मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 691–700
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 691–700
पृष्ठ 691
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ६११ नास्ति, क्रत्वर्थपुरुषार्थत्वेन भेदादाशयभेदेन प्रवृत्तेः । लौकिक्यां मांसीयतो द्विषाणस्य वा
प्रवृत्तिः, वैदिक्यां तु शास्त्रेण चोदितमिदं क्रत्वर्थमिति ।
निर्बभौ नि: शेषेण भातः, प्रकाशतां गत इति यावत् ॥४४ ॥
हिन्दी – इस चराचर जगत् में जो हिंसा वेद - सम्मत है, उसे हिंसा नहीं समझे; क्योंकि वेद से ही धर्म निकला है ॥ ४४ ॥
अपने सुख की इच्छा से पशुवध में दुःख प्राप्ति दोष-योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया । स जीवंश्च मृतश्चैव न क्वचित्सुखमेधते ॥ ४५ ॥
भाष्य – अकारोऽत्र प्रतिषेधार्थीय: प्रश्लिष्टः द्रष्टव्यः । अहिंसकानां च प्रतिषेधा-त्सर्पव्याघ्रादीनामप्रतिषेधः ॥४५ ॥
-हिन्दी —– जो अहिंसक जीवों को अपने सुख ( जिह्वास्वाद - शरीरपुष्टि आदि ) की इच्छा से वध करता है, वह जीता हुआ तथा मरकर भी कहीं पर सुखपूर्वक उन्नति को प्राप्त नहीं करता है ॥४५ ॥
अहिंसा से सुखप्राप्ति -यो बन्धनवधक्लेशान् प्राणिनां न चिकीर्षति ।
स सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते ॥ ४६ ॥
भाष्य — बन्धनवधा एव क्लेशाः । अथवा विशसनादयः । तान्यो न कर्तुमिच्छति, विशसनमेव येन न कृतम्, तद्विषयेच्छैव यस्य निवृत्ता । न केवलं पीडां न करोति, यावद्धितं प्रेत्सितु मिच्छति सर्वस्य, स सुखमत्यन्तमश्नुते ॥ ४६ ॥
हिन्दी — जो जीवों का वध तथा बन्धन नहीं करना चाहता है, वह सबका हिताभिलाषी अत्यन्त सुख प्राप्त करता है ॥ ४६ ॥
यद्ध्यायति यत्कुरुते रतिं बध्नाति यत्र च ।
तदवाप्नोत्ययत्नेन यो हिनस्ति न किञ्चन ॥ ४७ ॥
भाष्य — यच्चिन्तयति शुल्कमर्हणादि । यत्र च रतिमभिलाषं बध्नात्यभिप्रेत्यवस्तुनि । तदयलेन स्वल्पेनैव कालेनावाप्नोति । यत्तु कुरुते कर्मणा तत्कर्मनिष्पत्तिसमनन्तरमेवा-विघ्नेन प्राप्नोति ॥४७ ॥ हिन्दी — जो किसी को हिंसा नहीं करता; वह जिसका चिन्तन करता है, जो
कार्यकरता है और जो ( परमात्मचिन्तन आदि ) में ध्यान लगाता है; उन सबों को बिना ( विशेष प्रयत्न के ही प्राप्त करता है ) ॥ ४७ ॥
पृष्ठ 692
पाठ पढ़ें पाठ छिपाएँ
६१२ मनुस्मृतिः मांस भक्षण का पुनः निषेध-नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् । [ पञ्चमः न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ॥४८ ॥
भाष्य — सर्वस्य हिंसाप्रतिषेधश्लोकसङ्घातस्य मांसभक्षणशेषतां दर्शयति । यावत्प्राणिनो न हतास्तावन्मांसं नोत्पद्यते । हिंसा चातिशयेन दुःखावहा । तस्मान्मांसं विवर्जयेत् । “ ननु च स्वयं मृतानां भवत्येव मांसं किमिदमुच्यते ' नाकृत्वेति ’ ” । अर्थवादोऽयम् । स्वयं मृतानां च मांसं रोगहेतुत्वादप्राप्तमेव । भक्ष्यते । न च रोगहेतोर्दानमस्ति ॥ न ह्यदत्वा मांसं उत्पद्यत इति मांसस्य हिंसानिमित्तत्वात्कर्तृव्यपदेशे समानकर्तृकत्वं भवत्येवा-विरुद्धम् । अथ वोत्पद्यत इति न च स्वर्ग्य इति । न स्वर्गानुत्पत्तिहेतुमात्रमभिप्रेतमपि तु नरकादिदुःखहेतुत्वम् ॥४८ ॥
हिन्दी — जीवों की बिना हिंसा किये कहीं भी मांस नहीं उत्पन्न हो सकता है और जीवों की हिंसा स्वर्ग - साधन नहीं है । अतः मांस को छोड़ देना ( नहीं खाना ) चाहिये ॥४८ ॥
समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् ।
प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥ ४ ९ ॥
भाष्य — अशुचिस्थाने कुक्षौ गर्भवृद्धिः, शुक्रशोणिताभ्यां वाऽशुचिभ्यां प्रभवः । तथा वधबन्धौ शरीरवतां तत्कृतौ । एतत्सर्वं प्रसमीक्ष्य निपुणबुद्ध्या तत्त्वतो निरूप्य । निवर्तेत सर्वमांसस्य भक्षणात्सर्वस्याप्रतिषिद्धस्यापि, किं पुनः प्रतिषिद्धस्य । अर्थवादोऽयम् । न पुनस्तत्त्वतः अशुच्येव मांसं ज्ञेयम् । न हि तदशुचित्वविधिपरं वाक्यम् ॥४ ९ ॥ हिन्दी — मांस की उत्पत्ति और जीवों के वध तथा बन्धन को समझकर सब प्रकार के मांस - भक्षण से निवृत्त होना चाहिए ॥४ ९ ॥ विमर्श - मांसोत्पत्ति शुक्र- शोणित - विकार से होती है तथा जीवों के वध - बंधन अत्यन्त क्रूर कर्म है, इत्यादि बातों का विचार कर शास्त्रविहित मधुपर्क एवं यज्ञादि के मांसभक्षण का भी त्याग करना चाहिये, शास्त्र - विरुद्ध केवल अपने शरीर की पुष्टि या जिह्वा की तृप्ति के लिये मांस भक्षण करने की बात ही क्या है?
पृष्ठ 693
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य’मणिप्रभा’हिन्दीटीकासहिता न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् । ६१३ स लोके प्रियतां याति व्याधिभिश्च न पीड्यते ॥ ५० ॥
भाष्य - विधिर्देवार्चनं तद्धित्वा यो न भक्षयति, किंतर्हि विधिना भक्षयति । स लोकस्य प्रियतां प्राप्नोति । प्रियः सर्वस्य भवति । व्याधिभिश्च । कृशदुर्बलादेर्मांसमश्नतो व्याधिरुपजायते । तेनापि विधिनैवाशि-तव्यम् । तथा भक्षयन् व्याधिभिश्च न पीड्यते । अन्यथा अश्नन्नपि मांसं पीड्यत एव व्याधिभिः । पिशाचवदिति । पिशाचास्तिर्यग्जातिविशेषास्ते विधिमनपेक्ष्य मांसमश्नन्ति । ततोऽ-न्योऽपि तथा भक्षयन्पिशाचसदृशो भवतीति निन्द्यते ॥५० ॥
हिन्दी – जो पिशाच के समान, शास्त्रोक्त विधि - विहित भी मांस भक्षण का त्याग करता है, वह लोगों का प्रिय बनता है तथा रोगों से पीड़ित नहीं होता । विमर्श— पिशाच जैसे मांस भक्षण करता है, वैसे मांस - भक्षण नहीं करता अपितु मांस - भक्षण का त्याग करता है— यह व्यतिरेक दृष्टांत है । अतः शास्त्र - विरुद्ध मांस-भक्षण से लोगों का अप्रिय बनने तथा रोगों से पीड़ित होने से वह त्याज्य है । अनुमति - दाता आदि भी हिंसक—
अनुमन्ता विशसिता निहन्ता क्रयविक्रयी ।
संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥५१ ॥
भाष्य— अन्येन हन्यमानं स्वप्रयोजनतो यद्यन्योऽनुमोदते साध्वयं हन्ता करोतीत्य-नुमन्ता । विशसिता हतस्याङ्गविभागकारः । उपहर्ता परिवेषकः । खादक इत्येते सर्वे घातकाः । अघातकेषु खादनसंस्कारविक्रयादिकर्तृषु घातकत्वेऽध्यारोपिते निन्दा, न पुनस्त-त्त्वत एते घातका एव । लौकिकी हि वधक्रिया प्राणत्यागफला । तस्य कर्ता ‘ घातकः ’ स्मृतितो गम्यते । ' स्वतंत्रः कर्तेति ' विशेषशास्त्रादिना य: प्राणवियोजनं प्राणिनां करोति स हन्तोच्यते । क्रयविक्रयाद्याश्च क्रियास्ततोऽन्या एव । “ ननु चेयमपि स्मृतिरेव । एते अनुमन्तृप्रभृतयो घातका इति । ” नेदं शब्दार्थसम्बन्धे प्रमाणम्, किंतर्हि धर्माधर्मयोः । अभियुक्ततरो हि तत्र भवान्पाणिनिः । मन्वादयश्च लोकप्रसिद्धैः पदार्थैर्व्यवहरन्ति, न शब्दार्थसम्बन्धविधिं स्मरन्ति । प्रयोक्तारो ह्येते न स्मर्तारः । “ ननु च ' तमाचार्यं प्रचक्षते ' इत्यादेः स्मरन्त्येते ” । मनु I- 43
पृष्ठ 694
पाठ पढ़ें पाठ छिपाएँ
६१४ मनुस्मृतिः [ पञ्चमः सत्यम् । न तत्र शास्त्रस्मृतिविरोधः । न च तेषां वाक्यानामन्यत्प्रयोजनमस्ति । इह तु गौणेनापि प्रयोजनेनार्थवादतयाऽप्युपपत्तेर्न घातकत्वं शक्यमवसातुम् । येऽप्याहुः— “ भक्षकश्चेन्न विद्यते वधकोऽपि न विद्यत इति भक्षणप्रयुक्त एव वधः, प्रयोजकश्च कर्ता स्मर्यते । ततो मुख्यमेव घातकत्वम् । अतो घातकप्रायश्चित्तमेव खादकस्य युक्तमिति । ” तदयुक्तमिति ब्रूमः । पृथक्प्रायश्चित्तं हतानां रसास्वादकस्य " जग्ध्वा मांसमभक्ष्यं चेति ” ( ११।१५२ ) । यदपि प्रयोजकत्वेन कर्तृत्वमुक्तं तदपि नैवास्ति । इदं हि तस्य लक्षणम्— ‘ प्रेषणाध्येषणाभ्यां तु यः स्वतन्त्रस्य चोदकः, स कर्ता चैव हेतुश्च मुख्योनोपचरन् पर, ’ इति । वधको हि जीवनप्रयुक्तया प्रवर्तते ' मांसविक्रयेण जीविष्यामीति ', न तु खादकेन विनियुज्यते । अथ ‘ “ तत्समर्थाचरणं प्रयोजकत्वम् । योऽयं क्रियां कर्तुमध्यवसितस्तत्रानुकूल्येन यः संविधित्सुः स प्रयोजक इति ” । एतदप्यत्र नैवास्ति । साधनोपनिधानम्, त्रसतः पशोरस्वतन्त्राकरणम्, खड्गोपनयनमित्येवं‘ ‘ संविधान संविधान ’ ’ श शब्दवाच्यं युक्तम् । तेन विना क्रिया न निष्पद्यते । अथ “ यदर्थः क्रियारम्भः स प्रयोजकश्चेति ” चेन्माणवकमध्यापयतीत्यध्यापन-हेतुकर्तृसंज्ञाप्रतिलम्भो, न ह्यध्ययनमध्यापयत्यर्थः । न चासौ कंचिदुद्दिश्य हनने प्रवर्तते । येनास्य तदर्थनिरूपणाय भक्षणेऽनर्था प्रवृत्तिः स्यात् । सर्व इमे स्वभूत्यै यतन्ते । न केन कश्चित्परोऽनुग्रहीतव्य इति मुहूर्तमप्यव-तिष्ठत इत्यपूर्णकामः । “ अथ स्वार्थं प्रवृत्तस्य भक्षयितारमन्तरेण प्रवृत्तिरनर्थिका । तस्मिंस्तु सति फलवती । फलं च प्रयोजकम् । तच्च खादकाधीनमिति पारम्पर्येण खादकः प्रयोजक इति ” । एवं तर्हि यो द्वेषाद्वध्यते स हन्तुः प्रयोजकः स्यात् । ततश्च हन्यमान एव ‘ हन्ता ’ सम्पद्यते । न हि द्वेषेण विना हन्तृत्वोपपत्तिरिति । तथा ब्रह्महत्यायामपि सर्वस्वदानं पातकसम्प्रयोजकम् । न हि प्रतिग्राहयितारमन्तरेण प्रतिग्रहोपपत्तिस्ततश्च प्रतिग्राही न केवलं प्रत्यवेयादपि तु दाताऽपि रूपवती च स्त्री स्मरशरदह्यमानहृदयेन रागिणा दर्शितस्पृहातिशयेन शीलं रक्षन्ती प्रत्यवेयात् । तस्मान्नेदं प्रयोजकलक्षणम् । तौ हि वधकखादकौ स्वार्थप्रवृत्तौ नष्टाश्वदग्धरथवदितरेतरोपकारमनुभवन्तौ, न पुनरन्यतरप्रयोजकौ ।
पृष्ठ 695
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ६१५ " शूद्रविट्क्षत्रविप्राणाम् ” ( ८ । १०४ ) इत्यत्र श्लोके निपुणमेतन्निर्णीतम् । हिन्दी – अनुमति देनेवाला, शस्त्र से मरे हुए जीव के अङ्गों को टुकड़े - टुकड़े करनेवाला, मारनेवाला, खरीदनेवाला, बेचनेवाला, पकानेवाला, परोसने या लानेवाला और खानेवाला; ( जीववध में ) ये सभी घातक ( हिंसक ) होते हैं ॥ ५१ ॥
विमर्श - अनुमन्ता - जिसकी अनुमति के बिना उस प्राणी का वध नहीं किया जा सकता, वह क्रयविक्रयी - गोविन्दराज ने इसका अर्थ ' खरीदकर बेचनेवाला ' किया है, किन्तु ' मारने से हन्ता, धन से खरीदनेवाला, धन लेने से बेचनेवाला और उसमें प्रवृत्ति करने से संस्कार करनेवाला - ( घातक होते हैं ) इस यम वचन में ' ' खरीदनेवाले तथा बेचनेवाले '. — दोनों को पापभागी लिखा है । यह घातक - ( हिंसक ) त्वदोष शास्त्रोक्त विधि से विरुद्ध हिंसा - विषयक है, शास्त्र के विधि - निषेधोभयपदक होते हैं तथा मांस-भक्षण के लिए अन्यत्र प्रायश्चित्त कहा गया है ।
स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।
अनभ्यर्च्य पितॄन्देवांस्ततोऽन्यो नास्त्यपुण्यकृत् ॥ ५२ ॥
भाष्य- -अधिकपुष्ट्यर्थं यो मांसमश्नाति तस्येयं निन्दा । न तु रोगोत्पत्तिभया-शङ्कया । यत आह यो वर्धयितुमिच्छतीति । तस्याप्यनभ्यर्च्य पितॄन्देवान् । न तु रोगहेतोस्त्वर्चनमकुर्वतोऽपि कथञ्चिदसम्भवान्न दोषः ॥५२ ॥
हिन्दी — जो देवता तथा पितरों को बिना तृप्त किये दूसरे ( जीवों ) के मांस से अपने मांस को बढ़ाना चाहता है, उससे ( बड़ा ) कोई दूसरा पापी नहीं है ॥५२ ॥
मांस- भक्षण का त्याग अश्वमेध के तुल्य-वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः ।
मांसानि च न खादेद्यस्तयोः पुण्यफलं समम् ॥ ५३ ॥
भाष्य- -देवाद्यर्चनशिष्टस्य शशादिमांसस्य भक्षणमनुज्ञातम् । ततो निवर्तमानोऽ-श्वमेधफलमश्नुते I । अश्वमेधस्य फलं “ सर्वान्कामानवश्यं सर्वाविजितीः ” इत्यादि । न चात्र चोदनीयम् । “ कथं महाप्रयासेन बहुधनव्ययेन च तुल्यफलता मांसनिवृत्तेः स्यात् ” । यत एषोऽपि संयमोऽतिदुष्करः । किंच ' लोकवत्परिमाणतः फलविशेषः स्यादि’त्ययं न्यायो जृम्भत एव । अतः फलविधौ न दोषः । वयं तु ब्रूमः । अर्थवाद एवायम् । यतो ' वर्षे वर्षे शतं समा ' इति चाऽर्थवादपक्षे १. तथा च यमः — ‘ हननेन तथा हन्ता धनेन क्रयिकस्तथा । विक्रयी तु धनादानात्संस्कर्ता तत्प्रवर्तनात् ॥ ' इति, ( म ० मु ० ) ।
पृष्ठ 696
पाठ पढ़ें पाठ छिपाएँ
६१६ मनुस्मृतिः [ पञ्चम: सुघटम् । न हि प्रतिवर्षमश्वमेधस्य विधेयत्वसम्भवः । नापि वर्षे शतं तावतः काल-स्याधिकारिणो जीवनाद्यसम्भवात् ।
पुण्यं च फलं च पुण्यफलम् । समाहारद्वन्द्वः । षष्ठीसमासे ह्यसामर्थ्यम् ॥ ५३ ॥
हिन्दी — जो प्रतिवर्ष अश्वमेध यज्ञ सौ वर्ष तक करे तथा जो मांस नहीं खावे; उन दोनों का पुण्यफल ( स्वर्गादि लाभ ) बराबर है ॥५३ ॥
[ सदा यजति यज्ञेन सदा दानानि यच्छति । स तपस्वी सदा विप्रो यश्च मांसं विवर्जयेत् ॥ २ ॥ ]
[ हिन्दी — जो मांस का त्याग करता है; वह सर्वदा यज्ञ से देवसन्तुष्टि करता है, सर्वदा दानों को देता है और सर्वदा तपस्वी रहता है || २ || ]
फलमूलाशनैर्मेध्यैर्मुन्यन्नानां च भोजनैः ।
न तत्फलमवाप्नोति यन्मांसपरिवर्जनात् ॥ ५४ ॥
भाष्य — मेध्यैर्देवार्हैः मुन्यन्नानि नीवाराद्यन्नान्यकृष्टपच्यजनितानि ।
अयमर्थवाद एव ॥५४ ॥
हिन्दी — पवित्र फल तथा कन्दों तथा मुन्यन्न ( तिन्नी आदि ) के खाने से ( मनुष्य ) वह फल नहीं पाता है, जो मांस के त्याग से पाता है ॥५४ ॥
' मांस ' शब्द की निरुक्ति—
मांस भक्षयिताऽमुत्र यस्य मांसमिहाम्यहम् ।
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ ५५ ॥
भाष्य — नामधेयनिर्वचनमर्थवादः । मांस भक्षयिता । स इति सर्वनाम सामान्यापेक्षं योग्येनार्थेन निराकाङ्क्षी करोति यस्य मांसमश्नाति ॥५५ ॥
हिन्दी — ‘ मैं जिसके मांस को यहाँ पर खाता हूँ, वह मुझे परलोक में खायेगा ’ विद्वान् ' मांस ' शब्द का यही मांसत्व ( मांसपना अर्थात् ' मांस ' शब्द की निरुक्ति ) बतलाते हैं || ५५ ॥
न मांसभक्षणे दोषो न मद्ये न च मैथुने ।
प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥ ५६ ॥
` भाष्य- ' प्राणस्यान्नं ' इत्यत आरभ्य यावदयं श्लोकोऽर्थवादसङ्घात एव । द्वित्रा:
श्लोका विधेयार्थाः ।
न मांसभक्षणे दोषो यथा “ क्रीत्वा स्वयं वाऽप्युत्पाद्येति ” ( ३२ ) तथाऽयमपि
श्लोकः ।
पृष्ठ 697
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ६१७ निवृत्तिस्तु महाफलेत्येतदत्र श्रूयते । बहुभिर्निन्दार्थाकरैरीदृशः संस्कारो जातो यन्न किंचिन्मांसमशितव्यम् । भूतानां वृत्त्यर्थमाह न मांसभक्षणे दोष इति । देवार्चनशिष्टे ब्राह्मणकाम्यादिषु निमित्तेषु प्रागुक्तेषु न दोषः । किन्तु यद्यशितुमिच्छन्ति । निवृत्ति: ‘ न भक्षयामीति ' सङ्कल्पपूर्विका महाफला । फलविशेषाश्रुतेः स्वर्गः फलमिति मीमांसकाः । एवं ‘ मद्ये ’ क्षत्रियादीनां, ' मैथुने ' तु सर्ववर्णानां दिवोदक्यापर्वकालादन्यत्र । अल्पस्वल्पा प्रवृत्तिरेषा शास्त्रीया । भूतानां शरीरस्थितिहेत्वर्था प्रवृत्तिः । तथा
चायुर्वेदकृत्: -“ आहारो ब्रह्मचर्यं च निद्रा चेति त्रयं मतम् ।
मादकं च स्त्रियश्चैव ह्युपस्तम्भनमायुषः ” ॥ इति ॥
यस्तु तेन विनाऽपि शक्नोति जीवितुं तस्य निवृत्तिर्महाफला । प्रदर्शनार्थं चैतत् । अशिष्टाप्रतिषिद्धविषयाणामन्यासामपि निवृत्तीनाममेव । यत्र विधानं पुरुषस्य प्रवर्तमानस्य प्रीत्यतिशयोत्पत्तिप्रयोजनमनिन्द्यम्, गर्हेत वा यतो निवृत्तिः फलाय, यथा मध्वशनं सम्पन्नभोजनं राङ्कवं परिधानमित्येवमादि । तथा च शिष्टसमा-चार: । व्यासश्च भगवानेवमेवाह । ये तु संसक्तितोऽशिष्टाप्रतिषिद्धा अपि यथा हसित-कण्डूयनादयस्ततो निवृत्तिर्धर्माय ॥५६ ॥
हिन्दी — मांस के खाने में, मद्य ( के पीने ) में और मैथुन ( के करने ) में दोष नहीं है; क्योंकि यह जोवों की प्रवृत्ति ( स्वाभाविक धर्म ) है; परन्तु उनसे निवृत्ति ( उन मांसादि का त्याग करना ) महान् फल ( स्वर्गादि देने ) वाला है ॥५६ ॥
प्रेतशुद्धि तथा द्रव्यशुद्धि के वर्णन का उपक्रम-प्रेतशुद्धिं प्रवक्ष्यामि द्रव्यशुद्धिं तथैव च । चतुर्णामपि वर्णानां यथावदनुपूर्वशः ॥ ५७ ॥
भाष्य — चतुर्णामपीतिवचनं सामान्यविहिता धर्माः शूद्रस्य नेदृशं यत्नमन्तरेण भवन्तीति ज्ञापनार्थम् । प्रेतेषु जीवतां शुद्धिः । सुप्सुपेति समासः । प्रापणं चाप्रेतवन्निमित्ता शुद्धिरियं विशेषस्य । अतश्च यद्यपि शुद्धिवचनं प्रतिज्ञायते, तथाऽप्यशुद्धिसापेक्षत्वाच्छुद्धेः शास्त्र-प्रत्ययकारकत्वादुभयोः, अप्रतिज्ञाताऽपि प्रथममशुद्धिरुच्यते ॥५७ ॥।
हिन्दी – ( भृगु मुनि महर्षियों से कहते हैं कि - अब ) चारों वर्णों की प्रेतशुद्धि ( मरणाशौच से शुद्धि ) तथा द्रव्यशुद्धि ( तेजसादि पदार्थों की शुद्धि ) को क्रम से यथा-योग्य कहूँगा ॥५७ ॥
पृष्ठ 698
पाठ पढ़ें पाठ छिपाएँ
६१८ मनुस्मृतिः
सपिण्डों को दश दिन का अशौच-दन्तजातेऽनुजाते च कृतचूडे च संस्थिते ।
अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते ॥ ५८ ॥
[ पञ्चम: भाष्य- - ' अनुदातो ' दन्तजाताद्वालतर इति स्मरन्ति । तथाविभागेनोद्देशमात्रमिदं यतस्तदपेक्ष आशौचकालभेदो भविष्यति । तद्यथा स्मृत्यन्तरे “ आ दन्तजन्मनः ” तथा “ बाले देशान्तरस्थे च ” ( मनु ५।७७ ) इत्यादिना सद्यः शौचं श्रुतम् । ' बाल ' अजात-दन्तो विज्ञेयः । एवं च नृणामकृतचूडाना ' मित्येतत् ( मनु ५।६७ ) एकरात्रिकमाशौचं दन्तजातेऽप्यवस्थाप्यते । एवमेते स्मृती विषयव्यवस्थया अविरोधिन्यौ बालविषये भवतः । नैशिकी च शुद्धिराचूडाकरणात् । यतो निवृत्तमुण्डकानां त्रिरात्र वक्ष्यति । तत्र त्रिरात्रं प्रागुपनयनात्परतः “ शुद्ध्येद्विप्र ’ ” इत्यादि । ये तु— “ दशाहं शावमाशौचम् " इत्येतान्पक्षान् वयोविभागेन वर्णयन्ति, स्मृत्यन्त-रात्समाचाराच्चव्युत्क्रमेण सम्बन्धयन्ति, दशाहमुपनीतस्य अनुपनीतस्य चतुरहं कृत-मुण्डस्य त्र्यहं जातदन्तस्यैकाहमनुजातस्य सद्यः शौचिकादयस्तु विकल्पाः । एवं त्र्यह-चतुरहयोः कृतचूडस्य । तेषां मते स्मृत्यन्तरप्रसिद्धो वृत्तस्वाध्यायापेक्षो न विकल्पः प्रतिपादितः स्यात् । तच्चोत्तरत्र दर्शयिष्यामः । सर्वव्यापारनिवृत्त्या मृत उच्यते । सम्पूर्वस्य तिष्ठतेर्व्यापारोपरमदर्शनात् । बान्धवाः सपिण्डाः समानोदकाश्च । सूतके च पुत्रजन्मादौ । तथोच्यते अशुद्धा बान्धवाः सर्व इत्येतेनास्य सम्बन्धः । “ कथं पुनरत्र वयोभेदप्रतिपत्तिर्यावता कृतमुण्ड इति संस्कारसम्बन्धो गम्यते । कृतो-पनयने चेत्यत्र श्रुतमेव । अत एव कृतचौडः कियन्तं कालमुच्यत इति नैव श्रूयते " । उच्यते । दन्तजातानुजातसाहचर्यात्कृतमुण्डः काललक्षणार्थो विज्ञायते । स च कालोऽत्र प्रथमतृतीयवर्षः । यद्यपि ‘ “ प्रथमे वर्षे वैकल्पिकं मुण्डीकरणं तस्मिन्त्समाश्रीयमाणे ‘ आ दन्तजन्मनः सद्य ' इत्येतद्बाधितं भवति । " तदप्ययुक्तम् । कियानवधिः कृतमुण्ड इति । चशब्दात्कृतमुण्डे चेति कृतोपनयने चेति लभ्यते । संस्कारान्तरप्राप्तौ व्यपदेशान्तरप्रवृत्तेः । एवं चैतया स्मृत्या एकवाक्यता भविष्यति “ आ दन्तजन्मनः सद्यः " इत्यत्रापि । “ त्रिरात्रमात्रतादेशादिति ” व्रतादेश-ग्रहणं कालोपलक्षणार्थमेव । न च ब्राह्मणस्यानित्योऽष्टमवर्षे एवं क्षत्रियवैश्ययोर्यश्च काल:, तदा शूद्रस्य न कश्चित्काल उक्तः स्यात् । तत्राप्यतीतशैशवस्य “ परिपूर्णं
पृष्ठ 699
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ६१ ९ सर्वेषाम् ” इतिवचनात् । अतश्चाष्टमाद्वर्षादूर्ध्वं चतुर्णामपि वर्णानां सर्वाशौचम्, शूद्र-स्यापि तस्य कालस्य सद्भावात् । यस्मिंस्तु पक्षे एकादशे वर्षे क्षत्रियवैश्ययोरुपनयनं लक्ष्यते तदा शूद्रस्य न कश्चित्काल उक्तः स्यात् । तत्राप्यतीतशैशवस्य परिपूर्णम्, अर्वाक् त्रिरात्रम् । शैशवस्य निवृत्तिश्च स्मृत्यन्तरे “ प्रागष्टमाच्छिशुः प्रोक्तः ” अन्यैस्तु “ आ षोडशाद्भवेद्बालः ” इति । योऽपि षोडशाद्वाल्यनिवृत्तिमाहुस्तेषामप्यष्टमादूर्ध्वं मासिक्येव शुद्धिः । एवं पठ्यते " ऊर्ध्वं तु षड्भ्यो वर्षेभ्यः शुद्धिः शूद्रस्य मासिकी ” । अन्यत्र पठितम् ‘ अष्टवर्षस्य मास ' इति । “ ननु वक्ष्यमाणेभ्य एव वाक्येभ्य एषा वयोभेदव्यवस्था लभ्यते । किमनेन दन्त-जात इत्युद्देशेन । ” सत्यम् । सुखावबोधार्थम् ॥५८ ॥
हिन्दी— ( बच्चों के ) दाँत पैदा होने पर या शीघ्र पैदा होने वाला हो तब, चूडाकरण और यज्ञोपवीत संस्कार करने पर, मरने से सभी बान्धवों ( सपिण्ड तथा समानोदक वालों-५।६१ ) को सूतक ( बच्चे के पैदा होने से सूतक ) के समान अशौच होता है ॥ ५८ ॥
दशाहं शावमाशौचं सपिण्डेषु विधीयते ।
अर्वाक् सञ्चयनादस्थ्नां त्र्यहमेकाहमेव वा ॥ ५ ९ ॥
भाष्य — सापिण्ड्यलक्षणं वक्ष्यते । अर्वाक्सञ्चयनादिति चतुरहोपलक्षणं वक्ष्यति । “ आहिताग्नेः सञ्चयनं चतुर्थ्याम् ” इति वचनमस्ति । अयं च विकल्पो वृत्तस्वाध्यायापेक्षो वृत्तापेक्षो वा । तथा च स्मृत्यन्तरम् । “ एकाहाद्ब्राह्मणः शुद्धो यस्तु ब्रह्माग्निसंयुतः । त्र्यहात्केवलवेदस्तु निर्गुणो दशभिर्दिनैः ” । तत्र त्रिवेदस्याग्निमत एकाहः । द्विवेदस्य तु त्र्यहम् । निर्गुणस्य दशाहम् । गौतमेन पठितं सद्यः शौचम् । तच्च विशेष एव, ब्राह्मणस्य स्वाध्यायानिवृत्त्यर्थम् । तत्र क्रियान्तराणि— “ उभयत्र दशाहानि कुलस्यान्नं न भुज्यते । दानं प्रतिग्रहो होम: स्वाध्यायश्च निवर्तत ” इत्याद्या: क्रिया निवर्तन्ते । केवलं बहुवेदस्यागुण्यमानं प्रणश्यतीति स्वाध्यायो न निवर्तते । तथा वृत्त्यपेक्षो युक्तो विकल्पः । षट्कर्मजीविनो दशाहः, त्रिभिरन्य इत्यस्य चतुरहः, द्वाभ्यामेक इत्यस्य त्र्यहः । दाशाहिक आशौचे प्रतिग्रहादावनधिकारात्प्राणयात्रैव दुर्लभा । ये तु— “ वयांसि चत्वारि, चत्वारश्चाशौचकालाः, अतो यथावयो यथासंख्येन सम्बन्ध: ”, तेषां दन्तजाते दशाहः प्राप्नोति, उपनीते तु मृते एकाह एव । तत्र
पृष्ठ 700
पाठ पढ़ें पाठ छिपाएँ
६२० मनुस्मृतिः [ पञ्चम: स्मृत्यन्तरसमाचारविरोधः । अथ “ विरोधपरिहारार्थं प्रातिलोम्येन सम्बन्धः क्रियते । उपनीते दशाहः कृतमुण्डे चतुरहः, त्र्यहो दन्तजाते, एकाहोऽनुजात इति ” । अत्रापि निवृत्तचौडकानां त्रिरात्रादिति विरोधेन विकल्पो युक्तः । स्वशब्देन त्रिरात्रस्यानुविधानात् । चतुरहस्य वृत्तिभेदेन सञ्चयभेदेन विषयत्वसिद्धेः । स्मृत्यन्तरेणैवमेकवाक्यता भवति एकाहादित्यनेन । अन्यथा वयोभेदेन विकल्पे व्याख्यायमाने वृत्तस्वाध्यायापेक्षो मानवे शास्त्रे केन विकल्पो लभ्यते । अतो गौतमवचनाद्यस्य प्रात्यहिकेन प्रतिग्रहेण विनाऽपि वृत्तिरस्तिकुसूलधान्यादे-स्तस्य बहुस्वाध्यायस्य स्वाध्यायाध्ययनमात्रे सद्यः शुद्धिः । येऽपि त्र्यहादयः कल्पास्तत्रापि त्र्यहैहिकादीनां तावन्मात्र एव विशुद्धिर्वृत्त्यर्थे प्रतिग्रहेऽनेनैव गौतमदर्शनेन । अन्यथा ब्राह्मणस्य स्वाध्यायिन इत्येवावक्ष्यत् न स्वाध्यायानिवृत्त्यर्थमिति । अतो यद्यप्यविशेषेणैकाहाच्छुद्धिरित्यादि श्रुतम्, तथापि नियतक्रियाविषयं विज्ञेयम् । येन नित्यवद्ब्राह्मणस्य दशाहमाह “ शुद्धयेद्विप्रो दशाहेन ” इति ( ५।८३ ), न ह्यन्यत्पुन-र्वचने प्रयोजनमस्ति । तस्माद्विकल्पोऽयमुक्तेन मार्गेण व्याख्येयः । यत्र पुनर्बालादौ सद्यः शौचं, निवृत्तमुण्डकादौ त्रिरात्रं, तत्र विकल्पाभावात्सर्वक्रियासु शुचित्वम् ॥५ ९ ॥ हिन्दी — सपिण्डों को ( सात पीढ़ी वालों तक — ४।६० ) मरणाशौच दश, चार, तीन या एक अहोरात्र ( दिन - रात ) लगता है ॥५० ॥
विमर्श — यह वैकल्पिक काल अग्निहोत्र, वेदादि गुणों की अपेक्षा से है । अग्नि-होत्र तथा मन्त्र ब्राह्मणरूप सम्पूर्ण वेदशाखा को पढ़े हुए ब्राह्मण को एक दिन का, इन दोनों ( श्रौताग्निवाला तथा समस्त मन्त्र ब्राह्मण सहित वेदाध्येता ) में से एक गुणयुक्त ब्राह्मण को तीन दिन, उक्त दोनों गुणों से हीन केवल स्मार्त अग्निहोत्री को चार दिन तथा सब गुणों से हीन को दस दिन अशौच होता है । यहाँ ' दिन ' शब्द दिन - रात का वाचक है । यह वैकल्पिक अशौच अवस्था दक्ष ' तथा पराशर के अनुसार म ० मु ० कार की व्याख्या में वर्णित है । १. यथा च दक्षः ' एकाहस्तु शमांख्यातो योऽग्निवेदसमन्वितः । हीने हीनतरे चैव द्वित्रिचतुरहस्तथा ॥ ' इति द ० स्मृ ० ६।६ अत्र ' एकाहाच्छुद्ध्यते विप्रो योऽग्नि- ' इति ' हीने हीनं भवेच्चैव द्वित्रिचतुरह— ' इति च म ० मु ० पाठान्तरं दृश्यते । २. तथा च पराशरः- ‘ त्र्यहात्केवलवेदस्तु द्विहीनो दशभिर्दिनैः । ' इति परा ० स्मृ ० ३।५ अत्र ' त्र्यह निर्गुणो दश - ' इति म ० मु ० पाठान्तरं दृश्यते ।