मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 721–730
मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 721–730
पृष्ठ 721
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ६४१ वाच्यम् । अवश्यं श्मश्रुकर्माणि कारयतो रोमाणि गात्राणि स्पृशन्ति, तानि शरीरात् च्युतान्यशुद्धानीति सिद्धं स्नानम् । तत्स्पृष्टिनं तस्य स्पृष्टं ‘ तत्स्पृष्टं ', तदस्यास्तीति ' तत्स्पृष्टी ' येनैते स्पृष्टास्तेषामपि स्नानमेव । इह सर्वस्याप्रत्यासत्तेः, तत्स्पृष्टिनमित्यनेन सम्बन्धः शवस्यैव केचिदाहुर्न दिवाकीर्त्यादीनाम् । अन्ये तु एकवाक्योपनिपातादन्ते श्रुतत्वात्सर्वेषां बुद्धौ सन्निधानात् तच्छब्देन सर्वनाम्ना परामर्श इति । अत्र हि शवपर्यन्तानां द्वन्द्वं कृत्वा स्पृष्टीत्यनेन सम्बन्ध: । तत्र तत्स्पृष्टीति समासार्थस्य बुद्धौ सन्निहितत्वात्तच्छब्देनविमर्शः । न हि केवलस्य शवस्य स्पृष्टिपदेन सम्बन्धो लक्ष्यते, पतितादिभिरितरेतरयुक्तत्वात् । किंतु केवलस्य पदान्तरसम्बन्धः । द्वन्द्वे ह्येकैकः शब्दः सर्वार्थाभिधायी । ततः सर्वे प्रत्या-सन्ना: । अथापि शवस्पृष्टिशब्दस्य तत्स्पृष्टिपदेन सम्बन्धं कृत्वा ततोऽन्यैरभिसम्बन्धः,
तथा सति पतितादीनां स्पृष्टिपदेन सम्बन्धो न स्यात् ।
तस्मात्समाचारत एव निर्णयः ॥ ८४ ॥
हिन्दी— चाण्डाल, रजस्वला स्त्री, पतित ( ब्रह्मघाती आदि, ११ अध्यायोक्त ), सूतिका ( जच्चा ), मुर्दा तथा मुर्दे का स्पर्श करने वालों का स्पर्श कर स्नान मात्र से शुद्धि होती है ॥८४ ॥
विमर्श - कोई व्याख्याकार स्पर्शकर्ता का सम्बन्ध केवल मुर्दे के साथ न करके चाण्डालादि सबके साथ करते हैं । गोबिन्दराज ने याज्ञवल्क्य के ' उदक्याशुचिभिः स्नायात् संस्पृष्टस्तैरुपस्पृशेत् ’ ( या॰स्मृ ० ३।३० ) वचनानुसार रजस्वला आदि का साक्षात्स्पर्श करने पर स्नान करने से तथा परम्परा से स्पर्श करने पर आचमन मात्र से शुद्धि मानी है । यह विषय याज्ञवल्क्य स्मृति के उक्त श्लोक की मिताक्षरा में बहुत विशदरूप से वर्णित है । अत: वहीं से देखना चाहिए ।
अपवित्र - दर्शन होने पर शुद्धि-आचम्य प्रयतो नित्यं जपेदशुचिदर्शने ।
सौरान्मन्त्रान्यथोत्साहं पावमानीश्च शक्तितः ॥ ८५ ॥
भाष्य — अशुचयः संनिधानात्पूर्वोक्ता एव । -सूर्यदैवत्या मन्त्राः सौराः “ उदुत्यं जातवेदसम् ” इत्यादयः । पावमान्यः दाशतयीषु नवमे मण्डलेऽधीताः ' स्वादिष्टयेत्याद्याः ' । यथोत्साहं शक्तित इति च एक एवार्थः । वृत्तवशाच्छब्दद्वयं पठितम् । बहुवचननिर्देशात्त्रित्वसंख्याऽवश्यं कर्तव्या । परतस्तु यदि गुरुतरकार्यात्ययो न
पृष्ठ 722
पाठ पढ़ें पाठ छिपाएँ
६४२ भवति तदा कर्तव्य एव जप: । मनुस्मृतिः [ पञ्चमः मन्त्रग्रहणात्पावमानीरिति च ऋचामुपादानादसमाप्तेऽपि सूक्ते त्रिभ्य ऊर्ध्वं भवत्येव शुद्धिः । श्वाऽप्यत्र प्रक्षेप्तव्यः । सोऽप्यशुचिरेव । पठितं च गौतमीयेऽस्मिन्नेव वर्गे “ शुनश्च । यदुपहन्यादित्येक इति ” ( अ ० १४ सू ० २ ९ ।३० ) । प्रयतः अनन्यमना मन्त्रदेवतादिध्यानपरः । अथवा ' प्रयतो ' देवतादिपूजाप्रवृत्तो यदा पश्येत्तदैव कुर्यान्नान्यदेति ॥८५ ॥
हिन्दी— श्राद्ध या देव— पूजन करने का इच्छुक व्यक्ति स्नानादि से शुद्ध हो चाण्डाल आदि अशुद्ध व्यक्तियों को देखने पर उत्साहानुसार सूर्यमन्त्र का ' तथा यथाशक्य ' पावमानी ' मन्त्र का जप करे ॥८५ ॥
मानव की हड्डी के स्पर्श करने पर शुद्धि-नारं स्पृष्ट्वाऽस्थि सस्नेहं स्नात्वा विप्रो विशुद्ध्यति । आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य वा ॥८६ ॥
भाष्य- - नरो मनुष्यस्तस्येदं नारम् । सस्नेहं मांसमज्जादिग्धम् । गोरालम्भनं स्पर्शः । अर्कदर्शनगवालम्भौ विकल्प्येते ॥८६ ॥
हिन्दी — मनुष्य की गीली ( रक्तादि से युक्त - ताजी ) हड्डी छूकर स्नान करने से ब्राह्मण शुद्ध होता है तथा सूखी हड्डी को छूकर आचमन करने, गौ का स्पर्श करने या सूर्यदर्शन करने से शुद्ध होता है ॥८६ ॥
आदिष्टो नोदकं कुर्यादाव्रतस्य समापनात् ।
समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुद्ध्यति ॥ ८७ ॥
भाष्य- -आदेश ‘ आदिष्टम् ’ व्रतादेशनसम्बन्धाद्रूढिरूपेण ब्रह्मचार्युच्यते । तस्य ब्रह्मचर्याश्रमस्थस्य सतो ये सपिण्डाः प्रमीयन्ते तेषामयादिष्युदकदानप्रतिषेधः । प्राक्-प्रमीतानां । विहितमन्वाहिकं कुर्याद्देवपितृतर्पणमिति । आ व्रतस्येति आ समावर्तनादित्यर्थः । न पुनरान्तरालिकसाहसिकादित्यर्थः । व्रतचरणसमाप्तेः समावृत्तः स सर्वेषामेकैकस्योदकं कृत्वैकस्मिन्नहनि, त्रिरात्रमाशौचं कुर्यात् । मातुस्तूदकदानं व्रतिनोऽपीष्यते । न च व्रतलोपः । स्मृत्यन्तरमुदाहरन्ति । अपराध्य आदिष्टी नोदक इति ॥८७ ॥
हिन्दी – व्रती ब्रह्मचारी व्रत के समाप्त होने के पहले तिलाञ्जलि न दे ( तथा पूरक पिण्ड एवं षोडशी श्राद्ध आदि भी न करे ), व्रत के समाप्त हो जाने पर तिलाञ्जलि देकर १. ‘ उदित्यं जातवेदसं देवं बहन्ति केतवः । दृशे विश्वाय सूर्यम् । ' इत्ययं सूर्यमन्त्रः |
पृष्ठ 723
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा’हिन्दीटीकासहिता तीन रात में ( दिन - रात अशौच मनाकर ) शुद्ध होता है ॥ ८७ ॥
वृथासंकरजातानां प्रव्रज्यासु च तिष्ठताम् ।
आत्मनस्त्यागिनां चैव निवर्तेतोदकक्रिया ॥ ८८ ॥
६४३ भाष्य — जातशब्दः प्रत्येकमभिसम्बध्यते । वृथाजातो यो न देवानर्चयति न पितॄन्न मनुष्यानिति । सत्यधिकारेऽनाश्रमी, हुताहुतपरित्यक्तः । ‘ संवत्सरमनाश्रमी भूत्वा ' इत्यादि चिरकालावस्थाने महादोषश्रवणात् । ब्रह्मचारिपरिव्राजकाभ्यामन्यस्य परपाकरति-त्वम् । आत्मार्थस्तु पाको निषिद्धः । संकरजाता इतरेतरजातिव्यतिकरेण प्रतिलोमा आयोगवादयः । निन्दितत्वाद्वृथा-जातसाहचर्येण । अनुलोमास्तु सत्यपि संकीर्णयोनित्वे मातृजातीयत्वादधिकारित्वाच्च नेह गृह्यन्ते । न चानुलोमेषु संकीर्णयोनिव्यवहारः । “ संकीर्णयोनयस्त्वेताः प्रतिलोमानु-लोमजा ” इति । अनियुक्ता सुतादयश्चानेकपुरुषसंसर्गजाः वेश्याजाताश्च । पारस्त्रैणेयास्तु असत्यनेकपुरुषसंसर्गे न संकरजाताः । अयं च सपिण्डानां निषेधो, न तत्पुत्राणामिति केचित् । आत्मत्यागिनां तु पुत्राणामपि । तदयुक्तमविशेषश्रवणात् । ‘ प्रव्रज्यासु ' बाह्यासु भगालवरक्तपटाद्यासु अनधिकाराद्वहुवचननिर्देशात् व्रतादि-दर्शनभेदेन बाह्याः । आत्मनस्त्यागिनां पुरुषाणाम् — युषोऽक्षये स्वेच्छया शरीरं त्यजन्ति । वृद्धानाम-चिकित्स्यमहाव्याधीनां च भिषक्प्रत्याख्यातानामिष्यत एव । यथोक्तम्— “ वृद्धः शौचस्मृतेर्लुप्तः प्रत्याख्यातभिषक्क्रियः । आत्मानं घातयेद्यस्तु भृग्वग्न्यनशनाम्बुभिः ॥ ” " तस्य त्रिरात्रमाशौचं द्वितीयेत्वस्थिसंचयः । तृतीये तूदकं कृत्वा चतुर्थे श्राद्धमाचरेत् ॥ " इति । कुष्ठ्यादेस्तु व्याधिगृहीतस्य इष्यत एव । यथोक्तं ' लुप्तचेष्टस्य ' । गृहस्थावस्थाया-मपि— “ महाप्रस्थानगमना वृथा नेच्छन्ति जीवितुम् ” । ' लुप्तचेष्ट'श्चोच्यते यः शौचादि-ष्वसमर्थः संध्योपासनादिषु च । ‘ अपरिक्षीणशरीरो वा सादयेद्यस्त्वात्मानमलुप्तचेष्टो वा ' । अतस्तद्विपरीतस्या-नुज्ञातं भवति । स्मृत्यन्तरेष्वन्येषामप्युदकक्रियानिषेधो विहितः । यथोक्तम्—
“ राजभिर्निहतानां च शृंगिदंष्ट्रिसरीसृपैः ।
आत्मनस्त्यागिनां चैव श्राद्धमेषां न कल्पयेत् ॥
“ उदकं पिण्डदानं च प्रेतेभ्यो यच्च दीयते ।
नोपतिष्ठति तत्सर्वमन्तरिक्षे विनश्यति ॥
पृष्ठ 724
पाठ पढ़ें पाठ छिपाएँ
६४४ तथाऽन्यत्र— मनुस्मृतिः “ नारायणबलिः कार्यो लोकगर्हाभयान्नरैः तस्मादेभ्योऽपि दातव्यमन्नमेव सदक्षिणम् ” ॥ “ चण्डालादुदकात्सर्पाद्ब्राह्मणाद्वैद्युतादपि । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम् ” । तथा चोक्तम्– “ नृणां चैवाग्निदानां च स्नानालंकारकारिणाम् । तप्तकृच्छ्रद्वये शुद्धिरश्रुपातेऽनुयायिनाम् ।
“ तेनोद्दिष्टं न चैवान्यैः कार्यमस्यौर्ध्वदेहिकम् ।
न च नामापि कर्तव्यं तद्वंशस्य तदीयकम् ॥
“ अत्यन्तनरकस्थस्य तस्य पापीयसोऽधिकम् । कारणं कीर्तनं नाम सर्वं चैव भयावहम् " । [ पञ्चम: क संवर्तेन आस्वेव क्रियासु सान्तपनमाम्नातम्, पराशरेण तप्तकृच्छ्रम्, वशिष्ठेन तप्तकृच्छ्रसहितं चान्द्रायणम् । तत्रापूर्वादिविशेषा उपेक्ष्याः । यदुक्तम् ‘ चण्डालादुदकात् इत्याद्युपक्रम्य ' मरणं पापकर्मणामिति ' तत्रेदं सन्दिह्यते । किं यश्चाण्डालादिर्बुद्धिपूर्वमात्मानं घातयति तस्यायां विधिरौर्ध्वदेहिकाकरणम्, तत्करणे च प्रायश्चित्तम्, उत प्रमादहतस्यानिच्छत इति । कुतः सन्देहः । इह गौतमेन “ प्राया-नाशकशस्त्राग्निविषोदकोद्बन्धनप्रपतनैश्चेच्छता ” इत्युक्तम् ( १४ । १२ ) । इह चाविशेषेण श्रुतं “ चण्डालादुदकात् ” इति । तत्र स्मृत्यन्तरेणैकशास्त्रत्वादुदकादित्यत्र तावदवश्य-मिच्छतामिति सम्बध्यते । साहचर्यादन्यत्रापि तथैवेत्याशङ्का जायते । किंच पापकर्मणा-मिति श्रूयते । पापं च कर्म प्रतिषिद्धम् । अत्र प्रतिषिद्धं योऽनुतिष्ठति स पापकर्मेत्युप-पद्यते । अनुष्ठातृत्वं च स्वव्यापारेण परप्रयोक्तृतया च । तत्र न वैद्युतदंष्ट्रिशृङ्ग्यादयः । ते च न प्रयुज्यन्ते । नापि ते श्वभ्रोदकखङ्गादिस्थानीयाः । येन तदुपादानेनात्मानं घ्नन् स्वतन्त्रः कर्ता स्यात् । किं तर्हि यस्येदृशं मरणमुपनतं स पूर्वजन्मनि कृतपातक इति शास्त्रेण ज्ञाप्यते । यथा श्यावदन्तप्रभृतयः । तत्रापि किमेतेन ज्ञापितेन । अङ्गहीनादीनां पूर्वपापसम्बन्धित्वं ज्ञाप्यते । प्रायश्चित्तमनुष्ठेयं यथा वशिष्ठेनोक्तं कस्यचित्कृच्छ्वयचरणं कस्यचिदभ्यधिकमपि । इह मृत्युना सम्बन्धिकारस्यापहृतत्वान्नार्थोऽनेन । यदि वाऽसौ कृतपातक इत्यव-सीयते । तेन सह येन केनचित् यौनमौखस्रोवाः सम्बन्धाः कृताः सोऽपि पापकारी स्यात् । न चैवं शिष्टानामाचारः । न हि तादृशेन सम्बन्धं कृतवन्तः केनचिद्विचिकित्स्यन्ते । प्रायश्चित्तं नाचरन्ति । अत इच्छतामनुमीयते । ये तु ‘ गोब्राह्मणहतानाम् ’ इति स्मृत्यन्तरे पठित्वा ' आत्मनस्त्यागिनामिति ’ पृथक्
पृष्ठ 725
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ६४५ पठन्ति तेन विशेषपक्षः प्रतिभाति । अतः संशयः । किं पुनरत्र युक्तम् । इच्छतामिति । कुत: । पापकर्मवचनात् । स्वेच्छया यश्चात्मव्यापत्तिहेतौ व्यापारे प्रवर्तते तेन “ तस्मादुह न पुरायुषः स्वः कामी प्रेयादिति ” शास्त्रमतिक्रान्तं भवति । स च युक्तः पापकर्मेति व्यपदेष्टुम् । “ ननु चोक्तं न हि ते खड्गादिस्थानीयाः, येनेच्छया वधोपपत्तिः । ” उच्यते । यः प्रमादं न रक्षति तेन तत्कृतमेवेति । तेन यश्चाण्डालदस्युभूयिष्ठेऽरण्य एकाकी गच्छति, तस्य यद्यपि चण्डाला मां घ्नन्त्वितीच्छा न भवति, तथापि तत्समर्था-चरणेन प्रमादस्यापरिहृतत्वाद्भवत्येव शास्त्रातिक्रमः । एवं यो बाहुभ्यां नदीं तरति संदिग्धां वा नावमधिरोहत्यकुशलकर्णधाराधिष्ठिताम्, एवं तस्य व्यापद्यमानस्य वेगक्षयेण नौपरिवर्तनादिना व युक्तैव पापकारिता । तथा चागाधतां दण्डादिना ग्राहमकरसंगं च ज्ञात्वा स्नातारो यद्यपह्रियेरन्न दुष्येयुः । एवं यस्तु दृढबन्धनां तरिं तीव्राम्भसि कुशला-वहितसमर्थप्रेरकप्रेर्यमाणामधिरूढ़: सहसोत्पतिते जविनि पवने चक्रवातेन पिच्छलमवाप्त-वान् पल्वव्यापत्त्या म्रियेत न शास्त्रमतिक्रमेत् । एवं सर्पोपहतं देशं च अपरिहरन्दष्टो व्यापद्येत प्रत्यवेयादेव, नान्यथा । एवं तीक्ष्णशृङ्गां गां हस्तिनं वा दृष्ट्वा दूरमनपक्रामतो हन्यमानस्य युक्तोऽतिक्रमः । एवमरण्ये वर्षासूच्चरन्तीषु विद्युत्सु ग्रामनगरयोरप्रवेशे दुष्टतैव । ग्रामस्थस्योपरि कथंचिद्विद्युत्पातः स्यात्तदा न किंचिदपराध्यति । अतो युक्तमीदृशं यथा-विहितक्रियाकरणम् । तत्र चोदकक्रियानिषेधः सर्वौर्ध्वदेहिकप्रदर्शनार्थः, स्मृत्यन्तरेऽस्योदाहृतत्वाद् ॥८८ ॥
हिन्दी — मनु के अग्रिम ( ५।९ १ ) वचनानुसार तथा वसिष्ठ के वचनानुसार व्रती ब्रह्मचारी को भी अपने आचार्य ( २।१४० ), उपाध्याय ( २।१४१ ), पिता - माता और गुरु ( २।१४२ ) के अतिरिक्त मृत व्यक्ति के निमित्त तिलाञ्जलि - दान आदि कर्मों का निषेध है, अपने आचार्य आदि के लिये तिलाञ्जलि - दान आदि करने पर भी इस ( ब्रह्मचारी ) का व्रत खण्डित नहीं होता है ॥८८ ॥
तिलाञ्जलिदान के अयोग्य स्त्रियाँ—
पाषण्डमाश्रितानां च चरन्तीनां च कामतः ।
गर्भभर्तृगुहां चैव सुरापीनां च योषिताम् ॥८९ ॥
भाष्य — शास्त्रपरित्यागेन बाह्यप्रदर्शनाश्रयं नरशिरः कपालरक्ताम्बरादिधारणं ' पाषण्डम् ' तदाश्रिताः कृततल्लिङ्गपरिग्रहाः तद्दर्शनवशवर्तिन्यः । चरन्तीनां च कामतः । तदाचारकुलस्थितित्यागेनेच्छामात्रानुवृत्त्यैकानेकपरपुरुष-मनु I- 45
पृष्ठ 726
पाठ पढ़ें पाठ छिपाएँ
६४६ संप्रयोगः ' कामचारः ' । मनुस्मृतिः भर्तुर्विषगरादिदानेन गर्भस्य च पातनं द्रोहः । सुराप्यः यथाप्रतिषेधं प्रतिषिद्धायाः पानेन । [ पञ्चमः अत्र कश्चिदाह “ ब्राह्मणो न पिबेत्सुरामिति ” सत्यपि जात्यर्थाविशेषे लिङ्गात्पुंस एव ब्राह्मणस्य प्रतिषेधो न स्त्रिया इति । यद्यपि स्त्रीपुंसयोरेका जातिस्तथापि स्त्रीत्वपुंस्त्व-लिङ्गे भिद्येते । इह च ब्राह्मण इति पुंल्लिङ्गस्य शब्दस्य श्रवणादश्रुतायाः कः प्रसङ्गः । यथा ‘ ब्राह्मणीं पाययेत्पुत्रार्थमिति ' न पुंसः पाययेदिति, तद्वत्पुंल्लिङ्गश्रुतौ न स्त्रिय उपा-दीयन्ते । यत्रक्वचिल्लिङ्गं न विवक्ष्यते, यथा ' ब्राह्मणो न हन्तव्य ' इति स्त्रिया अपि प्रति-षेधो विज्ञायते, तत्र द्वितीयया श्रुत्या ब्राह्मणस्येप्सिततमत्वात्प्राधान्यम् । न च प्रधाने प्रातिपदिकार्थव्यतिरेकेणान्यलिङ्गसंख्यादि विवक्ष्यते । यथा ' ग्रहं संमाष्टति ' नैकस्य संमार्गः । इहपुन ' ब्रह्मणेन सुरा न पेयेति ' कर्तृतया साधनभावेन क्रियां प्रति निर्देशात् ' ब्राह्मणो न पिबेत्सुरा’मित्याख्याताभिहितेऽपि तदर्थानामपि वृत्तेः प्रातिपदिकार्थोपपत्त्या प्रथमाऽपि तृतीयानुगुण्येति गुणीभावः, गुणे च सर्वं श्रुतं विवक्ष्यते । यथा ' पशुना यजेतेति ’ पुमान्पशुरालभ्यते एकश्च । ’ अत्रोच्यते । नात्र द्वितीयातृतीये गुणप्रधानभावेनविवक्षाविवक्षयोः कारणम्, किंतर्हि प्राप्त्यप्राप्ती । यदप्राप्तं विधिविषयतयोपपद्यते तद्विवक्ष्यते, अनन्यपरशब्दावगम्यत्वात् । यत्त्वन्यतोऽवगतमर्थान्तरं विध्यर्थमुपादीयते, तद्यादृशमेव प्रमाणान्तरावगतं तादृशमेव विधेयकार्यान्तरसम्बन्धितया शब्देन प्रतिपाद्यते । ' ब्राह्मणो न हन्तव्य ' इत्यत्र वाक्ये विधिः प्रतिषेध एव पर्यवस्यति, यदन्यत्तदन्यतोऽवगतम् । प्रातिपदिकार्थविवक्षा तु श्रुत्या-नर्थक्यप्रसंगात् । लिङ्गसंख्यादेस्तु प्रत्ययार्थस्य नान्तरीयकत्वेनाप्युपादानसम्भवाद्विवक्षा-विवक्षे उच्येते । तत्रेह न ब्राह्मणादिभिः पुरुषो विधिना प्रवर्त्यः तद्द्वेषात्स्वतः प्रवृत्तेः तत्सर्वस्य चात्र स्वयं प्रसंगात् । न ह्यविधीयमानः प्रतिषेधः कथंचिदन्वेतुमलम् । अन्यतः प्राप्त्यभावात, अकारकत्वादकारकविशेषणत्वात्स्वभावानुप्रवेशेनापि सम्बन्धं न लभते । तस्मादस्यान्वयसिद्ध्यर्थं विषयभाव एषितव्यः । तस्मिंश्च विधिना विषयीकृतेन भावार्थो विषयतयाऽपेक्ष्यते । भावार्थश्च प्रतिषेधेन विषयांशस्य गृहीतत्वात्ततः प्रच्युतो लौकिक्या न प्रवृत्त्या सिद्धानुष्ठान आत्मविधिसिद्ध्यर्थमनुप्रवेशमप्यकांक्षन्नधिकारमात्रसापेक्षविधौ प्रमाणान्तरतः प्रतिपन्नहननकर्तृभावस्य पुंसोऽधिकारतां प्रतिपादयंस्तद्विशेषणद्वारेणान्वयं प्रतिपद्यत इत्युपपन्नमन्विताभिधानम् । तेन भावार्थस्य सविशेषणस्याविधेयत्वाल्लौकिकी प्रवृत्तिरभ्युपेतव्या । अस्ति च रागलक्षणा प्रवृत्तिर्न तस्या लिङ्गसंख्यानियमोऽस्ति, द्वेषाद्वा । तस्मादविधेयार्थशब्दोऽगवतार्थपरत्वादभिधानशक्तिमुत्सृज्य प्रमाणान्तरतो यथावधृतस्वरूप-मर्थं लक्षयति । तत्र लिङ्गसंख्यायोस्तात्पर्यतः शब्देनानभिधानात्कुतो विवक्षा । केवलं
पृष्ठ 727
पाठ पढ़ें पाठ छिपाएँ
अध्याय: ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ६४७ प्रातिपदिकनिर्देशार्थं येन केनचिद्वचनेन निर्देश: कर्तव्य:, न केवला प्रकृतिः प्रयोक्तव्येति तदर्थं लिङ्गसंख्ययोरुपादानम् । अत इयमत्रावगतिः । हननेऽध्यवसितकर्तृभावः स नञर्थे नियुज्यते । अतः प्रतिषेध-वाक्ये द्वितीयाश्रुतिरविवक्षायामतन्त्रम् । यत्रापि हि तृतीया श्रूयते प्रथमा वा, ' ब्राह्मणेन न ` पातव्या ’, ‘ ब्राह्मणो न पिबेदिति ' तत्रापि तदर्थश्चान्यतः प्राप्तेरविधेयत्वादनूद्यते । याऽधि-कारविशेषणत्वेनैव सम्बन्धा तत्र ते द्वितीयाविशिष्टे प्रथमातृतीये । सत्यामपि च द्वितीया-श्रुतौ यदप्राप्तं तद्विधेयत्वाद्विवक्ष्यते यथा “ भार्यामुपगच्छेत् ” “ अपत्यमुत्पादयेदिति ” । न हि लौकिको भार्यार्थः, उपयमननैव तत्सिद्धेः । नापि वाक्यान्तरे विधिना क्वचिदुपात्तो येन यथावगममुद्दिश्येत यथा — ऽश्विनं गृह्णाति ’ ‘ मैत्रावरुणं गृह्णाति ’ ‘ दशैतानध्वर्युर्गृह्णातीति ' संख्याविशिष्टा एव ग्रहा उपादीयन्ते I । अतो निर्ज्ञातसंख्यत्वात्संमार्गविधौ यथासंख्यावगमं निर्दिश्यते । अत्र पुनर्वाक्यान्तराभावाद-स्यैवोत्पत्तिवाक्यत्वाच्छ्रुतसंख्यापरित्यागे प्रमाणाभावान्निरपेक्षाभिधानशक्तिसमर्पितस्यैकस्य ` परित्यागः पुरुषबुद्धिप्रभव एव स्यात् । एवं पशुना यजेतेति यागविषयत्वाद्विधेस्तस्य च साध्यस्वभावत्वात्साधनाकांक्षायां समर्पितसविशेषणकारितसहितस्य विधेयत्वे यज्यर्थमात्रे विधिव्यापारापरिसमाप्तेः स्वार्थपरशब्दाभिहितापेक्षितस्वार्थाः किमिति नयन्ति । प्रमाणशास्त्रविदस्तु स्वयं विधिं वदन्ति अन्योक्तमवगाहन्ते । यत्त्वस्माभिरुक्तं तत्सुखोपायग्राह्यम् । नातिमहती व्युत्पत्तिस्त्रोपयुज्यते । इयदेव च तत्सारम् । इयती सा 1 विद्याऽनुष्ठानोपयोगिनी यदधिकमाहोपुरुषिकामात्रं तदर्थवाद एव । तत्र ह्यर्थवादाद्विशेषा-वगतिर्भवति यत्राकांक्षा विधेरनिवृत्तेति । यथोक्तमुपदधातीति बहुषु भोजनसाधनेषु सर्पिस्तैल-लवणादिषु सत्सु केनेत्यनवसाये घृतेनेति गम्यते । यथा तु रात्रिष्वनुष्ठानाश्रवणादा-॰कांक्षायां प्रतितिष्ठन्तीत्यर्थवादः । अतः प्रतिष्ठाकामस्येति गम्यते । इह पुनर्ब्राह्मणा इति-' परिसमाप्तत्वात्पदार्थस्य निवृत्ताकांक्षेति स्तुतिमान्नापेक्षयाऽर्थवादः । अथ लिङ्गदर्शनमात्र-तयोपन्यस्यते “ देवानामश्नता हविरिति ” ( ११।९ ५ ) तस्माच्छ्रेय: सम्पन्नं पापीयानन्वे-तीतिवत्तदपि पुंसः प्रतिषिद्धत्वात्पाक्षिकेनानुवादेन सालम्बनमिति न किंचित् स्त्रीणामपि देवान्नशेषमाज्यादिप्राशनमस्त्येव । त्रेदोदाहरश्च दर्शपूर्णमासादिषु “ विदेयकर्मासीति ” । न ` च श्राद्धस्य कर्तुः सुरां पाययेदिति चोदनया तासां पानमनुमीयते । ब्रह्महत्यादानेनैव ग्रहः । तस्माज्जातिमात्रस्य प्रतिषेध इत्येष एतस्यां विप्रतिपत्तौ निर्णयः ॥८९ ॥
हिन्दी - पाखण्ड का आश्रय ( वेद - वचन - विरुद्ध काषाय वस्त्र आदि को धारण ) करने वाली, स्वेच्छाचारिणी ( स्वेच्छा से एक या अनेक पुरुष का संसर्ग करने वाली ), गर्भपात तथा पतिहत्या करने वाली और मद्य पीने वाली स्त्रियों का तिलाञ्जलिदान श्राद्ध • आदि नहीं करना चाहिये ॥८९ ॥
पृष्ठ 728
पाठ पढ़ें पाठ छिपाएँ
६४८ मनुस्मृतिः आचार्यादि को तिलाञ्जलि - दान आवश्यक-आचार्यं स्वमुपाध्यायं पितरं मातरं गुरुम् । [ पञ्चमः निर्हृत्य तु व्रती प्रेतान्न व्रतेन वियुज्यते ॥ ९ ० ॥ भाष्य — स्वग्रहणमाचार्यविशेषणं मन्यते । “ गुरोर्गुरौ सन्निहित ” ( २ । २०५ ) इत्यतिदेशात्तदाचार्येऽपि प्राप्ते प्रतिषेधः । अन्ये तु स्वशब्दं बान्धववचनं व्याचक्षते । अत्र तु पितरं मातरमिति न वक्तव्यम् । नित्यार्थं त्वभिधानमिति । गुरु “ अल्पं वा बहु वाऽपि ” ( २ । १४ ९ ) इत्यनेन य उक्तः ।
एतान्निर्हरतो व्रतवियोगो नास्तीति श्रुतसामर्थ्याद्दर्शयति ।
अन्यान्निर्हृत्यानेन वियुज्यत इति पदार्थसिद्धिः ॥ ९ ० ॥
हिन्दी — अपने आचार्य ( २।१४० ), उपाध्याय ( २।१४१ ), पिता, और माता गुरु ( २।१४२ ) के शव को बाहर निकालकर ( दाह, दशाह और श्राद्ध करके भी ) व्रती ब्रह्मचारी व्रत से भ्रष्ट नहीं होता है ॥ ९ ० ॥ विमर्श — गुरु के गुरुतुल्य व्यवहार करने का मनु भगवान् द्वारा पहले ( २।२०५ ) विधान करने से अपने आचार्य के आचार्य, उपाध्याय के उपाध्याय, पिता के पिता अर्थात् पितामह, माता की माता अर्थात् नानी और गुरु के शव को बाहर निकालकर, तिलाञ्जलिदान ( दाह, दशाह, पिण्डदान और षोडशी श्राद्ध ) करके व्रती ब्रह्मचारी व्रत से भ्रष्ट नहीं होता है । अन्य के शव निकालने पर व्रती भ्रष्ट होता है, ऐसा समझना चाहिये; क्योंकि ‘ स्वम् ’ ( अपने ) पद का सब के साथ सम्बन्ध है । वर्णानुसार शव को बाहर निकालने के द्वार—
दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् ।
पश्चिमोत्तरपूर्वस्तु यथायोगं द्विजन्मनः ॥ ९ १ ॥
भाष्य – पुरद्वारेणेति पुरग्रहणं ग्रामादीनामप्युपलक्षणार्थम् । यत्रानेकद्वारसम्भवस्तत्रायं नियमः 1 । यो यत्रेष्टे तस्यायमुपदेशः । अमङ्गल्यत्वाच्च शूद्रादारभ्य क्रमेणोपदिष्टम् । अतश्च यथायोगमिति वैश्यक्षत्रिय-ब्राह्मणाः पश्चिमादिभिर्यथासंख्यं सम्बन्धनीयाः ॥९ १ ॥ हिन्दी – मरे हुए शूद्र को नगर के दक्षिण द्वार से बाहर निकाले और अन्य द्विजों ( वैश्य, क्षत्रिय और ब्राह्मण ) के शव को क्रमशः नगर के पश्चिम, उत्तर तथा पूर्व के द्वार से बाहर निकाले अर्थात् मृत ब्राह्मण, क्षत्रिय वैश्य और शूद्र के शव को क्रमशः नगर
पृष्ठ 729
पाठ पढ़ें पाठ छिपाएँ
अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता के पूर्व, उत्तर, पश्चिम तथा दक्षिण दिशा के द्वारों से बाहर निकालना चाहिए ॥
राजा आदि को अशौचा भाव-न राज्ञामघदोषोऽस्ति व्रतिनां न च सत्रिणाम् ।
ऐन्द्रं स्थानमुपासीना ब्रह्मभूता हि ते सदा ॥ ९ २ ॥
६४ ९ भाष्य - राजशब्दो यद्यपि क्षत्रियजातौ वर्तते तथापीह ऐन्द्र स्थानमुपासीना इति कारणस्योपादानाज्जनपदेश्वरवचनो लक्षणया विज्ञायते । उत्तरश्लोके निपुणं वक्ष्यामः । व्रतिनो व्रतचारिणः चान्द्रायणादिस्थाश्च । सत्रिणो गवामयनिकाः अन्यस्मिन्वा यज्ञे दीक्षिताः । तथा च गौतम: " ऋत्विग्दीक्षित-ब्रह्मचारिणामिति ' । अत्रार्थवादः । ऐन्द्रं स्थानमाधिपत्यं पदं प्रजैश्वर्यमुपासीनाः कुर्वाणा राजानो; ब्रह्मत्वं प्राप्ताः व्रतिनः सत्रिणश्च । अघदोषमाशौचम् । अन्ये तु सततदानप्रवृत्तान् ' सत्रिणो ' मन्यन्ते । मुख्यायाऽ-नुवृत्त्या क्रतुविशेषे वर्तते ॥९ २ ॥ हिन्दी - अभिषिक्त राजा, व्रती ( ब्रह्मचारी तथा चान्द्रायणादि व्रत करने वाले ), यज्ञकर्ता ( यज्ञ में दीक्षित ) लोगों को ( सपिण्ड के मरने पर ) अशुद्धि ( अशौच ) दोष नहीं होता है; क्योंकि राजा अभिषिक्त होने से इन्द्रपद को प्राप्त होते हैं तथा व्रती और यज्ञकर्ता ब्रह्मतुल्य निर्दोष हैं ॥ ९ २ ॥ विमर्श - राजा को राजकर्म ( न्याय करने, शान्तिहवनादि कर्म ) में व्रतियों को व्रत में तथा यज्ञकर्त्ताओं को यज्ञ करने में ही उक्त दोष नहीं लगता है, ऐसा विष्णु का मत है ' ।
राजा की तात्कालिक शुद्धि-राज्ञो माहात्मिके स्थाने सद्यः शौचं विधीयते ।
प्रजानां परिरक्षार्थमासनं चात्र कारणम् ॥ ९ ३ ॥
भाष्य — महानात्मा यस्य स्थानस्य तन्माहात्मकं । यस्मिस्थाने स्थितस्य पुंसः प्रजानां परिरक्षा ‘ माहात्म्यं ' तदेव उच्यते । तच्च प्रजैश्वर्यम् । यदाह आसनं चात्र कारणमिति तदुक्तम् । नात्र जातिमात्रं किंतु प्रजापालना-धिकारः । ‘ आसन’शब्दोपीह नासनशय्यादिवचनः, अपि तु तत्पदं प्राप्तवतो यत्कर्तव्यं १. तदाह विष्णुः - ' अशौचं न राज्ञां राजकर्मणि न व्रतिनां व्रते न सत्रिणां सत्रे ' इति । ( म ० मु ० ) ।
पृष्ठ 730
पाठ पढ़ें पाठ छिपाएँ
६५० मनुस्मृतिः [ पञ्चमः तदाह | अतः अक्षत्रियोऽपि यदि प्रजापालने समर्थः तस्याप्याशौचाभाव एव पूर्वै-र्व्याख्यातः । प्रजानां परिरक्षार्थमिति । न सर्वेण सर्वाशौचनिवृत्तिः, किंतर्हि प्रजापालनविरोधि - यदाशौचधारणं तन्निवर्तते । यथा दुर्भिक्षादौ स्वकोशादन्नदानेन प्रजाभरणम् । तथा दिव्यन्तरिक्षभौमेषूत्पातेषु शान्तिः । अकस्मात्सभ्यैः कर्तव्येन राज्ञा, अथवा आश्रमेषु द्विजातीनां धर्मसंशयसत्त्वेन प्रथमेज्यादावप्यस्ति प्रवक्तृत्वम्, तदपि प्रयोजनम् ॥९ ३ ॥ हिन्दी — राजसिंहासनारूढ़ राजा की ( राज्यभ्रष्ट राजा की नहीं ) तत्काल शुद्धि होती है, इसमें प्रजा की रक्षा के लिये राजसिंहासन ही कारण है ॥ ९ ३ ॥ विमर्श — प्रजारक्षार्थ राजसिंहासन के शुद्धि में कारण होने से क्षत्रिय - भिन्न ब्राह्मण वैश्य या शूद्र भी राजसिंहासन पर रहेगा तब उसकी भी शुद्धि तत्काल ही होती है; क्योंकि यहाँ जाति विवक्षित नहीं है, अपितु पद विवक्षित है ।
तत्काल शुद्धि के योग्य अन्य व्यक्ति-डिम्बाहवहतानां च विद्युता पार्थिवेन च ।
गोब्राह्मणस्य चैवार्थे यस्य चेच्छति पार्थिवः ॥९ ४ ॥
भाष्य — डिम्बो बहुजनसंकुलः अशस्त्रकलहो वा । आहबः संग्रामो युद्धम् । तत्र हतानां सद्यः शौचम् । विद्युदशनिः एतद्व्याख्यातम् । पार्थिवः पृथिव्या ईश्वरश्चातुर्वर्ण्यस्य यः कश्चित् ।
ब्राह्मणार्थे गवार्थे च युद्धादन्यत्रापि जलाग्निदंष्ट्रिहतस्य ।
यस्य चेच्छति पार्थिवः स्वकार्यार्थपरिपालनाधिकृतस्य ॥९ ४ ॥
" कुत एतद्यतो राज्ञां परिपालन एवाशौचनिवृत्तिस्तत्र कुतोऽन्यस्याविशेषेण तदिच्छया विनिवृत्तिः स्यात् ” हिन्दी – नृप से रहित युद्धमें मारे गये, बिजली से मरे हुए, राजा ( किसी अपराध में राजदण्ड ) से मारे गये अर्थात् प्राणदण्ड प्राप्त, गौ तथा ब्राह्मण की रक्षा के लिए ( युद्ध के बिना भी जल, अग्नि या व्याघ्र आदि से ) मारे गये और ( अपनी कार्य हानि नहीं होने के लिए ) राजा जिसकी तत्काल शुद्धि चाहता हो, उसकी ( तत्काल शुद्धि हो जाती है ) ॥९ ४ ॥ उक्त शुद्धि में कारण—
सोमाग्न्यर्कानिलेन्द्राणां वित्ताप्पत्योर्यमस्य च ।
अष्टानां लोकपालानां वपुर्धारयते नृपः ॥ ९ ५ ॥