मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 81–90
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 81–90
पृष्ठ 81
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ११ प्रादुःशब्दः प्राकाश्ये । तमोनुदः । तमो महाप्रलयावस्था तां नुदति विनाशयति पुनर्जगत्सृजत्यतस्तमोनुदः । महाभूतानि पृथिव्यादीनि । आदिग्रहणात्तद्गुणाः शब्दादयो गृह्यन्ते । तेषु वृत्तं प्राप्तमोजो वीर्यं सृष्टिसामर्थ्यं यस्य स एवमुक्तः । स्वयमसमर्थानि महाभूतानि जगन्निर्वर्तयितुम् । यदा तु तेन तत्र शक्तिराधीयते तदा वृक्षाद्यात्मना विक्रियन्ते । न तु प्रकृतिशक्त्यवस्थानि प्रकृतिरूपापन्नानि महाभूतानि जगत्सर्गादौ महाभूतशब्देनाभिप्रेतानि । पाठान्तरं ' महाभूतानुवृत्तौजा ' इति । अनुवृत्तमनुगतमिति प्रागुक्त एवार्थः ॥ ६ ॥
हिन्दी - तब स्वयम्भू ( स्वेच्छा से शरीर धारण करने वाले ), अव्यक्त — - इन्द्रियों के अगोचर ( नेत्र आदि इन्द्रियों से नहीं; किन्तु योग से प्रत्यक्ष होने योग्य ), अपरिमित सामर्थ्य वाले और अन्धकार दूर करने वाले ( प्रकृति - प्रेरक ) भगवान् आकाशादि महाभूतों को व्यक्त करते हुए प्रगट हुए ॥ ६ ॥
विमर्श - यहाँ यह शंका होती है कि महर्षियों के धर्मविषयक प्रश्न करने पर भगवान् मनु ने अप्रासङ्गिक सृष्टि की उत्पत्ति का वर्णन क्यों किया? इस विषय में ‘ मेधातिथि ’ तथा ‘ गोविन्दराज ' का मत है कि " इस सम्पूर्ण के वर्णन से ‘ यह शास्त्र विशिष्ट प्रयोजनवाला है ' यह सिद्ध होता है तथा ब्रह्मा से लेकर स्थावर तक संसार तक की गतियाँ जो धर्म तथा अधर्म के कारण हैं, उनका यहाँ प्रतिपादन किया गया है ( १।४१ ) । जीव की धर्माधर्म के कारण इन गतियों को देखकर धर्म में मन लगाना चाहिये ( ११।२३ ) यह कहनेवाले हैं, अत एव अनन्तैश्वर्य का कारण धर्म और उससे प्रतिकूल अधर्म है, उसके ज्ञान के लिए महाप्रयोजन वाले इस मानवशास्त्र का अध्ययन करना चाहिए, यह इस अध्याय का अभिप्राय है । ” मेधातिथि तथा गोविन्दराज के इस सिद्धान्त से मुक्तावली सहमत नहीं हैं; क्योंकि उनके मत में महर्षियों के धर्म - विषयक प्रश्न करने पर संसार का कारण होने से ब्रह्म का प्रतिपादन करना भी आत्मज्ञान के धर्मस्वरूप होने से असङ्गत नहीं है; क्योंकि मनु भगवान् ने धैर्य आदि को धर्म का लक्षण कहा है ( ६।२२ ), उक्त लक्षण में ' विद्या ' शब्द से आत्मज्ञान का समावेश हो जाता है, महाभारत में व्यास भगवान् ने भी आत्मज्ञान को धर्म स्वीकार किया है तथा याज्ञवल्क्यस्मृति में तो उसे ' परम धर्म ' कहा है, ( या ० स्मृ ० १।८ ) यह सिद्धान्त व्यास तथा श्रुति में भी अभीष्ट है, विशेष जिज्ञासुओं को ' म ० मु ० ' देखनी चाहिये ।
योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।
सर्वभूतमयोऽचिन्त्यः स एष स्वयमुद्बभौ ॥७ ॥
भाष्य - योऽसाविति सर्वनामभ्यां सामान्यतः प्रसिद्धमिव परं ब्रह्मोद्दिशति । योऽसौ वेदान्तेष्वन्यासु चाध्यात्मविद्यास्वितिहासपुराणेषु च प्रसिद्धो वक्ष्यमाणैर्धर्मैः
पृष्ठ 82
पाठ पढ़ें पाठ छिपाएँ
१२ मनुस्मृतिः [ प्रथमः स एष प्रादुरासीदित्यत्रोक्तः । स्वयमुद्बभावुद्भूतः शरीरग्रहणं कृतवान् । भातिरनेकार्थ-त्वादुद्भवे वर्तते । अथवा दीप्यर्थ एव । स्वयम्प्रकाश आसीन्नादित्याद्यालोकापेक्षः । इन्द्रियाणामतीतोऽतीन्द्रियम् । अव्ययीभावः । अतीन्द्रियग्राह्यः सुप्सुपेतिसमासः इन्द्रियाण्यतिक्रम्य गृह्यते, न कदाचिदिन्द्रियस्य गोचरः । अन्यदेव तद्योगजज्ञानं येन गृह्यते । अथवेन्द्रियाण्यतिक्रान्तमतीन्द्रियं मन उच्यते । परोक्षत्वादिन्द्रियाणामविषयः । तथा च वैशेषिका ‘ युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमि ' त्यानुमानिकत्वं मनसः प्रतिपन्ना: । ( न्यायसूत्र १।१।१६ ) । तेन गृह्यते । तथा च भगवान्व्यासः -'नैवासौ चक्षुषा ग्राह्यो न तु शिष्टैरपीन्द्रियैः । मनसा तु प्रसन्नेन गृह्यते सूक्ष्मदर्शिभिरिति ’ ॥ ‘ प्रसन्नेन ’ रागादिदोषैरकलुषितेन, तदुपासनापरत्वेन लब्धसूक्ष्मदर्शनशक्तिभिः । सूक्ष्म इव सूक्ष्मोऽणुः । न ह्यसावणुस्थूलादिविकल्पानामाश्रयः । सर्वविकल्पातीतो ह्यसौ । उक्तं च— ‘ य: सर्वपरिकल्पानामाभासेऽप्यनवस्थितः । बहुधा परिकल्पितः । तर्कागमानुमानेन व्यतीतो भेदसंसर्गाद्भावाभावौ क्रमाक्रमौ । सत्यानृते च विश्वात्मा स विवेकात्प्रकाशत इति ' । सूक्ष्मत्वादव्यक्तः सनातनोऽव्यक्तस्वाभाविकेनानादिनिधनेनैश्वर्येण युक्तः । येषामपि कर्मप्राप्यं हैरण्यगर्भं पदं तन्मतेऽपि सनातनत्वं सत्यप्यादिमत्त्वेऽन्यत्वाभावात् । न हि सर्गादिफलभोक्तृत्वावस्था कदाचिदपैति । सर्वाणि भूतानि मया स्रष्टव्यानीत्येवंभावितचित्तो भूतात्मा एवं सम्पन्नः सर्व-भूतमय इत्युच्यते । यथा मृण्मयो घटो मृद्विकारत्वान्मृद्भिरारब्धशरीर एवं यः कश्चित्किञ्चिदत्यन्तं भावयति स तन्मय इत्युपचारादुच्यते । यथा स्त्रीमयोऽयं पुरुष:, ऋङ्मयो, यजुर्मय इति । अथवाऽद्वैतदर्शनेनैव चेतनाचेतनानि भूतानि पृथक्त्वेन सन्ति, तस्यैवायं विवर्तः, अतो विवर्तानां भूतमयत्वात्तैश्च तस्याभेदाद्युक्तमेव तन्मयत्वम् । “ कथं पुनरेकस्य नानारूपविवर्तितोपपत्तिरेकत्वाद्विरोधिनी उच्यते ” । एवमाहुर्विवर्त-वादिनः — यथा समुद्राद्वायुनाऽभिहता ऊर्मयः समुत्तिष्ठन्ति, ते च न ततो भिद्यन्ते नापि लिप्यन्ते, सर्वथा भेदाभेदाभ्यामनिर्वाच्याः, एवमयं ब्रह्मणो विश्वविवर्तः । अपिशब्दाश्चात्र द्रष्टव्यः । स्वरूपे स्थितोऽग्राह्यो विवर्तावस्थायामिन्द्रियग्राह्यः । एवं सूक्ष्मः, अपिशब्दात् स्थूलावस्थायां स्थूलः । अव्यक्तो व्यक्तश्च । शाश्वतोऽशाश्वतश्च ।
भूतमयस्तद्रूपरहितश्च । विवर्तावस्थाभेदेनैव व्याख्येयम् ।
अचिन्त्यः आश्चर्यरूपः, सर्वविलक्षणया शक्त्या योगात् ॥ ७ ॥
हिन्दी – जो भगवान् ( परमात्मा ) अतीन्द्रिय ( नेत्र आदि इन्द्रियों से अग्राह्य तथा
पृष्ठ 83
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १३ योग से ग्राह्य ), सूक्ष्मस्वरूप, अव्यक्त, नित्य और सब प्राणियों के आत्मा ( अत एव ) अचिन्त्य हैं; वे ही परमात्मा स्वयं प्रकट हुए ॥७ ॥
सर्वप्रथम जल की उत्पत्ति-सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः ।
अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥ ८ ॥
भाष्य — स पूर्वनिर्दिष्टविशेषणैः “ हिरण्यगर्भः समवर्तताग्रे ” ( ऋग्वेद १०।१२१।१ ) इत्यादिभिर्मन्त्रैर्लब्धहिरण्यगर्भाभिधानः । प्रजाः विविधा नानारूपाः सिसृक्षुः स्रष्टु-मिच्छन् अपः उदकम् आदौ प्रथमं ससर्वोत्पादितवान् । शरीरात् स्वात् - यत्तेन गृहीतं शरीरम् । अद्वैतदर्शने प्रधानमेव तस्येदं शरीरं, तदिच्छानुवर्तित्वात् स्वतः शरीर-निर्माणहेतुत्वाच्च । सर्वलोकानां शरीरं किं भौतिकेन व्यापारेण कुद्दालखननादिना ससर्ज । नेत्याह । कथं तर्हि । अभिध्याय । ' आप उत्पद्यन्ताम् ' एवमिच्छामात्रेण । अत्रेत्थं चोद्यते— “ पृथिव्यादीनां तदानीमभावादपां सृष्टानां क आधारः || ” अन्येभ्य इदमुच्यते । स्रष्टुरपि परमेश्वरस्य गृहीतशरीरस्य क आधार इत्यपि वाच्यम् । अथ विलक्षणैश्वर्याति-शययोगादन्यैव सा कर्तृशक्तिरसञ्चोद्या, प्रकृतधर्मसामान्येनेत्येवमेष्वपि द्रष्टव्यम् । तासु-वीर्यं शुक्रमवासृजत् न्यषिञ्चत् || ८ || हिन्दी – उस परमात्मा ने अनेक प्रकार की प्रजाओं की सृष्टि करने की इच्छा से ध्यान कर सबसे पहले जल की ही सृष्टि की और उसमें शक्तिरूपी बीज को छोड़ा ॥८ ॥
तदण्डमभवद्धैम
ब्रह्मा की उत्पत्ति-सहस्रांशुसमप्रभम् ।
तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥ ९ ॥
भाष्य – प्रथमं प्रधानं सर्वतोभवं मृद्रूपं सम्पद्यते । हिरण्यगर्भवीर्यसंयोगात्काठिन्यं प्रतिपद्यते । तदाण्डं समभवदित्युच्यते । हेम्न इदं हैमं स्वर्णमयमित्यर्थः । अंशुसामान्या-त्तस्य सुवर्णमयस्य । ‘ ननु चागमिकोऽयमर्थः, न चात्र इवशब्दः श्रूयते, तत्र कथमुपचारतो व्याख्यानमसति प्रमाणान्तरे ” । उच्यते । वक्ष्यति - ' ताभ्यां स शकलाभ्यां तु दिवं भूमिं च निर्ममे ' इति । इयं च भूमिर्मृण्मयी न सर्वतः सुवर्णमयीत्यत उपचार आश्रितः । सहस्त्रांशुरादित्य इत्यर्थः । अंशवो रश्मयस्तत्तुल्या प्रभा दीप्तिस्तस्याण्डस्य । तस्मि-न्नण्डे स्वयं ब्रह्मा जज्ञे जातः सम्भूतः । ब्रह्मा हिरण्यगर्भ एव । स्वयमिति उक्तार्थम् । योगशक्त्या प्राग्गृहीतं शरीरं परित्यज्यान्तरण्डमनुप्राविशत् । अथवाऽशरीर एवापः ससर्ज ततोऽन्तरण्डे स्वशरीरं जग्राह ।
पृष्ठ 84
पाठ पढ़ें पाठ छिपाएँ
१४ मनुस्मृतिः [ प्रथमः अथवाऽन्यो ‘ योऽसावित्य'त्र निर्दिष्टः ( श्लो ० ७ ) अन्यश्चायमण्डजो ब्रह्मेति । तथा च वक्ष्यति ( श्लो ० ११ ) ' तद्विसृष्ट ' इति । तेनेश्वरेण सृष्टः । " कथं तर्हि स्वयं जज्ञे, स्वयंभूतश्च तत्र ब्रह्मोच्यते । ” नैष दोषः । पितृनाम्ना पुत्रो व्यपदिश्यते । ‘ आत्मा हि जज्ञ आत्मन ' इति । अनिदम्परेभ्य आगमेभ्यो लिखितमाचार्येण, नचात्रा-भिनिवेष्टव्यम् । ‘ स एव स्वयं जायतामन्यो वा तेन सृज्यतामिति ' न धर्माभिधान उपयुज्यत इत्युक्तम् । सर्वलोकानां पितामह इति संज्ञा । तस्योपचारतोऽवास्तवदृष्ट-त्वात्, पितुरपि सकाशादधिकः पितामहः पूज्यः ॥९ ॥
हिन्दी — वह बीज सहस्रों सूर्यों के समान प्रकाश वाला, सुवर्ण ( सोने ) के समान शुद्ध अण्डा हो गया; उसमें सम्पूर्ण लोकों की सृष्टि करने वाले ब्रह्मा उत्पन्न हुए॥९ ॥
' नारायण ' शब्द की निरुक्ति-आपो नरा इति प्रोक्ता आपो वै नरसूनवः ।
ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥ १० ॥
भाष्य — यः कुत्रचिन्नारायणशब्देन कर्तृज्ञातृशक्त्यतिशययोगेन जगत्कारणपुरुष-तयाऽऽगमेरूवाम्नातः, सोऽयमेव । न शब्दभेदादर्थभेदः । ब्रह्मा नारायणो महेश्वर इत्येक एवार्थो नोपासना कर्मतया भिद्यते । तथा च द्वादशे दर्शयिष्यामः । यथा चैत-त्तथोच्यते | आपो नरा इत्यनेन शब्देन प्रोक्ताः । ननु नायं वृद्धव्यवहारोऽथ न च तथा प्रसिद्धोऽत आह— आपो वै नरसूनवः । स तावद् भगवान्नरः पुरुष इति प्रसिद्धः । आपश्च तस्य सूनवोऽपत्यानि । अतस्ता नरशब्देनोच्यन्ते । दृष्टो हि पितृ-शब्दोऽपत्ये, वसिष्ठस्यापत्यानि वसिष्ठा भृगोरपत्यानि भृगवः तथा बभ्रुमण्डुलोमक इत्याद्यभेदोपचारेण । ता आपो नरशब्दवाच्याः । यत् येन प्रकारेण अस्य प्रजापतेः पूर्वमयनं प्रथमसर्ग आश्रयो वा गर्भस्थस्य, तेन हेतुना नारायणः स्मृतः | नरा अयनमस्येति नरायण इति प्राप्ते ' अन्येषामपि दृश्यते ' ( पा ० सू ० ६।३।१३४ )
इति दीर्घः । ‘ पूरुष इति ’ यथा । अथवा सामूहिकोऽण् ॥१० ॥
हिन्दी - जल को ‘ नारा ' कहते हैं, क्योंकि वह नररूप परमात्मा की सन्तान है । वह ' नारा ' ( जल ) परमात्मा का प्रथम आश्रय ( निवास स्थान ) है, इस कारण से परमात्मा ‘ नारायण ' कहे जाते हैं ॥ १० ॥
[ नारायणपरोव्यक्तादण्डमव्यक्तसम्भवम् अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपात्र मेदिनी ॥ ४ ॥ ]
[ हिन्दी — अतिशय अन्धकार युक्त और अव्यक्त संसाररूपी व्यक्त वह अण्डा नारा-यण से उत्पन्न हुआ, उस अण्डे के भीतर ये लोक और सात द्वीपों वाली पृथ्वी थी॥४ ॥ ]
पृष्ठ 85
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता
ब्रह्मस्वरूपकथन-यत्तत्कारणव्यक्तं नित्यं सदसदात्मकम् ।
तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते ॥ ११ ॥
१५ भाष्य — कारणमेव न कार्यो न परेच्छाविधेयशरीरः, स्वाभाविकेन महिम्ना युक्तम् अव्यक्तं नित्यमुक्तमित्युक्तार्थम् । सदसदात्मकम् । सच्चासच्च सदसती । ते आत्मा स्वभावो यस्य तदेवमुच्यते । कथम्पुनरेकस्य विरुद्धभावाभावरूपधर्मद्वयस्य योगः । उच्यते । अर्वाग्दर्शनानां तद्विषयाया उपलब्धेरभावात्सत्ताव्यवहारायोग्यत्वादसदात्मे-त्युच्यते । आगमेभ्यः सर्वस्यास्य तत्कारणत्वावगमात्सदात्मकम् । अतः प्रतिपत्तृभेदादु-भयोऽपि व्यवहारो ब्रह्मण्यविरुद्धः । “ ननु च सर्व एव भावा एवंरूपाः त्वेन रूपेण सदात्मकाः पररूपेणासन्तः । किमुच्यते ब्रह्मण्यविरुद्ध इति । " उच्यते । अद्वैतदर्शने नैवान्यद्ब्रह्मणः किञ्चिदस्तीति किं तत् परं यत् तद्रूपतयाऽभाव इत्युच्यते । तेन विसृष्ट उत्पादितोऽन्तरण्डं निर्मितः पुरुषो लोके ब्रह्मेति कीर्त्यते । योऽसावुग्रतपसां देवासुरमहर्षीणां वरदानार्थं तत्र तत्रोपविष्ट इति महाभारतादौ श्रूयते स एष तेन महापुरुषेण परेण ब्रह्मणा प्रथमं विसृष्टः । अन्ये तु ‘ त्वमेवैक ' इत्याद्यन्यथा वर्णयन्ति । अस्येति प्रत्यक्षाभिनयेन जगन्नि-र्दिश्यते । सर्वस्यास्य जगतो यद्विधानं निर्माणं तत्स्वयम्भुवः सम्बन्धि । अचिन्त्यमद्भुतरूपं विचित्रमतिमहदप्रमेयं न शक्यं सर्वेण ज्ञातुम् । तथा ऋषि: । ' को अद्धा वेद क इह प्रवोचत् कुत आजाता कुत इयं विसृष्टिरिति । किमिदं जगत्सर्वमुपादानमपेक्ष्य जायत उत नैर्माणिकमात्रम्, यथा बुद्धस्य दर्शनम् । किमीश्वरेच्छाधीनमुत केवलकर्मवश-जमुत स्वाभाविकमप्रमेयम् । तथा किं महदादिक्रमेणोत्पद्यत उत द्व्यणुकादिक्रमेण । अस्य त्वं कार्यं तत्त्वमर्थं च वेत्सि । ' कार्यं ' महतोऽहङ्कारोऽविशेषास्तन्मात्राण्यहङ्कारस्य, तन्मात्राणां विशेषाः पञ्चमहाभूतानि, अहङ्कारस्येन्द्रियाण्येकादश । विशेषाणामपि पिण्डः कार्यं ब्रह्मादिस्तम्बपर्यन्ताः । तेषामपि प्रत्ययात् तत्त्वं स्वभावो, यथा महतो मूर्ति-मात्रत्वम् । प्रधानस्य सर्वस्य विकारावस्था महदित्युच्यते । प्रकृतेर्महानिति । प्रकृतिः प्रधानमित्येकोऽर्थः । अहङ्कारस्य तत्त्वमस्मिप्रत्ययमात्रत्वम् । अविशेषणामविशेषप्रत्यय-सम्वेद्यत्वमिति । ‘ अर्थ: ’ - प्रयोजनम् । पुरुषार्थमिदं वस्त्वनेन प्रकारेण पुरुषायोपयुज्यते इमं चार्थं साधयति । यद्यपि धर्मं जिज्ञासमानस्य जगन्निर्माणज्ञता आचार्यसम्बधिनी न क्वचिदुपकारिणी, न च प्रष्टव्या, तथाऽप्यन्यतो दुर्विज्ञानं महर्षीणां वैषम्याज्जगन्नि-र्माणमादौ प्रश्नार्हं भवति मनोश्च वचनीयम् । यद्वस्तु प्रमाणषट्कस्याप्यविषयस्तदपि
पृष्ठ 86
पाठ पढ़ें पाठ छिपाएँ
१६ मनुस्मृतिः [ प्रथमः त्वमार्षेण चक्षुषा वेत्सि । धर्मः पुनर्वेदगोचरः सोऽवश्यं त्वया विज्ञात इत्येवं प्रकृत-विषयैव प्रवक्तृप्रशंसा । एवं स्तुत्या प्रोत्साहितो जगन्निर्माणमेव तावद्वक्ति ' आसीदिदमिति ' ( श्लो ० ५ ) । ' ततः स्वयम्भूरिति ' ( श्लो ० ६ ) । प्रधानमेवैतैः शब्दैरभिधीयते । स्वयं भवति परिणमति विक्रियामेति महदादितत्त्वभावेन । न कश्चिदीश्चरः स्वभावसिद्धोऽस्ति, यस्येच्छामचेतनं प्रधानमनुवर्तते । वस्तुस्वभाव एवायं यदुत प्रकृतिरूपं प्रधानं पुन-र्विक्रियते । यथा क्षीरमचेतनं मण्डकावस्थाभिर्दधीभवति । भगवानिति । स्वव्यापार ईश्वरः । महाभूतादिद्वारेण प्रवृत्तः स्कार्योत्साह ' ओजः ' सामर्थ्यम् । आदिशब्दः प्रकारे व्यवस्थायाम् । तेन महदादिकारणमव्यक्तं भवति । विकारावस्थायां प्रच्युतं प्राग्रू-पात्सृक्ष्मभावात् । प्रकाशमयं ' तमो नुदती ' त्युच्यते । अर्थ शब्दाध्याहारेण वा प्रधाने पुल्लिङ्गनिर्देशः । पुरुषशब्दश्च प्रधानादिषु दृष्ट:, ' तेषामिदं तु सप्तानां पुरुषाण-मिति ' ( मनु ० १।१ ९ ) । योऽसाविति ( श्लो ० ७ ) पूर्ववत् । सोऽभिध्यायेति ( श्लो ० ८ ) । अभिध्यानं गुणतः, अचेतनत्वात्प्रधानस्याभिध्यानासम्भवात् । यथा कश्चिदभिध्यायैव कार्यं निर्वर्तयेत् । अन्यकार्यनिरपेक्षमेव वस्तु स्वाभाव्येन परिणममानमीश्वरेच्छानपेक्षतयाऽभिध्यायेत्युच्यते । अप आदौ ससर्ज । महाभूतान्तरापेक्षया तासामादित्वं, न तु महदादितत्त्वोत्पत्तेः । वक्ष्यति हि ‘ तेषामिदं तु सप्तानामिति ' । प्रथमं तत्त्वोत्पत्तिस्ततो भूतानाम् । तासु वीर्यमिति । वीर्यं शक्तिमवासृजत् । प्रधानमेव कर्तृ भवति । सर्वतः प्रधानं पृथिव्यादिभूतोत्पत्तौ काठिन्यमेति, अण्डरूपं सम्पद्यते । तदण्डमिति ( श्लो ० ९ ) । यथा तत्त्वानि स्त्रीपुरुषसंयोगं विनोत्पन्नानि प्रथममेवं पूर्वकर्मवशेन ब्रह्माऽपि स्वमहिम्नैव । अयोनिजं तस्य शरीरं दंशमशकादिवत् । तद्विसृष्टः ( श्लो ० ११ ) । तेन प्रधानेन विसृष्टः । तन्मयत्वात्तच्छरीरस्य तद्विसृष्ट इत्युच्यते । शेषं पूर्ववत् । यदत्रार्थतत्त्वं तदस्माभिरुक्तमेव । अर्थवादा एते यथाकथञ्चिद्गुणवादेन नीयन्ते ॥११ ॥।
हिन्दी — वह ( जो अत्यन्त प्रसिद्ध ) सब का कारण है, नित्य है, सत् तथा असत् स्वरूप है, उससे उत्पन्न पुरुष लोक में ' ब्रह्मा ' कहा जाता है ॥ ११ ॥
अण्डे को दो खण्ड करना-तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् ।
स्वयमेवात्मनो ध्यानात्तदण्डमकरोद्विधा ॥ १२ ॥
भाष्य — स भगवान् ब्रह्मा परिवत्सरं सम्वत्सरमुषित्वा तदण्डमकारोद्विधा ।
पृष्ठ 87
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता १७ तावता कालेन गर्भः परिपच्यते । तस्मिन्नण्डे स्थित उत्पन्न: सर्वज्ञः कथं निर्गच्छेयमिति ध्यातवान् । अण्डमपि तावत्कालेन भेदजातं परिपाकात् । अतः काकतालीयन्यायेन तदण्डमकरोद्विधेत्युच्यते ॥ १२ ॥
हिन्दी- - ब्रह्मा ने उस अण्डे में एक वर्ष ( ब्रह्मा के वर्ष के प्रमाण से = ३६० ब्रह्म = दिन एकतीस खर्ब दस अर्ब चालिस करोड़ मानुष वर्ष; देखें श्लो ० ६४-७२ ) तक निवास कर अपने ध्यान के द्वारा उस अण्डे के दो टुकड़े कर दिये ॥१२ ॥
अण्ड - खण्ड से स्वर्गादि की सृष्टि-ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे ।
मध्ये व्योम दिशश्चाष्टावपां स्थानं च शाश्वतम् ॥१३ ॥
भाष्य — शकलम् अण्डकपालम् । ताभ्यामण्डकपालाभ्यामुत्तरेण दिवं निर्ममे निर्मितवान्, अधरेण पृथिवीं, मध्ये व्योमाकाशं दिशोऽष्टौ च प्रागाद्याः, अवान्तर-दिग्भिर्दक्षिणपूर्वादिभिः सह । अपां स्थानमन्तरिक्षे, समुद्रमाकाशं च पृथिवीपाताल-गतम् ॥१३ ॥
हिन्दी— ( और उन्होंने ) उस अण्डे के उन दो टुकड़े से स्वर्ग तथा पृथ्वी की सृष्टि की और बीच में आकाश, आठ दिशाओं तथा जल का आश्रय अर्थात् समुद्र की सृष्टि की ॥१३ ॥
[ वैकारिकं तैजसं च तथा भूतादिमेव च ।
एकमेव त्रिधाभूतं महानित्येव संस्थितम् ॥५ ॥
इन्द्रियाणां समस्तानां प्रभवं प्रलयं तथा । ] [ वैकारिक, तैजस तथा भूत ( जीव आदि साधन ) आदि की सृष्टि की तीन खण्ड में विभक्त एक ही अण्डा ' महान् ' कहलाया और सम्पूर्ण इन्द्रियों की उत्पत्ति तथा नाश की उस ब्रह्मा ने सृष्टि की || ५ || ]
मन तथा उससे पूर्व अहङ्कार की सृष्टि-उद्वबर्हात्मनश्चैव मनः सदसदात्मकम् ।
मनसश्चाप्यहङ्कारमभिमन्तारमीश्वरम् ॥१४ ॥
भाष्य - तत्त्वसृष्टिरिदानीमुच्यते । या च यथावयवा पश्चादुक्ताऽर्थाद्वा पूर्वमिति तथोक्तन्तत् । प्रधानात् स्वस्माद्रूपान्मन उद्धृतवान् । प्रातिलोम्येनेयं तत्त्वोत्पत्तिरिहोच्यते । मनसः पूर्वमहङ्कारमभिमन्तारम् । अहमित्यभिमानिताऽहङ्कारस्य वृत्तिः । ईश्वरं कार्य-निर्वर्तनसमर्थम् ॥१४ ॥
हिन्दी - ब्रह्मा ने परमात्मा से सत् - असत् आत्मा वाले ' मन ' की सृष्टि की तथा
पृष्ठ 88
पाठ पढ़ें पाठ छिपाएँ
१८ मनुस्मृतिः [ प्रथम: मन से पहले ‘ अहम् ' ( मैं ) इस अभिमान से युक्त एवं अपने कार्य को करने में समर्थ अहङ्कार की सृष्टि की ॥१४ ॥
' महत् ' आदि तत्त्वों की सृष्टि-महान्तमेव चात्मानं सर्वाणि त्रिगुणानि च ।
विषयाणां ग्रहीतॄणि शनै: पञ्चेन्द्रियाणि च ॥ १५ ॥
भाष्य – महानिति संज्ञया सांख्यानां तत्त्वं प्रसिद्धम् । आत्मानमिति महता सामानाधिकरयण्म् । सर्वपिण्डसृष्टौ च महत्तयाऽनुस्यूतमत आत्मव्यवहारः । अहङ्कारात्पूर्वं पूर्वेण न्यायेन ससर्ज | सर्वाणि त्रिगुणनि च । यथानुक्रान्तं यथानुक्रम्यते तत्सर्वं त्रिगुणम् । सत्वरजस्तमांसि गुणा: । क्षेत्रज्ञाः केवलं निर्गुणाः । प्राकृतो भागः सर्वः सत्त्वरजस्तमोमयः । पञ्चेन्द्रियाणि तेषां निर्देशविषयाणां रूपरसादीनां यथास्वं
ग्रहीतॄणि विज्ञानजनकानि । पञ्च ' श्रोत्रं त्वगित्यादिना वक्ष्यन्ते विशेषनामानि ।
चशब्देन विषयांश्च शब्दस्पर्शरूपरसगन्धान् पृथिव्यादीनि च ॥१५ ॥
हिन्दी — अहङ्कार से पहले आत्मोपकारक ' महत् ' तत्त्व ( बुद्धि ) की तथा सम्पूर्ण त्रिगुण ( सत्त्व, रजस् और तमस् से युक्त ) विषयों की और रूप - रस आदि विषयों को ग्रहण करने वाली नेत्रादि पाँच ज्ञानेन्द्रियों तथा गुदा आदि पाँच कर्मेन्द्रियों ( २।१० - ९ १ ) की तथा पाँच शब्दतन्मात्रादियों की सृष्टि की ॥१५ ॥
[ अविशेषान् विशेषांश्च विषयांश्च पृथग्विधान् ॥ ६ ॥ ]
[ हिन्दी – सृष्टि के सामान्य तथा विशेष विषयों की पृथक् - पृथक् सृष्टि भी उसी अहङ्कार से की ॥६ ॥ ]
तेषां त्ववयवान्सूक्ष्मान् षण्णामप्यमितौजसाम् ।
सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥ १६ ॥
भाष्य — तेषां षण्णां या आत्ममात्रास्तासु सूक्ष्मानवयवान् सन्निवेश्य सर्व-भूतानि निर्ममे । तत्र षट्संख्यया वक्ष्यमाणानि पञ्च तन्मात्राणि अतिक्रान्तश्चाहङ्कारः प्रतिनिर्दिश्यते । आत्ममात्रास्तेषां स्वविकाराः – तन्मात्राणां भूतानि, अहङ्कारस्येन्द्रियाणि । पृथिव्यादिषु भूतेषु शरीररूपतया तिष्ठत्सु सूक्ष्मानवयवांस्तन्मात्राहङ्कारान् सन्निवेश्य-यथास्थानं योजनं कृत्वा — सर्वभूतानि देवमनुष्यतिर्यक्पक्षिस्थावरादीनि निर्ममे । एतदुक्तं भवति । षडविशेषा अवयवा एकदेशारम्भकाः सर्वस्य जगतस्तस्य तदारब्धत्वात् । सूक्ष्मत्वं तन्मात्रसंज्ञयैव सिद्धम् । तानि सन्निवेश्य संहत्य तेषामेवात्ममात्रांस्तद्विकारान् भूतेन्द्रियाणि निर्ममे । तैश्च पिण्डसृष्टिम् चकारात् । ‘ मात्रास्वि’त्यत्र ‘ मात्राभि’रिति युक्तः पाठः ॥ १६ ॥
पृष्ठ 89
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता १ ९ हिन्दी – अनन्त शक्ति वाले उन ६ ( अहङ्कार, रूप, रस, गन्ध, स्पर्श और शब्द) के सूक्ष्म अवयवों को उन्हीं अपने - अपने विकारों में मिलाकर सब प्राणियों की सृष्टि की ॥१६ ॥
यन्मूर्त्यवयवाः सूक्ष्मास्तानीमान्याश्रयन्ति षट् ।
तस्माच्छरीरमित्याहुस्तस्य मूर्ति मनीषिणः ॥ १७ ॥
भाष्य – ‘ मूर्तिः ' शरीरम् । तदर्थास्तत्सम्पादका अवयवाः । सूक्ष्माः षडुक्तस्व-रूपाश्च अविशेषाख्याः । तानीमानीन्द्रियाणि वक्ष्यमाणानि च भूतान्याश्रयन्ति । तस्योत्पत्ते-र्भूतान्याश्रयन्तीत्युच्यते । तदाश्रयोत्पत्तिस्तेषाम् । पठितं च, ' पञ्चभ्यः पञ्चभूतानी'ति ( सांख्यकारिका- २२ ) । यद्येन कारणेनाश्रयन्ति तस्मात् कारणात् ' शरीरम् तस्य ' प्रधानस्य येयं मूर्तिः, शरीरमित्युच्यते । मनीषिणः । मनीषा बुद्धिस्तद्वन्तः पण्डिताः । अथवा विपरीतः कर्तृभावः । ' सूक्ष्मा ' कर्तार ' इन्द्रियाणि ' कर्म । अवयवाश्चेन्द्रि-याणामाश्रयभावं प्रतिपद्यमाना ' आश्रयन्ती ' त्युच्यते । यथा ' बहुभिर्भुक्त ' इति, भोजयन् ‘ भुक्त ' इत्युच्यते । अथवाऽनेकार्थत्वाद्धातूनामाश्रयन्ति जनयन्तीत्यर्थः || १७ || हिन्दी – प्रकृति - युक्त उस ब्रह्म की मूर्ति के शब्दादि पाँच तन्मात्राएँ तथा अहङ्कार - ये छ: सूक्ष्म अवयव हैं तथा कर्मभाव से उसका आश्रय करते हैं, इसी कारण से लोग ब्रह्म की मूर्ति को ' शरीर ' कहते हैं । ( यही बात साङ्ख्य मत से भी पुष्ट होती है १ ) ॥१७ ॥
तदाविशन्ति भूतानि महान्ति सह कर्मभिः ।
मनश्चावयवैः सूक्ष्मैः सर्वभूतकृदव्ययम् ॥ १८ ॥
भाष्य — तदेतत्प्रधानं सर्वभूतकृद्भवति । अव्ययमविनाशं कारणात्मना । कथं सर्वाणि भूतानि करोति? यतस्तदाविशन्तीमानि । कानि पुनस्तानि । मनः सूक्ष्मैरवयवैः सह तन्मात्रैर्बुद्ध्यहङ्कारेन्द्रियलक्षणैः । अनन्तरं महान्ति भूतानि पृथिव्यप्तेजोवाय्वा-काशाख्यानि । सह कर्मभिः । धृतिसंहननपक्तिव्यूहावकाशाः पृथिव्यादीनां यथाक्रमं कर्माणि । तत्र धृतिः धारणं सरणपतनधर्मकस्य एकत्रावस्थानम् । सङ्ग्राहकाद्विकीर्णस्य संहननम् । यथा पांसवो विकीर्णा उदकेन संहन्यन्ते पिण्डीक्रियन्ते । पक्तिरन्नौषधतृणा-देस्तेजसः कार्यतया प्रसिद्धा । व्यूहो विन्यासः सन्निवेशः । अवकाशो मूर्त्यन्तरेणा-१. तदाह साङ्ख्यकारिकायाम्-“ प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गुणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्चभूतानि ॥ ” इति । ( कारिका २२ )
पृष्ठ 90
पाठ पढ़ें पाठ छिपाएँ
२० मनुस्मृतिः [ प्रथमः प्रतिबन्धः । न हि यस्मिन्देशे मूर्तिरेका स्थिता तत्र मूर्त्यन्तरस्य स्थानम् । सुवर्णपिण्डे न कस्यचिदन्तः सम्भवः । मनोग्रहणं सर्वेन्द्रियप्रदर्शनार्थम् । कर्मग्रहणेन च कर्मेन्द्रियाणि वा गृह्यन्ते । अथवा तत्कार्यं सूक्ष्मैरवयवैर्युक्तं महान्ति भूतान्यधितिष्ठति पञ्चादित्येवं योजना । इन्द्रियाणि च, मन: शब्दस्य प्रदर्शनार्थत्वात् ॥ १८ ॥
हिन्दी — विनाशरहित एवं सब भूतों के कर्ता उस ब्रह्म से अपने - अपने कर्मों से युक्त पञ्चमहाभूत आकाश आदि और सूक्ष्म अवयवों के साथ मन की सृष्टि हुई ॥ १८ ॥
विनश्वर संसार की उत्पत्ति-तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् ।
सूक्ष्माभ्यो मूर्तिमात्राभ्यः सम्भवत्यव्ययाद्व्ययम् ॥ १ ९ ॥
भाष्य – सूक्ष्मात्स्थूलमुत्पद्यते सम्भवति अव्ययाद् व्ययमित्येतावति तात्पर्यम्, न तु षण्णां सप्तानां वा तत्त्वानां मात्राभ्य इति । चतुर्विंशतितत्वानि । तानि सृष्टौ सर्वेषां निमित्तम् । अथवा पिण्डसृष्टौ सप्तैव प्रधानं कारणम्, षडविशेषाः सप्तमो महान् । तेभ्यो भूतेन्द्रियाण्युत्पद्यते । तेषु चोत्पन्नेषु पिण्डीभवति शरीरम् । अव्ययात् प्रधानादुपसम्भृतसर्वविकारादेकीभूतादिदं बहुधा विप्रकीर्णं विश्वरूपं जगदुत्पद्यते । किं युगपदेव समस्तैर्विकारैः स्थूलरूपैः प्रधानं विक्रियते? नेत्याह तेषामिदमिति । यादृशः प्रागुक्तः क्रमस्तेनैव । प्रकृतेर्महाँस्ततोऽहङ्कारस्तस्माद्गणस्तु षोडशक इति ( साङ्ख्यकारिका - २२ ) । पुरुषशब्दस्तत्त्वे पुरुषार्थत्वात्प्रयुक्तः । महौ-जसां स्वकार्ये वीर्यवताम् । अपरिमितविकारहेतुत्वान्महत्वम् । तेषां याः सूक्ष्मा मूर्तिमात्राः - मूर्तिः शरीरं, तदर्था मात्राः, ताभ्य इदं भवति । अत उच्यते अव्यया-द्व्ययमिति । काः पुनस्तेषां सूक्ष्मा मात्रा: । न हि तन्मात्राणामन्या मात्राः सम्भवन्ति येन तेषां सूक्ष्मा मात्रा इति व्यतिरेक उपपद्यते । न तेषां स्वगतमात्रापेक्षत्वम् किं तर्हि तन्मात्रेभ्यः सूक्ष्मो महान्महतः प्रकृति-रिति ॥१ ९ ॥ हिन्दी — फिर विनाश रहित उस ब्रह्म से महाशक्तियुक्त सात पुरुषों ( महत्तत्व, अहङ्कार तथा शब्द आदि पञ्चतन्मात्राओं ) की सूक्ष्म मूर्ति के अंशों से विनाशशील यह संसार उत्पन्न हुआ ॥१९ ॥