मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 701–710
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 701–710
पृष्ठ 701
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता सपिण्ड तथा समानोदक के लक्षण-सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । ६२१ समानोदक भावस्तु जन्मनाम्नोरवेदने ॥ ६० ॥
भाष्य- -अन्वयसंज्ञाविज्ञानाद्वान्धवग्रहणानुवृत्तेश्चान्वयजा: सप्तमपुरुषावधयः सपिण्डा उच्यन्ते । ‘ येभ्यः स्वस्य पिता दद्यात्तेभ्यः पुत्र ' इति जीवत्पूर्वपित्रादेर्विधानात् षट् ताव-द्योग्यतया सपिण्डा भवन्ति । यद्यपि पितृभ्यो दीयते आत्मना सप्तम ” अतः पितामह-प्रपितामहाद्याः पूर्वान्वयजातास्ते सपिण्डा इति व्यपदिश्यन्ते । पूर्वे षट् सपिण्डाः । अपरे पुत्रादयः षडेव । यत एकस्याः पिण्डदानक्रियायाः सहभावात्सपिण्डाद्युपदेशो लभ्यते, पुत्रादेरपि सहभावः पौत्रादिना क्रियमाणोऽयम्, तेन येभ्यो दीयते यैश्च सह सम्प्रदानवान्भविष्यति सर्वे ते सपिण्डा व्यपदिश्यन्ते । यतो न तत्र पिण्डदानमवध्युप-लक्षणत्वाच्छङ्ख इव शङ्खव्वेलायामागन्तव्यमिति । तेन यावदुक्तं स्यात् – ' प्रपितामहस्य य: प्रपितामहस्तदन्वयजा ये यावत्सप्तमास्ते सपिण्डा, ' एवं स्वसन्ततौ पित्रादिसन्ततौ द्रष्टव्यम् । यत एव भेदस्तमुपादाय गणना कर्तव्या यावत्सप्तमावधि । यथा पितामहो येषामेकस्ते तत आरभ्य सप्तमावधयः सपिण्डा इत्येव सर्वत्र । तदन्वयजत्वे चोपलक्षणे जातेरनाश्रयणाद्विजातीया अपि क्षत्रियादयो ब्राह्मणादीनां सपिण्डा भवन्ति । अत एव तज्जननाद्याशौचे ब्राह्मणस्य दशाह एव, तेषां तु स्वकाल एव द्वादशा-हादिः । अतः सर्वस्य विजातीयनिमित्ते विजातीयसपिण्डनिमित्ते वा जन्मादौ स्वकाल एव शुद्धिः । क्षत्रियादीनां ब्राह्मणापेक्षया त्रिपुरुषं सापिण्ड्यम् । तथा च शङ्खः– “ यद्येकजाता बहवः पृथक्क्षेत्राः पृथग्जनाः । एकपिण्डाः पृथक्शौचाः पिण्डस्त्वावर्तते त्रिषु । ” ‘ पृथक्क्षेत्राः ’ भिन्नजातीयासु स्त्रीष्वित्यर्थः । ‘ पृथग्जनाः ’ पृथक्क्षेत्रसमानजातीया अप्यनेकमातृका भवन्ति, तदर्थमुभयोरुपादानम् । ' एकपिण्डाः ' सपिण्डा भवन्ति । किंतु पृथक्शौचा: ’, स्वजातिनिमित्त एव तेषां शुद्धिकालः । ब्राह्मणस्य क्षत्रियादेः सूतकादौ दशाहः, ब्राह्मणस्य सूतके तेषां द्वादशाहश्च । यथा चान्योऽपि विशेषः - ' पिण्डस्त्रिष्वा-वर्तते ' । त्रिष्वेव भवति पुरुषेषु । समानजातीयापेक्षया क्षत्रियादीनां ब्राह्मणावत् षट् पुरुषस्य सापिण्ड्यम् ' एकजाताः पृथक्क्षेत्रा ' इत्यादिविशेषणोपादानात् । असमानजातीयापेक्षं त्रिपुरुषत्वमनेन वाक्येन शक्यते प्रतिपादयितुम् । एष एवार्थोऽनया स्मृत्या स्पष्टीक्रियते " क्षत्रविट्शूद्रदायादा ये स्युर्विप्रस्य
पृष्ठ 702
पाठ पढ़ें पाठ छिपाएँ
६२२ मनुस्मृतिः [ पञ्चम: बान्धवाः । तेषामाशौचे विप्रस्य दशाहाच्छुद्धिरिष्यते । " ' षड्भिस्त्रिभिरथैकेनेत्याहि ' च ॥ स्त्रीणां तु विजातीयानां भर्तृकालेन जीवति भर्तरि शुद्धिः । आह च— “ सूतौ मृते तु दासानां पत्नीनां चानुलोमतः । स्वामितुल्यं भवेच्छौचं, मृते स्वामिनि पैत्रकम् ॥ ” अन्ये पठन्ति “ असवर्णासुतानामिति ” प्रथमं पादम् । यद्ययमस्ति पाठस्तदा पुत्राणामपि शूद्राणां पितृगृहे व्यवस्थितानां तत्परतन्त्राणां पितृजात्यपेक्षया दशाहादिरेव शुद्धिकालः । दासाश्चात्र वैतनिका गृह्यन्ते । ये तु गर्भदासास्तेषां विध्यन्तरं श्रूयते— “ कारवः शिल्पिनो वैद्या दासीदासं तथैव च । राजानो राजभृत्याश्च सद्यः शौचाः प्रकीर्तिताः ॥ " इति । स्पर्शने चैवमेतेषां शुचित्वं विज्ञेयम्, न पुनर्दानभोजनादिक्रियासु । यतः कर्म-निमित्ता एते शब्दाः, अतः किं विपर्यये शुद्धिः किं सर्वाः क्रियाः प्रतिप्रसवा उत काश्चिदेवाभ्यनुज्ञायन्ते । यतो ' राज्ञश्च कार्याविघातार्थमि'त्याकांक्षायां यान्येव तादृशानि कर्माणि तान्येव हृदयमागच्छन्ति । तथैव च समाचारः । " ननु च नात्र स्पर्शप्रतिषेधः श्रुतः ” । यावता स्मृत्यन्तरे पठ्यते “ अस्थिसञ्चयनादूर्ध्वमङ्गस्पर्शो विधीयते ” । तथाऽन्यच्च
“ त्रिभिश्चतुर्भिर्वाऽहोभिर्ब्राह्मणः स्पृश्यतामियात् ।
एकादशेन शुद्धिः स्यान्मृतके सूदके तथा ” ॥
“ राज्ञः षष्ठे सप्तमे वा स्पर्शः, द्वादशाहेनान्नशुद्धिः । वैश्यस्य स्पर्शनमष्टमे नवमे वा, पक्षेणान्नशुद्धिः । शूद्रस्य स्पर्शनमेकादशे द्वादशे वा, मासेनान्नशुद्धिः " इति हारीत: । तथा वाक्यान्तरमपि— “ स्पर्शे क्रमेण वर्णानां त्रिचतुःपञ्चषैर्दिनैः भोज्यान्नो दशभिर्विप्रः शेषा द्वित्रिषडुत्तरैः ” ॥ एते च विकल्पाः प्रयोजनापेक्षया गुणवदगुणापेक्षया व्यवस्थापनीयाः । सर्वेषां तावद्द्ब्राह्मणस्य भक्तदासास्त्रिचतुरैरहोभिः स्पर्शनेन दूषयन्ति । गर्भदासास्तु सद्यः । एवमितरेषामपि वर्णानाम् ।
यत्रेदं सद्यःशौचं तत्र सर्वत्र स्नानं वाससा च ।
द्रव्यस्य शुद्धिर्या यस्य विहितेति ज्ञापयिष्यते ॥
पृष्ठ 703
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता ६२३ कन्यानामपि त्रिपौरुषेयो सपिण्डता । “ सपुत्राणां तु स्त्रीणां त्रिपुरुषं विज्ञायते " इति वसिष्ठः । आशौच एवैतत् । विवाहे तु विधिर्दर्शितः । स्थितमेतत्— सप्तमपुरुषो मर्यादा, षट्पुरुषाः सपिण्डा इति । सप्तमे प्राप्ते विनिवर्तते । समानोदकभावः समानोदकव्यपदेशः । जन्मनाम्नोरवेदने | जन्म च ‘ अयमस्मत्कुले जातः’— नामआयुष्मादिदन्नाम-कात्पितृपितामहादेः— उभयोरवेदने निवृत्तिः । अतश्चान्यतरे ज्ञातेऽप्यनिष्टोदकं ज्ञेयम् । “ अवतीर्य नदीमन्यद्वा जलाशयं नाभिदघ्नभुग्नो दक्षिणाभिमुखः सव्योत्तराभ्यां पाणिभ्यामुदकं कृत्वाऽनवेक्षमाणाः प्रत्याव्रजेयुरिति ” ॥६० ॥
हिन्दी — सपिण्डता सातवीं पीढ़ी में निवृत्त हो जाती है और समानोदकता जन्म तथा नाम के न जानने पर निवृत्त हो जाती है ॥ ६० ॥
विमर्श - सप्तम पुरुखा ( सातवीं पीढ़ी ) – ( १ ) पिता, ( २ ) पितामह और ( ३ ) प्रपितामह— ये तीन पिण्डभागी तथा प्रपितामहके ( ४ ) पिता ( ५ ) पितामह और ( ६ ) प्रपितामह ये तीन पिण्डलेपभागी अर्थात् कुल ६ तथा एक स्वयं इस प्रकार ७ पीढ़ियों तक सपिण्डता होती है । जिस व्यक्ति के ये सपिण्ड हैं, उनका यह व्यक्ति भी पिण्डदाता होने से ‘ सपिण्ड ' है । मत्स्यपुराण में कहा भी है— ' चतुर्थ आदि ( प्रपितामह के पिता, पितामह और प्रपितामह ) लेपभागी हैं तथा पिता आदि ( तीन- पिता, पितामह और प्रपितामह ) पिण्डभागी हैं, पिण्ड देने वाला सातवाँ है, इस प्रकार यह सपिण्डता सात पुरुखाओं ( पीढ़ियों ) से सम्बद्ध है ' । ' यह सपिण्डता समान ( एक गोत्रवालों में ही होती है भिन्न ' ) गोत्रवालों में नहीं, इसी कारण मातामह के साथ एक पिण्ड का सम्बन्ध रहने पर भी सपिण्डता नहीं मानी जाती ।
मरण के समान जन्म में भी अशौच-जननेप्येवमेव स्यान्मातापित्रोस्तु सूतकम् ।
सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ॥ ६१ ॥
भाष्य — एवमेतत्सपिण्डानां जनने । यथैव दशाहादयः कल्पाः षट्कर्मादिवृत्त्य-पेक्षया स्वाध्यायाल्पमहत्त्वापेक्षया च व्यवस्थिता मरणे, तथैव जननेऽपि आशौचमात्र-मतिदिश्यते कालानवच्छिन्नम् । सामर्थ्याच्चागृह्यमाणविशेषतया तत्सम्बन्धसकललाभः । १. तदुक्तं मत्स्यपुराणे- ' लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम् ॥ ' इति ( म ० मु ० ) ।
पृष्ठ 704
पाठ पढ़ें पाठ छिपाएँ
६२४ मनुस्मृतिः [ पञ्चम: कालावच्छिन्नातिदेशे तु एकेनैव मुख्यत्वाद्दशाहेन सम्बन्धः स्वाध्यायादिषु स्यात् । यदि वा पाठप्रत्यासत्त्या दशाहाद्यपेक्षया एकाहेन एकेनैव च निराकांक्षीकृतत्वादन्यैस्त्र्य-हादिभिर्न सम्बन्धः स्यात् । तत्रेयं स्मृतिरविशेषेण वृत्तस्वाध्यायापेक्षायां व्यवस्थायां मृतसूतकयोर्विदधती, जनने गुणाद्यनपेक्षया जातिमात्रे स्थाप्यमाना, विरुध्येत । समाचारश्च बाधित: स्यात् । “ नन्वेवं स्त्रीणामपि त्र्यहैकाहादयः कल्पाः सूतिकानां प्राप्नुवन्ति समाचारविरोधिनः । ” अत्रोच्यते । यद्ययं विकल्पः स्यात्तदैवम् । व्यवस्थित एवासीत्कल्पः । तथाहि तुशब्द उपपन्नतरो भवति । सूतकशब्दश्च नाशौचे वर्तते । लक्षणया सूतकसम्बन्ध्यशौचं लक्षयेत् । लक्षणायाः साहचर्यादस्पृश्यतैव लक्षयितुं युक्ता । यदि च सर्वमाशौचमभिप्रेतं स्यादाशौचग्रहणमेवा-करिष्यत् ‘ अशौचं मातुरेवेति ' । अतश्च स्मृत्यन्तरे त्रिरात्रमस्पृश्यतोक्त्या इह तदभाव-स्तयोर्विकल्पः सूतकं मातुरेव । मातापित्रोर्मातुरेवेति पितुर्विकल्पः । उपस्पृश्य स्नात्वा शुचिर्भवतीति । उपक्रममात्रमिदं वक्ष्यमाणेन श्लोकेन पितुरपि त्र्यहमेव || ६१ ॥ हिन्दी — जिस प्रकार यह मरणाशौच सपिण्डों में कहा गया है, उसी प्रकार जन्म ( बच्चा पैदा ) होने पर भी पूर्ण शुद्धि चाहने वाले सपिण्डों के लिए अशौच होता है ॥६१ ॥
[ उभयत्र दशाहानि कुलस्यान्नं न भुज्यते । दानं प्रतिग्रहो यज्ञः स्वाध्यायश्च निवर्तते ॥ ३ ॥ ]
[ हिन्दी — दोनों ( जननाशौच तथा मरणाशौच ) में कुलवाले ( सपिण्डवाले ) का अन्न दस दिन तक नहीं खाया जाता है तथा दान लेना, यज्ञ और वेद का स्वाध्याय छोड़ दिया जाता है ॥३ ॥ ]
जननाशौच तथा मरणाशौच में विभिन्नता— [ सर्वेषां शावमाशौचं मातापित्रोस्तु सूतकम् । सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ॥४ ॥ ]
हिन्दी – मरणाशौच सबों ( सपिण्डों ) को होता है और सूतक ( जननाशौच-बालक उत्पन्न होने पर अशुद्धि ) केवल माता - पिता को होता है । ( उसमें भी यह विशेषता है कि— ) केवल माता को ही सूतक ( १० दिन तक अशुद्धि ) होता है, पिता तो स्नान कर शुद्धि ( स्पर्श करने योग्य ) हो जाता है ॥ ४ ॥
विमर्श — यहाँ शुद्धि शब्द से स्पर्श करने योग्य अपेक्षित है । अत: स्नान से पिता
पृष्ठ 705
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्यमणिप्रभा’हिन्दीटीकासहिता ६२५ सर्वत्र स्नान करने पर स्पर्श के योग्य शुद्ध होता है और माता ही दस दिन अस्पृश्य रहती है । [ सत्रधर्मप्रवृत्तस्य दानधर्मफलैषिणः । त्रेताधर्मोपरोधार्थमरण्यस्यैतदुच्यते ॥ ५ ॥ ]
[ हिन्दी – जो यज्ञ ( या ज्ञानयज्ञ ) धर्म में प्रवृत्त है तथा दान के फल को चाहता है, और त्रेता धर्म के उपरोध से अरण्य में ( वानप्रस्थाश्रम में ) रहता है, उसके लिये यह अशौच कहा गया है || ५ || ] वीर्यपात में शुद्धिविचार—
निरस्य तु पुमाञ्छुक्रमुपस्पृश्यैव शुध्यति ।
वैजिकादभिसम्बन्धादनुरुन्ध्यादघं त्र्यहम् ॥ ६२ ॥
भाष्य- - सहेतुकं त्र्यहमुपदिशन्नपस्पर्शनशुद्धिं पूर्वोक्तामनुमन्यते । किमर्थमुच्यत इति चेत् सरूपविधितयाऽर्थवादार्थम्, न विधेयतया, “ जर्तिलयवाग्वा वा जुहुयादिति ” वत् । निरस्य तु शुक्रं मैथुनधर्मेण सम्प्रयुज्य शुक्रोत्सर्गादनन्तरं उपस्पृश्य स्नात्वा शुचिर्भवति । अतो बैजिकादभिसम्बन्धात् । बीजनिमित्तो ' बैजिक: ' । ' अभिसम्बन्धः ’ अपत्योत्पत्तिः । अतस्तत्र कथं नानुरुन्ध्यान्नानुवर्तेत । अधमाशौचं त्र्यहम् । यादृशं च शुक्रनिरसनेन अकृतस्नानस्याशुचित्वं, न तादृशमेव प्रसवे, अपि तु त्र्यहम् । पूर्व-श्लोकार्धत्र्यहशेषतयाऽनूद्यते । अत एवोपस्पृश्येति स्नानमुच्यते, “ स्नानं मैथुनिन: स्मृतम् ” इति वचनान्नाचमनम् । पुत्रे तु जाते तदहः स्पृश्यतैवेति केचित् । तथा च शङ्ख आह “ कुमारप्रसवे नाड्यामच्छिन्नायां गुडतिलहिरण्यवस्त्रप्रावरणगोधान्यप्रतिग्रहेष्वदोषस्तदहरित्येके ” । तत्मात्स दिवसः पुण्यः पितॄणां प्रीतिवर्धनः । स्मरणाच्चैव पूर्वेषां तदहर्न प्रदुष्यति इति । तथा श्राद्धमप्येके कुर्वन्तीति च I
। अनेन पितुः सर्वथाऽऽशौचाभाव एव ।
तत्रैते स्मृती पूर्ववद्वृत्तिसदसद्भावापेक्षया विकल्प्येते ॥६२ ॥
हिन्दी - मनुष्य ( ज्ञानपूर्वक ) वीर्यपात कर स्नान करके ही शुद्ध होता है तथा पर स्त्री में बैजिक सम्बन्ध ' होने पर तीन दिन अशुद्धि मनानी चाहिये ॥६२ ॥
विमर्श - गृहस्थ ज्ञानपूर्वक वीर्यपात करने पर स्नान से तथा अज्ञानपूर्वक ( स्वप्न १. तथा हि संवर्त्तः —— जाते पुत्रे पितुः स्नानं सचैलं तु विधीयते 1 माता शुद्धयेद्दशाहेन स्नानात्तु स्पर्शनं पितुः ॥ ' इति ( म ० मु ० ) २. तथा च विष्णुः— ‘ परपूर्वभार्यासु त्रिरात्रम् । ' इति ।
पृष्ठ 706
पाठ पढ़ें पाठ छिपाएँ
६२६ मनुस्मृतिः [ पञ्चम: आदि में ) वीर्यपात करने पर बिना स्नान से शुद्ध होता है तथा ब्रह्मचारी की शुद्धि ( २।१८१ ) में कही गयी है । [ जननेऽप्येवमेव स्यान्मातापित्रोस्तु सूतकम् । सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ॥६ ॥ ]
[ हिन्दी- - जन्म ( बालक की उत्पत्ति ) में भी माता - पिता को इसी प्रकार अशौच होता है, माता को ( १० दिन तक ) अशौच रहता है तथा पिता ( सवस्त्र ) स्नान करके शुद्ध हो जाता है || ६ || ] शव - स्पर्श करने वालों का शुद्धि - विचार -अह्ना चैकेन रात्र्या च त्रिरात्रैरेव च त्रिभिः । शवस्पृशो विशुध्यन्ति त्र्यहादुदकदायिनः ॥ ६३ ॥
भाष्य — त्रयस्त्रिरात्रा नवाहानि । एकेन च अह्ना एकया च रात्र्या अहोरात्र: । एवं दशाहो वृत्तानुरोधादेवमुपदिष्टः । शवस्पृशः शवस्य स्नानालङ्कारादिकारिणः । अन्येषां स्नानमात्रं वक्ष्यति तन्निर्यापकानां च । तथा च प्रकटीकरिष्यति " प्रेताहारैः समम् ” इत्यत्र । एतच्च समानोदकानां, मूल्येन वा निर्हरताम् । अनाथनिर्हरणे तु स्मृत्यन्तरे— “ न तेषामशुभं किंचिन्नाशौचं शुभकर्मणाम् । जलावगाहनात्तेषां सद्यः शौचं विधीयते ॥ ' यत्तु ‘ असपिण्डं द्विजमिति ' तत्रैव वक्ष्यामः । उदकदायिनाः समानोदकाः । तेषां च “ पृथक्पिण्डे च संस्थिते ” इति सद्य: -शौचमपि वक्ष्यते । तत्र विकल्पः । सपिण्डेष्वेतदस्वाध्यायाद्यपेक्षम् ॥६३ ॥
हिन्दी- - शव का स्पर्श करने वाले सपिण्ड दस दिन में शुद्ध होते हैं तथा समानोदक तीन दिन में शुद्ध होते हैं ॥६३ ॥
विमर्श - एक दिन एक रात अर्थात् एक दिन - रात तथा तीन त्रिरात्र अर्थात् नव दिन - रात, इस प्रकार सर्व योग से ' दस दिन ' अर्थ करना चाहिये । गोविन्दराज तो धन लेकर शव को ढोने - फेंकने आदि से स्पर्श करने पर दस दिन में ब्राह्मण की शुद्धि होती हैं ', ऐसा अर्थ करते हैं, कोई - कोई एक दिन - रात तीन दिन - रात और दस दिन - रात अर्थ करते हैं, वह हेय है । इस वचन का मुख्य विषय यह है कि - ' यदि ' दशाह— '
पृष्ठ 707
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ६२७ ( ४।५ ९ ) के अनुसार जिसकी शुद्धि एक दिन या तीन दिन में होती है, वह भी मोहादि-वश शव - स्पर्श करने से दस दिन में ही शुद्ध होता है । ' गुरु आदि के शव स्पर्श करने वाले शिष्य का शुद्धिकाल-गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन् । प्रेताहारैः समं तत्र दशरात्रेण शुध्यति ॥ ६४ ॥
भाष्य – पितृमेधः चरमेष्टिः । अन्ये तु सर्वं कर्मैव लक्ष्यत इति प्राहुः । तत्कुर्वन् शिष्यो दशरात्रेण शुध्यति । ब्रह्मचारिणोऽप्ययं विधिरस्त्येव । प्रेताहारैः समः । प्रेतं हरन्ति निर्यापयन्ति तथा तेषां दशाहः । एवं शिष्य-स्यापीत्यर्थः ॥६४ ॥
हिन्दी — असपिण्ड गुरु ( आचार्य, उपाध्याय आदि ) के शव का स्पर्श तथा अन्त्येष्टि ( दाहकर्म ) करने में सम्मिलित शिष्य शव ढोने वालों के साथ दस दिन - रात में शुद्ध होता है ॥ ६४ ॥
गर्भस्राव में स्त्रीशुद्धि-रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति ।
रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला ॥ ६५ ॥
भाष्य – गर्भस्रावे गर्भमाससमा रात्रीः स्त्रिया एव शुद्धिर्युक्ता, इह वाक्ये तस्याः श्रुतत्वात् । सपिण्डानां तु स्मृत्यन्तरसमाचारावन्वेषणीयौ । वसिष्ठेन तु सपिण्डानां त्र्यहः समाम्नात: [ अ ० ४ सू ० ३४ ] " ऊनद्विवर्षे प्रेते गर्भपतने सपिण्डानां त्रिरात्रमशौचम् ” । स्रावस्तु गर्भस्य मासत्रयादूर्ध्वं प्राग्दशमान्मासात् । केचित्तु प्राङ्नवमादित्याहुः । अप्राप्तकालस्य पात: ‘ स्राव ' उच्यते । न पुनर्द्रवरूपस्यैव । तथा गौतमेन गर्भविस्स्रंसने “ गर्भमाससमा रात्रीरिति पठितम् [ अ ० १४ सू ० १५ ] । सप्तमास्याश्च जीवन्ति । अतः सप्तमे मासे पूर्णमाशौचम् । एतत्तु जीवतो जातस्य युक्तमन्यथा तु गर्भमाससमा इत्येव । इह रजस्वलाया रजस्युपरते स्नानेन शुद्धिराम्नाता । स्मृत्यन्तरे त्र्यहादूर्ध्वम् । तत्रैवं व्यवस्था । प्राक्त्र्यहाद्रजोनिवृत्तावपि नास्ति शुद्धिरूर्ध्वमनुपरतेऽपि भवति । किंतु ‘ विशुद्ध्यतीति ’ प्रकृते पुनः ‘ साध्वीति ' वचनादनिवृत्ते रजसि वैदिककर्माधिकारानुप्रवेशो नास्ति, न पुनः स्पर्शादिनिषेधः । उक्तम् “ आद्याश्चतस्रो निन्दिताः ” इति । रजस्वला स्त्री रजस्युपरते स्नानेन साध्वी भवति शुद्धा कर्मयोग्येत्येवं पदयोजना ।
पृष्ठ 708
पाठ पढ़ें पाठ छिपाएँ
६२८ मनुस्मृतिः [ पञ्चम: स्त्रीग्रहणं वर्णमात्रस्त्र्यर्थम् । पूर्वे तु श्लोका ब्राह्मणविषया व्याख्यातास्तदाशङ्का-निवृत्त्यर्थं स्त्रीग्रहणम् । उत्तरत्रापि यत्र विशेषप्रमाणम् नास्ति तत्रापि वर्णमात्रविषयतैव, यथा “ नृणामकृतचूडानाम् ” इति ॥६५ ॥
हिन्दी – तीन मास से लेकर छः मास तक जितने मास का गर्भ गिरा हो, उतने दिनों में माता शुद्ध होती है तथा साध्वी रजस्वला स्त्री रज के निवृत्त होने पर स्नान से ( पाँचवें दिन ) शुद्ध ( यज्ञ - देवपूजन में भाग लेने योग्य ) होती है ॥६५ ॥
विमर्श— छः मास तक अवधि आदिपुराण ' के अनुसार है । गोविन्दराज तो आदि में यह वचन मिलने से ' सात मास तक की अवधि ' मानते हैं और प्रथम और पुराण द्वितीय मास में गर्भस्राव होने पर तीन दिन माता की अशुद्धि कहते हैं, अपने मत की पुष्टि में वे हारीत ' तथा सुमन्तुर के वचन का प्रमाण देते हैं ।
उपनयन से पूर्व बालक के मरने पर अशौच-नृणामकृतचूडानां विशुद्धिर्नैशिकी स्मृता ।
निर्वृत्तमुण्डकानां तु त्रिरात्राच्छुद्धिरिष्यते ॥ ६६ ॥
भाष्य — इमाः षष्ठीः “ कर्तृकर्मणोः कृतीति " कर्तृलक्षणा: केचिद्व्याचक्षते । ‘ अकृतचूड एकाहेन शुद्ध्यति ' । तथा वयोवस्थापेक्षोऽपि विकल्प इत्येकीयमतमुक्तम् । तस्यैव श्लोकस्य व्यवस्थावाक्ये इमे । अन्ये त्वध्याहारेण सम्बन्धलक्षणा आहुः । अकृतमुण्डानां मृतानां ये सपिण्डाः । तत्रोत्तरपक्षः समाचाराभिप्रेतः । स्मृत्यन्तरे सद्यः शौचमप्याम्नातम् । विषयस्तत्रैव दर्शित: । ‘ आदन्तजन्मनः सद्य: आचूडान्नैशिकी निर्वृत्तचूडकानां त्रिरात्रमिति ' ॥६६ ॥
हिन्दी — चूडाकरण संस्कार से पहले बालक के मरने पर एक दिन में और चूड़ाकरण संस्कार के बाद तथा उपनयन ( यज्ञोपवीत ) संस्कार करने के पहले बालक के मरने पर तीन दिन में सपिण्डों की शुद्धि होती है ॥६६ ॥
[ प्राक्संस्कारप्रमीतानां वर्णानामविशेषतः । त्रिरात्रात्तु भवेच्छुद्धिः कन्यास्वह्नो विधीयते ॥७ ॥ ]
१. यथोक्तमादिपुराणे— ' षण्मासाभ्यन्तरं यावद्गर्भस्रावो भवेद्यदि । तथा माससमैस्तासां दिवसैः शुद्धिरिष्यते ॥ अथ ऊर्ध्वं तु जात्युक्तमाशौचं तासु विद्यते । २. यथाऽऽह हारीत: - ' गर्भस्रावे स्त्रीणां त्रिरात्रं साधीयो रजोविशेषत्वात् । पित्रादिसपिण्डां त्वत्र सद्यःशौचम् । ' इति ( म ० मु ० ) ३. यथाऽऽह सुमन्तुः— ' गर्भमासतुल्या दिवसा गर्भसंस्रवणे सद्यः शौचं वा भवति । ’
पृष्ठ 709
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्यमणिप्रभा ' हिन्दीटीकासहिता ६२ ९ [ हिन्दी - संस्कार से पहले सब वर्ण के बच्चों के मरने पर सामान्यता तीन रात ( दिन - रात ) में तथा कन्या के मरने पर एक रात में शुद्धि होती है || ७ || ] [ अदन्तजन्मनः सद्य आचूडान्नैशिकी स्मृता । त्रिरात्रमाव्रतादेशाद्दशरात्रमतः परम् ॥ ८ ॥ ]
[ हिन्दी — बिना दाँत जन्मे बच्चे के मरने पर तत्काल ( स्नान मात्र से ), चूड़ाकरण संस्कार करने के बाद बच्चे के मरने पर एक रात में, उपनयन ( यज्ञोपवीत ) संस्कार के बाद मरने पर तीन दिन में और इसके बाद मरने पर दस दिन में सपिण्ड़ वालों की शुद्धि होती है ॥८ ॥ ]
[ परपूर्वासु भार्यासु पुत्रेषु प्रकृतेषु च । मातामहे त्रिरात्रं तु एकाहं त्वसपिण्डतः ॥ ९ ॥ ]
[ हिन्दी — परस्त्री ( दूसरे की रहकर जो अपनी स्त्री बाद में हुई हो ) की, उसमें उत्पन्न पुत्रों की तथा नाना की अशुद्धि तीन दिन और असपिण्डों की एक दिन होती है || ९ || ] दो वर्ष से कम आयु वाले मृत बालक का ग्राम से बाहर प्रक्षेप-ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा बहिः । अलङ्कृत्य शुचौ भूमावस्थिसंचयनादृते ॥ ६७ ॥
भाष्य — ऊने असंस्कृतस्य द्वे वर्षे यस्य जातस्य गते, स उच्यते ऊनद्विवार्षिकस्तं प्रेतं बान्धवा बहिर्ग्रामं निदध्युर्भूमौ निखातायां स्थापयेयुः । स्मृत्यन्तरे निखनेदिति पठ्यते । अलंकृत्य प्रेतालंकारैः । ऊनद्विवर्षेऽपि श्रूयमाणोऽलंकारः समाचारात्कृतोपनयनादावपि विज्ञेयः । शुचौ यत्रास्थीनि भूप्रदेशे न सन्ति । अस्तिसंचयरहितत्वेन या शुद्धा तत्र निखाय स्थाप्यः । श्मशाने किलास्थीनि संचितानि भवन्ति । अत एतेन वचनेन ततोऽन्यत्र निधानमुच्यते । न पुनस्तादृशस्या-स्थिसंचयो न कर्तव्य इत्येव वाक्यार्थः । अग्निसंस्काराभावादेव तदप्राप्तेः ॥६७ ॥
हिन्दी – दो वर्ष से कम अवस्था वाले मरे हुए बच्चे को मालादि पहनाकर पवित्र भूमि पर ( ग्राम से ) बाहर बिना अस्थिसंचय किये ही छोड़ दें ॥६७ ॥
नास्य कार्योऽग्निसंस्कारो न च कार्योदकक्रिया ।
अरण्ये काष्ठवत्त्यक्त्वा क्षपेत त्र्यहमेव तु ॥ ६८ ॥
भाष्य – काष्ठवदिति निरपेक्षतामाह । -श्राद्धमपि न कर्तव्यं न चोदकम् । उदकक्रियानिषेधेन श्राद्धनिषेधः सिद्धः अङ्गाङ्गि-मनु I- 44
पृष्ठ 710
पाठ पढ़ें पाठ छिपाएँ
६३० मनुस्मृतिः [ पञ्चमः भावात् । अतः समाचारप्रसिद्धः श्राद्धनिषेधो लिङ्गेन साधयितव्यः ।
अन्ये तु स्मृत्यन्तरदृष्टनिखननप्रतिषेधार्थं वर्णयन्ति । ततश्च विकल्पः ।
क्षपेत उदास्येत । शास्त्रचोदितं व्यापारं न कुर्यात् ॥६८ ॥
हिन्दी — इस ( दो वर्ष से कम आयु वाले बालक ) का अग्निसंस्कार ( दाहकर्म ) तथा उदकक्रिया ( तिलाञ्जलि देना ) न करे किन्तु उसे जंगल में काष्ठ के समान छोड़कर तीन दिन अशौच मनावे ॥६८ ॥
विमर्श - वन में काष्ठ के समान मृत बालकों को छोड़ने का विधान कर भगवान् मनु ने उसके निमित्त शोक, तिलाञ्जलि - दान तथा श्राद्ध आदि नहीं करने का उपदेश दिया है । यद्यपि प्रकृत वचन में केवल पृथ्वी पर काष्ठवत् छोड़ने का विधान है, तथापि ‘ ऊनद्विवर्षं निखनेत् ’ ( या ० स्मृ ० ६।१ ) अर्थात् ' दो वर्ष से कम आयु वाले मृत बालक को ( भूमि में ) गाड़ दें ' इस याज्ञवल्क्य वचन के अनुसार उसे भूमि में गड्ढा खोदकर गाड़ देना चाहिए; जैसा कि प्राय: सर्वत्र व्यवहार में किया भी जाता है । गङ्गा आदि महानदियों के तटवर्ती स्थानों में तो उक्त शव को उन्हीं नदियों में प्रवाहित कर देते हैं । सर्वत्र नदियों की उपलब्धि न हो सकने के कारण ही संभवतः भूमि में गाड़ने का विधान किया गया है | यम ने तो दो वर्ष तक की आयु वाले मृत बालक के शरीर में घृत लेप करके यमगाथा पढ़ते तथा यमसूक्त जपते हुए भूमि में उसे गाड़ने का विधान किया है । '
उक्त विषय में अन्य विकल्प-नात्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया ।
जातदन्तस्य वा कुर्युर्नाग्नि वाऽपि कृते सति ॥६९ ॥
भाष्य — आ त्रिवर्षस्येति आ तृतीयाद्वर्षात्प्रतिषेधः । न पुनश्चतुर्वर्षादौ । एवमर्थ-मेवादिशब्दं केचित्पठन्ति, ' नात्रिवर्षस्य कर्तव्या त्रिवर्षादेरिति ' । समाचारश्चैवमेव । जातदन्तस्य वा कुर्युः । उदकक्रियासाहचर्यादग्निसंस्कारोऽभ्यनुज्ञायते । “ ननु च विकल्पे कामचारः । तत्र कः प्रयाससाध्यं वित्तक्षयकरमनुष्ठानपक्षमा-श्रयेत । व्यर्थस्तदुपदेशः " । उच्यते । सर्वविलक्षणोऽयं पित्रोरधिकारः 1 । प्रेतोपकारार्थमेतत्क्रियते । नैमित्ति-कत्वादवश्यकर्तव्यमित्येतत्प्रागेवोक्तम् । तत्रावश्यकर्तव्यताप्रतिषेधोऽस्तीतीह निश्चीयते । प्रेतोपकारार्थत्वमस्तीत्यभ्यनुज्ञानेन ज्ञाप्यते । तत्राकरणे नास्ति विध्यतिक्रमः । प्रेतोपकार-स्त्वनुष्ठानाद्भवतीति विधिप्रतिषेधयोर्नासामञ्जस्यम् ॥६९ ॥
१. ‘ ऊनद्विवार्षिकं प्रेतं घृताक्तं निखनेद्भुवि । यमगाथां गायमानो यमसूक्तं जपन्नपि । ' ( यमः ) ।