मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 741–750

मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 741–750

पृष्ठ 741

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 741 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ६६१ हिन्दी – पानी तथा अग्नि के संयोग से सुवर्ण तथा चाँदी उत्पन्न हुए हैं । अतएव इन ( सुवर्ण तथा चाँदी ) की शुद्धि भी अपनी योनि ( उत्पत्ति - स्थान अर्थात् जल और अग्नि ) से ही उत्तम होती है ॥११२ ॥

ताम्रादि पात्रों की शुद्धि-ताम्रायःकांस्यरैत्यानां त्रपुणः सीसकस्य च ।

शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः ॥ ११३ ॥

भाष्य — यथार्हम् । यस्य यदर्हति, तेन यस्य मलमपक्रष्टुं शक्यत इत्यर्थः । अतएव स्मृत्यन्तरोक्तमपि लभ्यते " वाहनीयास्त्रपुसीसकविकारा गोमयतुषैरिति ” । यथा— “ गवाघ्रातानि कांस्यानि शूद्रोच्छिष्टानि यानि च ।

शुद्धयन्ति दशभिः क्षारैः श्वकाकोपहतानि च ॥ ” इति ।

अतएव क्षारभेदाश्च काञ्जिकदाडिमादियोजिताः सिद्धा भवन्ति ॥ ११३ ॥

हिन्दी — तांबा, लोहा, काँसा, पीतल, रांगा, और सीसा; इन के बने बर्तन आदि की शुद्धि यथायोग्य राख, खटाई का पानी और पानी से करनी चाहिये ॥ ११३ ॥

विमर्श - वृहस्पति के कथनानुसार सोने को जल से, चाँदी लोहे तथा कांसे को राख से, ताँबे और पीतल को खटाई ( के जल ) से मिट्टी की फिर पकाने से शुद्धि होती है ।

घृत, शय्यादि की शुद्धि-द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम् ।

प्रोक्षणं संहतानां च दारवाणां च तक्षणम् ॥ ११४ ॥

भाष्य — क्षरणधर्माणो द्रवाः । घृततैलोदश्वित्प्रभृतयस्तेषां च काकाद्युच्छिष्टानां प्रस्थमात्रपरिमाणानामुत्पवनं कस्यचिदंशस्यापनयनं पूर्वभागस्थितस्य । स्मृत्यन्तरे त्ववेमा-म्नातम् “ कुशाग्राभ्यां पवमानः सुवर्जन " इत्यनुवाकेन । अन्ये तु प्लावनमुत्पवनमाहु— अन्यत्समानजातीयं तावदासिच्यते यावत्पूर्णे भाण्डे काश्चिन्मात्रा अवस्रवन्ति । साक्षादुप-घात एतत् । अल्पानां त्याग एव । भाण्डोपघाते तु पात्रान्तरनयनम् । उच्छिष्टसंस्पर्शे तु तैलसर्पिषी उद्द्वेऽवधाय जपेदित्युक्तम् । तत्रार्थात्पात्रोत्क्षेपः । न हि तैलस्य उदके क्षिप्तस्य पात्ररहितस्योपयोगः संभवति । साहचर्यात् घृतस्यापि । एतच्चोत्पवनं द्रवाणां

१. तदुक्तं वृहस्पतिना — अम्भसा हेमरौप्यायः कांस्यं शुद्ध्यति भस्मना ।

अम्लैस्ताम्रं च रैत्यं च पुनः पाकेन मृन्मयम् ॥ इति ॥

मनु I- 46

पृष्ठ 742

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 742 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६६२ मनुस्मृतिः [ पञ्चम: यत्र मद्यामेध्यसंसर्गकृतौ मन्धवर्णौ न दृश्येते । तयोस्तु सत्योस्त्याग एव । सर्वं चैतद्बौधायनस्मृतौ परिगृहीतम् । पक्वानां तु द्रव्याणां पुनःपाकोऽपि शङ्खेनाम्नातः । सर्वेषां येऽप्यमेध्या मद्यादयस्तेषामप्येषैव शूद्रादीन्प्रति शुद्धिः । अत तूत्पवनं प्लावनमेव । यथा वसिष्ठेनोक्तं " भूमिष्ठानां तूदकवत् ” । संहताः कठिनाः । शीतं घृतं आमिक्षागुडपर्पटकादयस्तेषां यः प्रदेश उपहतस्तमपनीय शेषस्य शुद्धिः । उक्तं च शङ्खन “ शुष्काणामुद्धृतदोषाणामिति ” । अथवा समुदायादव-यविनः संहताः शयनासनसरणादयः सजातीयविजातीयद्रव्यसंघातात्मकाः । ' उद्धृतदोषाणामिति ' सर्वत्र द्रष्टव्यम् । शवशुष्कामेध्यसंसर्गेषु यः प्रदेशो वृत्तसंसर्गस्तस्य प्रक्षालनमवशिष्टस्य प्रोक्षणम् । दारवाणां केवलदारुकृतानां बृसीफलकादीनां काष्ठमयानां च शवचण्डालपुरीष-संसर्गे तक्षणम् । अन्ये पुरीषसंसर्ग एवेच्छन्ति । तक्षणेन गन्धलेपाद्यपनेतव्यम् । अवशिष्टस्य

मृद्वारिभ्यां प्रक्षालनं प्रोक्षणं वा । श्वाद्युपघाते तु प्रक्षालनमेव पुरीषवत् ।

खट्वाशय्यादीनां च दारुचर्मसूत्रघटितानां संहतत्वेन शुद्धिः ॥ ११४ ॥

हिन्दी — सभी द्रव ( बहने वाले— घी तेल आदि ) पदार्थों की शुद्धि । एक प्रसृति अर्थात् एक पसर— लगभग ढाई - तीन छटाक हो तो प्रादेश मात्र ( अँगूठे तथा तर्जनी को फैलाने पर जो लम्बाई हो उतना प्रमाण ) मापे हुए ( दो कुश - पत्रों की ) हवा करने से, शय्या आदि संहत ( परस्पर में सटी हुई ) वस्तुओं की शुद्धि पानी का छींटा देने से और काष्ठ के बर्तन आदि की शुद्धि ( उन्हें थोड़ा - थोड़ा ) छीलने से होती है ॥११४ ॥

बालक आदि के वस्त्रों की शुद्धि-[ त्र्यहकृतशौचानां तु वायसी शुद्धिरिष्यते । पर्युक्षणाद् धूपनाद्वा मलिनामतिधावनात् ॥ १६ ॥ ]

[ हिन्दी – जिनकी शुद्धि तीन दिन में बतलायी गयी है, उन ( बालक आदि के वस्त्रों ) की शुद्धि अवस्थानुसार जल छिड़कने से, धूप देने से और अत्यन्त मलिन हो तो धुलाने से होती है ॥१६ ॥ ]

चमसादि यज्ञपात्रों की शुद्धि-मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ।

चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन तु ॥ ११५ ॥

पृष्ठ 743

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 743 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ६६३ हिन्दी - चमस, ग्रह तथा अन्य यज्ञपात्रों की शुद्धि यज्ञ कर्म में हाथ से पोंछकर जल से धोने से होती है ॥११५ ॥

चरु- -स्रुवादि यज्ञपात्रों की शुद्धि-चरूणां स्रुक्स्रुवाणां च शुद्धिरुष्णेन वारिणा । स्फ्यशूर्पशकटानां च मुसलोलूखलस्य च ॥ ११६ ॥

भाष्य — श्लोकद्वयं श्रुतिसिद्धार्थानुवादेन दृष्टान्ततया नेयम् । ग्रहचमसादीनां यज्ञपात्राणां प्रयोगान्तरे प्रयुज्यमानानां पूर्वप्रयोगलग्नाज्यहविर्लेपादि-संसर्गपरिहारार्थमुष्णेन वारिणा लेपाद्यपकर्षः कर्तव्यः । ततो यथाश्रुति क्वचित्पाणिना क्वचिद्दर्भैः क्वचिद्दशापवित्रेण संमार्गः कर्तव्यः । इयं प्रायोगिकी शुद्धिः । उच्छिष्टाद्युपघाते तु लौकिकपात्रवत् । न सोमेनोच्छिष्टा

भवन्तीति ” विशेषश्रुतेरन्यत्रोपघाते सामान्यशुद्धिरस्तीति ज्ञायते ।

ग्रहचमसस्फ्या याज्ञिकेभ्य आकारविशेषेणावसातव्याः ॥११६ ॥

हिन्दी – ( घृत आदि स्नेह से लिप्त ) चरु; स्रक् और स्रुवों की शुद्धि गर्म पानी ( के द्वारा धोने ) से होती है तथा स्फ्य, शूर्प शकट, मूसल और ओखली ॥ ११६ ॥

अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् ।

प्राक्षालनेन त्वल्पानामद्भिः शौचं विधीयते ॥ ११७ ॥

भाष्य — बहुत्वं धान्यानां द्रोणाधिक्ये स्मर्यते । अन्ये तु पुरुषापेक्षया देशकाला-पेक्षया च वर्णयन्ति । कस्यचिद्दुर्गतस्य कुडवार्धमपि बहु भवति । तथा कस्यांचिदवस्थायां वर्धितकोशो बहुतामेति । यथाह बौधायनः ( धर्म सू ० १ । ५ । ४७ ) “ देशं कालं तथाऽऽत्मानं द्रव्यं द्रव्यप्रयोजनम् । उपपत्तिमवस्थां तु ज्ञात्वा शुद्धिं प्रयोजयेत् ॥ ” एवं वासःस्वपि केचिदाहुः । “ त्रिभ्य ऊर्ध्वं बहूनि ” । यद्यपि त्रिप्रभृतिषु बहुत्वम्, यतोऽल्पानामिति बहुवचनं श्रुतमतस्त्रिपर्यन्तान्यल्पानि । अद्भिरित्युपलक्षणम् । तेन यस्य वाससो येनैव दोषसंसर्गो व्यपैति तदपि द्रष्टव्यम् । तच्च प्राग्दर्शितम् । प्रोक्षणसम्बन्धोऽब्ग्रहणनियमार्थः । उदकेनैव प्रोक्षणं कर्तव्यम् । एतेनैव च भेदेन द्विःपाठः । एतच्च महत्युपघाते शवपुरीषचाण्डालादिस्पर्शे । अन्यथा त्वल्पानामिति प्रोक्षणमेव । यदि प्रक्षालितस्यापि लेपादि वाससो नापैति तदा तन्मात्रच्छेदनं " उत्सर्गो वेति ” गौतमेनोक्तम् ॥११७ ॥

पृष्ठ 744

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 744 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६६४ मनुस्मृतिः [ पञ्चमः -हिन्दी — और बहुत से धान्य तथा वस्त्रों की शुद्धि पानी छिड़कने से होती है तथा थोड़ी मात्रा में होने पर अन्न तथा वस्त्र की शुद्धि उन्हें धोने पर होती है ॥११७ ॥

चमड़े तथा बांस के पात्र आदि की शुद्धि-चैलवच्चर्मणां शुद्धिर्वैदलानां तथैव च ।

शाकमूलफलानां तु धान्यवच्छुद्धिरिष्यते ॥ ११८ ॥

भाष्य - चर्मणां वर्षाणां स्पृश्यानाम् । न तु श्वशृगालादिसमन्वितानां स्वभावा-शुचीनाम् । उपानत्कवचादीनामपि तद्विकाराणामेष एव विधिः । अयं हि प्रकरणे प्रकृत्याऽपि विकृतिर्गृह्यते, विकृत्याऽपि प्रकृतिः । तथा च दार-वाणामित्यत्र दारूणामप्यषैव शुद्धिः । वसिष्ठेन हि दारवाणां शुद्धिमभिधाय दार्वस्थि-भूम्यानि इत्युक्तम् । यदि च विकृत्या प्रकृतिर्न गृह्येत तदनुक्तशुद्धिविधानेन दारूणं कथमतिदेशः क्रियेत । प्रकृतेस्तु विकारग्रहणं तद्बुध्यनपायाद्युक्तमेव । वैदलानि वार्क्षत्वगादीनि । स्मृत्यन्तरे पक्षपवित्रचर्मचामरतृणवेत्रबालवल्कलानामेषैव शुद्धिर्विहिता । तत्र मयूरादिपक्षास्तन्निर्वृत्ताश्च छत्रपिच्छिकादयो गृह्यन्ते । ' पवित्रं ' दर्भस्तेषां दर्भमयानां च वाससाम् । ‘ तृण’शब्देन तालपत्राण्युच्यन्ते । “ तृणराजं विदुस्तालं ” इति स्मर्यते । तत्रैकदेशात्समुदायप्रतिपत्तिर्दत्तशब्दादिवद्देवदत्ते । ' बाला ' गवाश्वाजानां न मनुष्याणाम्, तेषां च्युतानामस्पृश्यत्वात् । सर्वा चेयं द्रव्यान्तरोपघाते शुद्धिरुच्यते न स्वभावोऽ-पहतौ, चेलधान्ययोरेकरूपत्वाच्छुद्धेः । शाकादेर्धान्यवद्वचनम् । यथा धान्यानामवघातादिसंस्कारान्तररहितानां धान्यावस्थान-मेव प्रोक्षणप्रक्षालने शुद्धिहेतू तद्वच्छाकादीनामपि । तेनापक्वानामयं विधिः । पक्वानां तु सत्यपि शाकादिशब्दवाच्यत्वे शुद्ध्यन्तरमन्वेषणीयम् । यथोक्तं “ सुवर्णवारिणा पावक-ज्वालया च ’ ” इत्यादि । आकरादाहृतानां तु शाकादीनामुदश्विद्दधिक्षीरादीनां प्रोक्षणपर्य-ग्निकरणे विशेषतो हारीतेनाम्नाते । तथा शिम्बीधान्यानामुद्धर्षणदलनपेषणादि । एतच्च

पादस्पर्शे शङ्कानिवृत्त्यर्थम् । तदुक्तम् " आकराः शुचयः सर्व ” इति ॥ ११८ ॥।

हिन्दी – ( स्पृश्य पशुओं – गाय, भैंस, घोड़े, मृग आदि के ) चमड़े और बांस के बर्तनों की शुद्धि वस्त्र के समान तथा शाक, मूल और फलों की शुद्धि धान्य के समान ( पानी छिड़कने से ) होती है ॥११८ ॥

रेशमी आदि वस्त्रों की शुद्धि-कौशेयाविकयोरूषैः कुतपानामरिष्टकैः ।

श्रीफलैरंशुपट्टानां क्षौमाणां गौरसर्षपैः ॥ ११ ९ ॥

पृष्ठ 745

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 745 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ६६५ भाष्य – ऊषाः काञ्चनमृदः । अरिष्टकादयः प्रसिद्धाः । स्नेहादिलेपे सत्युदकेन तेषां द्रव्याणां चूर्णसंमिश्रितेन लेपनोच्छेदनादि कर्तव्यम् । कौशेयः पट्टविशेषः । एवमंशुपट्टमाविकमूर्णामयं तस्य हारीतेनोक्तं “ आदित्ये-नोर्णामयानाम् ” । तन्नित्यं प्रघ्रियमाणानामनेकपुरुषस्य शरीरसंस्पर्शे द्रष्टव्यम्, नान्यस्मि-नुपघाते । वासस्त्वादेः तेषां केवलयोः प्रोक्षणप्रक्षालनयोः प्राप्तयोः स्नेहादिलेपापकर्षणे

अतिदिश्येते ।

क्षौमग्रहणं शाणादीनामपि प्रदर्शनार्थम् ॥ ११ ९ ॥

हिन्दी - रेशमी और ऊनी वस्त्रों की खारी मिट्टी से, नेपाली कम्बलों की रीठे से, पट्टवस्त्रों की बेल के फलों से और क्षीम ( अलसी आदि के छाल से बने ) वस्त्रों की शुद्धि पिसे हुए सफेद सरसों के कल्क से होती है ॥११ ९ ॥ शङ्ख आदि की शुद्धि

क्षौमवच्छङ्खशृङ्गाणार्मास्थदन्तमयस्य च ।

शुद्धिर्विजानता कार्या गोमूत्रेणोदकेन वा ॥ १२० ॥

भाष्य- –'अस्थिशृङ्गदन्ताः ' स्पृश्यानां गोमेषहस्त्यादीनाम्, न श्वगर्दभादीनाम् ।

गोमूत्रोदकयोर्विकल्पः ।

गौरसर्षपकल्पस्तु समुच्चीयते ॥१२० ॥

हिन्दी – शंख, ( स्पृश्य पशुओं के ) सींग, हड्डी और दाँत से बने पदार्थों ( यथा— कंघी, कलम, बटन, चाकू के बेंट एवं दूसरे खिलौने आदि उक्त शङ्ख, सींग; हाथी आदि की हड्डियों एवं हाथी - दाँतों से बने पदार्थों ) की शुद्धि क्षौम वस्त्रों के समान ( पीसे हुए सफेद सरसों के कल्क द्वारा धोने से ), गोमूत्र से या जल से शुद्धि – विषय को जानने वालों को करनी चाहिए ॥१२० ॥

तृण आदि की शुद्धि-प्रोक्षणात्तृणकाष्ठं च पलालं चैव शुद्ध्यति ।

मार्जनोपाञ्जनैर्वेश्म पुनः पाकेन मृण्मयम् ॥ १२१ ॥

भाष्य — व्रीह्यादिकाण्डं स्रस्तरादिप्रयोजनं पलालम् । ' तृणानि ' कुशशाद्वलादीनि । “ ननु च दारवाणामित्यत्र विकृतिः प्रकृतेर्ग्राहिकेत्युक्तम्, किमर्थं काष्ठग्रहणम् ” । नियमार्थम् । प्रोक्षणमेव । तेन यावन्न महानुपघातस्तावद्दारूणि न तक्ष्यन्ते । चण्डालादि-स्पर्शे तु “ सोमसूर्यांशुमारुतैः ” इत्यनेनैव शुद्धिः । तद्विकाराणां तु द्रव्यादीनां प्रक्षालन-

पृष्ठ 746

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 746 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६६६ मनुस्मृतिः [ पञ्चमः तक्षणे स्वल्पोपघातेऽन्नाद्युपयोगिनां कर्तव्ये । मार्जनं शोधनं गृहस्य धूमांधकाराद्यपनयनम् । उपाञ्जनं सुधागोमयादिभिर्भूमिविलेपनम् । एतच्च शवचण्डालोदक्यादिभिर्भित्ति-संस्पर्शे व्यापिनि द्रष्टव्यम् । अव्याप्तौ तु तावन्मात्रस्यैव । उर्ध्वं शवोपघाते तु भित्तितक्षणं सूर्यरश्म्यनुप्रवेशोऽग्निज्वालाभिमर्शनम् । क्वचित्पुनर्नवीकरणमित्यादिपठितं संमार्जनम् । मृण्मयानां पुनःपाकः । पर्यग्निकरणमुच्छिष्टपुरुषसंस्पर्शादौ द्रष्टव्यम् । पुन: पाकस्तु मद्य-भाण्डादिसंस्पर्शे द्रष्टव्यः । साक्षात्स्पर्शे तु त्याग एव । यथोक्तं ( वासिष्ठे अ०३-५९ ) ।

“ मद्यैर्मूत्रपुरीषैर्वा ष्ठीवनैः ं पूयशोणितैः ।

संस्पृष्टं नैव शुद्ध्येत पुनः पाकेन मृण्मयम् ” ॥ इति ॥१२१ ॥

हिन्दी— ( चण्डालादि अस्पृश्य - स्पर्श से दूषित ) घास, लकड़ी और पुआल पानी छिड़कने से शुद्ध होते हैं; ( रजस्वला, प्रसूति आदि के रहने से दूषित ) घर झाड़ देने तथा लीपने से और उच्छिष्ट आदि से दूषित मिट्टी के बर्तन फिर पकाने से शुद्ध होते हैं ॥ १२१ ॥

शुद्ध न होने योग्य मिट्टी के पात्र -मद्येर्मूत्रैः पुरीषैर्वा ष्ठीवनैः पूयशोणितैः । संस्पृष्टं नैव शुद्ध्येत पुनः पाकेन मृन्मयम् ॥ १६ ॥

हिन्दी — मद्य, मूत्र, मल ( पाखाना ), थूक या खकार, पीव और रक्त से दूषित मिट्टी के बर्तन फिर पकाने से भी शुद्ध नहीं होते हैं । ( यह वचन ५।१२२ श्लोक के चतुर्थ पादोक्त शुद्धि का बाधक है ) ॥१६॥संमार्जनोपाञ्जनेन

भूमि की शुद्धि-सेकेनोल्लेखनेन

च ।

गवां च परिवासेन भूमिः शुद्ध्यति पञ्चभिः ॥ १२२ ॥

भाष्य - सेको गोमूत्रेणोदकेन वा । क्षीरेणापि क्वचिदुक्तः । उल्लेखनं शस्त्रादिना लेखाकरणं आवापनं च । “ आवापनं च भूमेरिति ” गौतमनिर्देशादेव ( अ ० १ सू ० ३१ ) । पञ्चभिरिति पुनर्वचनमभिघातापेक्षया व्यस्तसमस्तप्रयोगदर्शनार्थम् । तत्र संमार्जन-शून्यं शोधनमुपाञ्जनं त्ववकररहितायाः केवलमपि । मूत्रपुरीषादिलेपे उल्लेखनसंमार्जने । सेको नदीपुलिनवनादिषु । गवां परिवासः एकाहमात्रं गोष्ठीकरणम् । एतच्च श्मशानभुवः सर्वं कर्तव्यम् । आवपनं तु यत्र पूर्वमस्थिकपालिकाद्यस्ति

पृष्ठ 747

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 747 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ६६७ तदुद्धृत्य मृदामन्यासां प्रक्षेप:, यत्र चान्तर्हितमेवमादिकालान्तरेणाशङ्कयमानसद्भाव-मित्यादिवत्तत्रापि ॥१२२ ॥

हिन्दी – ( जूठा, मल, मूत्र थूक, खकार, पीब, रक्त, चण्डाल आदि के निवास से दूषित ) भूमि की शुद्धि झाडू देने से, लीपने से, गोमूत्र या जल आदि के छिड़कने से ऊपर की कुछ मिट्टी को खोदकर फेंक देने से और ( एक दिन - रात ) गायों के रहने से होती है ॥१२२ ॥

पक्षी के खाये फलादि की शुद्धि-पक्षिजग्धं गवा घ्रातमवधूतमवक्षुतम् ।

दूषितं केशकीटैश्च मृत्प्रक्षेपेण शुद्ध्यति ॥ १२३ ॥

भाष्य – अत्र जग्धिपदाल्लिङ्गादन्नविषयताऽस्य श्लोकस्य प्रतीयते । -पक्षिभिस्तु शुक्रादिभिरन्यैश्च भक्ष्यैर्यदन्नमुच्छिष्टीकृतम्, न तु काककङ्कगृध्रादिभिः । तत्र हि महत्प्रायश्चित्तं “ पतत्रिणाऽवलीढमिति ” तदेतदुक्तं प्रकृत्याशुद्धे भोजनप्रायश्चित्तम् । तथा च तत्तुल्यप्रायश्त्तिस्य गवा घातस्य नैव शुद्धिः । भवेदयं न्याय: । तथापि स्मृत्यन्तर-समाचारावन्वेष्यौ । एवं हि शिष्टा दशशरावाधिकं काकादिक्रव्यादोपहतं तावन्मात्रमप-नीयावशिष्टं शोधयित्वोपयुञ्जते अर्वाक्तु तत् त्यजन्ति । अत्राप्यवस्थाविशेषोऽपेक्ष्यः । स्मृत्यन्तरे तु कृष्णशकुनिनोपहतमपि निषिद्धम् । अवधूतं मुखश्वासेनावकम्पितम् । वाससो वा यस्योपरि रजोऽपनयनार्थमुत्क्षेपणादि क्रियते आकाशदेशात् । अवक्षुतं यस्योपरि क्षुतं तदेव । केशा मनुष्याणां च्युताः । कीटाः क्षुद्रजन्तवः कृमयः । ते केचिद्गृहस्वेदान्नाद्य-जास्ते जीवन्तो मक्षिकावन्नोपघ्नन्ति । मृतानां तेषामन्नसंस्पर्शे शुद्धिरियम् । ये त्वमेध्यसंसर्ग-जास्ते विड्भोजिनश्च, तेषां जीवतामपि । गौतमीयं ( अ ० १७ सू ० ८ । ९ ) “ नित्यम-भोज्यम्, केशकीटावपन्नमिति ” । बहुव्याप्तौ सर्वत्र त्यागः । महाराशावशुचिकीटसंसर्गेऽपि स्वल्पे तन्मात्रापनयनमवशिष्टस्य शुद्धिः । काञ्चनरजत-दर्भमणीनां वारिसहितानां स्पर्शः स्मृत्यन्तरे केशाद्यवपत्रे विहितः अवज्वलनमपि क्वचित् । ये तु भूमेरियां शुद्धिमाहुस्तैः स्मृत्यन्तरसमाचारो वाक्यार्थश्च त्यक्तः ॥१२३ ॥

हिन्दी – ( कौआ, गीध आदि अभक्ष्य पक्षियों को छोड़कर अन्य भक्ष्य ) पक्षियों के खायेहुए, गौ से सूँधे हुए, पैर से छूए हुए, जिसके ऊपर छींक दिया गया हो उसकी एवं बाल तथा कीड़े आदि से दूषित ( थोड़े अन्न आदि भक्ष्य पदार्थ ) की शुद्धि ( थोड़ी ) मिट्टी डालने से होती है ॥१२३ ॥

पृष्ठ 748

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 748 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६६८ मनुस्मृतिः

गन्धयुक्त द्रव्यादि की शुद्धि-यावन्नापैत्यमेध्याक्ताद्गन्धो लेपश्च तत्कृतः ।

तावन्मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥ १२४ ॥

भाष्य — अमेध्यमस्पृश्यम् । [ पञ्चमः “ तच्च यद्यस्य यदभोज्यं तस्य तदशुद्धिहेतुः, यथा ब्राह्मणस्य सुरामद्ये, न शूद्रस्य ” । तदयुक्तम् । प्राग्घोमाद्धवींष्यभोज्यानि, न च तान्यस्पृश्यानि । सुरामद्यादीनि तु स्पर्शेऽपि प्रतिषिद्धानि ब्राह्मणस्य । तस्माद्यस्यैव स्पर्शः प्रतिषिद्धः स एव संसर्गेणाशुचि त्वमापादयति । अतो नायं नियमः - यदभोज्यं तदस्पृश्यं यत्त्वस्पृश्यं तदभोज्यमिति । आक्तं लिप्तं उपदिग्धम् । तावदित्यावृत्तिविधानम् । मृद्वारि, सति प्रयोजने । प्रयोजनं च गन्धलेपापनयनम् । शुष्कामेध्यसंसर्गे चिरवृत्तसंसर्गे वा कालेनापि तयोर्गन्धलेपयोः सकृदेव मृद्वारिभ्यां मार्जनम् । “ ननु मृद्वार्यादीनां शुद्ध्यर्थमादानं दृष्टार्थं तत्रैव शुद्ध्यत्यपगते लेप इति किमनेन यावन्नापैतीति ” । उच्यते । ‘ एका लिङ्गे ’ इत्यादौ संख्यातिक्रमार्थम् । उक्तया संख्यया अशक्ये पुरी-षादिलेपापनये अनादृत्याश्रुतसंख्याऽधिकाऽप्याश्रयणीया । संख्यावचनं तु ततो न्यून-तयाऽप्यपनीते लेपे संख्या पूरयितव्येत्येवमर्थम् । मृद्वारिग्रहणं शुद्धिसाधनोपलक्षणार्थं वर्णयन्ति । अतश्च यद्यप्यशुद्धिहेतुभूतं वारिणा क्षालितमपि क्षारादिना संमार्ष्टव्यमन्यथा न दृश्येत । अपैति अपगच्छति निवर्तत इति यावत् । तत्कृत: - तेनामेध्येन कृतः । अतश्च कस्तूरिकादिवस्त्रगन्धो नापैति नैव दुष्येत । कुंकुमाद्यनुलिप्तस्य यः प्रदेशोऽमेध्येन संसृज्येत्तत्र कुंकुमाद्यप्यपमार्जितव्यम् । अमेध्य-संसृष्टं हि तत् । तत्रापि गन्धलेपग्रहणात् । यदि गात्ररूढः कुंकुमवर्णो निघृष्यमाणो न शक्येतापक्रष्टुं स्यादेव शुद्धिः ॥१२४ ॥

हिन्दी — विष्ठा आदि से दूषित पात्र आदि से जब तक गन्ध तथा लेप ( चिकनाहट ) दूर न हो जाए, तब तक उनको मिट्टी तथा जल से शुद्ध करते रहना चाहिये ॥१२४ ॥

विमर्श - जिसकी शुद्धि मिट्टी तथा जल- दोनों से हो उसको दोनों से, जिसकी शुद्धि मिट्टी या जल किसी एक से हो, उसे मिट्टी या जल में से किसी एक से शुद्ध करते रहना चाहिये ।

पृष्ठ 749

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 749 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ६६ ९ तीन पवित्र वस्तु —

त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् ।

अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥ १२५ ॥

भाष्य - पवित्राणि शुद्धानि देवग्रहणं स्तुतिः । ब्राह्मणग्रहणमपि समाचारात्सर्ववर्णार्थम् । अदृष्टं यदनारक्षप्रदेशस्थं द्रव्यमदृष्टश्वकाकादिसंसर्गम् । न च सद्भावमात्रेण तदुप-घाताशङ्का निष्प्रमाणिका कर्तव्या । एवं महानसादौ सूदादिभिरकृतशौचैर्व्यवहरद्भिः पाक्यं द्रव्यमदृष्टं परिभोक्तुं न दुष्यति । न पुनरियमाशङ्का कर्तव्या — उत्तरकाले तत्प्रागविज्ञातोपघाते न दोषः । तथाहि “ अमत्यैतानि च ’ ” इत्यादि विरुध्येत । एवं तावद्यत्र दोषसम्बन्धो न केनचित्प्रमाणेनाव-गम्येत । तच्छुद्धम् । यत्र पुनरसत्यपि निश्चायके प्रमाणे कुतर्केण सम्भाव्यते तत्राद्भिर्निर्णेक्त-व्यम् । यथा समानदेशस्थालीपिठरादि श्वकाकादिभिरुपहन्यमानं दृष्टम्, अन्यददृष्टमप्य-द्भिर्निर्णेक्तव्यम् । तथैवंविधमेव वाचा प्रशंसनीयम् । शुद्धमेतदस्त्विति शिष्टा वाचयितव्याः । ब्राह्मणवचनाच्छुद्धिर्भवतीत्याहुः । प्रशस्यत इति लडयं विधौ द्रष्टव्यः । ये ` त्वाहुः “ दृष्टोपघातं यत्तस्य व्यवहर्त्रा साक्षाच्छुद्धौ क्रियमाणायामदृष्टायां शिष्टा-श्चेदाहुः ‘ कृतमस्य शौचमिति ’, तत्र प्रत्येतव्यमिति वाक्प्रशस्तस्यार्थः ” तदयुक्तम् । आप्त-वचनस्य सर्वत्रैवाप्रामाण्यस्यानङ्गीकृतत्वात्पौनरुक्त्यप्रसङ्गः । अन्ये त्वद्भिर्निर्णिक्तमिति दृष्टान्ततया व्याख्यानयन्ति । ‘ अदृष्टवाक्प्रशस्ते ' विधीयेते । ‘ यथाऽद्भिर्निर्णिक्तं शुद्धमेवमदृष्टं वाक्प्रशस्तं विधीयते ' । “ ननु च यद्यदृष्टदोषं प्रत्यक्षानुमानागमैः शुद्धं तत्कथं ' संवत्सरस्यैकमपीति ’ ” । भक्ष्यविषयं तत् । स्पृश्यविषया शुद्धिरियम् । गुरुलघुतया वा, आपदनापद्भेदेन वा व्यवस्था ॥ १२५ ॥

हिन्दी – देवताओं ने तीन प्रकार की वस्तुओं को ब्राह्मणों के लिए पवित्र कहा है— प्रथम — जिसकी अशुद्धि स्वयं आँखों से नहीं देखी गयी हो । द्वितीय - अशुद्धि का सन्देह होने पर जिस पर जल छिड़क दिया गया हो तथा तृतीय - जो वचन से प्रशस्त कहा गया हो अर्थात् जिसको ' यह पवित्र है ' ऐसा ब्राह्मण कह दे ॥१२५ ॥

पृष्ठ 750

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 750 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६७० मनुस्मृतिः जलशुद्धि-[ पञ्चमः आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर्भवेत् । अव्याप्ताश्चेदमेध्येन गन्धवर्णरसान्विताः ॥ १२६ ॥

भाष्य— भूमिग्रहणमुपलक्षणार्थम् । तेन प्रणालिकागता अपि शुचय एव । स्व-भावशुचयो ह्यापो भूमिगता आकाशगताश्च । किन्तु भूमेरमेध्यद्रव्यसंसर्गात्किंचिद-शुचित्वम् । तत्र गतानां सर्गतोऽशुचित्वप्राप्तौ यावतीनां च शुद्धिस्तदर्थमिदं वैतृष्ण्यं यासु गोर्भवेदिति । वैतृष्ण्यं पिपासाविच्छेदः । परिमाणोपलक्षणार्थं चैतत् । तत्र चिरन्तनै-र्व्याख्यातं लिङ्गदर्शनेन " यथा वै गो: सास्नाम्भसि प्लाव्येति ” । यत्र गोः सास्नादि मज्जति तृष्णा च विच्छिद्यते तावत्यः । यास्तु मेध्यभूमिगतास्ताः स्वल्पा अपि शुद्धाः । कथं पुनरमेध्यव्याप्तिरवसेया । गन्धवर्णरसान्विताः । ' अमेध्येनेति ' तृतीयान्तं षष्ठ्या विपरिणम्यते । अमेध्यसम्बन्धिभिर्गन्धादिभिर्यद्यन्विताः संयुक्ता भवन्ति, ततो व्याप्ता उच्यन्ते । एवं च कृत्वा पानीयं तडागादिषु यद्येकस्मिन्प्रदेशेऽमेध्यं दृश्यते, प्रदेशान्तरे गन्धादिशून्यं शुद्ध्येदेव ॥१२६ ॥

हिन्दी — जिससे गौ की प्यास दूर हो जाय, जो अपवित्र वस्तु ( मल, मूत्र, हड्डी, रक्तादि ) से दूषित न हो, जो वर्ण, रस और गन्ध में ठीक हो; ऐसा पृथ्वी पर स्वभावतः स्थित पानी शुद्ध होता है ॥१२६ ॥

नित्यं

नित्य शुद्ध पदार्थ-शुद्धः कारुहस्तः पण्यं यच्च प्रसारितम् ।

ब्रह्मचारिगतं भैक्ष्यं नित्यं मेध्यमिति स्थितिः ॥ १२७ ॥

भाष्य — कारवः शिल्पिनः सूदरञ्जकतन्तुवायादयस्तेषां हस्तो नित्यं शुद्धः । अतश्च जननमरणाशौचयोस्तत्स्पृश्यताऽस्ति । न तु पुरीषादिलेपे दृश्यमाने शुद्धता विज्ञेया । यदुक्तं “ सद्यः शौचाः प्रकीर्तिताः ” इति तदेवेदम् । अत्र चापौनरुक्त्यम् । मनु-शास्त्रेऽस्यानुपदेशात् । विषयान्तरमप्यस्ति । “ अनाचान्तास्तन्तुवाया वयन्ति ” तन्तूनां स्तम्भविश्लेषणार्थं यत्पिष्टमण्डादि दीयते, तद्भाजनं च यत्र तत्र भूमौ निधीयते तावती याऽशुद्धिः साऽनेन निवर्त्यते । न तु स्वभावाशुचीनां स्पर्शस्तैस्तस्य शुद्धता विज्ञेया, न हि तेषां तत्कारु-कर्मविहितम् । एवं चैषैवोपपत्तिरिति म्लेच्छसंसृष्टानामपि नाशुचित्वम्, तत्र शङ्खवचनात्प्रोक्षणा-