मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 711–720
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 711–720
पृष्ठ 711
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता ६३१ हिन्दी – तीन वर्ष की आयु में नहीं पहुँचे हुए अर्थात् दो वर्ष से कम आयु वाले मृत बालक की जलक्रिया ( तिलाञ्जलि - दान तथा दाह आदि कर्म ) ( बान्धव— मृत बालक के पिता आदि ) न करें । अथवा — दाँत जमने पर या नामकरण संस्कार के ही हो जाने पर उस मृत बालक के निमित्त जलाञ्जलि दे ( और दाह कर्म तथा श्राद्ध भी करे ) ॥६९ ॥
विमर्श - इस दो वर्ष तक की आयु वाले मृत बालक के उद्देश्य से पिण्ड़दान आदि श्राद्धकर्म करने से प्रेत ( मृतात्मा ) का उपकार होता है तथा नहीं करने से पिता आदि बान्धवों को कोई दोष नहीं होता । सहपाठी के मरने तथा समानोदक के यहाँ जन्म होने पर -सब्रह्मचारिण्येकाहमतीते क्षपणं स्मृतम् । जन्मन्येकोदकानां तु त्रिरात्राच्छुद्धिरिष्यते ॥ ७० ॥
भाष्य- सब्रह्मचारी समानचरणोऽत एकोदका रूढ्या आसपिण्डेभ्यः परि-गृह्यन्ते । तेषामितरेतरं जन्मनि सूतके त्रिरात्रम् । सद्य: शौचमपि स्मृत्यन्तरादुदकदायिनां विकल्पितं द्रष्टव्यम् ॥७० ॥
हिन्दी — सहपाठी ( एक गुरु के साथ पढ़े हुए ) ब्रह्मचारी के मरने पर एक दिन-रात अशौच होता है और समानोदक ( ५।६० ) के यहाँ सन्तानोत्पत्ति होने पर तीन रात ( दिन - रात ) में शुद्धि होती है ॥७० ॥
कन्या के मरने पर अशौच - निर्णय-स्त्रीणामसंस्कृतानां तु त्र्यहाच्छुद्ध्यन्ति बान्धवाः । यथोक्तेनैव कल्पेन शुद्ध्यन्ति तु सनाभयः ॥७१ ॥
भाष्य — असंस्कृता या वाङ्मात्रेण प्रतिगृहीता न च विवाहितास्तासां मरणे बान्धवाः पतिपक्षास्त्रिरात्रेण । सनाभयस्तु सपिण्डाः स्वपितृपक्षा यथोक्तेन कल्पेन “ निर्वृत्तचौडकानामिति ” जातेरधिकारात्त्रिरात्रेण । अन्येस्तूक्तं सोदर्या दशरात्रेणेति । तेषां चाभिप्रायः । अष्टवर्षायाः कन्याया दानं विहितम् । दत्तायाश्च निर्वृत्तचौडकव्यपदेशाभावात्पुंस इवोपनीतस्य, तदानीं कल्पान्तर-स्यानाम्नानाद्दशाह एव युक्त: । अन्यैस्तु पठितम् “ अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् ” इति । तत्र व्याख्या-तारः पञ्चदशाब्ददेशीयाऽपि या ह्यदत्ता कन्या तिष्ठेत्तदहरेवाशौचम् । मुख्यमाम्नानमति-क्रम्य कालक्षपणे प्रमाणाभावात् । तत्रोच्यते । ‘ बालेषु चेति ’ कोऽस्यार्थः । यावता उक्तमेव योगविभागे “ आ दन्त-
पृष्ठ 712
पाठ पढ़ें पाठ छिपाएँ
६३२ मनुस्मृतिः [ पञ्चमः जन्मनः सद्य ” इति । न चैतेन तद्वाधितुं युक्तम्, सामान्यरूपत्वादस्य, तस्य च विशेष-व्यवस्थापनरूपत्वात् । अतोऽयमेकाहः पृथगुक्तोऽपि आचूडादेव व्यवतिष्ठते । सामान्यस्य विशेषापेक्षत्वात् । तस्मादनार्ष एवायमर्धश्लोकः प्रतिपद्यते - स्पर्शविषयतया नेयः । स्पर्शप्रतिषेधो हि मृतकसूतकयोर्बालस्यापि पुंवत्प्राप्तः । तदर्थमेतदुक्तं स्यात् “ अहस्त्व-दत्तकन्यासु बालेषु च विशोधनम् ” इति । एवं च विषयसप्तम्याश्रिता भवति । सा च युक्ता कारकविभक्तित्वात् । इतरथा अध्याहृत्य भावलक्षणा सप्तमी व्याख्यायेत, ' बालेषु मृतेषु जीवतां शुद्धिरिति । न च तदुपस्पर्शनादाशौचमेतेनैतत्सिद्धयतीति । विषयान्तरे तस्य च चरितार्थत्वात्, भूमौ परिवृतत्वात्, भूमौ परिवृतस्य च स्पर्शनासम्भवात् । “ अविशेषोक्तौ कुतो विशेषप्रतिपत्तिरिति ’ ” चेत् । तस्याचमनकल्पो विद्यत इत्येतत्सन्निधौ तादृशस्यैव स्पर्शस्य प्रतीयमानत्वात् । तथा च रजस्वलास्पृष्टिनो बालस्य स्पर्शनं नेच्छन्ति । अथास्य विशेषणं स्यात् । तथा गौतमेन तदुक्तं स्वस्यां स्मृतौ । युक्तमेवाधातुमेतस्य । तस्माद्युक्तैवाधानकाललक्षणा ॥७१ ॥
हिन्दी – अविवाहित ( किन्तु वाग्दत्त ) कन्या के मरने पर पतिपक्षवालों की तथा सपिण्ड पितृ - पक्षवालों की तीन दिन में शुद्धि होती है ॥७१ ॥
विमर्श - यह व्यवस्था आदि पुराण के अनुसार है । मेधातिथि तथा गोविन्दराज ‘ नृणामकृतचूडानाम् ' ( ५/६७ ) वचन के अनुसार शुद्धि मानते हैं, किन्तु उक्त सिद्धान्त मानने में पुत्र के समान कन्या के भी चूडाकरण संस्कार के बाद मरने पर तीन दिन अशौच होगा जो आदिपुराण से विरुद्ध है । [ परपूर्वासु पुत्रेषु सूतके मृतकेषु च । मातामहे त्रिरात्रं स्यादेकाहं तु सपिण्डने ॥ १० ॥ ]
हिन्दी – पहले दूसरे की रहकर बाद में जो अपनी स्त्री हुई हो, ऐसी स्त्री में उत्पन्न पुत्र के जननाशौच और मरणाशौच मातामह ( नाना ) को तीन दिन और सपिण्डन को एक दिन होता है ॥१० ॥
अशौचावस्था में नियम-अक्षारलवणान्नाः स्युर्निमज्जेयुश्च ते त्र्यहम् ।
मांसाशनं च नाश्नीयुः शयीरंश्च पृथक् क्षितौ ॥७२ ॥
१. तथा चादिपुराणे — ‘ आजन्मनस्तु चूडान्तं यत्र कन्या विपद्यते । सद्यः शौचं भवेत्तत्र सर्ववर्णेषु नित्यशः ॥ ततो वाग्दानपर्यन्तं यावदेकाहमेव हि । अतः परं प्रवृद्धानां त्रिरात्रमिति निश्चयः ॥ वाग्दाने तु कृते तत्र ज्ञेयं चोभयतस्त्र्यहम् । पितुर्वरस्य च ततो दत्तानां भर्तुरेव हि ॥ स्वजात्युक्तमशौचं स्यान्मृतके सूतकेऽपि च । ' इति । ( म ० मु ० )
पृष्ठ 713
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ६३३ भाष्य — क्षारलवणम् । यवक्षारादि‘क्षारम् ' । ‘ लवणं ' सैन्धवादि । तन्न भुञ्जीरन् । लवणविशेषणं वा क्षारग्रहणं तेन सैन्धवस्य न प्रतिषेधः । निमज्जनं न नदीतडागादावतीर्थस्नानमङ्गपरिघर्षणादिवर्जनम् । मांसाशनं च यावदाशौचं स्मृत्यन्तरात्प्रतिषिध्यते । एवं पठ्यते " न स्त्रियमुपेयुर्न मार्जयेयुर्न मांसमश्नीय: ” । गृह्यकारस्तु “ त्र्यहमनश्नन्त आसीरन् क्रीतोत्पन्नेन वा वर्तेरन् ” इत्याह ।
शयीरंश्च स्थण्डिले परसङ्गवर्जम् ।
सूतकेऽपि ब्रह्मचर्यं स्मृत्यन्तरे प्रदर्शितम् ॥७२ ॥
हिन्दी – ( अशौच वालों को ) कृत्रिम लवण से रहित अन्न ( पायस = खीर आदि ) खाना चाहिए, तीन दिन नदी आदि में स्नान करना चाहिये, मांस- भोजन का त्याग करना चाहिये और अलग - अलग भूमि पर ( पलंग या खाट पर नहीं ) सोना चाहिये ॥७२ ॥
विदेश में मरने पर अशौच का उपक्रम-सन्निधावेष वै कल्पः शावाशौचस्य कीर्तितः ।
असन्निधावयं ज्ञेयो विधि: सम्बन्धिबान्धवैः ॥७३ ॥
भाष्य- - सन्निधौ यत्रासौ मृतस्तत्र तत्संनिधीयते । अन्ये तु प्रयाणकाले ये संनिहितास्तेषामेवायं विधिरित्याहुः ।
सम्बन्धिनः समानोदका: । बान्धवाः सपिण्डाः ।
अन्ये तु ग्रामान्तरे नगरान्तरेऽवस्थानमसन्निधानं मन्यन्ते, तेषां च ॥७३ ॥
हिन्दी – ( भृगु मुनि महर्षियों से कहते हैं कि — ) पास में मरने पर यह अशौच की विधि मैंने कही है, अब पास में न मरने पर अर्थात् परदेश या परोक्ष में— जहाँ कोई अपना बान्धव नहीं हो वहाँ मरने पर आगे कही हुई विधि सम्बन्धियों ( सपिण्ड तथा समान उदक वाले बन्धुओं ) को जाननी चाहिये ॥ ७३ ॥
विगतं तु विदेशस्थं शृणुयाद्यो ह्यनिर्दशम् ।
यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥ ७४ ॥
भाष्य – विदेशो ग्रामान्तरादिः पूर्ववत् । विगतं मृतम् । अनिर्दशम् । उपलक्षणमेतत् । यस्य च आशौचकालस्तच्छेषं तस्याशौचम् । पुनर्दशरात्रग्रहणं श्लोकपूरणार्थम् । उत्पत्त्यपेक्षया जन्ममरणयोराशौचकालविकल्पेनावश्यमपेक्ष्यम् । यदा सूतकाद्यु-
पृष्ठ 714
पाठ पढ़ें पाठ छिपाएँ
६३४ मनुस्मृतिः [ पञ्चम: त्पन्नं तदा प्रभृति दशाहादि कल्पः, न यदा सपिण्डैर्ज्ञातमिति । अतश्च यदाऽतिथिना ज्ञातं सूतकादि न तु गृहस्थेनं तदाऽप्यभोज्यमन्नम् । तथैवोत्पत्तिनिमित्तमात्रमिदमुभयत्रेति । दशाहमाशौचिनां तत ऊर्ध्वं त्रिरात्रैकाहाशौचिनां तु सचैलस्नानजा सद्यः शुचिः ॥७४ ॥
हिन्दी — विदेश में मरे हुए बान्धव को दस दिन बीतने के पहले जो सुने, वह जितने दिन ( दस दिन पूरा होने में ) बाकी है, उतने ही दिनों तक अशुद्ध रहता है । विमर्श– वृहस्पति वचनानुसार बालक के जन्म लेने पर भी यही शुद्धि काल समझना चाहिये । [ मासत्रये त्रिरात्रं स्यात्षण्मासे पक्षिणी तथा । अहस्तु नवमादर्वांगूर्ध्वं स्नानेन शुद्ध्यति ॥ ११ ॥ ]
[ हिन्दी — विदेश में मरे हुए बान्धव का समाचार तीन मास के बाद सुनकर तीन रात, छः मास के बाद सुनकर पक्षिणी रात्रि ( वर्तमान दिन तथा आगे वाले दिन के सायंकाल तक ), नौ मास के बाद बान्धव का समाचार सुनकर एक दिन तथा उस ( नौ मास ) के बाद सुनकर केवल स्नान करने से शुद्ध होता है ॥ ११ ॥ ]
अतिक्रान्ते दशाहे च त्रिरात्रमशुचिर्भवेत् ।
संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुद्ध्यति ॥ ७५ ॥
भाष्य — यस्य य: कृत आशौचकालो दशाहादिस्तस्य तदूर्ध्वं त्रिरात्रम् । यस्य तु त्र्यहैकाहादिस्तस्य तत ऊर्ध्वं सवाससः स्नानमात्रमेव । तथा चोत्तरत्र वक्ष्यति “ सवासाः ” इत्यादि । संवत्सरे अतीते अतिक्रान्ते स्पृष्ट्वैवापः स्नात्वा शुध्येदित्यर्थः । “ हस्तेन च सपादेन ” इत्यादिवचनात्सर्वाङ्गस्पर्शनं प्रतीयते, तच्च स्नानमेव ॥७५ ॥।
हिन्दी - विदेश में मृत बान्धव का समाचार मरने के दस दिन बाद सुनकर सपिण्ड तीन दिन में शुद्ध होता है तथा एक वर्ष बीतने पर उक्त समाचार सुनकर केवल स्नान करने से सपिण्ड शुद्ध ( अशौच से रहित ) हो जाता है ॥७५ ॥
निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च ।
सवासा जलमाप्लुत्य शुद्धो भवति मानवः ॥७६ ॥
भाष्य — समानोदकानामयं विधिः । त्र्यहैकाहपक्षे च सपिण्डानामपि ।
सवासा वाससा सहितः ।
जलमाप्लुत्य स्नात्वेत्यर्थः ॥७६ ॥
हिन्दी - दस दिन बीतने पर सपिण्ड बान्धव का मरण या पुत्र का जन्म सुनकर वस्त्रसहित स्नान करके मनुष्य शुद्ध ( स्पर्श के योग्य ) हो जाता है ॥ ७६ ॥
पृष्ठ 715
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता बालक तथा समानोदक के विदेश में मरने पर-बाले देशान्तरस्थे च पृथक्पिण्डे च संस्थिते । ६३५ सवासा जलमाप्लुत्य सद्य एव विशुध्यति ॥७७ ॥
भाष्य — बालेऽदन्तजाते सूनौ, देशान्तरस्थे, पृथक्पिण्डे, च संस्थिते, इत्ये-कार्थानि पदानि । पृथक्पिण्डः समानोदक इति यावत् । तस्मिन् देशान्तरस्थे संस्थिते । सद्यः शुद्धिः । संनिधौ " त्र्यहात्तूदकदायिनः ” इत्युक्तम् ॥ ७७ ॥
हिन्दी – बालक ( बिना दांत उत्पन्न हुए ) तथा समानोदक ( सपिण्ड नहीं - ५।६० ) बान्धव के मरने पर मनुष्य वस्त्र के साथ स्नान कर तत्काल शुद्ध हो जाता है ॥ ७७ ॥
अशौच तथा सूतक के बीच में पुनः अशौच तथा सूतक होने पर—
अन्तर्दशाहे चेत्स्यातां पुनर्मरणजन्मनी ।
तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम् ॥ ७८ ॥
भाष्य — अत्रापि दशाहग्रहणमाशौचकालोपलक्षणार्थम् । यस्य य आशौचकालस्तस्मिन्न निवृत्ते यदि पुनरन्यदाशौचनिमित्तमुत्पद्यते तदा पूर्वशेषेणैव शुद्धिर्न त्वन्तरा निपतितं यत्तदीयादह्नः प्रभृति दशाहादिगणना कर्तव्या । तथा च गौतम: ( १४ । ५ ) “ तच्चे-दन्तःपुनरापतेत्तच्छेषेण शुद्धयेयुरिति ” । मरणजन्मनी इति समासे यत्नमन्तरेण क्रमाप्रतिपत्तेर्व्यन्तरेणाप्युपनिपातप्राप्तौ समा-चारात्समानजातीय एवेति द्रष्टव्यम् । पुनःशब्दश्च समानजातीयापेक्षया समर्थतरो भवति । विप्रग्रहणमप्याशौचिनामुपलक्षणार्थम् । स्मृत्यन्तरे तु विहितं “ रात्रिशेषे द्वाभ्यां, प्रभाते तिसृभिः ” इति । ' एतस्य ब्राह्मणस्य प्रेतस्पर्शे दशरात्रमाशौचमिति ' प्रकृत्य ' न चेदन्तरा म्रियेत जायेत वा शिष्टैरेव दिवसै: शुद्धयेत ” इतीयं स्मृतिः समानजातीयासमानजातीयभेदं नानुमन्यते ॥७८ ॥
हिन्दी – पूर्वागत अशौच या सूतक के दस दिन बीतने के पहले ही फिर किसी का मरण या जन्म होने पर तब पहले अशौच तथा सूतक के दस दिन पूरा होने से ही ब्राह्मण ( द्विज ) शुद्ध हो जाता है । ( पहले अशौच तथा सूतक में ही दूसरे अशौच या सूतक का अन्तर्भाव हो जाता है ) ॥७८ ॥
आचार्यादि के मरने पर अशौचकाल-त्रिरात्रमाहुराशौचमाचार्ये संस्थिते सति ।
तस्य पुत्रे च पल्यां दिवारात्रमिति स्थितिः ॥७९ ॥
पृष्ठ 716
पाठ पढ़ें पाठ छिपाएँ
६३६ मनुस्मृतिः [ पञ्चम:
आचार्य्य उपनेता । तस्मिन् संस्थिते । त्रिरात्रं शिष्यस्य ।
तस्याचार्यस्य पुत्रे पल्यां च संस्थितायामहोरात्रम् ॥७ ९ ॥
हिन्दी — आचार्य ( २।१४० ) के मरने पर तीन ( दिन - रात ), और आचार्य - पुत्र तथा आचार्य - पत्नी के मरने पर एक दिन - रात अशौच होता है, यह शास्त्र मर्यादा है ॥७९ ॥
श्रोत्रिय, मामा आदि के मरने पर अशौच काल-श्रोत्रिये तूपसम्पन्ने त्रिरात्रमशुचिर्भवेत् । मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च ॥८० ॥
भाष्य — वेदशाखाध्यायी श्रोत्रियः । उपसम्पन्नः मैत्र्या प्रयोजनेन वा केनचित्सङ्गत: शीलेन युक्तो वा । पूर्वं तु सब्रह्मचारिण्येकाहमगृहीतवेदे दृष्टम् । अभिधानकोशे तु ‘ उपसम्पन्नो ' मृतपर्यायः । बहुकालत्वादाशौचस्य पूर्वैव व्याख्या ज्यायसी ॥ अन्ये तु ‘ श्रोत्रिये मातुले त्रिरात्रमित्येव सम्बन्धन्ति, ' पक्षिणीं रात्रि’मिति शिष्या-दिभिः । बान्धवाः श्यालकमातृष्वस्रेयादयः । यदा तु ‘ मातुले पक्षिणीमिति ' सम्बन्धस्तदा मातुले बान्धवत्वादेव सिद्धा पक्षिणी,
पुनर्वचनं नित्यार्थम् । तेनान्येषु बान्धवेषु यथाकामम् ॥८० ॥
हिन्दी— श्रोत्रिय ( अपने गृह में रहने वाला मित्रभावापन्न वेदपाठी ), के मरने पर तीन रात तथा मामा, शिष्य, ऋत्विक् ( २।१४३ ) और बान्धव के मरने पर पक्षिणी रात्रि ( वर्तमान दिन तथा अगले दिन सायंकाल तक ) अशौच होता है ॥ ८० ॥।
राजा आदि के मरने पर अशौच काल-प्रेते राजनि सज्योतिर्यस्य स्याद्विषये स्थितः ।
अश्रोत्रिये त्वहः कृत्स्नमनूचाने तथा गुरौ ॥ ८१ ॥
भाष्य — राजशब्दोऽयमभिषेकादिगुणयोगिनि वर्णमात्रे लक्षणया वर्तते । यत आह यस्य स्याद्विषये स्थितः । जातिविशेषावच्छिन्नविषयेश्वरवचनत्वे लक्षणा, न च शब्दार्थः । सज्योतिः । सह ज्योतिषा वर्तते । दिवा प्रेते दिवैव, रात्रौ तु तन्नास्ति । एवं रात्रौ रात्रिरेव नाह: । इदमेव ज्ञापकमन्यत्र रात्रिग्रहणेऽहर्ग्रहणेऽप्यहोरात्रप्रतिपत्तेः । यथा ‘ रात्रि-भिर्मासतुल्याभिस्त्र्यहमेकाहमिति ' । ' अह्ना चैकेने ' त्यत्र तु रात्रिग्रहणं पादपूरणार्थम् । रात्रावग्निर्ज्योतिः । एवं ह्यग्निहोत्रब्राह्मणे ' अग्निना वै तेजसा तेजस्विन्यादित्येन तेजसा न भवति ' । अश्रोत्रियेऽवेदाध्यायिनि, अनूचाने, कृत्स्नमहः । रात्रौ न भवत्येव— उत्पन्नेऽपि रात्रौ निमित्ते ।
पृष्ठ 717
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा’हिन्दीटीकासहिता “ कथं पुनरश्रोत्रियेऽनूचाने । एवं हि स्मर्यते ' प्रवचने साङ्गेऽधीतीति ' । ” ६३७ सत्यं प्रवक्ताऽप्यनूचान उच्यते । तेनैवं कथंचिदङ्गादिग्रन्थार्थान्यः प्रवक्ति तस्मिन्न-यमहर्विधिः I । उपसम्पन्ने च गुरौ पूज्यत्वेन मुख्ये आचार्ये वा विध्यन्तरभावात् । केचित्तु अश्रोत्रिये त्वित्यत्र न सम्बन्धन्ति । इह नञः प्रश्लेषेण योऽन्येषामुपा-ध्यायस्तस्य च न कश्चित्तमं विधिमाचक्षते ॥८१ ॥
हिन्दी — जिसके देश में रहता हो, उस अभिषिक्त राजा के दिन में मरने पर सायं ( सूर्यास्त ) काल तक और रात में मरने पर प्रात: काल ( ताराओं के रहने का समय ) तक अशौच होता है । घर में रहने वाले अश्रोत्रिय ( श्रोत्रिय के लिये तीन रात पहले ( ५।८१ ) कह चुके हैं ), अनूवान ( अङ्गों के सहित वेद पढ़ने वाला ) और गुरु ( २।१४ ९, १४२ भी ) के दिन में मरने पर केवल सायंकाल तक और रात में मरने पर प्रातःकाल तक अशौच रहता है || ८१ ॥ चतुर्वर्ण का शुद्धिकाल—
शुद्ध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥ ८२ ॥
भाष्य — क्षत्रियादीनां प्रागुक्तवृत्ताद्यपेक्षस्त्र्यहचतुरहादिकल्पव्यावृत्त्यर्थमिदम् । ब्राह्मणे दशाहस्त्वनूद्यत एव । अत्र त्विदं वाच्यं— “ केन क्षत्रियादीनां द्वादशाहेन नियतकालाप्राप्तिर्येन कल्पान्त-रव्यावृत्त्यर्थताऽवगम्यते ” । इयमेव ह्येषामियत्कालस्य प्रापकम् । सत्यस्मिंस्तत्र दशाहोऽयमाशौचकालस्तदु-पलक्षणार्थो विज्ञायते । न च सत्यप्यस्मिंस्तस्योपलक्षणार्थता । सत्यपि चातुर्वर्ण्याधिकारे यस्यैव दशाह उक्तस्तस्यैवेतरे कल्पा इति । स्मृत्यन्तरे च ब्राह्मणविवक्षयैवोक्तम् “ एकाहाद्ब्राह्मणस्य स्यात्स्वाध्याय ’ ” इत्यादि । तेषां तु स्मृत्यन्तरे यानि कल्पान्तराण्याम्नातानि तानि विकल्प्यन्ते । एकादशे आशौचकालः कश्चिद्विवरणकार आह “ शुद्धयेद्विप्रो दशाहेनेति ” अत्राहर्ग्रहणं विवक्षितं, तेन दशम्यां रात्रौ नास्त्याशौचम् । ततः पूर्वेद्युर्निमन्त्रणादि युक्तम् । अग्निं चाधास्यतः पौर्वाह्निकजागरणादिनाऽऽशौच अपक्रान्तो भविष्यति । तदयुक्तम् । अहर्विवक्षायामाद्यास्वपि रात्रिषु न स्यादाशौचम् । अथ ' दशाहं शाव-मिति ' एतस्मात्तत्र भविष्यति । अत्राविवक्षायां किं प्रमाणम् । तस्मादहःशब्दोऽयमहोरात्रवचन इति प्रदर्शितम् । तथा च पूर्वश्लोकेऽहः कृत्स्नमिति रात्रिनिवृत्त्यर्थं कृत्स्नग्रहणम् ॥८२ ॥
पृष्ठ 718
पाठ पढ़ें पाठ छिपाएँ
६३८ मनुस्मृति: [ पञ्चमः हिन्दी — यज्ञोपवीत संस्कार से युक्त सपिण्ड के मरने पर ब्राह्मण दस दिन में, क्षत्रिय बारह दिन में, वैश्य पन्द्रह दिन में और शूद्र एक मास में शुद्ध होता है ॥८२ ॥
विमर्श - शूद्र का यज्ञोपवीतसंस्कार नहीं होने से विवाहित सपिण्ड के मरने पर एक मास का शुद्धिकाल समझे । [ क्षत्रविट्शूद्रदायादाः स्युश्चेद्विप्रस्य बान्धवाः । तेषामशौचं विप्रस्य दशाहाच्छुद्धिरिष्यते ॥१२ ॥ ]
[ हिन्दी – यदि ब्राह्मण के बान्धव क्षत्रिय, वैश्य, शूद्र धन के लेने वाले मरें तो दस दिन में शुद्धि होती है ॥१२ ॥ ]
[ राजन्यवैश्ययोश्चैवं हीनयोनिषु बन्धुषु । स्वमेव शौचं कुर्वीत विशुद्ध्यर्थमिति स्थितः ॥ १३ ॥ ]
[ हिन्दी — क्षत्रिय और वैश्य के बान्धव यदि अपने से हीन वर्ण ( क्षत्रिय के वैश्य तथाशूद्र और वैश्य के शूद्र ) हों तो उनकी मृत्यु होने पर शुद्धि के लिये वे ( क्षत्रिय तथा वैश्य ) अपने ही अशौच का पालन करें, ऐसी शास्त्रमर्यादा है || १३ || ] [ विप्रः शुद्धयेद्दशाहेन जन्महानौ स्वयोनिषु । षड्भिस्त्रिभिरथैकेन क्षत्रविट्शूद्रयोनिषु ॥ १४ ॥ ]
[ हिन्दी — ब्राह्मण स्वयोनि ( वर्ण ) वाले ( ब्राह्मण ) की मृत्यु होने पर दस दिन में क्षत्रिय वर्ण वाले की मृत्यु होने पर छः दिन में, वैश्य वर्ण वाले की मृत्यु होने पर तीन दिन में और शूद्र वर्ण वाले के मरने पर एक दिन में शुद्ध होता है || १४ || ] [ सर्वे चोत्तमवर्णास्तु शौचं कुर्युरतन्द्रिताः । तद्वर्णविधिदृष्टेन स्वं तु शौचं स्वयोनिषु ॥ १५ ॥ ]
[ हिन्दी - सभी उत्तम वर्ण वाले आलसहीन होकर उन - उन वर्णों के लिये कहे गये अपने - अपने वर्णों की मृत्यु होने पर अपनी - अपनी शुद्धि करें ॥१५ ॥ ]
न वर्धयेदघाहानि प्रत्यूहेन्नाग्निषु क्रियाः ।
न च तत्कर्म कुर्वाणः सनाभ्योऽप्यशुचिर्भवेत् ॥८३ ॥
भाष्य - यस्यैषा बुद्धिः ‘ य उक्तास्त्र्यहादयः कल्पास्तुल्यं दशाहेन विकल्प्यन्ते, न वृत्तादिव्यवस्थयेति, ततश्चिरतरकालमन्यस्य सम्भवे किमित्येकाहपक्षं नित्यस्वाध्याय-क्लेशकरं प्रतिपत्स्ये, दशाहमपाश्रयामि निष्कर्मसुखमासिष्य ' इति, तं प्रति सौहार्द्देन सा व्यवस्था स्पष्टीक्रियते । ' नैते तुल्या अपि तु व्यवस्थिता एव ' । व्यवस्था च प्राग्द-र्शिता । अन्यथा यस्याशौचकालो विहितस्तस्य ततः कालावधिकस्य कुतो वृद्धिप्राप्तिः येनैवमर्थवत्स्यात् विस्पष्टार्थत्वे को दोषः ।
पृष्ठ 719
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ६३ ९ अन्ये त्वाहुरतीतेष्वप्यहःसु यावत्स्नानादिक्रिया न कृता तावन्नैव शुद्धिः । “ विप्रः शुध्यत्यप ” । इत्यादि वक्ष्यति । तत्राशुचित्वादननुष्ठाने न दुष्यामीति स्नानादिषु शुद्धये न प्रवर्तते । तत्रैवमुच्यते ‘ न वर्धये ' न्नातीतेष्वहः सु बाह्याशौचे विलम्बितव्यम् । ये तु— “ अहः शब्दो दशमस्याह्नो या रात्रिस्तस्यामाशौचं न भवतीति’- ते न सम्यङ्मन्यन्त इत्युक्तम् । तथा च गौतम: ( १४ । ६ ) " आशौचमध्य आशौचान्तर उत्पन्ने तच्छेषेण शुद्धिः ” इत्युक्त्वा एकस्यां रात्रौ शेषायां तयैव शुद्धि मन्यमान आह “ रात्रिशेषे द्वाभ्यामिति ” । प्रत्यूहेन्नाग्निषु क्रियाः । अशुचित्वात्सर्वश्रौतस्मार्तक्रियानिवृत्तौ प्राप्तायामिदमुच्यते । अग्निषु याः क्रियाः सायंहोमाद्यास्ता न प्रत्यूहेन प्रत्यस्येत् । ‘ प्रत्यूहो ' निर्यास अननुष्ठानम् । न च स्वयं कुर्याद्यत आह न च तत्कर्म कुर्वाणः सनाभ्योऽपीति । सनाभ्योऽपि नाशुचिः स्यात्किंपुनरन्यः । तथा गृह्यं “ नित्यानि निवर्तेरन्वैतानवर्जं शालाग्नौ चैक ” इत्युक्त्वा आह “ अन्य एतानि कुर्युरिति " । न च यदग्न्याधानं होममात्रमेव क्रियते, किंतर्हि साङ्गप्रयोगः, तत्रैव कर्तुर्नरस्य सम्भवात्प्रधानहोमस्य तु द्रव्यत्यागरूपत्वा-त्स्वयंकर्तृतैव । अतो होमवैश्वदेवदर्शपूर्णमासाद्या निवर्तन्ते । अन्येषां तु जपसन्ध्योपासनादीनां निवृत्तिर्न दर्शिता । तानि च नित्यानि । अतो-ऽन्येषामेवाभ्यनुज्ञानं यतः स्मृत्यन्तरे प्रतिषिद्धं “ होमः स्वाध्यायश्च निवर्तत ” इति । अतो नित्यकाम्यभेदेन व्यवस्था । काम्यं तु नैव कर्तव्यमशुचित्वादधिकारापगमात् । “ ननु च नित्येष्वपि नैवाशुचेरधिकारः ” । न च शौचमङ्गम् । यदि विगुणं नित्यमनुष्ठीयते, न काम्यमित्युच्यते । अथास्माद्व-चनाद्भवति । मैवम् । इह यदपि मानं तदस्यान्य एतानि कुर्युरिति । परकर्तृत्वमभ्य-नुज्ञायते । तच्च विगुणत्वान्नित्येषूपपद्यते न काम्येषु । वैश्वदेवे तु विवदन्ते । स्मृत्यन्तरं चोदाहरन्ति । “ होमं तत्र न कुर्वीत शुष्कधान्यफलैरपि । एवं यज्ञविधानं तु न कुर्यान्मृत्युजन्मनोः ॥ ” अतः सन्ध्याहोमौ दर्शपूर्णमासौ सांवत्सरिकं चाश्वयुज्यादि कर्तव्यम् । उपाकरणं तु नक्षत्राश्रयमेव, न पौर्णामास्याश्रयम् ॥८३ ॥
हिन्दी - अंशौच के दिनों को स्वयं न बढ़ावे और ( वैसा करके ) अग्निहोत्र कर्म का विघात न करे । उस कर्म को करता हुआ सपिण्ड ( पुत्रादि ) भी अशुद्ध नहीं होता है ॥८३ ॥
विमर्श — पहले ( ५।५ ९ ) में गुणानुसार दस, तीन या एक दिन का अशौच
पृष्ठ 720
पाठ पढ़ें पाठ छिपाएँ
६४० मनुस्मृतिः [ पञ्चम: अस्थिसञ्चयन के पूर्व जो कह आये हैं, उसे स्वेच्छानुसार नहीं बढ़ाना चाहिये और वैसा करके अर्थात् स्वेच्छा से अशौच दिन को बढ़ाकर अग्निहोत्र - कार्य का विघात नहीं करना चाहिये । यदि स्वयं सामर्थ्य न हो तो पुत्रादि के द्वारा उक्त कर्म को कराना चाहिये; क्योंकि उक्त अग्निहोत्रादि कर्म को करता हुआ पुत्रादि सपिण्ड भी अपवित्र नहीं होता है । उक्ताशौच दिनों में भी केवल सन्ध्योपासन तथा पञ्चमहायज्ञ के त्याग का ही विधान है, नित्य अग्निहोत्र के लिए तो स्नान तथा आचमन करने से ही शुद्धि हो जाती है । " उक्ताशौच में अग्नि कर्म को अन्य गोत्रोत्पन्न व्यक्ति के द्वारा कराने का विधान ' जाबाल ' ने किया है तथा छान्दोगपरिशिष्टकार ने उक्ताशौच में सन्ध्यादि ( तथा पञ्चमहायज्ञ ) का त्याग और सूखे अन्न या फलों से अग्निहोत्र कर्म करने का विधान किया है मेधातिथि तथा गोविन्दराज ने ' एक दिन और तीन दिन का यह सङ्कोच केवल अग्निहोत्र तथा स्वाध्याय मात्र के लिये किया है, सन्ध्योपासनादि कर्म तो सबको दस दिनों के बाद ही करना चाहिये, ऐसा कहा है परन्तु यह निराधार होने से अप्रामाणिक है । गौतम का ‘ राजाओं के कर्मविरोध से ब्राह्मण के स्वाध्याय से अनिवृत्ति के लिये यह वचन है ' और याज्ञवल्क्य का ‘ ऋत्विजां दीक्षितानाञ्च ( या ० स्मृ ० ३।२८ ) ' वचनानुसार तात्कालिक शुद्धि करना भी सभी दशाहादि अशौच वालों के तत्तत्कर्मपरक हैं । ' कुलस्यान्नं न भुञ्जीत ', इत्यादि वचन दस दिन तक दोनों के लिए उन - उन के निषेधक हैं, दस दिन का अशौच होता है, इस पक्ष के लिये होने से उनके साथ कोई विरोध नहीं है । अतएव अधिक गुणाभिलाषी को होम तथा स्वाध्यायविषयक यह अशौच लाघवपरक वचन है, सन्ध्योपासन के लिये नहीं, यह कथन प्रमाणशून्य है । विशेष मत ' काशी ' संस्कृत पुस्तक-माला चौखम्बा ' से प्रकाशित मनुस्मृति के प्रकृत श्लोक की टिप्पणी में देखना चाहिये ।
चाण्डालादिका स्पर्श कर स्नान से शुद्धि-दिवाकीर्तिमुदक्यां च पतितं सूतिकां तथा ।
शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ॥८४ ॥
भाष्य- – दिवाकीर्तिश्चाण्डालः, अत्यन्ताशुचिसाहचर्याद्भारते च प्रयोगदर्शनान्मार्जार-मूषिकसंवादे “ तस्मिन्नपि च कालेऽभूद्दिवाकीर्तियार्दितः ” इति । न नापितः, तस्य पृश्यत्वात् भोज्यान्नत्वाच्च । यत्तु श्मश्रुकर्मणि तस्येदं स्नानमित्याहुस्तदपि सिद्धत्वाद-१. तथा च शङ्खलिखितौ – ' अग्निहोत्रार्थं स्नानोपस्पर्शनाच्छुचिः । ' इति ( म ० मु ० ) । २. ‘ जाबालोऽप्याह— ' जन्महानौ वितानस्य कर्मलोपो न विद्यते । शालाग्नौ केवलो होमः कार्य एवान्यगोत्रजैः ॥ ' इति ( म ० मु ० ) । ३. ‘ छन्दोगपरिशिष्टमपि— मृतके कर्मणां त्यागः सन्ध्यादीनां विधीयते । होमः श्रौते तु कर्तव्यः शुष्कान्नेनापि वा फलैः ॥ ' इति ( म ० मु ० ) ।