मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 71–80
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 71–80
पृष्ठ 71
पाठ पढ़ें पाठ छिपाएँ
॥ श्रीः ॥ मनुस्मृतिः मेधातिथिकृत‘मनुभाष्य ' हरगोविन्दशास्त्रीकृत'मणिप्रभा ' हिन्दीटीकासहिता प्रथमोऽध्यायः
मनुमेकाग्रमासीनमभिगम्य महर्षयः ।
प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन् ॥१ ॥
* मनुभाष्य *
वेदान्तवेद्यतत्त्वाय जगत्त्रितयहेतवे ।
प्रध्वस्ताशेषदोषाय परस्मै ब्रह्मणे नमः ॥ १ ॥
चतुर्भिः पदश्लोकैर्विशिष्टकर्तृत्वमनन्यप्रमाणवेद्यपुरुषार्थोपदेशकत्वं चास्य शास्त्रस्य प्रतिपाद्यते प्रतिष्ठार्थम् । प्रतिष्ठिते हि शास्त्रे कर्तृभिः स्वर्गयशसी प्राप्येते यावत्संसार-मनपायिनी च भवतः । शास्त्रं च प्रतिष्ठां लभते यदि तत्र केचिदध्ययनश्रवणचिन्तनादिषु प्रवर्तन्ते । न च बुद्धिपूर्वव्यवहारिणोऽध्ययनादिष्वनवधृतप्रयोजनाः प्रवर्तितुमर्हन्ति । अतः पुरुषार्थसिद्धावुपायपरिज्ञानार्थमिदं शास्त्रमारभ्यते इत्येतत्प्रतिपादनार्थं श्लोक-चतुष्टयमाचार्यः पपाठ । न च वाच्यम् — ‘ “ अन्तरेणैवादितः प्रयोजनवचनं वक्ष्यमाणशास्त्रपौर्वापर्यपर्या-लोचनयैवेदं पर्यवस्यामः किं तत्प्रतिपादनार्थेन यत्नेनेति । किञ्च । उक्तमपि प्रयोजनं यावत्परस्तान्नावमृष्टं तावन्न निश्चीयते । न हि सर्वाणि पुरुषवचांस्यर्थे निश्चयनिमित्तम् । न चैष नियम: सर्वत्र प्रयोजनपरिज्ञानपूर्विकैव प्रवृत्तिः स्वाध्यायाध्ययनेऽतन्निबन्धनायाः प्रवृत्तेर्दर्शनात् । पौरुषेयेष्वपि ग्रन्थेषु नैव सर्वेषु प्रयोजनाभिधानमाद्रियते । तथाहि । भगवान्पाणिनिरनुक्तैव प्रयोजनम् ' अथ शब्दानुशासनमिति ' सूत्रसंदर्भमारभते " । अत्रोच्यते । आरम्भेऽनवधृतप्रयोजना नैव प्रथमतो ग्रन्थमुपाददीरन् । अनुपादा-नाच्च कुतः शास्त्रं कार्त्स्न्येन पर्यालोचयेयुः । किञ्च पौर्वापर्यपर्यालोचनया योऽर्थो बुद्धिगोचरतामावहति स एव त्वादितः सङ्क्षेपेणोच्यमानः सुग्रहो भवति । तदुक्तम् “ इष्टं हि विदुषां लोके समासव्यासधारणमिति ” ।
पृष्ठ 72
पाठ पढ़ें पाठ छिपाएँ
मनुस्मृतिः [ प्रथमः यत्तु— “ उक्तमपि न निश्चीयते, पौरुषेयेभ्यो वाक्येभ्योऽर्थनिश्चयाभावात् । एव-मेवायं पुरुषो वेदेति प्रत्ययो न त्वेवमर्थ इति ” – नात्र विवदामहे निश्चयोऽस्ति नास्तीति, ग्रन्थगौरवप्रसङ्गात् । अर्थसंशयेऽपि प्रवृत्तिसिद्धौ नियतविषयसंशयोत्पत्ति-र्नान्तरेण प्रयोजनवचनम् । अनुक्ते हि किमिदं धर्मशास्त्रमर्थशास्त्रं काकदन्तपरीक्षादि-लक्षणरूपं वेत्यपि संशयः स्यात् । अभिहिते तु प्रयोजनेऽयं तावदेवमाह न श्रेयसः पन्थानं दर्शयामीति न च मे प्रवृत्तस्य काचित्क्षतिरस्ति । भवतु, पर्यालोचयामीति प्रवृत्तिसिद्धिः । या तु स्वाध्यायाध्ययने प्रवृत्तिः साऽऽचार्यप्रयुक्तस्य, न स्वाधिकारप्रतिपत्त्या | नहि तदानीं बालत्वात्स्वाधिकारं प्रतिपत्तुमुत्सहते । परप्रयुक्त्यैव च प्रवृत्तिसिद्धिः । नाधिकारप्रतिपादनेनापि चावेद्यते । अतस्तत्र प्रवृत्तस्य प्रयोजनमर्थावबोधोऽतश्च प्रवृत्तिः । इह तु “ योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रममिति ” गृहीतवेदस्याध्ययनाधिकारः । तदानीं चाभ्युत्पन्नबुद्धित्वात्प्रयोजनमन्विच्छति । भगवतः पुनः पाणिनेरतिसङ्क्षिप्तानि सूत्राणि । नैवार्थान्तराभिधानपरत्वाशङ्का । तत्र आकुमारं च यशः पाणिनेः प्रख्यातमिति सुप्रसिद्धप्रयोजनत्वादनुपन्यासः । अयं तु विततो ग्रन्थोऽनेकार्थवादबहुलः सर्वपुरुषार्थो-पयोगी । तत्र सुखावबोधार्थे प्रयोजनाभिधाने न किञ्चित्परिहीणम् । द्वये च प्रतिपत्तारः – न्यायप्रतिसरणाः प्रसिद्धिप्रतिसरणाश्च । तत्र “ मनुर्वैयत्किञ्चा-वदत्तद्भेषजमिति ’ ” – ‘ “ ऋचो यजूंषि सामानि मन्त्रा आथर्वणाश्च ये सप्तर्षिभिस्तु यत्प्रोक्तं तत्सर्वं मनुरब्रवीदि’त्याद्यर्थवादेतिहासपुराणादिभ्यः प्रख्यातप्रभावः – लोके तत्प्रसिद्ध्यैव वा निरूपितमूलपातेन प्रजापतिनैतत्प्रणीतमित्येतावतैव - श्रोत्रिया: प्रव-र्तन्त इति । तान्प्रति कर्तृविशेषसम्बन्धोऽपि प्रवृत्त्यङ्गम् । अत एव च प्रश्नप्रतिवचन-भङ्गया प्रयोजनोपन्यासः । महर्षयः प्रष्टारः प्रजाप्रतिर्वक्ता, धर्मलक्षणश्चार्थो न लोका-वगम्यः, शास्त्रैकगोचरोऽयम् यत्र महर्षयोऽपि संशेरत इति एवंपर आदेशोऽपि — स तैः पृष्ट इति, नाहं पृष्ट इति – तथाऽऽत्मनो ब्रह्मणोऽकृत्रिमप्रतिमत्वं चेत्येवमादिः । तद्व्युत्पादनार्थो युक्तः शास्त्रारम्भ इति श्लोकचतुष्टयस्य तात्पर्यम् । यथा चानेन पुरुषार्थोपदेशपरता शास्त्रस्योच्यते तथा पदार्थयोजनात्प्रतिपाद-यिष्यामः । तत्र मनुमभिगम्य महर्षय इदं वचनमब्रुवन् ' धर्मन्नो वक्तुमर्हसीति ' । स पृष्ट: प्रत्युवाच ' श्रूयतामिति ' । एवं प्रश्नप्रतिवचने एकार्थप्रतिपादके तात्पर्येण भवतः । अतो धर्मा अत्र प्रतिपाद्यन्त इत्युक्तं भवति । धर्मशब्दश्च लोके श्रेयः साधने प्रत्यक्षादि-भिर्लौकिकैः प्रमाणैः शब्दादितरैरविहिते प्रयुज्यते । अतः स श्रूयतामिति सम्बन्धे विशिष्टपुरुषार्थसाधनत्वमुक्तं भवति ।
पृष्ठ 73
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता ३ मनुर्नाम कश्चित्पुरुषविशेषोऽनेकवेदशाखाध्ययनविज्ञानानुष्ठानसम्पन्न: स्मृति-परम्पराप्रसिद्धः । तमभिगम्याभिमुख्येन तत्समीपं गत्वा, व्यापारान्तरत्यागेन, न यदृच्छया, सङ्गम्य । अनेन चाभिगमनप्रयत्नेन पृछ्यमानवस्तुगौरवं वक्तुश्च प्रामाण्यं ख्याप्यते । न ह्यकुशलः प्रतिवचने यत्नेन पृच्छ्यते आगत्य । एकाग्रमासीनमेकाग्रं स्थितमेकाग्रं सन्तम् । न त्वत्र वृस्याद्युपवेशनमासनम्, अनु-पयोगात् । आसनेन स्वस्थवृत्तिता लक्ष्यते । तथाभूतः प्रतिवचनसमर्थो भवति । ‘ अभि-गम्येति ' केवल एव मनुः कर्म । प्रश्नक्रियायास्त्वेकाग्रमासीनमिति विशेषणम् । कुशल-प्रश्नानुरूपकथाप्रवृत्त्यादिनैकाग्रमविक्षिप्तमनस्कं ज्ञात्वा प्रश्नश्रवणे दत्तावधानमिदं वचनमब्रुवन् । एकाग्रशब्दो रूढ्या निश्चलतामाह । प्रत्याहारेण परिहृतरागादिदोषसंसर्गस्य विकल्पनिवृत्तौ तत्त्वावबोधचिन्तायां मनसः स्थैर्यमेकाग्रता । तथाभूत एव च सन्नि-हितरूपशब्दादिविषयावधारणे योग्यो भवति, न सदसद्विकल्पयुक्तः । अथवा योगतोऽग्र-शब्दो मनसि वर्तते, अर्थग्रहणे चक्षुरादिभ्योऽग्रगामित्वात् । प्रथमप्रवृत्तियुक्तः पुरःसरो लोकेऽग्र उच्यते । एकस्मिन् ध्येये ग्राह्ये वाऽग्रमस्येति विग्रहः, व्यधिकरणानामपि बहुव्रीहिर्गमकत्वात् । अत्रापि व्याक्षेपनिवृत्तिरेवैकाग्रता । प्रतिपूज्य यथान्यायम् | न्यायः शास्त्रविहिता मर्यादा – तामनतिक्रम्य – यादृशी शास्त्रेणाभिवादनोपासनादिका गुरोः प्रथमोपसर्पणे पूजा विहता तथा पूजयित्वा, भक्त्यादरौ दर्शयित्वा । महर्षयः । ऋषिर्वेद; तदध्ययनविज्ञानतदर्थानुष्ठानातिशययोगात् पुरुषेऽप्यृषि-शब्दः । महान्तश्च ते ऋषयश्च – तेषामेव गुणानामत्यन्तातिशयेन महान्तो भवन्ति । यथा “ युधिष्ठिरः श्रेष्ठतमः कुरूणमिति ' । अथवा तपोविशेषात् पूजाख्यातिविशेषाद्वा महान्तः । इदं वचनमब्रुवन् । उच्यतेऽनेनेति वचनम् — वक्ष्यमाणं द्वितीयश्लोकप्रश्न-बाक्यमिति । तदेव प्रत्यासन्नत्वादिदमिति प्रतिनिर्दिशति 1 । येषामपि प्रत्यक्षवस्तुप्रति-निर्देशक इदं शब्दस्तेषामपि बुद्धिस्थत्वात् प्रश्नस्य प्रत्यक्षता । अथवोच्यत इति वचनं पृच्छ्यमान वस्त्वब्रुवन् । वाक्यपक्ष इदं वाक्यमुच्चारितवन्तः । कर्मसाधने तु वचनशब्द इदमपृच्छन् । द्विकर्मकश्च तदा ब्रूञ् अकथितकर्मणा मनुना । तिसृणां क्रियाणां मनुः कर्म ॥१ ॥
* मणिप्रभा * ( स्वयंभुवे नमस्कृत्य ब्रह्मणेऽमिततेजसे । मनुप्रणीतान्विविधान् धर्मान्वक्ष्यामि शाश्वतान् ॥ १ ॥ )
पृष्ठ 74
पाठ पढ़ें पाठ छिपाएँ
मनुस्मृतिः
शारदां सारदां शुभ्रां शङ्करं लोकशङ्करम् ।
नत्वा मनूक्तधर्माणां व्याख्यां कुर्वे ' मणिप्रभाम् ' ॥ १ ॥
[ प्रथम: [ अपरिमित तेजस्वी स्वयम्भू ब्रह्मा को नमस्कार कर ( मैं भृगु मुनि ) मनु के कहे हुए विविध नित्य धर्मो को कहूँगा । ] [ विमर्श — यह ‘ मनुस्मृति ' भगवान् मनु से सुनकर भृगु मुनि ने बनायी है ( श्लो ० ५ ९ -६० ) तथा उन्होंने ने ही इस रूप में प्रश्नकर्ता महर्षियों को इसे सुनाया है, इस कारण भगवान् मनु के अर्थप्रवचनकर्ता होने पर भी ग्रन्थ के रचयिता नही होने से अनेक स्थलों पर ( श्लो ० १११,.... ) भगवान् मनु ने कहा है ' आदि वचन असङ्गत नहीं होते तथा " मनूक्त वचन भृगु कहते हैं ( यथा मनुनोक्तं भृगुः ) ” यह याज्ञवल्क्यस्मृति के ‘ मिताक्षरा ' टीकाकार विज्ञानेश्वर भट्टाचार्य का कथन भी सङ्गत होता है । ” ब्रह्मा के पुत्र बुद्धिमान् मनु ने इस शास्त्र को रचा ( स्वाम्भुवो मनुर्धीमानिदं शास्त्रमकल्पयत्- श्लो ० १०२ ) । इस वक्ष्यमान वचन को भी, ' याज्ञवल्क्यस्मृति ' नाम से सर्वप्रसिद्ध होने से पूर्वापर विरुद्ध नही मानना चाहिए । ] महर्षि लोग एकाग्रचित तथा सुखपूर्वक बैठे हुए भगवान् मनु के पास जाकर यथोचित ( प्रश्नकर्ता के योग्य श्रद्धा - भक्ति आदि के साथ ) प्रतिपूजन कर यह वचन बोले ॥१ ॥
विमर्श - ' एकाग्रचित तथा सुखासीन ' विशेषण होने से मनु भगवान् का अनाकुल होकर उतर देने का निश्चय होता है । महर्षियों के पहुँचने पर मनु ने उन अतिथियों का आतिथ्य सत्कार किया, तदनन्तर वे महर्षि स्वयं प्रश्नकर्ता होने से उनका श्रद्धा एवं भक्ति के साथ यथावत् प्रतिपूजन किया । इस स्मृति का विषय- धर्म, सम्बन्ध - उनके साथ मानवशास्त्र का प्रतिपाद्यपादकभाव रूप और प्रयोजन - स्वर्ग आदि ( अर्थार्जन काम आदि ) है । अभिगम्य प्रतिपूज्य किमब्रुवन्नित्यपेक्षायां द्वितीयं श्लोकः—
भगवन् सर्ववर्णानां यथावदनुपूर्वशः ।
अन्तरप्रभवानां च धर्मान्नो वक्तुमर्हसि ॥ २ ॥
भाष्य- -ऐश्वर्यौदार्ययशोवीर्यादौ भगशब्दः । सोऽस्यास्तीति, मनुः । तेन सम्बोधनं भगवन्निति । वर्णशब्दश्च तिसृषु ब्राह्मणादिजातिषु वर्तते I । सर्वग्रहणं शूद्रावरोधार्थम् । इतरथा महर्षीणां प्रष्टृत्वात् त्रैवर्णिकविषये प्रश्नः कृतः स्यात् । अन्तरं तन्मध्यम् । द्वयोर्जात्योः सङ्करादेकाऽप्यपरिपूर्णा जातिः । अन्तरे प्रभव उत्पत्तिर्येषां तेऽन्तरप्रभवाः अनुलोमप्रतिलोमा मूर्धावसिक्ताम्बष्ठक्षत्तृवैदेहकादयः । न हि ते माता - पित्रोरन्यतरयाऽपि जात्या व्यपदेष्टुं युज्यन्ते । यथा रासभाश्वसंयोगजः खरो न रासभो नाश्वो, जात्यन्तरमेव । अतः वर्णग्रहणेनाग्रहणात्पृथगुपादीयन्ते ।
पृष्ठ 75
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता “ नन्वनुलोमा मातृजातीया इष्यन्ते ” । नेति ब्रूमः । सदृशानेव तानाहुरिति मातृ-जातिसदृशास्ते न तज्जातीया एव । सोऽप्येषां धर्मों वाचनिको न वस्तुस्वभावसिद्धः । अतः प्रमाणान्तरागोचरत्वाद्धर्मपक्षपतितत्वे शास्त्रोपदेशार्हा एव । प्रतिलोमानामप्य-हिंसादयो धर्मा वक्ष्यन्ते । यत्तु धर्महीना इति तद्व्रतोपवासादिधर्माभावाभिप्रायेण । सर्व-पुरुषोपकारिता चानेन शास्त्रस्य प्रदर्श्यते । यथावत् । ‘ अर्हत्यर्थे वति: ' - येन प्रकारेणानुष्ठानमर्हति । इदं नित्यमिदं काम्यमिदमङ्गमिदं प्रधानम् । द्रव्यदेशकालकर्त्रादिनियमश्च प्रकारोऽर्हतेर्विषय: । अनु-पूर्वशः । अनुपूर्वः क्रमः । येन क्रमेणानुष्ठेयानि सोऽप्युच्यताम् । “ जातकर्मान्तरं चौडमौञ्जीनिबन्धनेत्यादि " । यथावदित्यत्र पदार्थविषयं कार्त्स्यमुपात्तम् । क्रमस्तु पदार्थो न भवत्यतः पृथगनुपूर्वश इत्युपात्तम् । धर्मशब्दः कर्तव्याकर्तव्ययोर्विधिप्रतिषेधयोरदृष्टार्थयोस्तद्विषयायां च क्रियायां दृष्टप्रयोगाः । तस्य तु किमुभयं पदार्थ उतान्यतरत्र गौण इति नायं विचारः क्रियते, ग्रन्थातरे विस्तरेण कृतत्वादिहानुपयोगाश्च । सर्वथा तावत् ‘ अष्टकाः कर्तव्याः ' ‘ न कलञ्जं भक्षयेत् ' इत्यादावष्टका विषया कर्तव्यता प्रतीयते, कलञ्जभक्षणविषयश्च प्रतिषेधः । तदष्टकाख्यं कर्म धर्मस्तद्विषया वा कर्तव्यतेति फले न विशेषः । धर्म-रूपोपदेशाश्च यत्तद्विपरीतमधर्मोऽसावित्यर्थात्सिध्यति । अतो धर्माधर्मावुभावपि शास्त्रस्य विषय इत्युक्तं भवति । तत्राष्टकाकरणं धर्मो ब्रह्महत्यादिवर्जनं च धर्मः, अष्टकानाम-करणमधर्मो ब्रह्महत्यायाश्च करणमधर्मः – अयं धर्माधर्मयोर्विवेकः । अर्हसीति सामर्थ्यलक्षणया योग्यतया प्रवचनाधिकारमाचार्यस्याहुः - यतस्त्वं समर्थो धर्मान्वक्तुमतोऽधिकृतः सन्नध्येष्यसे ब्रूहीति । यो यत्राधिकृतस्तत्तेन कर्तव्यमिति सामर्थ्यगम्यं ब्रूहीत्यध्येषणापदमध्याह्रियते ॥२ ॥
हिन्दी - हे भगवान्! सब वर्णों ( ब्राह्मण, क्षत्रिय, वैश्य तथा शूद्र ) और अम्बष्ठादि अनलोमज, ' सूत ' आदि प्रतीलोमज तथा भूर्जकण्टक आदि सङ्कीर्ण
( १०।८-४० ) जातियों के यथोचित धर्मों को क्रमशः कहने के लिए आप योग्य हैं ।
( अतः उन्हें कहिये ) ॥२ ॥
त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयम्भुवः । अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित्प्रभो ॥ ३ ॥
भाष्य – “ उक्तमदृष्टार्थे व्यापारमात्रे धर्मशब्दो वर्तते । तत्र यथाऽष्टकादौ तस्य प्रयोग एवं चैत्यवन्दनादावपीति । तत्र कतमे धर्मा अत्रोच्यन्त " इति संशये धर्मविशेष-प्रतिपादनार्थमुक्तसामर्थ्यप्रतिपादनार्थं च ' त्वमेक इति ' । ' त्वमेवैकोऽसहायोऽद्वितीयः । सर्वस्य विधानस्य कार्यतत्त्वार्थवित् । विधानं शास्त्रं विधीयन्तेऽनेन कर्माणीति । मनु I - 5
पृष्ठ 76
पाठ पढ़ें पाठ छिपाएँ
मनुस्मृतिः [ प्रथमः तस्य स्वयम्भुवो नित्यस्याकृतकस्यापौरुषेयस्य वेदाख्यस्य । सर्वस्य प्रत्यक्षाक्षर-स्यानुमेयाक्षरस्य च । ‘ अग्निहोत्रं जुहुयादयं सहस्रमानव ' इत्येतया आहवनीयमुपतिष्ठते इति प्रत्यक्ष एव वेदोऽयं होमं विधत्ते । एतयेति च तृतीयया प्रत्यक्षस्यैव मन्त्रस्याह-वनीयोपस्थाने विनियोगः । ‘ अष्टकाः कर्तव्या ' इत्यत्र तु स्मृत्याऽनुमीयते वेदः । ‘ बर्हि-र्देवसदनं दामीति ' लिङ्गादनेन बर्हिर्लुनातीति श्रुतेरनुमानम् । अयं हि मन्त्रो दर्श-पूर्णमासप्रकरणे पठितो बर्हिर्लवनं च तत्राम्नातम् । अनेन मन्त्रेण लुनीयात् इत्येतत्त नास्ति । मन्त्रः पुनारूपाद्वर्हिर्लवनप्रकाशनसमर्थः । प्रकरणात्सामान्यतः सिद्धो दर्शपूर्ण-माससम्बन्धः । स्वसामर्थ्येन तु बर्हिर्लवने प्रयुज्यते । एषा ह्यत्र प्रतीति: । प्रकरणाद्दर्शपूर्ण-मासावनेन मन्त्रेण कुर्यात् — कथमिति — यथा शक्नुयादित्यनुक्ताऽपि शक्तिः सर्वत्र सहकारिणी । किं च शक्नोति मन्त्रः कर्तुम् । बर्हिर्लवनं प्रकाशयितुम् । ततः प्रकरणात् स्वसामर्थ्याच्चानेन मन्त्रेण ' बर्हिर्लुनातीति ' बुद्धौ शब्द आगच्छति । सविकल्पकविज्ञानैः पूर्वं शब्दः प्रतीयत इति । स बुद्धिस्थः शब्दोऽनुमेयो वेद उच्यते । वेदत्वं च, तस्य दर्श-पूर्णमासवाक्यमन्त्रवाक्याभ्यां श्रुत्यन्तराभ्यां स्वसामर्थ्येनोत्थापितत्वादितिकुमारिलपक्षः । अथवा विधिर्विधानमनुष्ठानं प्रयोजनसम्पत्तिः । तस्य स्वयम्भुवो नित्यस्यानादि-परम्परायातस्य, स्वयम्भुवा वेदेन वा प्रतिपाद्यस्य, सर्वस्य श्रूयमाणक्षरप्रतिपाद्यस्य प्रतिपन्नार्थसामर्थ्यगम्यस्य च । द्विविधो हि वैदिको विधिः । कश्चित्साक्षाच्छब्दप्रतिपाद्यः । यथा ‘ सौर्यं चरुं निर्वपेत् ब्रह्मवर्चसकाम ' इति सौर्यचरौ ब्रह्मवर्चसकामोऽधिक्रियते । तस्य चरोर्ब्रह्मवर्चसं साधयत इयमितिकर्तव्यता आग्नेयवदित्यवगम्यते । उभयत्रापि चेयं प्रतीतिः शब्दावगममूलत्वात् शब्द एव । उभावपि शब्दादभिधानतः प्रतीयेते, तथा चाभिधेयप्रतिपत्तितः । विशेषस्तु व्यवधानादिकृतो न शब्दतां विहन्ति । यथा वापीस्थमुदकं हस्तेनाभिहतं प्रदेशान्तरमभिहन्ति तदपि हस्तसंयोगेनैवाभिहतं भवति, न तु साक्षात् । शर्कराणां रेचकर्मण्याद्यप्रयत्नकृता एवोत्प्लुत्योत्प्लुत्य पाताः । तादृशमेतत् । वैकृते कर्मणि विशिष्टेतिकर्तव्यतासम्बन्धः । एवं विश्वजिता यजेतेत्युत्पत्तिर्नाधि - कारशून्याऽस्तीति स्वर्गकाम इत्यधिकारावगतिः प्रतिपन्नार्थसामर्थ्यगम्या । अतो द्वैरूप्ये विधानस्य सर्वस्येतिपदम् । सर्वस्य तात्पर्यमेवं रूपम् — वेदमूला: स्मृतय इति ज्ञापयितुम् । द्वितीये चैतद्दर्शयिष्यामः । “ ननु लिङादिप्रतिपाद्योऽर्थः कर्तव्यतारूपो विधिः । स च सर्वत्र प्रत्यक्षशब्दप्रति-पाद्य एव । तत्र किमुच्यते द्विविधो हि वैदिको विधिरिति । निर्वपेदिति कर्तव्यताऽव-गम्यते । इतिकर्तव्यताऽर्थसामर्थ्यगम्यो उक्तेन प्रकारेण ' । नैष दोषः । निर्वपेद्यजेतेति न केवले धात्वर्थविषयत्वेऽवगते परिपूर्णा कर्तव्यता भवति यावदंशान्तराण्यधिकारेतिकर्तव्यताप्रयोगरूपाणि नावगतानि । एतैरंशैर्वितत-रूपो विधिः प्रतीयते 1 । अतोंऽशरूपाण्यपि विधिशब्दाभिलप्यतया न विरुद्धानि ।
पृष्ठ 77
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ७ एतदेवाह अचिन्त्यस्येति । अप्रत्यक्षस्येत्यर्थः । प्रत्यक्षं ह्यनुभूयत इत्युच्यते, न चिन्त्यते इति, न स्मर्यत इति । अप्रमेयस्य कल्प्यस्य, प्रायश: स्मृतिवाक्यमूलस्य । न हि प्रत्यक्षेण प्रमीयते । अतोऽप्रमेयस्येत्युच्यते । अथवाऽप्रमेयस्येयत्तया परिमातु-मशक्यस्यातिमहत्त्वात् । अनेकशाखाभेदभिन्नो वेदो न शक्यते सर्वैः प्रमातुम् । अत एवाचिन्त्यस्य । यदतिबहु तद्दुर्ग्रहत्वादचिन्त्यमित्युच्यते । यथा च लोके वक्तारो भवन्ति, ‘ अन्येषां का गतिः? चिन्तयितुमप्येतन्न युज्यत ' इति । मनः किल सर्व-विषयम्, अयं चातिमहत्त्वात्तस्यापि न विषय इति । पदद्वयेन बाह्यान्तःकरणाविषयतया महत्त्वस्य ख्यापनेनाचार्य: प्रोत्साह्यते । त्वयैव केवलेनैवंविधो वेद आगमितोऽतस्तस्य यः कार्यरूपस्तत्त्वार्थस्तं वेत्सि जानीषे । कार्यमनुष्ठेयमुच्यते । यत्र पुरुषोऽनुष्ठातृत्वेन विनियुज्यते— इदं त्वया कर्तव्यमिदं त्वया न कर्तव्यमिति - अग्निहोत्रादि कर्तव्यम् कलञ्जभक्षणादि न कर्तव्यम् । प्रतिषेधोऽ-प्यनुष्ठानमेव । यद्ब्राह्मणवधस्याननुष्ठानं तदेव प्रतिषेधस्यानुष्ठानम् । प्रवृत्तिश्च क्रिया-निवृत्तिश्च क्रियेति । न हि परिस्पन्दमानसाधनसाध्यमेवानुष्ठानमुच्यते, किं तर्हि प्राप्ते तद्रूपे तन्निवृत्तिरपि । यथा ' हितसेवी चिरायुरिति ' यः प्राप्ते काले भुङ्क्तेऽप्राप्ते न भुङ्क्ते । अभोजनमपि हितमेव । अथवा कार्यशब्दः प्रदर्शनार्थो विधेः प्रतिषेधस्य च । एतावदेव वेदस्य तत्त्व-रूपः पारमार्थिकोऽर्थः । यस्त्वितिवृत्तसंवर्णनरूपः “ सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्व-मिति ” स न तत्त्वार्थः, विध्यन्तरेणैकवाक्यत्वात्प्रशंसापरत्वेन स्वार्थनिष्ठत्वाभावात् । अस्ति ह्यत्र विध्यन्तरम् ' तस्माद्वर्हिषि रजतं न देयमिति ' । ' सोऽरोदीदि’त्यादीनि ‘ पुराऽस्य संवत्सराद्गृहे रोदनं भवती ' त्यन्तानि तदेकवाक्यतापन्नानि बर्हिषि रजतदान-निन्दया तत्प्रतिषेधं स्तुवन्ति । तदुक्तं ' साध्येऽर्थे वेदः प्रमाणं, न सिद्धरूपे ' । अर्थ-वादानां हि सिद्धरूपोऽर्थः । न हि तदर्थस्य कर्तव्यता प्रतीयते । विध्युपदेशपरत्वं च प्रतीयते । यदि च स्वार्थपरा अपि स्युस्तदा विधिपरत्वं व्याहन्येत । ततश्च प्रतीय-मानैकवाक्यता बाध्येत । न च सम्भवत्येकवाक्यत्वे वाक्यभेदो न्याय्यः । न च साध्यस्य सिद्धार्थपरत्वेनैकवाक्यता घटते । तथाहि न किञ्चिद्वेदेनोपदिश्यते कर्तव्यम् । अतश्चाप्रमाणमेवं वेदः स्यात् । विध्यर्थता चावगम्यमाना लिङादीनां त्यक्ता स्यात् । तस्मात्कार्यरूपो वेदस्य तत्त्वार्थ इति मनुर्भगवानाह । जैमिनिनाऽप्युक्तम् कार्येऽर्थे वेदः प्रमाणम् ‘ चोदनालक्षणोऽर्थो धर्म ' इति । अतश्च निरवशेषपदार्थपरिज्ञानातिशययोगाद्धर्मप्रवचनसामर्थ्यं सिद्धवदुपादाय प्रभो इत्यामन्त्रणम् — हे प्रभो धर्माभिधानशक्त त्वमनुब्रूहि धर्मानिति । एवमनया त्रिश्लोक्या धर्मान् पृष्ट उत्तरेण श्लोकेन प्रतिजज्ञे ॥ ३ ॥
पृष्ठ 78
पाठ पढ़ें पाठ छिपाएँ
८ मनुस्मृतिः [ प्रथमः हिन्दी — क्योंकि हे प्रभोः! एक आप ही इस सम्पूर्ण अपौरुषेय, अचिन्त्य तथा अप्रमेय वेद के अग्निष्टोमादि यज्ञकार्य और ब्रह्म को जानने वाले हैं ॥ ३ ॥
मनु का महर्षियों को उत्तर देना-स तैः पृष्टस्तथा सम्यगमितौजा महात्मभिः ।
प्रत्युवाचार्च्य तान्सर्वान्महर्षीञ्छ्रयतामिति ॥ ४ ॥
भाष्य — स मनुरमितौजास्तैर्महभिर्महात्मभिः पृष्टस्तथा तान् प्रत्युवाच श्रूयता-मिति । तथा तेन प्रागुक्तेन प्रकारेण । पृच्छ्यमानवस्तु प्रश्नविधिश्च प्रकारवचने तथा-शब्देऽन्तर्भूतः । तेनायमर्थस्तथापृष्टस्तान् धर्मान् पृष्टः प्रत्युवाच । अथवा तथेति प्रकार-मात्रमाचष्टे । पृष्ट इति पूर्वश्लोकात्पृच्छ्यमानविशेषो बुद्धौ विपरिवर्तत एव । तेन यत्पृष्टस्तत्प्रत्युवाच ‘ श्रूयतामिति ' प्रश्नप्रतिवचनयोरेककर्मता सिद्धा भवति । तदा च तथाशब्दः श्लोकपूरणार्थ: । आद्ये तु व्याख्याने तथाशब्दोपात्तैव प्रश्नप्रतिवचन-योरेककर्मता । सम्यक्शब्दः प्रतिवचनविशेषणम् । सम्यक् प्रत्युवाच । प्रसन्नेन मनसा न क्रोधादियोगेन I । अमितौजा अक्षीणवाग्विभवः । अमितमनन्तमोजो वीर्यमभिधान-सामर्थ्यमस्येति । महात्मतया महर्षीणां धर्मप्रष्टृत्वं महर्षित्वं चाविरुद्धमित्याह— महर्षीनिति । ‘ परार्थकारी सततं महात्मे ' त्युच्यते । तेन यद्यपि स्वयं विद्वांसोऽधिगत-याथातथ्याः 1 -अन्यथा महर्षित्वानुपपत्तेः – तथाऽपि परार्थमपृच्छन् । मनुः प्रख्याततर-प्रमाणभावः । एतेन यदुच्यते तल्लोकेनाद्रियते । प्रत्ययतोऽयं समुपास्यतेऽतः शास्त्राव-तारार्थमुपाध्यायीकुर्मः । अस्माभिश्च पृच्छ्यमानः प्रमाणतरीकरिष्यते जनेनेति । अत एवार्च्य तान् सर्वानित्यर्चनमविरुद्धम् । अन्यथा शिष्यस्योपाध्यायात्कीदृश्यर्चेति । अर्चयतेराङ्पूर्वस्य ल्यबन्तस्य रूपमार्थ्येति । पाठान्तरम् ‘ अर्चयित्वा तानिति ’ । अत्र यदुच्यते ‘ “ यदि मनुनाऽयं ग्रन्थः कृतः परापदेशो न युक्तः — स तैः पृष्टः प्रत्युवाचेति । ‘ अहं पृष्टः प्रत्यब्रुवमिति ' न्याय्यम् । अथान्यतर एव ग्रन्थस्य कर्ता मानवव्यपदेशः कथमिति ” – तदचोद्यम् । प्रायेण ग्रन्थकाराः स्वमतं परापदेशेन ब्रुवते – ‘ अत्राह ’ ‘ अत्र परिहरन्तीति ' नैवम'हं तैः पृष्ट इति ' । यो यः पूर्वतरः स स प्रमाणतरो लोकेनाभ्युपगम्यते – ' तत्प्रमाणं बादरायणस्येति ' । अथवा भृगुप्रोक्ता संहितेयम् । मानवी तु स्मृतिरुपनिबद्धेति मानवव्यपदेशः । प्रत्युवाच तान् महर्षीन् । किं तत् । यदहं पृष्टस्तत् श्रूयतामिति ॥ ४ ॥
हिन्दी - महर्षियों से इस प्रकार पूछे गये अपरिमित ज्ञान - शक्ति वाले सब महर्षियों का सत्कार कर बोले- सुनिये ॥४ ॥
मनु उन
पृष्ठ 79
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता
संसारोत्पत्ति - वर्णन-आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।
अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥ ५ ॥
भाष्य — ‘ “ क्व अस्ताः क्व निपतिताः । शास्त्रोक्तनिपतितधर्मान् पृष्टस्तानेव वक्तव्यतया प्रतिज्ञाय जगतोऽव्याकृतावस्थावर्णनमप्रकृतमपुरुषार्थं च । सोऽयं सत्यो जनप्रवादः ‘ आम्रान् पुष्टः कोविदारानाचष्ट ' इति । न चास्मिन् वस्तुनि प्रमाणं न च प्रयोजनमित्यतः सर्व एवायमध्यायो नाध्येतव्यः ” । उच्यते । शास्त्रस्य महाप्रयोजनत्वमनेन सर्वेण प्रतिपाद्यते । ब्रह्माद्याः स्थावरपर्यन्ताः संसारगतयो धर्माधर्मनिमित्ता अत्र प्रतिपाद्यन्ते । ' तमसा बहुरूपेण वेष्टिताः कर्महेतुनेति ’ ( श्लो ० ४ ९ ) । वक्ष्यति च - ' एता दृष्ट्वा तु जीवस्य गतीः स्वेनैव चेतसा । धर्मतोऽधर्मतश्चैव धर्मे दध्यात्सदा मन ' इति ( अ ० १२ श्लो ० २३ ) ॥ ततश्च निरति-शयेश्वर्यहेतुर्धर्मस्तद्विपरीतश्चाधर्मस्तद्रूपपरिज्ञानार्थमिदं शास्त्रं महाप्रयोजनमध्येतव्यमि-त्यध्यायतात्पर्यम् । मूलं त्वत्र मन्त्रार्थवादाः सामान्यतो दृष्टं च । तथा च मन्त्रः । “ तम आसीत्तमसा गूढमग्रेऽप्रकेतं सलिलं सर्वमा इदम् तुच्छेनाभ्वपिहितं यदासीत्तपसस्तन्महिनाऽ-जायतैकम् ” । ( ऋग्वेद १० । १२ ९ ।३ ) । चन्द्रार्काग्न्यादिषु बाह्याध्यात्मिकेषु महाप्रलये प्रकाशकेषु नष्टेषु तम एव केवलमासीत् । तदपि तमः स्थूलरूपतमसा गूढं संवृत्तम् । न हि तदानीं कश्चिदपि ज्ञाताऽस्ति । अतो ज्ञातुरभावान्न कस्यचित् ज्ञानमस्तीति तमसा गूढमुच्यते । अग्रे भूतसृष्टेः प्राक् अप्रकेतमज्ञातं सर्वं आः आसीत् । इदं सलिलं सरणधर्मकम्, क्रियावत् यत्किञ्चिच्चेष्टावत्तत्सर्वं निश्चेष्टमासीत् । तुच्छेन सूक्ष्मेणाभु स्थुलमपिहितं प्रकृत्यात्मनि विशेषरूपं लीनमित्यर्थः । एतावताऽव्याकृतावस्था जगतो द्योतिता । चतुर्थेन पादेनाद्या सृष्ट्यवस्थोच्यते । तपसस्तन्महिना महत्त्वेन एकं यदासीत्तदजायत विशेषात्मनाऽभिव्यज्यते स्म । कर्मवशात्पुनः प्रादुर्बभूवेत्यर्थः । अथवा ॰तस्यामवस्थायां तप: कर्मणा महत्त्वेन हिरण्यगर्भ आत्मनाऽजायत प्रादुरासीत् । यथा व्वक्ष्यति ‘ ततः स्वयंभूरिति ' ( श्लो ० ६ ) । सामान्यतो दृष्टेन महाप्रलयोऽपि सम्भाव्यते । यस्य ह्येकदेशे नाशोदृष्टस्तस्य स्सर्वस्यापि नाशो दृश्यते । यथा शालाऽपि क्वचिद्दह्यमाना दृष्टा कदाचित्सर्वो ग्रामो दह्यते । य्ये च कर्तृपूर्वा भावास्ते सर्वे विनश्वरा गृहप्रासादादयः । कर्तृपूर्वं चेदं जगत्सरित्-समुद्रशैलाद्यात्मकम् । अतो गृहादिवन्नङ्क्ष्यतीति सम्भाव्यते । “ कर्तृपूर्वतैव न सिद्धेति ” च्वॆत्तन्निवेशविशेषवत्त्वादिना गृहादिवत्साऽपि साध्यत इत्यादि सामान्यतो दृष्टम् । न च प्रमाणशुद्धौ तद्दूषणे वा प्रयतामहेऽनिदं परत्वाच्छास्त्रस्य । एतद्धि यावन्न
पृष्ठ 80
पाठ पढ़ें पाठ छिपाएँ
१० मनुस्मृतिः [ प्रथम: विचार्य निरूपितं तावन्त्र सम्यगवधार्यते । तथानिरूपणे च तर्कशास्त्रता स्यान्न धर्म-शास्त्रता ग्रन्थविस्तरश्च प्रसज्यते । प्रक्रियाबहुलं चेदं सर्वमुपन्यसिष्यते । क्वचित्पौराणी प्रक्रिया, क्वचित्सांख्यानाम् । न तया ज्ञातयाऽज्ञातया वा कश्चिद्धर्माधर्मयोर्विशेष इति निपुणतया न निरूप्यते । अर्थिता चेत्तत एवान्वेष्या । पदार्थयोजनाव्याख्यानमात्रं त्वध्यायस्योपदिश्यते तदेव करिष्यामः । तात्पर्यमुपदर्शितमेव । आसीदिदं जगत्तमोभूतं तम इव । भूतशब्दोऽनेकार्थोऽह्युपमायां प्रयुक्तः । यथा ‘ यत्तद्भिन्नेष्वभिन्नं छिन्नेष्वच्छिन्नं सामान्यभूतं स शब्द इति ' सामान्यभूत इति सामान्य-मिवेत्यर्थः । किं तमसा जगतः सादृश्यमत आह— अप्रज्ञातम् । विशेषाणां स्वभावानां विकाराणां प्रकृतावुपलयनादतः प्रत्यक्षेणाज्ञातम् । अनुमानात्तर्हि ज्ञायेत, तदपि चालणक्षम् । लक्षणं लिङ्गं चिह्नं, तदपि तस्यामवस्थायां प्रलीनमेव, सर्वविकाराणां विशेषात्मना विनष्टत्वात् । अप्रतर्क्यम् । यद्रूपमासीत्तर्कयितुमपि न तद्रूपतया शक्यम् । सर्वप्रकारमनुमानं निषेधति । न सामान्यतो दृष्टमनुमानमस्ति । तद्रूपकावेदकं न विशेषतो दृष्टमतश्चाविज्ञेयम् । नैव तर्ह्यासीदसदेवाजायतेति प्राप्तमेतन्निषेधति प्रसुप्तमिव सर्वतः । नासत: सत उत्पत्ति: । उक्तं च ' सदेव सोम्येदमग्र आसीत् कथमसतः सज्जायेते ' त्याद्युपनिषत्सु । अतश्चाविज्ञेयमवच्छेदविषयैः प्रमाणैः । आगमात्तादृशादेव गम्यते । प्रसुप्तमिव जाग्रत्स्वप्नवत्तां परित्यज्य सम्प्रसादावस्था सुषुप्तिर्दृष्टान्तत्वेनोपात्ता । यथा अयमात्मा सुषुप्त्यवस्थायां निः सम्बोधक्लेशप्रध्वस्ताशेषविकल्प आस्ते, न च नास्तीति शक्यते वक्तुं, प्रबुद्धस्य सुखमस्वाप्समिति प्रत्यक्षभिज्ञानदर्शनात्, एवं जगदागमा-त्सिद्धार्थरूपादाभासानुमानेभ्यश्च तार्किकाणामवसीयते । आसीदिति । वर्तमाना तु साऽवस्था न कस्यचित् विज्ञेयेत्यत उक्तमविज्ञेयम् । सर्वतो नैकदेशप्रलय इत्यर्थः ॥५ ॥
हिन्दी – यह संसार ( प्रलयकाल में ) तम ( प्रकृति ) में लीन; अज्ञेय ( नहीं जान सकने योग्य ), चिह्नरहित, प्रमाणादि तर्कों से हीन ( अत एव ) अविज्ञेय तथा सर्वत्र सो हुए के समान था ॥ ५ ॥
ततः स्वयम्भूर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः ॥ ६ ॥
भाष्य — तस्या महारात्र्या अनन्तरम् । स्वयं भवतीति स्वयंभूः । स्वेच्छया कृत-शरीरपरिग्रहो, न संसार्यात्मवत्कर्मपरतन्त्रं शरीरग्रहणमस्य । अव्यक्तो ध्यानयोगाभ्यास-भावनावर्जितानामप्रकाशः । अथवा ' अव्यक्तमिदमित्येवं पठितव्यम् । इदमव्यक्तावस्थम् व्यञ्जयन् स्थूलरूपैर्विकारै: प्रकाशमानयन् । यदिच्छया पुनर्जगत्प्रादुर्भवति । प्रादुरासीत् ।