशवोऽपि ‘ पशवः ’ येषां हविष्येन चोदना " कपिञ्जलानालभेत " इति । भारप्रवहणादनड्वाहस्तिर्यञ्चो वाजपेयादौ तिर्यञ्च इति व्यपदिश्यन्ते । यद्यपि तेषां तत्र निधनं नास्ति तथापि यावती च पीडा विद्यत इति सा निधनशब्देन लक्ष्यते । पक्षिणः कपिञ्जलादयः । यद्यपि ते पशुत्वेन चोच्यन्ते, अप्रसिद्धत्तरप्रयोगस्तु ।
पृष्ठ 689
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य’मणिप्रभा’हिन्दीटीकासहिता ६० ९ “ सप्तग्राम्याः पशवः सप्तारण्याः ” इति । गवादयोऽपक्षिणः चतुष्पाज्जातिवचन: पशु-शब्दः । गोबलीवर्दवद्वा भेदो द्रष्टव्यः ॥ ४० ॥
हिन्दी - यज्ञ के लिए नाश ( मृत्यु ) को प्राप्त औषधियाँ ( व्रीहि आदि ), पशु ( छाग आदि ), वृक्ष ( यज्ञस्तम्भके लिये खदिरादि ), तिर्यक् ( कच्छप आदि ) और पक्षी ( कपिञ्जल आदि ) फिर ( जन्मान्तर में ) उत्तम योनि को प्राप्त करते हैं ॥४० ॥
पशुवधके योग्य कार्य—
मधुपर्के च यज्ञे च पितृदैवतकर्मणि ।
अत्रैव पशवो हिंस्या नान्यत्रेत्यब्रवीन्मनुः ॥४१ ॥
एष्वर्थेषु पशून् हिंसन्वेदतत्त्वार्थविद्विजः ।
आत्मानं च पशुं चैव गमयत्युत्तमां गतिम् ॥४२ ॥
भाष्य — यावत्यः काश्चिच्छास्त्रचोदितहिंसास्ताः संक्षिप्य दर्शयति । मधुपर्को व्याख्यातः । तत्र गोवधो विहितः । यज्ञो ज्योतिष्टोमादिस्तत्र संस्थैकादशिन्यादि । पशुवधो निरूढपशुवन्धादिः स्वतन्त्रम् । एवं च । पितृदैवतं पितरो देवता यस्मिन्कर्मण्यष्टकादौ, न तु श्राद्धम् । तद्धि सिद्धेन मांसेन विहितम् । न च पशुवधश्चोदितः । न चेदमेव विधायकं युक्तम्, उत्पत्तौ श्राद्धस्य हिंसाया अचोदितत्वात् । अस्य च विस्पष्टविधानादष्टका पशुवधेनापि नेतुं शक्यत्वाद्विधित्वे चास्य मूलकल्पनाप्रसङ्गाद्विध्यन्तरशेषतायाश्च वक्ष्यमाणत्वात् । येषां तु मतं पितॄणां देवतानां च कर्म, महायज्ञादि । ब्राह्मणैर्वध्या ‘ भृत्यानां चैव वृत्त्यर्थम् ' आपदि पशुहिंसनमप्राप्तं प्राणात्ययेऽभ्य-नुज्ञायते ॥४१-४२ ॥ हिन्दी – मधुपर्क, यज्ञ ( ज्योतिष्टोम आदि ), पितृकार्य ( श्राद्ध ) तथा देवकार्य में ही पशु का वध करना चाहिये । ( अन्य किसी कार्य में नहीं ) ऐसा मनु ने कहा है । इन ( ५।४१ ) कर्मों से पशुवध करता हुआ देवतत्त्व को जानने वाला द्विज अपने को तथा पशु को उत्तम गति में पहुँचाता है॥४१-४२ ॥ विमर्श - मनुष्यादिकारिक यज्ञादि कर्म में अनधिकारी पशु को उत्तम गति की प्राप्ति उक्त शास्त्रीय वचन से ही प्रमाणित समझनी चाहिए । जैसे पिता के अधिकार वाले कर्म में पुत्र को फल प्राप्ति होती है, वैसे ही पशु आदि को फल प्राप्ति की संभावना से दयालु यज्ञकर्त्ता ही उक्त यज्ञीय पशु के लिये भी उत्तमगति प्राप्तिरूप फल की कामना करेगा । इसीलिए प्रकृत श्लोक में तृतीय चरण से यज्ञकर्त्ता के द्वारा ही दोनों को उत्तम-गति की प्राप्ति कही गयी है ।
पृष्ठ 690
पाठ पढ़ें पाठ छिपाएँ
६१० मनुस्मृतिः
वेदविरुद्ध हिंसा का सर्वत्र निषेध-गृहे गुरावरण्ये वा निवसन्नात्मवान्द्विजः ।
नावेदविहितां हिंसामापद्यपि समाचरेत् ॥ ४३ ॥
भाष्य — अवेदविहितहिंसाप्रतिषेधोऽयम् । न च वेदविहिताऽभ्यनुज्ञायते । [ पञ्चमः “ न च गुरौ वसतो ब्रह्मचारिणोऽरण्ये च तपस्यतोऽन्या काचिद्धिंसाऽस्ति । अवकीर्णिनो ब्रह्मचारिणः स्यादपि । वानप्रस्थस्य तु नैवास्ति । ब्रह्मचारिणोऽप्यात्मोपेक्षणं नैवेष्यते । अतोऽयं विधिरेव श्राद्धे । गृह इत्यनुवाद एव " । यदि चायं विधिः स्यात्— ' अरण्ये ' ' आपद्यपीति ' किमालम्बनमेतत्स्यात् । न च वानप्रस्थस्य साग्निकस्यापि पशुयागोऽस्ति । “ पुरोडाशाश्चरूंश्चैव " इत्यत्र दर्शयिष्याम इति केचित् । उपाध्यायस्त्वाह । युक्तं ब्रह्मचारिणः । वानप्रस्थस्य तु " अपराजितां वाऽऽस्थाय ” इत्यादिनाऽऽत्मत्यागोऽपि विहितस्तस्य नास्ति जीवितार्था हिंसेति स्फुटतरं तत्रैव निरूप-यिष्यते ( ६।३१ ) । “ ननु चापद्ययं प्रतिषेध उच्यते । तत्कुतस्तत्रैवानुज्ञानं व्याख्यायते ” सत्यम् । अन्यथा न किंचिदनेन कृतं स्यात् । अर्थवादार्थमिति चेदर्थवादस्याप्या-लम्बनमन्वेषणीयम् । अतोऽनापद्ययं प्रतिषेधो, विधिश्चापद्यविरुद्धः । बहुभेदादापदाम्, अल्पीयस्यामापदि मासिकमर्धमासिकं वा भोजनं भविष्यतीति बुद्ध्या प्रवृत्तिर्निषिध्यते । यदा त्वेषा बुद्धिरधुनैवानश्नन्न जीवामि यदा वाऽभिमुखागत उद्यतशस्त्र आततायी तदाऽ-ऽपद्यनुज्ञा । एवं सर्वत्र एवात्मानं गोपायेदिति श्रुतिरनुगृहीता भवति ॥४३ ॥
हिन्दी – गृहस्थाश्रम, ब्रह्मचर्याश्रम या वानप्रस्थाश्रम में रहता हुआ जितेन्द्रिय द्विज वेदविरुद्ध हिंसा को आपत्ति में भी न करे ॥४३ ॥
या वेदविहिता हिंसा नियताऽस्मिंश्चराचरे ।
अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्बभौ ॥ ४४ ॥
भाष्य- - वेदविहितो यः प्राणिवधः सोऽस्मिञ्जजगति चराचरे स्थावरजङ्गमे नित्योऽनादिः । यस्तु तन्त्रादिः सोऽन्वयव्यतिरेकभ्रान्त्या इदानींतनः । अतो वैदिकीं हिंसामहिंसामेव विद्यात् अमुत्र प्रत्यवायाभावात् । अहिंसेति कार्यत उच्यते न स्वरूपत: । “ ननु च सैव हिंसारूपा । अभेदात् कथं कार्यो भेदः ” । उच्यते । वेदाद्धर्मो हि निर्बभौ । धर्मस्याधर्मस्य च यत्कथनं तद्वेदादेव, पौरुषेया-णामप्रामाण्यात् । वेदश्च तस्या एवाभ्युदयहेतुत्वं क्वचित् ज्ञापयति । स्वरूपाभेदोऽपि